सायणोक्त-विनियोगः
अत्र विनियोगसंग्रहः-
आ देव इति सावित्रे उपध्वस्ते सनिप्रदे ।
आ नो विश्वे वैश्वदेवे बहुरूपेऽशनप्रदे ॥ १ ॥
आ वां मित्रा द्विरूपायां मैत्रावरुणनामानि ।
इमा रुद्राय रोहिण्यां रौद्र्यां गवि समीरितम् ॥
परि णो रुद्र इत्येतत्तत्रैव हि विकल्पितम् ॥ २ ॥
इति श्रमित्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके अष्टमप्रपाठके षष्ठोऽनुवाकः ॥