०५ ऐन्द्राग्निपश्वादि-सूक्तानि

विश्वास-प्रस्तुतिः

शुचि॒न्नु स्तोमँ॒ श्ञथ॑द्वृ॒त्रम् ।

मूलम्

शुचि॒न्नु स्तोमँ॒ श्ञथ॑द्वृ॒त्रम् ।

सायण-टीका

(SB) 1चतुर्थेऽनुवाकेऽभिमातिहैन्द्रपश्वादींना सूक्तान्यभिहितानि । पञ्चमे त्वैन्द्राग्निपश्वादीनां सूक्तान्यभिधीयन्ते । तत्र ‘ऐन्द्राग्नं पुनरुत्सृष्टमालभेत’ इत्यस्य पशोः सूक्ते षण्णामप्यृचां प्रतीकानि दर्शयति - ‘शुचिं नु स्तोमं नवजातम्’ इति वपाया पुरोनुवाक्या । सा च ‘उभा वामिन्द्राग्री’ इत्यत्र व्याख्याता ।

  • शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्येन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ॥ [25]
    उ॒भा हि वाँ॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजँ॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥

    • टीका 4तत्रैव याज्या - शुचिमिति चतुष्पदा त्रिष्टुप् ॥
      शुचिं निर्दोषं स्तोमं स्तोत्रं नवजातं नवं अभूतपूर्वं जातं जननं अस्येति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.1) । अद्यास्मिन्नहनि । हे इन्द्राग्नी । पादादित्वान्न निहन्यते, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् (पा.सू. 6.1.198) । वृत्रहणा वृत्रस्य पापस्य हन्तारौ युवाम् । ‘सुपां सुलुक्’ (पा.सू. 7.1.39) इत्यादिना आकारः, ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्’ (पा.सू. 8.1.73) इति पूर्वस्याविद्यमानवत्त्वनिषेधात् निहन्यते । जुषेथां सेवेथां नु क्षिप्रम् । ‘आमन्त्रितं पूर्वमविद्यमानवत्’ (पा.सू. 8.1.72) इत्यविद्यमानवत्त्वान्न निहन्यते, लसार्वधातुकानुदात्तत्वे विकरणस्वरः (पा.सू. 6.1.186) ।
      हि यस्मात् उभा उभौ वां युवां सुहवा स्वाह्वानौ आहूयमानावप्यरोषौ । ‘बहुळं छन्दसि’ (पा.सू. 6.1.34) इति प्रागेव प्रत्ययोत्पत्तेः अनैमित्तिके सम्प्रसारणे कृते, आतोयुचोऽप्रसङ्गात् (पा.सू. 3.3.128) ‘ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्’ (पा.सू. 3.3.126) इति खल्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । उभा सुहवेति ‘सुपां सुलुक्’ (पा.सू. 7.1.39) इत्याकारः । ईदृशौ वां युवां जोहवीमि भृशमाह्वयामि । ह्वयतेर्यङ्लुक् ‘अभ्यस्तस्य च’ (पा.सू. 6.1.33) इति सम्प्रसारणम्, ‘यङो वा’ (पा.सू. 7.3.94) इति ईडागमः, ‘हि च’ (पा.सू. 8.1.34) इति निघाते निषिद्धे ‘अभ्यस्तानामादिः’ (पा.सू. 6.1.189) इत्याद्युदात्तत्वम् ।
      ता तौ युवां वाजं अन्नं उशते कामयमानाय यजमानाय । ‘शतुरनुभो नद्यजादी’ (पा.सू. 6.1.173) इति विभक्तेरुदात्तत्वम् । सद्यः तदानीमेव धेष्ठा धातृतमौ । धानकर्मणो दधातेस्तृचि ‘तुश्छन्दसि’ (पा.सू. 5.3.59) इतीष्ठन्प्रत्ययः ‘तुरिष्ठेमेयस्सु’ (पा.सू. 6.4.154) इति तृशब्दस्य लोपः, पूर्ववद्विभक्तेराकारः । तौ तादृग्गुणौ युवां यस्माज्जोहवीमि, तस्मादिमं स्तोमं जुषेथाम्, अस्मिन्निन्द्रियादिकं च धत्तमिति ॥

‘श्नथद्वृत्रमुत सनोति’ इति वपाया याज्या । सा चेन्द्राग्नी रोचना दिव इत्यत्र व्याख्याता ।

  • श्ञथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
    इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒स्सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ।

    • टीका तत्रैव याज्यामाह— श्नथदूवृत्रमुतेति। यो यजमान इन्द्राग्नी सपर्यात्परिचरति। कीदृशा-विन्द्राग्नि, सहुरी समानाह्वानौ। स यजमानो वृत्रं वरिणं श्नथद्विनाशयति। उ- १९६६ तापि च वाजमन्नं सनोति सर्वेभ्यः प्रयच्छति। पुनरपि भूरेर्बहुलस्य वसव्यस्येरज्यन्ता, ईश्वरत्वं प्राप्तवन्तौ, सहसा स्वकीयेन बलेन सहस्तमाऽदिशयेन सोढारौ परबलस्या-भिभवितारावित्यर्थः। वाजयन्ता वाजमन्मात्मन इच्छन्तौ।
विश्वास-प्रस्तुतिः

उ॒भा वा॑मिन्द्राग्नी॒ प्र च॑र्ष॒णिभ्यः॑ ।

मूलम्

उ॒भा वा॑मिन्द्राग्नी॒ प्र च॑र्ष॒णिभ्यः॑ ।

सायण-टीका

‘उभा वामिन्द्राग्नी’ इति पुरोडाशस्य पुरोनुवाक्या ।

  • उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सस्स॒ह मा॑द॒यध्यै॑ ।
    उ॒भा दा॒तारा॑वि॒षाँ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥

    • (टीका) ‘प्रजापतिः प्रजा असृजत तास्सृष्टा इन्द्राग्नी अपागूहताम्’ (तै.सं. 2.2.1) इति प्रश्ने काम्या इष्टय आम्नाताः । तत्र ‘ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः’ । इति प्रथमा । तस्यामियं पुरोनुवाक्या - उभा वामिन्द्राग्नी इति त्रिष्टुप्चतुष्पदा ॥
      अयं च सर्वोऽनुवाको वैश्वदेवकाण्डम् । हे इन्द्राग्नी वां उभा उभौ । द्वितीयाद्विवचनस्य ‘सुपां सुलुक्’ (पा.सू. 7.1.39) इत्याकारः ‘एकादेश उदात्तेनोदात्तः’ (पा.सू. 8.2.5) इत्युदात्तत्वमेकादेशस्य । हुव इति वक्ष्यमाणेन सम्बन्धः, युवां आह्वयामि ।
      किमर्थं ? - आहुवद्ध्यै आभिमुख्येन होतुं आहुतिप्रदानेनाराधयितुम् । जुहोतेः ‘तुमर्थे सेसेनसेऽसेन्क्सेक्सेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः’ (पा.सू. 3.4.9) इति कध्यैप्रत्ययः । किञ्च - राधः ओदनं हविर्लक्षणम् । ‘सुपां सुपो भवन्ति’ (पा.भा. 7.1.39) इति तृतीयार्थे षष्ठी, हेतौ वा पञ्चमी । उभा युवां सहैव यौगपद्येनैव नैकैकश्येन राधसा मादयद्ध्यै मादयितुं सहैव तर्पयितुं वा आह्वयामि । मदेर्ण्यन्तात्तेनैव सूत्रेण (पा.सू. 3.4.9) शध्यै प्रत्ययः सार्वधातुकत्वाण्णिलोपो (पा.सू. 6.4.51) न क्रियते ।
      अनयोरेवाह्वाने कारणमाह - युवामेव ह्युभौ इषां अन्नानां रयीणां धनानां क्षेत्रपुत्रपश्वादीनां दातारौ । ‘सावेकाचः’ (पा.सू. 6.1.168) इति ‘नामन्यतरस्याम्’ (पा.सू. 6.1.177) इति च षष्ठीबहुवचनस्योदात्तत्वम् । तस्माद्वाजस्यान्नस्य सातये लाभाय । ‘ऊतियूति’ (पा.सू. 3.3.97) इत्यादिना उदात्तः क्तिन्निपातितः, ‘जनसनखनां सञ्झलोः’ (पा.सू. 6.4.42) इत्यात्वम् । तौ तादृशौ उभौ युवां हुवे आह्वयामि । ह्वयतेः ‘बहुळं छन्दसि’ (पा.सू. 2.4.73) इति शपो लुक्, ‘ह्वस्सम्प्रसारणम्’ (पा.सू. 6.1.32), ‘अभ्यस्तस्य च’ (पा.सू. 6.1.33), ‘बहुळं छन्दसि’ (पा.सू. 6.1.34) इति सम्प्रसारणम् ॥
      इन्द्राग्नी उभौ युवां, द्वितीयाद्विवचनम् । आहुवे आह्वयामि । किमर्थं? आहुवध्यै आभिमुख्येन होतुं उपस्थानेनाराधयितुमित्यर्थः । इह जुहोतिस्स्तुतिकर्मा ।
      किञ्च - राधसः रायो धनं हविर्लक्षणं स्तुतिर्वा । तृतीयार्थे षष्ठी । हेतौ वा पश्चमी । उभौ युवां सहैव नैकैकशः राधसः मादयध्यै मादयितूं सहैव तर्पयितुमाह्वयामि । अनयोरेवाह्वाने हेतुमाह - उभेति । युवामेव ह्युभौ इषामन्नानां रयीणां धनानां क्षेत्रपुत्रपश्वदीनां दातारौ । तस्माद्वाजस्यान्नस्य सातये लाभाय प्राप्त्यै तादृशावुभौ वां युवां हुवे आह्वयामि स्तौमि ॥

‘प्रचर्षणिभ्यः’ इति याज्या ।

  • प्र च॑र्ष॒णिभ्य॑ᳶ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
    प्र सिन्धु॑भ्य॒ᳶ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ।

    • टीका तत्रैव विकल्पितां याज्यामाह— प्र चर्षणिभ्य इति। हे इन्द्राग्नी पृतना संग्रामेषु हवेषु हविः स्वीकारार्थे-ष्वाहवानेषु च चर्षणिभ्यो मनुष्येभ्यः प्रिरिचाथे परिरिचाथे प्ररिक्तावतिरिक्तौ भवथ:। सर्वानपि मनुष्यानतिरिच्य वर्तेथे इत्यर्थः। तथा पृथिव्या दिवश्व प्ररिरिचाथे तदुभयमतिरिच्य वर्तेथे। तथा सिन्धुभ्यः प्ररिरिचाथे। तथा गिरिभ्यः पर्वतेभ्यः प्ररिरिचाथे। किं बहुना, अत्यन्याऽत्यन्तमितराणि विश्वा भुवना सर्वाणि भुवनानि महित्वा स्वकीयेन महिम्ना युवां प्ररिरिचाथे अतिरिच्य वर्तेथे।
विश्वास-प्रस्तुतिः

आ वृ॑त्रहणा गी॒र्भिर्विप्रः॑ ।

मूलम्

आ वृ॑त्रहणा गी॒र्भिर्विप्रः॑ ।

सायण-टीका

‘अवृत्रहणा वृत्रहभिः’ इति हविषः पुरोनुवाक्या ।

‘गीर्भिर्विप्रः प्रमातिम्’ इति याज्या । एतच्चोभयं पाशुकहौत्रे व्याख्यास्यते ॥

  • आवृ॑त्रहणा वृत्र॒हभि॒श्शुष्मैः॑ ।
    इन्द्र॑ या॒तन्नमो॑भिरग्ने अ॒र्वाक् ।
    यु॒वँ राधो॑भि॒रक॑वेभिरिन्द्र ।
    अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ।

  • 1वपापुरोडाशस्विष्टकृतां पुरोरुक्प्रैषा मैत्रावरुणस्य - आ वृत्रहणेति त्रिष्टुप् ॥ हे वृत्रहणा! वृत्रस्य पापादेः हन्तारौ! हे इन्द्र! हे अग्ने! युवां आयातं आगच्छतं अर्वाक् अस्मदाभिमुख्येन नमोभिः अस्मदीयैर्नमस्कारैः हविर्लक्षणै अन्नैर्वा हेतुभिः आयातं, वृत्रहभिः पापादिहननसमर्थैः शुष्मैः बलैः इत्थंभूतौ युवाम् । किञ्च - हे इन्द्र! हे अग्ने! युवं युवां राधोभिः अस्मभ्यं देयैः अन्नैः अस्मे अस्मासु भवतम् । कीदृशैरिति चेत्? अकवेभिः अकुत्सितैः कुत्सितवाचि शब्दान्तरमेवेदं, उत्तमेभिः उतमैः इत्थंभूतौ भवतम् । मा भूतं निकृष्टैः देयैः । उत्तमशब्दः उञ्छादित्वादन्तोदात्तः ॥

  • गी॒र्भिर्विप्र॒ᳶ प्रम॑तिमि॒च्छमा॑नः ।
    ईट्टे॑ र॒यिय्ँ य॒शस॑म्पूर्व॒भाज॑म् ।
    इन्द्रा॑ग्नी वृत्रहणा सुवज्रा ।
    प्र णो॒ नव्ये॑भिस्तिरतन्दे॒ष्णैः ।

  • 1अथ तेषामेव च वपापरोडाशस्विष्टकृतां याज्याः - गीर्भिर्विप्र इति तिस्रस्त्रिष्टुभः ॥ हे इन्द्राग्नी! वृत्रहणा! पापादेः हन्तारौ! सुवज्रा! शोभनायुधौ! अयं विप्रः यजमानः युवां गीर्भिरीट्टे स्तौति याचते वा । कीदृशः? प्रमतिं प्रकर्षेण मन्तव्यं यशसं यशस्विनं न त्वयशस्यम् । मत्वर्थीयो लुप्यते । तेन तद्विषयत्वाभावात् आद्युदात्तत्वाभावः । अर्शआदिलक्षणे वाऽचि मध्योदात्तत्वं छान्दसम् । पूर्वभाजं पूर्वानस्य पुरुषान् यादृगभजत तादृशं रयिं धनं इच्छमानः लब्धुमिच्छन् युवां ईट्टे स्तौति । युवामपि तादृशं धनं अस्मभ्यं प्रतिरतं प्रवर्धयतं नव्येभिः नवतरैः अपूर्वैः नवितव्यैर्वा देष्णैः दानप्रकारैः ॥

विश्वास-प्रस्तुतिः

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता ।
सू॒क्तस्य॑ बोधि॒ तन॑यञ्च जिन्व ।
विश्व॒न्तद्भ॒द्रय्ँयद॒वन्ति॑ दे॒वाः ।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।

मूलम्

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता ।
सू॒क्तस्य॑ बोधि॒ तन॑यञ्च जिन्व ।
विश्व॒न्तद्भ॒द्रय्ँयद॒वन्ति॑ दे॒वाः ।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।

सायण-टीका

2अथ ‘ब्राह्मणस्पत्यं तूपरमालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - ब्रह्मणो मन्त्रजातस्य पतिः पालकः कश्चिद्देवः, हे ब्रह्मणस्पते त्वमस्य अस्माभिः पठ्यमानस्य सूक्तस्य यन्ता नियामकः, अतो बोधि एतस्य सूक्तस्य तात्पर्यं बुध्यस्व । तत स्तनयं च त्वत्पुत्रसमानं च मां जिन्व प्रीणय । देवा युष्मदादयो विश्वमवन्तीति यदस्ति तद्भद्रं कल्याणम्, अतो रक्षार्थं सुवीराः शोमनापत्ययुक्ता वयं विदथे यज्ञे बृहत्प्रौढं स्तोत्रं वदेम ॥

विश्वास-प्रस्तुतिः

स ईँ॑ स॒त्येभि॒स्सखि॑भिश्शु॒चद्भिः॑ ।
गोधा॑यसव्ँ॒विध॑न॒सैर॑तर्दत् ।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहैः॑ ॥ 31 ॥
घ॒र्मस्वे॑देभि॒र्द्रवि॑णव्ँ॒ व्या॑नट् ।

मूलम्

स ईँ॑ स॒त्येभि॒स्सखि॑भिश्शु॒चद्भिः॑ ।
गोधा॑यसव्ँ॒विध॑न॒सैर॑तर्दत् ।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहैः॑ ॥ 31 ॥
घ॒र्मस्वे॑देभि॒र्द्रवि॑णव्ँ॒ व्या॑नट् ।

सायण-टीका

3अथ वपाया याज्यामाह - स ईं स एव ब्रह्मणस्पतिः गोधायसं गोर्भूमेर्धारकं प्रतिपक्षिणं राजानं व्यतर्दत् विशेषेण हिंसितवान् । कैः सहितः? सखिभिः स्नेहयुक्तैः । कीदृशैः सखिभिः? सत्येभिः सत्यवादिभिः शुचद्भिः शुद्धियुक्तैः धनसैः हविर्लक्षणस्य धनस्य दातृभिः । इदृशै ऋत्विग्भिः पूजितो ब्रह्मणस्पतिर्विरोधिनो विनाशयतीत्यर्थः । न केवलमनिष्टं निवारयति किंत्विष्टमपि प्रापयति । कथमिति तदुच्यते - अयं ब्रह्मणस्पतिर्वृषभिः वर्षणशीलैः घर्मस्वेदेभिः घर्मनिमित्तस्वेदयुक्तपुरुषसदृशैः वरोहैर्मेघैर्द्रविणं सस्यनिष्पत्तिरूपं धनं व्यानट् विशेषेण व्याप्तवान् । वारिवाहशब्दस्य वर्णव्यत्ययेन वराह इति प्रयोगः । यथा घर्मसन्तप्ताः पुरुषाः स्विद्यन्ति तथा मेघदेहा ब्रह्मणस्पतिना प्रेरिता जलं स्रावयन्तीत्यर्थः ॥

विश्वास-प्रस्तुतिः

ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शम् ।
स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।
यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजत् ।
म॒हीव॑ री॒तिश्शव॑सा सर॒त्पृथ॑क् ।

मूलम्

ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शम् ।
स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।
यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजत् ।
म॒हीव॑ री॒तिश्शव॑सा सर॒त्पृथ॑क् ।

सायण-टीका

4अथ पुरोडाशस्य पुरोनुवाक्यामाह - अस्य ब्रह्मणस्पतेः सर्वं जगत् यथा वशमभवत् येन प्रकारेणायमिच्छति तथैव प्रवर्तते । महिकर्मा जगन्नियमनरूपं महान्तं व्यापारं करिष्यतो ब्रह्मणस्पतेर्मन्युः सत्यः अवितथः कोपः, तस्मादेतदिच्छानुसारेण जगत्प्रवर्तते । जगत एतदधीनत्वमेव स्पष्टीक्रियते - गोशब्दोऽत्र जलवाची । य आदित्यो गा उदाजत् घर्मकाले जलानि स्वरश्मिभिर्भूम्या ऊर्ध्वं स्वीकृतवान् स आदित्यः पुनरपि दिवे दिवस्सकाशाद्व्यभजत् विशेषेण विभागं कृत्वा वृष्टिकाले जलं प्रेरितवान् । योऽयं धर्मकाले जलस्वीकारः, यश्च वृष्टिकाले पुनरपि जलस्य परित्याग एतत्सर्वं जगद्व्यवहारस्योपलक्षणम् । ब्रह्मणस्पतेरीदृशी रीतिर्महीव जगन्नियमनप्रकारो महानेष भुत्वा शवसा तदीयबलेन पृथक्सरत् बहुधा प्रवर्तते ॥

विश्वास-प्रस्तुतिः

इन्धा॑नो अ॒ग्निव्ँव॑नवद्वनुष्य॒तः ।
कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒सृत्प्र सृँ॑सते ।
यय्ँ यय्ँ॒ युज॑ङ्कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ।

मूलम्

इन्धा॑नो अ॒ग्निव्ँव॑नवद्वनुष्य॒तः ।
कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒सृत्प्र सृँ॑सते ।
यय्ँ यय्ँ॒ युज॑ङ्कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ।

सायण-टीका

5अथ पुरोडाशस्य याज्यामाह - ब्रह्मणस्पतिर्देवः यं यं यजमानं युजं कृणुते कर्मानुष्ठानयुक्तं कुरुते, असावसौ यजमानोग्निमिन्धानः प्रदीपयन् वनुष्यतः स्वात्मानं हिंसिष्यतः शत्रून् वनवद्वनुयात् प्रतिहिंस्यात् । स च यजमानः कृतब्रह्मा संस्कृतमन्त्रो रातहव्य इत् दत्तहविष्क एव भूत्वा शूशुवत् अतिशयेन वर्धते । अयं यजमानः सृत् प्रसृतं जातं वैरिणां जन्म जातेन स्वकीयेन जन्मनाऽतिप्रसृंसतेऽतिशयेन प्रस्रंसयति अधःकरोतीत्यर्थः ॥

विश्वास-प्रस्तुतिः

ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ ॥ 32 ॥
रा॒यस्स्या॑म र॒थ्यो॑ विव॑स्वतः ।
वी॒रेषु॑ वी॒राँ उप॑पृङ्ग्धि न॒स्त्वम् ।
यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ।

मूलम्

ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ ॥ 32 ॥
रा॒यस्स्या॑म र॒थ्यो॑ विव॑स्वतः ।
वी॒रेषु॑ वी॒राँ उप॑पृङ्ग्धि न॒स्त्वम् ।
यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ।

सायण-टीका

6अथ हविषः पुरोनुवाक्यामाह - हे ब्रह्यणस्पते सुयमस्य सुष्ठु नियामकस्य विवस्वतः शत्रून्विनाशयतस्तव प्रसादाद्विश्वहा सर्वेष्वहस्सु रायो धनयुक्ता रथ्यो रथयुक्ताः स्याम । त्वं तु नः अस्मदीयेषु वीरेषु पुत्रेषु वीरान् परकीयान् पुत्रानुपपृङ्ग्धि उपक्षीणत्वेन संपृक्तान्कुरु । यत् यदा ईशानोऽस्मत्स्वामी त्वं ब्रह्मणा मन्त्रेण युक्तं मे हवं मदीय हविः वैषि प्राप्नोषि तदेवत्सर्वं कुर्विति पूर्वत्रान्वयः ॥

विश्वास-प्रस्तुतिः

स इज्जने॑न॒ स वि॒शा स जन्म॑ना ।
स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ ।
दे॒वानाय्ँ॒यᳶ पि॒तर॑मा॒ विवा॑सति ।
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ।

मूलम्

स इज्जने॑न॒ स वि॒शा स जन्म॑ना ।
स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ ।
दे॒वानाय्ँ॒यᳶ पि॒तर॑मा॒ विवा॑सति ।
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ।

सायण-टीका

7अथ हविषो याज्यामाह - योऽयं यजमानः देवानां पितरं पालकं ब्रह्मणस्पतिं श्रद्धामनाः श्रद्धायुक्तेन मनसा ध्यायन्, हविषा दीयमानेन आविवासति सर्वतो विशेषेणाच्छादयति प्रभूतं हविर्ददातीत्यर्थः । स इन् स एव यजमानो जनेन स्वकीयेन सह वाजं भरते अन्नं पोषयति । स इज्जनेनेत्युक्तमेव प्रपञ्चयति - स विशा स यजमानः करप्रदया प्रजया सह वाजं भरते । स जन्मना स यजमानो जातेन सहोदरेण युक्तो वाजं भरते । तथा स यजमानः पुत्रैस्सह वाजं भरते । तथा स यजमानो नृभिरन्यैर्मनुष्यैस्सह धना भरते मणिमुक्तादीनि धनानि संपादयति ॥

विश्वास-प्रस्तुतिः

यास्ते॑ पूष॒न्नावो॑ अ॒न्तः ।

मूलम्

यास्ते॑ पूष॒न्नावो॑ अ॒न्तः ।

सायण-टीका

8अथ ‘पौष्णँश्याममालभेतान्नकामः’ इत्यस्य पशोः सूक्ते तिसृणामृचां प्रतीकानि दर्शयति - ‘यास्ते पूषन्नावो अन्तः’ इत्येषा वपायाः पुरोनुवाक्या ।
सा च ‘यज्ञो राये’ इत्यनुवाके व्याख्याता ।

  • यास्ते॑ पूष॒न्ना वो॑ अ॒न्तस्स॑मु॒द्रे
    हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
    याभि॑र्यासि दू॒त्याँ सूर्य॑स्य ।
    कामे॑न कृ॒तश्रव॑ इ॒च्छमा॑नः ॥22॥

    • टीका 15पञ्चदशीमाह - हे पूषन्समुद्रे समुद्रवद्विस्तीर्णेऽन्तरिक्षे अन्तः मध्ये हिरण्ययीः सुवर्णवर्णाः ते तव संबन्धिन्यो नावो नौसमाना दीप्तयो याश्चरन्ति ॥ याभिश्च रश्मिभिस्त्वं सूर्यस्य दूत्यां यासि दूतत्वं प्राप्नोषि ॥ सूर्यो हि स्वर्भानुसंज्ञकेनासुरेण तमसाऽऽवृतस्सन् दुःखितायाः सूर्यायाः समीपे पूषणं रश्मियुक्तं दूतत्वेन प्रेषितवान् ॥ तदिदमाख्यानं शाखान्तरे द्रष्टव्यम् ॥ तथा च सूक्तेऽप्याम्नायते - ‘तं देवासो अददुस्सूर्यायै’ इति ॥ स त्वं ताभिर्दीप्तिभिर्युक्तस्तत् श्रव इच्छमानः कीर्तिमाकांक्षन् कामेन कृतः स्वेच्छयैव दूतकर्मणि प्रेरितः ॥ एतदुभयं पौष्णे कर्मणि द्रष्टव्यम् ॥ सूक्तेऽप्येकस्य प्रतीकमाम्नातम् - ‘यास्ते पूषन्नावो अन्तः'24 इति ॥॥
विश्वास-प्रस्तुतिः

शु॒क्रन्ते॑ अ॒न्यत्पू॒षेमा आशाः॑ ।

मूलम्

शु॒क्रन्ते॑ अ॒न्यत्पू॒षेमा आशाः॑ ।

सायण-टीका

‘शुक्रं ते अन्यद्यजतं ते अन्यत्’ इति वपाया याज्या ।
सा च ‘अग्ने यं यज्ञम्’ इत्यत्र व्याख्याता ।

  • शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑ अ॒न्यत् [44] विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
    विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ।

    • टीका तत्रैव याज्यामाह— १८५५ शुक्रं ते अन्यदिति। हे पूषंस्ते तव शुक्रं शुद्धस्वरूपमन्यदनेकप्रकारम्, उदयकाले रक्तवर्णं रूपमन्यत्, मध्याह्नकाले श्वेतवर्णं रूपमन्यत्, इत्येवमनेक-प्रकारत्वम् । तथा ते तव यजतं पूजनमप्यन्यत्। प्रातःकाले मित्रस्य चर्षणीधृत इत्यादिभिर्मन्त्रैः पूज्यसे। मध्याह्ने त्वा सत्येनेत्यादिभिः । तथा त्वया निष्पादिते अहनी अपि, विषुरूपे नानारूपे। अहःशब्दश्छत्रिन्यायेन रात्रिमप्युपलक्षयति। अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वम् । एवं हि चित्रकार्यकृदपि त्वं द्यौरि-वासि। आकाशं यथैकरूपं तद्वत्त्वमपि पक्षपातराहित्यादेकरूपोऽसि । मीयन्ते पदार्था याभिश्चत्तवृत्तिभिस्ताश्चित्तवृत्तयो मायाः । कव्यदानवाचिना च स्वधाशब्देन कृत्स्नमप्यन्नमुपलक्ष्यते । हे स्वधावोऽन्नवन्विश्वा हि मायाः सर्वां अपि अन्यदीयचित्त-वृत्तीरवसि रक्षसि । हे पूषन्निह कर्मणि ते तव रातिर्भद्राऽस्तु फलप्रदानं समीचीनं भवतु ।

‘पूषेमा आशाः’ इति पुरोडाशस्य पुरोनुवाक्या । सा च ‘जुष्टो दमूनाः’ इत्यनुवाके व्याख्याता ॥

  • पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः॑ ॥5॥
    सो अ॒स्माँ अभ॑यतमेन नेषत् ।
    स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वीरः ।
    अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन् ।

  • टीका 14पूषेमा इति त्रिष्टुम् ॥ इमा आशा दिशः सर्वाः पूषा अनुवेद अनुक्रमेण जानाति । सोऽस्मान् ‘प्रकृत्याऽन्तः पादमव्यपरे’ इति प्रकृतिभावः । अभयतमेन धर्माविरुद्धमार्गेण भयरहितेन वा नेषत् नयतु उभयोरपि लोकयोः भयनिवृत्तिमात्रमेव न, अपिच स्वस्तिदाः अविनाशस्य कल्याणस्य दाता ‘आतो मन्’ इति विच् । अघृणिः रक्षणशीलः ‘अघृ धारणे’ औणादिको निप्रत्ययः । यद्वा - अधृणिः आघृणिः समन्ताद्वितायमानतेजाः । उपसर्गह्रासः । यद्वा - यत्सकाशे अन्यो घृणिमान्नास्ति । पूर्ववन्न ऌस्वरबाधः । सर्ववीरः सर्वे वीरा यस्य संबन्धिनः तादृशः । यद्वा - सर्वैर्वीरैस्सह अस्माक पुरः अग्रतः अनुगच्छतु । अप्रयुच्छन् अप्रमाद्यन् । ‘युच्छ प्रमादे’ । प्रजानन् प्रकर्षेण जानन् अस्मदभिप्रेतानि जानन् ॥

विश्वास-प्रस्तुतिः

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ॥33॥
प्रप॑थे दि॒वᳶ प्रप॑थे पृथि॒व्याः ।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॑ ।
आ च॒ परा॑ च चरति प्रजा॒नन् ।

मूलम्

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ॥33॥
प्रप॑थे दि॒वᳶ प्रप॑थे पृथि॒व्याः ।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॑ ।
आ च॒ परा॑ च चरति प्रजा॒नन् ।

सायण-टीका

9अथ पुरोडाशस्य याज्यामाह - पूषा पोषकोऽयमादित्यः पथां अन्तरिक्षवर्तिनां मार्गाणां मध्ये प्रपथे प्रकृष्टमार्गे अजनिष्ट अवस्थितः । तथा दिवो द्युलोकस्य संबन्धिनि प्रपथे प्रकृष्टमार्गे अजनिष्ट । तथा हि पृथिव्याः संबन्धिनि प्रपथे अजनिष्ट । प्रियतमे अतिशयेन प्रीतिमत्यौ सधस्थे परस्परं सहैवावस्थिते उभे द्यावापृथिव्यावभिलक्ष्यायं पूषा प्रजानन् यजमानेन कृतं कर्म तत्फलं च प्रकर्षेण विद्वान् आचरति च पराचरति च आगच्छति पुनर्गच्छति च । यजमानकृतस्य कर्मणः साक्षी भूत्वा लोकयोरुभयोरपि गमनागमने करोतीत्यर्थः ॥

विश्वास-प्रस्तुतिः

पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः ।
इ॒डस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
तन्दे॒वासो॒ अद॑दुस्सू॒र्यायै॑ ।
कामे॑न कृ॒तन्त॒वसँ॒ स्वञ्च॑म् ।

मूलम्

पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः ।
इ॒डस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
तन्दे॒वासो॒ अद॑दुस्सू॒र्यायै॑ ।
कामे॑न कृ॒तन्त॒वसँ॒ स्वञ्च॑म् ।

सायण-टीका

10अथ हविषः पुरोनुवाक्यामाह - अयं पूषा दिवः द्युलोकवर्तिनो जनस्य बन्धुः । आपृथिव्याः पृथिवीलोकवर्तिनश्च जनस्य बन्धुः । इडस्पतिः अन्नस्य पालकः । मघवा धनवान् । दस्मवर्चाः दर्शनीयतेजाः । तं पूषणं देवासः इन्द्रादयस्सर्वे देवाः सूर्यायै विवाहदेवतायै अददुः दत्तवन्तः । सूर्या च देवता विवाहप्रकरणे - ‘सूर्यां यः प्रत्यक्षम्’ इत्यादिमन्त्रेषु प्रसिद्धा । कीदृशं पूषणं? कामेन कृतं भोगेच्छया प्रेरितं, तवसं महान्तं, स्वञ्चं शोभनगतिम् ॥

विश्वास-प्रस्तुतिः

अ॒जाऽश्व॑ᳶ पशु॒पा वाज॑बस्त्यः ।
धि॒य॒ञ्जि॒न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः ।
अष्ट्रा॑म्पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ॥ 34 ॥
स॒ञ्चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ।

मूलम्

अ॒जाऽश्व॑ᳶ पशु॒पा वाज॑बस्त्यः ।
धि॒य॒ञ्जि॒न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः ।
अष्ट्रा॑म्पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ॥ 34 ॥
स॒ञ्चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ।

सायण-टीका

11अथ हविषो याज्यामाह - यः पूषा सोऽयं अजाश्वः अश्वस्थाने रथे बध्यत इत्यर्थः । पशुपा पशूनां पालयिता । वस्त्रं गृहम्, वाजेनान्नेन संपूर्णं गृहं यस्यासौ वाजबस्त्यः । धियं प्राणिनां बुद्धिं जिन्वति प्रीणयतीति धियंजिन्वः । विश्वे भुवने सर्वस्मिन् लोकेऽर्पितोऽवस्थितः । तादृशः पूषा अष्ट्रां स्वहस्तेऽवस्थितामायुधविशेषरूपामारां शिथिरां शिथिलां कृत्वा उद्वरीवृजत् उद्धृत्य वर्जितवान् परित्यक्तवान् । मदमत्तानां गजानां निवारिका येयं दीर्घदण्डा सेयमारा । सा च पूष्णो हस्ते वर्तते । तथा च बह्वृचा आमनन्ति - ‘यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणः’ इति । ‘या ते अष्ट्रा’ इति मन्त्रान्तरे समाम्नानादारैवाष्ट्रा अस्मदनुग्रहार्थं भयहेतुमारां वर्जितवानित्यर्थः । स देवः पूषा भुवना संचक्षाणो लोकान्सम्यक्प्रकाशयन्नीयते चेष्टते ॥

विश्वास-प्रस्तुतिः

शुची॑ वो ह॒व्या म॑रुत॒श्शुची॑नाम् ।
शुचिँ॑ हिनोम्यध्व॒रँ शुचि॑भ्यः ।
ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन् ।
शुचि॑जन्मान॒श्शुच॑यᳶ पाव॒काः ।

मूलम्

शुची॑ वो ह॒व्या म॑रुत॒श्शुची॑नाम् ।
शुचिँ॑ हिनोम्यध्व॒रँ शुचि॑भ्यः ।
ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन् ।
शुचि॑जन्मान॒श्शुच॑यᳶ पाव॒काः ।

सायण-टीका

12अथ ‘मारुतं पृश्निमालभेतान्नकामः’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - हे मरुतः शुचीनां शुद्धानां वो युष्माकं शुची हव्या शुद्धानि हवींषि हिनोमि प्रापयामीत्यर्थः । तथा शुचिभ्यो मरुद्भ्यः शुचिं शुद्धमध्वरं हिंसारहितं कर्म हिनोमि संपादयामि । ऋतसापः यज्ञसमवायिनो मरुतः ऋतेन यज्ञेन सत्यमवितथं फलमायन् प्रापितवन्तः । कीदृशा मरुतः? शुचिजन्मानः शुद्धेन जन्मना युक्ताः । शुचयः आचरणेनापि शुद्धाः । पावका इतरेषां शोधकाः ॥

विश्वास-प्रस्तुतिः

प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॑ ।
मारु॑ताय॒ स्वत॑वसे भरध्वम् ।
ये सहाँ॑सि॒ सह॑सा॒ सह॑न्ते ।
रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ।

मूलम्

प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॑ ।
मारु॑ताय॒ स्वत॑वसे भरध्वम् ।
ये सहाँ॑सि॒ सह॑सा॒ सह॑न्ते ।
रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ।

सायण-टीका

13अथ वपाया याज्यामाह - हे ऋत्विजः मारुताय मरुतां संघाताय अर्कमर्चनं प्रभरध्वं प्रकर्षेण संपादयत । कीदृशमर्कं? चित्रं नानाविधम् । कीदृशाय मारुताय? गृणते अस्मद्धितं ब्रुवते । तुराय सेनायुक्ताय । स्वतवसे स्वतस्सिद्धबलयुक्ताय । ये मरुतः सहांसि परकीयबलानि सहसा स्वकीयबलेन सहन्तेऽभिभवन्ति । हेऽग्ने मखेभ्यो यागस्वामिभ्यस्तेभ्यो मरुद्भ्यः पृथिवी रेजते कम्पते, अतस्तच्छान्त्यर्थं हविः प्रदातव्यमित्यभिप्रायः ॥

विश्वास-प्रस्तुतिः

अँसे॒ष्वा म॑रुतᳵ खा॒दयो॑ वः ॥ 35 ॥
वक्ष॑स्सुरु॒क्मा उप॑ शिश्रिया॒णाः ।
वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः ।
अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ।

मूलम्

अँसे॒ष्वा म॑रुतᳵ खा॒दयो॑ वः ॥ 35 ॥
वक्ष॑स्सुरु॒क्मा उप॑ शिश्रिया॒णाः ।
वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः ।
अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ।

सायण-टीका

14अथ पुरोडाशस्य पुरोनुवाक्यामाह - हे मरुतः वो युष्माकमंसेषु खादयः शत्रून्खादितुं प्रहर्तुं समर्था आयुधविशेषा आ सर्वत आरूढाः । वक्षस्सु त्वदीयेषु रुक्मा रत्नाभरणविशेषा उपशिश्रियाणा उपेत्याश्रित्य वर्तन्ते । विद्युतो न यथा विद्युत्संपाता रोचन्तेतद्वद्यूयं व्यृष्टिभिः आयुघविशेषैर्व्यृष्ट्याख्यैर्विशेषेण रोचमानाः स्थिताः । तथा च मन्त्रान्तरम् - ‘यत्क्रीडथ मरुत ऋष्टिमन्तः’ इति । ऋष्टिविशिष्टत्वाद्व्यृष्टय इत्युच्यन्ते । तथा स्वकीयैरायुधैः स्वधां परकीयमन्नं जग्ध्वा अनुयच्छमानाः अनुदिनमस्मभ्यं ददतोऽवस्थिताः ॥

विश्वास-प्रस्तुतिः

या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑ ।
त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
अ॒स्मभ्य॒न्तानि॑ मरुतो॒ विय॑न्त ।
र॒यिन्नो॑ धत्त वृषणस्सु॒वीर॑म् ।

मूलम्

या व॒श्शर्म॑ शशमा॒नाय॒ सन्ति॑ ।
त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
अ॒स्मभ्य॒न्तानि॑ मरुतो॒ विय॑न्त ।
र॒यिन्नो॑ धत्त वृषणस्सु॒वीर॑म् ।

सायण-टीका

15अथ पुरोडाशस्य याज्यामाह - हे मरुतः वो युष्माकं या शर्म यानि शरणानि गृहाणि शशमानाय सन्ति शंसनं कुर्वते यजमानाय दातुं संपादितानि तानि गृहाणि, त्रिधातूनि अशनं पानं खादनमित्येतानि त्रीणि धारयन्तीति त्रिधातूनि । तदेतत्त्रयमन्यत्राम्नायते - ‘त्रेधा विहितं वा इदमन्नमशनं पानं खादः’ इति । एतैस्त्रिविधैरन्नैरूपेतानि गृहाणि दाशुषे हविर्दत्तवते यजमानाय अधियच्छत आधिक्येन धत्त । हे मरुतोऽस्मभ्यमपि तानि गृहाणि वियन्त विशेषेण यच्छत । वृषणः कामानां वर्षितारो यूयं रयिं धनं सुवीरं सुष्ठु वीरपुत्रयुतं धत्त संपादयत ॥

विश्वास-प्रस्तुतिः

इ॒मे तु॒रम्म॒रुतो॑ रामयन्ति ।
इ॒मे सह॒स्सह॑स॒ आ न॑मन्ति ।
इ॒मे शँसव्ँ॑वनुष्य॒तो नि पा॑न्ति ॥ 36 ॥
गु॒रुद्वेषो॒ अर॑रुषे दधन्ति ।

मूलम्

इ॒मे तु॒रम्म॒रुतो॑ रामयन्ति ।
इ॒मे सह॒स्सह॑स॒ आ न॑मन्ति ।
इ॒मे शँसव्ँ॑वनुष्य॒तो नि पा॑न्ति ॥ 36 ॥
गु॒रुद्वेषो॒ अर॑रुषे दधन्ति ।

सायण-टीका

16अथ हविषः पुरोनुवाक्यामाह - इमे मरुतः तुरं तूर्ण रामयन्ति अस्मान् क्रीडयन्ति । इमे मरुतः सहसो बलवतः शत्रोः सहो बलमानयन्ति आनतं कुर्वन्ति विनाशयन्तीत्यर्थः । इमे मरुतः शंसं शंसितारं यजमानं वनुष्यतो हिंसितुः शत्रोः सकाशान्निपान्ति नितरां रक्षन्ति । अररुषे हविष्प्रदानमकुर्वते नास्तिकाय गुरुद्वेषो महान्तं द्वेषं दधन्ति कुर्वन्ति ॥

विश्वास-प्रस्तुतिः

अ॒रा इ॒वेदच॑रमा॒ अहे॑व ।
प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः ।
पृश्ञे॑ᳶ प्रु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः ।
स्वया॑ म॒त्या म॒रुत॒स्सम्मि॑मिक्षुः ।

मूलम्

अ॒रा इ॒वेदच॑रमा॒ अहे॑व ।
प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः ।
पृश्ञे॑ᳶ प्रु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः ।
स्वया॑ म॒त्या म॒रुत॒स्सम्मि॑मिक्षुः ।

सायण-टीका

17अथ हविषो याज्यामाह - अरा इवेत् यथा रथचक्रस्याराः सर्वतो वर्तमाना अचरमाः प्रथमचरमभावरहितास्तथैवैते मरुतः सर्वे सहोत्पन्नत्वात्प्रथमचरमभावरहिताः । अहेव यथा वाऽहानि षष्टिधटिकात्मकानि न्यूनाधिकभावरहितानि तथैवैते मरुतश्चलनस्वभावेन समानत्वादुत्तमाधमभावरहिताः । ते च मरुतः अकवा अकुत्सिताः महोभिः स्वकीयैर्माहात्म्यैः प्र प्रजायन्ते अतिशयेन प्रकृष्टाः संपद्यन्ते । ते च मरुतः पृश्नेः पुत्रा गोरूपायाः पृश्निदेवताया अपत्यानि । उपमासः सर्वेषामुत्तमवस्तूनामुपमारूपा एव । रभिष्ठाः अतिशयेन वेगेन युक्ताः । ते च मरुतः स्वया मत्या स्वकीयया बुद्ध्या संमिमिक्षुः सम्यङ्मेहनं वृष्टिजलं दत्तवन्तः ॥

विश्वास-प्रस्तुतिः

अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ ।
स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।
अनु॑ क्ष॒त्रमनु॒ सहो॑ यजत्र ।
इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ।

मूलम्

अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ ।
स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।
अनु॑ क्ष॒त्रमनु॒ सहो॑ यजत्र ।
इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ।

सायण-टीका

18अथ ‘ऐन्द्रमरुणमालभेतेन्द्रियकामः’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - हे इन्द्र ते तव इन्द्रियाभिवृद्ध्यर्थं महे महती पूजा अनुदायि अनुक्रमेण दत्ता । अथवा महे महत इन्द्रियाय यदनुकूलं तद्दत्तम् । यथा वृत्रहत्वे वृत्रवधे सति ते तुभ्यं सत्रा साकं सर्वैर्देवैर्मिलित्वा विश्वमनुदत्तम् । यदा वृत्रवधं कृतवानसि तदा तव विश्वस्वामित्वं सर्वैर्देवैरङ्गीकृतमित्यर्थः । हे यजत्र पूजार्ह इन्द्र क्षत्रं क्षत्रियजातिः अनुदत्ता सर्वक्षत्रियस्वामित्वं तुभ्यं दत्तमित्यर्थः । तथा सहो बलमनुदत्तम् । नृषह्ये मनुष्याणामभिभवे प्राप्ते देवेभिस्ते तुभ्यमनुदत्तम्, तद्रक्षणमित शेषः ॥

विश्वास-प्रस्तुतिः

य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ॥ 37 ॥
शिक्षा॒ सखि॑भ्यᳶ पुरुहूत॒ नृभ्यः॑ ।
त्वँ हि दृ॒ढा म॑घव॒न्विचे॑ताः ।
अपा॑वृधि॒ परि॑वृति॒न्न राधः॑ ।

मूलम्

य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ॥ 37 ॥
शिक्षा॒ सखि॑भ्यᳶ पुरुहूत॒ नृभ्यः॑ ।
त्वँ हि दृ॒ढा म॑घव॒न्विचे॑ताः ।
अपा॑वृधि॒ परि॑वृति॒न्न राधः॑ ।

सायण-टीका

19अथ वपाया याज्यामाह - हे मघवन् धनवन्निन्द्र ते तव यः शुष्मो बलमस्ति तत् हे पुरुहूत सखिभ्यः त्वयि स्निग्धेभ्यो नृभ्यो मनुष्येभ्यो यजमानेभ्य: शिक्षा शिक्षितं शुष्मं बलं देहि । हे मघवन्निन्द्र त्वं हि यस्मात्कारणात् दृढा बलाधिक्यादत्यन्तदृढो विचेता विविधजगदभिज्ञश्च तस्मात्कारणात् राधः अन्नमपावृधि अभिवर्धय । परिवृतिं न परिवारमप्यभिवर्धय ॥

विश्वास-प्रस्तुतिः

इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नाम् ।
अ॒धि॒क्षमि॒ विषु॑रूपय्ँ॒यदस्ति॑ ।
ततो॑ ददातु दा॒शुषे॒ वसू॑नि ।
चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ।

मूलम्

इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नाम् ।
अ॒धि॒क्षमि॒ विषु॑रूपय्ँ॒यदस्ति॑ ।
ततो॑ ददातु दा॒शुषे॒ वसू॑नि ।
चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ।

सायण-टीका

20अथ पुरोडाशस्य पुरोनुवाक्यामाह - अयमिन्द्रः कृत्स्नस्य जगतो विशेषतश्चर्षणीनां मनुष्याणां च राजा, अधिक्षमि क्षमाया भूमे रुपरि विषुरूपं नानाप्रकारं यद्धनमस्ति ततः सकाशाद्दाशुषे हविर्दत्तवते यजमानाय वसून्यपेक्षितानि धनानि ददातु । उपस्तुतो यजमानेन स्तूयमानस्सन्नर्वागभिमुखो भूत्वा राधश्चित् अन्नमपि चोदेत् प्रेरयतु ददात्वित्यर्थः ॥

विश्वास-प्रस्तुतिः

तमु॑ष्टुहि॒ यो अ॒भिभू॑त्योजाः ।
व॒न्वन्नवा॑तᳶ पुरुहू॒त इन्द्रः॑ ।
अषा॑ढमु॒ग्रँ सह॑मानमा॒भिः ॥ 38 ॥
गी॒र्भिर्व॑र्ध वृष॒भञ्च॑र्षणी॒नाम् ।

मूलम्

तमु॑ष्टुहि॒ यो अ॒भिभू॑त्योजाः ।
व॒न्वन्नवा॑तᳶ पुरुहू॒त इन्द्रः॑ ।
अषा॑ढमु॒ग्रँ सह॑मानमा॒भिः ॥ 38 ॥
गी॒र्भिर्व॑र्ध वृष॒भञ्च॑र्षणी॒नाम् ।

सायण-टीका

21अथ पुरोडाशस्य याज्यामाह - शत्रूणामभिभूतौ शक्तमोजो बलं यस्यासावभिभूत्योजाः तादृशो य इन्द्रोऽस्ति तमु तमेवेन्द्रं हे वागिन्द्रिय स्तुहि । अयमिन्द्रः पुरुहूतो बहुभिर्यजमानैराहूतः । अवातो वायुरहितो निश्चल इत्यर्थः । तादृशो वन्वन् अभिमतप्रदानं कुर्वन्वर्तते । अषाढं अन्यैरभिभवितुमशक्यम् । उग्रं तीव्रम् । सहमानं शत्रूनभिभवन्तम् । चर्षणीनां वृषभं मनुष्याणां कामाभिवर्षणहेतुम् । आभिर्गीर्भिर्वेदोक्ताभिः स्तुतिभिः वर्ध हे वागिन्द्रिय वर्धस्व ॥

विश्वास-प्रस्तुतिः

स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॑ ।
तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् ।
यो वा॒युना॒ जय॑ति॒ गोम॑तीषु ।
प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ ।

मूलम्

स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॑ ।
तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् ।
यो वा॒युना॒ जय॑ति॒ गोम॑तीषु ।
प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ ।

सायण-टीका

22अथ हविषा पुरोनुवाक्यामाह - य इन्द्रः स्थूरस्य स्थूलस्य बहुलस्येत्यर्थः । बृहतो महतोऽनर्घस्येत्यर्थः । तादृशस्य रायो धनस्य ईशे स्वामी भवति । तमु तमेवेन्द्रं विदथेषु यज्ञेषु स्तवाम नानाविधैः स्तोत्रैः स्तुतिं करवाम । य इन्द्रः वायुना सहितो गोमतीषु गोमहिषादियुक्तासु परसेनासु जयति नयं प्राप्नोति । धृष्णुया स्वकीयेन धृष्णुत्वेन प्रागल्भ्येन वस्यो वसीयसो धनवत्तमान् पुत्रादीनच्छ अस्मदाभिमुख्येन प्रकर्षेण नयति ।

विश्वास-प्रस्तुतिः

आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् ।
ओत्त॒राद॑ध॒रागा पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भिसमे॑त्व॒र्वाङ् ।
इन्द्र॑ द्यु॒म्नँ सुव॑र्वद्धेह्य॒स्मे ॥ 39 ॥

मूलम्

आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् ।
ओत्त॒राद॑ध॒रागा पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भिसमे॑त्व॒र्वाङ् ।
इन्द्र॑ द्यु॒म्नँ सुव॑र्वद्धेह्य॒स्मे ॥ 39 ॥

सायण-टीका

23अथ हविषो याज्यामाह - हे इन्द्र वृषभः श्रेष्ठस्ते तव शुष्मो बलं पश्चात् अस्मत्तः पश्चिमभागे एतु आगच्छतु । तथैवोत्तरात् उत्तरभागेऽप्यागच्छतु । अधराक् अधोभागेऽप्यागच्छतु । पुरस्तात् पूर्वभागेऽप्यागच्छतु । विश्वतः सर्वेषु प्रदेशेषु अभि अस्मानभिलक्ष्य अर्वाङ् समीपवर्ती समेतु सम्यक्प्राप्नोतु । हे इन्द्र सुवर्वत् स्वर्गयुक्तं द्युम्नं धनं अस्मे धेहि अस्मासु संपादय ॥

अत्र विनियोगसंग्रहः-
पुनरुत्सृष्ट ऐन्द्राग्ने शुचिं नु स्तोमसूक्तकम् ।
ब्रह्मणस्पत इत्येतद्ब्राह्मणस्पत्यतूपरे ॥ १ ॥

यास्ते पूषन्निति त्वन्नप्रदे श्यामे हि पौष्णके ।
शुची व इति पृश्नौ स्यान्मारुतेऽन्नस्य दातरि ॥

अनु ते दाय्यैन्द्रके स्यादरुणे हीन्द्रियप्रदे ॥ २ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके अष्टमप्रपाठके पञ्चमोऽनुवाकः ॥