०४ अभिमातिहेन्द्रादि-पशु-सूक्तानि

विश्वास-प्रस्तुतिः

इन्द्र॒स्तर॑स्वानभिमाति॒होग्रः ।
हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः ।
तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॑स्य ।
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।

मूलम्

इन्द्र॒स्तर॑स्वानभिमाति॒होग्रः ।
हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः ।
तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॑स्य ।
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।

सायण-टीका

(SB) 1तृतीये सौम्यादिपशुसूक्तान्यभिहितानि । चतुर्थे त्वभिमातिहेन्द्रादिपशुसूक्तान्युच्यन्ते । तत्र ‘इन्द्रायाभिमातिघ्ने ललामं प्राशृङ्गमालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - योऽयं मिन्द्रोऽस्ति यज्ञियस्य यज्ञार्हस्य तस्येन्द्रस्य सुमतावनुग्रहबुद्धौ वयं स्याम तिष्ठेम । कीदृश इन्द्रः? तरस्वान् तरो जवस्तद्वान् । अभिमातिहा शत्रुघाती । उग्रः शत्रुषु क्रूरः । वशीति वाङ्नाम, हिरण्यं वाश्यां वाचि यस्यासौ हिरण्यवाशीः । अस्मै शतमस्मै सहस्रमित्येवं सर्वदा धनदानं वक्तीत्यर्थः । इषिर एषणीयः । सुवर्षाः स्वर्गप्रदः । तादृशस्यानुग्रहे स्थित्वा भद्रे कल्याणे सौमनसेऽपि चित्तसमाधानरूपे सुखेऽपि स्याम तिष्ठेम ॥

विश्वास-प्रस्तुतिः

हिर॑ण्यवर्णो॒ अभ॑यङ्कृणोतु ।
अ॒भि॒मा॒ति॒हेन्द्र॒ᳶ पृत॑नासु जि॒ष्णुः ।
स न॒श्शर्म॑ त्रि॒वरू॑थव्ँ॒वि यँ॑सत् ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।

मूलम्

हिर॑ण्यवर्णो॒ अभ॑यङ्कृणोतु ।
अ॒भि॒मा॒ति॒हेन्द्र॒ᳶ पृत॑नासु जि॒ष्णुः ।
स न॒श्शर्म॑ त्रि॒वरू॑थव्ँ॒वि यँ॑सत् ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।

सायण-टीका

2अथ वपाया याज्यामाह - अयमिन्द्रोऽस्माकमभयं कृणोतु करोतु । कीदृशः? हिरण्यवर्णाः सर्वाभरणभूषितत्वेन हिरण्यसदृशवर्णोपेतः । अभिमातिहा शत्रुघाती । पृतनासु परकीयसेनासु जिष्णुर्जयशीलः । स तादृश इन्द्रो नोऽस्मभ्यं त्रिवरूथं त्रिभूमिकं शर्म गृहं वियंसत्विशेषेण यच्छतु । हे इन्द्र यस्त्वं ये च त्वत्सेवकास्ते सर्वे यूयं नोऽस्मान् स्वस्तिभिः क्षेमैः सदा पात ॥

विश्वास-प्रस्तुतिः

इन्द्रँ॑ स्तुहि व॒ज्रिणँ॒ स्तोम॑पृष्ठम् ।
पु॒रो॒डाश॑स्य जुषताँ ह॒विर्नः॑ ॥ 23 ॥
ह॒त्वाभिमा॑ती॒ᳶ पृत॑ना॒स्सह॑स्वान् ।
अथाभ॑यङ्कृणुहि वि॒श्वतो॑ नः ।

मूलम्

इन्द्रँ॑ स्तुहि व॒ज्रिणँ॒ स्तोम॑पृष्ठम् ।
पु॒रो॒डाश॑स्य जुषताँ ह॒विर्नः॑ ॥ 23 ॥
ह॒त्वाभिमा॑ती॒ᳶ पृत॑ना॒स्सह॑स्वान् ।
अथाभ॑यङ्कृणुहि वि॒श्वतो॑ नः ।

सायण-टीका

3अथ पुरोडाशस्य पुरोनुवाक्यामाह - हे वागिन्द्रिय इममिन्द्रं स्तुहि । कीदृशं? वज्रिणं वज्रयुक्तम् । स्तोमष्टष्ठं स्तोमैः साध्यानि पृष्ठस्तोत्राणि यस्यासौ स्तोमपृष्टस्तम् । स चन्द्रो नोऽस्मदीयस्य पुरोडाशस्य सारभूतं हविर्जुषताम् । सहस्वान् बलवानिन्द्रोऽभिमातीः पृतना वैरिसेनाः सर्वा हत्वाऽथानन्तरं नोऽस्माकं विश्वतः सर्वस्मादभयं कृणुहि कुरु ॥

विश्वास-प्रस्तुतिः

स्तु॒हि शूरव्ँ॑व॒ज्रिण॒मप्र॑तीत्तम् ।
अ॒भि॒मा॒ति॒हन॑म्पुरुहू॒तमिन्द्र॑म् ।
य एक॒ इच्छ॒तप॑ति॒र्जने॑षु ।
तस्मा॒ इन्द्रा॑य ह॒विरा जु॑होत ।

मूलम्

स्तु॒हि शूरव्ँ॑व॒ज्रिण॒मप्र॑तीत्तम् ।
अ॒भि॒मा॒ति॒हन॑म्पुरुहू॒तमिन्द्र॑म् ।
य एक॒ इच्छ॒तप॑ति॒र्जने॑षु ।
तस्मा॒ इन्द्रा॑य ह॒विरा जु॑होत ।

सायण-टीका

4पुरोडाशस्य याज्यामाह - अप्रतिकूलत्वेन प्राप्तमप्रतीतं शूरादिशब्दैर्विशेषितमिन्द्रं हे वागिन्द्रिय स्तुहि । योऽयमिन्द्रः एक इत् एक एव जनेषु सर्वेषु मध्ये शतपतिः शतसंख्याकानां देवानां स्वामी । तस्मा इन्द्राय हे ऋत्विजः हविराजुहोत सर्वतो हुतं कुरुत ॥

विश्वास-प्रस्तुतिः

इन्द्रो॑ दे॒वाना॑मधि॒पाᳶ पु॒रोहि॑तः ।
दि॒शाम्पति॑रभवद्वा॒जिनी॑वान् ।
अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँ वृष॑णँ र॒यिन्दा॑त् ॥ 24 ॥

मूलम्

इन्द्रो॑ दे॒वाना॑मधि॒पाᳶ पु॒रोहि॑तः ।
दि॒शाम्पति॑रभवद्वा॒जिनी॑वान् ।
अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँ वृष॑णँ र॒यिन्दा॑त् ॥ 24 ॥

सायण-टीका

5अथ हविषः पुरोनुवाक्यामाह - अयमिन्द्रः सर्वेषां देवानामधिपाः स्वामी सन् पुरोहितो मुखत एव हितकारी । दिशां प्राच्यादीनां पतिः पालकः । वाजिनीवान् अन्नसमूहयुक्तोऽभवत् । अभिमातिहा शत्रुघाती । तविषः महान् । तुविष्मान् बलवान् । तादृश इन्द्रोऽस्मभ्यं चित्रं मणिमुक्तादिरूपेण नानाविधं वृषणं कामाभिवर्षणक्षमं रयिं धनं दात् ददातु ॥

विश्वास-प्रस्तुतिः

य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा ।
बले॒नादृँ॑हदभिमाति॒हेन्द्रः॑ ।
स नो॑ ह॒विᳶ प्रति॑ गृभ्णातु रा॒तये॑ ।
दे॒वाना॑न्दे॒वो नि॑धि॒पा नो॑ अव्यात् ।

मूलम्

य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा ।
बले॒नादृँ॑हदभिमाति॒हेन्द्रः॑ ।
स नो॑ ह॒विᳶ प्रति॑ गृभ्णातु रा॒तये॑ ।
दे॒वाना॑न्दे॒वो नि॑धि॒पा नो॑ अव्यात् ।

सायण-टीका

6अथ हविषा याज्यामाह - अभिमातिहा शत्रुधाती य इन्द्रो महित्वा महता बलेन इमे द्यावापृथिव्यादृंहत् दृढीकृतवान् । स इन्द्रो नोऽस्मभ्यं रातये धनदानाय हविः प्रतिगृह्णातु स्वीकरोतु । देवानामपि देवः पूज्यः । निधिपाः शङ्खपद्मादिनिधीनां पालकः । इन्द्रो नोऽस्मानव्यात् रक्षतु ॥

विश्वास-प्रस्तुतिः

अन॑वस्ते॒ रथव्ँ॒ वृष्णे॒ यत्ते॑ ।

मूलम्

अन॑वस्ते॒ रथव्ँ॒ वृष्णे॒ यत्ते॑ ।

सायण-टीका

7अथ ‘इन्द्राय वज्रिणे ललामं प्राशृङ्गम्’ इत्यस्य पशोः सूक्ते वपापुरोडाशविष्याणां याज्यानुवाक्यानां प्रतीकानि दर्शयति - ‘अनवस्ते रथमश्वाय’ इति वपायाः पुरोनुवाक्या ।

  • अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्र॑म्पुरुहूत द्यु॒मन्त॑म् ।
    ब्र॒ह्माण॒ इन्द्र॑म्म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥

    • टीका 18’इन्द्रायार्काश्वमेधवते पुरोडाशमेकादशकपालं निर्वपेद्यं महायज्ञो नोपनमेत्’ इत्यस्य पुरोनुवाक्या - अनवस्त इति त्रिष्टुप् ॥ हे पुरुहूत बहुभिराहूत इन्द्र ते तव रथमनवो मनुष्यास्तक्षन् तक्षन्तु संस्कुर्वन्तु । लङ् लोडर्थे, अडभावश्छान्दसः । अश्वायाश्वं योक्तुं यथा योग्यो भवति तथा संस्कुर्वन्तु । यद्वा - अश्वाय व्याप्तिमते तुभ्यं यथा पर्याप्तो भवति त्वष्टा देवानां शिल्पी वज्रं तक्षतु तीक्ष्णीकरोतु । कीदृशम् द्युमन्तं दीप्तिमन्तम् । किञ्च - ब्रह्माणः ब्राह्मणाश्च त्वामिन्द्रमीश्वरं अर्कैर्मन्त्रैः हविर्लक्षणैरन्नैर्वा महयन्तः पूजयन्तः अवर्धयन् वर्धयन्तु यशसा । किमर्थं ? अहये अघाय अहिंसनाय आगत्य हन्तीत्यहिस्सर्पादिः । ‘आङि शृहनिभ्यां ह्वस्वश्च’ इतीण्प्रत्ययः । कर्मणि चतुर्थी । हन्तवै हन्तुम् । ‘तुमर्थे सेसेन्’ इति तवैप्रत्ययः । ‘अन्तश्च तवै युगपत्’ इत्याद्यन्तयोरुदात्तत्वम् । उः पादपूरणे । त्वं चास्माकं महायज्ञमुपनयेति ॥

‘वृष्णे यत्ते वृषणे अर्कम्’ इति याज्या । एतच्चोभयम् ‘इन्द्रं वो विश्वतस्परि’ इत्यत्र व्याख्यातम् ।

  • वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिस्स॒जोषाः॑ ।
    अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥ [51]

    • टीका 19तत्रैव याज्या - वृष्ण इति त्रिष्टुप् ॥ हे इन्द्र ते तुभ्यं वृष्णे वर्षित्रे अभिमतदात्रे । षष्ठ्यर्थे चतुर्थी । तव वर्षितुः अर्कमर्चनीयमाज्ञां अर्चनीयं वा ते तव यागमर्चानर्चयन्ति पूजयन्ति । लेट्याडागमः । के ? वृषणः ग्राव्णः वर्षितारो मेघाः वृष्टिं कुर्वन्तस्तवार्कमर्चयन्ति मेघा इत्यर्थः । ‘वा षपूर्वस्य निगमे’ इति दीर्घाभावः । अदितिः पृथिवी च सजोषाः समानप्रीतिः त्वया तैर्वा मेघैरानुकूल्यं भजमाना सस्याद्युत्पादयतस्तव कर्मार्कमर्चयति । यद्यदा एवमेते कुर्वन्ति, तदानीं दुष्टात्मानो दस्यवोपि त्वयैव हन्तव्या इति तत्प्रार्थयते - अनश्वासः अश्वरहिताः । ‘आज्जसेरसुक्’ अरथाः रथरहिताः अश्वरथमनपेक्षमाणाः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ये पवयस्तवायुधविशेषाः इन्द्रेषितास्सर्वदेन्द्रेणैव प्रेषिताः अन्येन प्रेषितुमशक्याः ; ते दस्यूनभ्यवर्तन्त दस्यूनभिवर्तन्तां आभिमुख्येन हन्तुं वर्तन्ताम् । स्वरणादिद्वारा अस्मदुपक्षपयितारो दस्यवः । तानभिभूय पराजितान्कृत्वा सर्वदाऽस्मान्रक्षन्तो वर्तन्तामिति भावः । छान्दसो लङ् । एवं सर्वस्य लोकस्य रक्षको महात्मा त्वम् ; अतोस्माकमपि महायज्ञमुपनयेति ॥
विश्वास-प्रस्तुतिः

इन्द्र॑स्य॒ नु वी॒र्या॑ण्यह॒न्नहि॑म् ।

मूलम्

इन्द्र॑स्य॒ नु वी॒र्या॑ण्यह॒न्नहि॑म् ।

सायण-टीका

‘इन्द्रस्य नु वीर्याणि प्रवोचम्’ इति पुरोडाशस्य पुरोनुवाक्या ।

  • इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् ।
    यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥12॥
    अह॒न्नहि॒मन्व॒पस्त॑तर्द ।
    प्रव॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ।

    • टीका 3अथ तृतीयामाह - वज्री वज्रहस्त इन्द्रः प्रथमानि यानि वीर्याणि शौर्याणि चकार, इन्द्रस्य संबन्धीनि तानि वीर्याणि नु क्षिप्रं प्रवोचं प्रवक्ष्यामि ॥ प्रथमं तावत् अहिं वृत्राख्यमसुरमहन् हतवात् ॥ अनु तदनन्तरं अपस्ततर्द मेघस्थितं नलं मेघभेदेन पृथिव्यां व्यापितवान् ॥ अथ पर्वतानां वक्षणा पक्षान् प्राभिनत् प्रकर्षेण भिन्नवान् ॥॥

‘अहन्नहिमन्वपः’ इति याज्या । एतच्चोभयम् ‘आनो भर भगमिन्द्र’ इत्यत्र व्याख्यातम् ॥

  • अह॒न्नहि॒म्पर्व॑ते शिश्रिया॒णम् ।
    त्वष्टा॑ऽस्मै॒ वज्रँ॑ स्व॒र्य॑न्ततक्ष ।
    वा॒श्रा इ॑व धे॒नव॒स्स्यन्द॑मानाः ।
    अञ्ज॑स्समु॒द्रमव॑ जग्मु॒रापः॑ ।

    • टीका 4अथ चतुर्थीमाह - पर्वते पर्वतसमाने मेघे शिश्रियाणं आश्रितमहिं जलनिरोधकमहिनामानमसुरं अहन् हतवान् ॥ त्वष्टा देवोऽस्मा इन्द्राय स्वर्यं स्वर्गाय हितं वज्रं ततक्ष तीक्ष्णीकृतवान् ॥ ततो वज्रेण वृष्टिनिरोधके शत्रौ हते सति स्यन्दमाना आपः समुद्रं समुद्रसमानं भूप्रदेशं अञ्जः समञ्जसं यथा भवति तथा अवजग्मुः प्राप्ताः ॥ अपां दृष्टान्तः - वाश्रा धेनव इव यथा वत्समाकारयितुं शब्दं कुर्वत्यो धेनवो दुहन्ति तद्वत् ॥॥
विश्वास-प्रस्तुतिः

इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॑ ।
शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः ।
सेदु॒ राजा॑ क्षेति चर्षणी॒नाम् ।
अ॒रान्न ने॒मिᳶ परि॒ ता ब॑भूव ॥ 25 ॥

मूलम्

इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॑ ।
शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः ।
सेदु॒ राजा॑ क्षेति चर्षणी॒नाम् ।
अ॒रान्न ने॒मिᳶ परि॒ ता ब॑भूव ॥ 25 ॥

सायण-टीका

8अथ हविषः पुरोनुवाकमाह - अयमिन्द्रः यातः गच्छतो जङ्गमस्य अवसितस्य क्वचिदवस्थितस्य स्थावरस्य च राजा स्वामी । किंच वज्रबाहुः सेदु स एवेन्द्रः शमस्य शान्तियुक्तस्य महर्षिवर्गस्य शृङ्गिणः शृङ्गोपेतस्य गवादेरपि चर्षणीनां मनुष्याणामपि राजा भूत्वा क्षेति निवसति । तस्य दृष्टान्तः - अरान्न नेमिर्यथा रथचक्रस्य परितो वर्तमाना नेमिस्तत्र स्थितानरान्व्याप्नोति तथाऽयमिन्द्रः परिता बमूव परितस्तानि स्थावरजङ्गमादीनि प्राप्तवान् ॥

विश्वास-प्रस्तुतिः

अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॑न् ।
विति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑भेत् ।
सव्ँवज्रे॑णासृजद्वृ॒त्रमिन्द्रः॑ ।
प्र स्वाम्म॒तिम॑तिर॒च्छाश॑दानः ।

मूलम्

अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॑न् ।
विति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑भेत् ।
सव्ँवज्रे॑णासृजद्वृ॒त्रमिन्द्रः॑ ।
प्र स्वाम्म॒तिम॑तिर॒च्छाश॑दानः ।

सायण-टीका

9अथ हविषो याज्यामाह - अस्येन्द्रस्य सिध्मः कार्यसाधको वज्रः शत्रून् सर्वानभि सर्वतः अजिगात् प्राप्तवान् हतवानित्यर्थः । तिग्मेन तीक्ष्णेन वृषभेण श्रेष्ठेन वज्रेण पुरः शत्रूणां पुराणि व्यभेत् विशेषेण भिन्नवान् । अयमिन्द्रो वज्रेण वृत्रं समसृजत् संसृष्टवान् संसर्गमात्रेण हतवानित्यर्थः । शाशदानः पुनःपुनर्वैरिणो विनाशयन् स्वां मतिं स्वकीयां बुद्धिं प्रातिरत् प्रकर्षेण वर्धितवान् ॥

विश्वास-प्रस्तुतिः

विष्णु॑न्दे॒वव्ँवरु॑णमू॒तये॒ भग॑म् ।
मेद॑सा दे॒वा व॒पया॑ यजध्वम् ।
ता नो॑ य॒ज्ञमाग॑तव्ँ वि॒श्वधे॑ना ।
प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् ।

मूलम्

विष्णु॑न्दे॒वव्ँवरु॑णमू॒तये॒ भग॑म् ।
मेद॑सा दे॒वा व॒पया॑ यजध्वम् ।
ता नो॑ य॒ज्ञमाग॑तव्ँ वि॒श्वधे॑ना ।
प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् ।

सायण-टीका

10अथ ‘यो भ्रातृव्यवान् स्यात्स स्पर्धमानो वैष्णववारुणीं वशामालभेत’ इत्यस्य पशोः सूक्ते वपाया पुरोनुवाक्यामाह - हे देवाः दीप्यमाना ऋत्विजः भगं भजनीयं विष्णुं वरुणं च देवं ऊतयेऽस्मद्रक्षणार्थं मेदसा मेदोयुक्तया वपया यजध्वं पूजयध्वम् । भेदशब्देन वपायां लेपरूपो मांससार उच्यते । विष्णुर्वरुणश्चेत्येतौ देवौ विश्वधेना प्रकर्षेण प्रीणयन्तौ ता तौ युवां नोऽस्मदीयं यज्ञं प्रत्यागतमागच्छतम् । आगत्य चेह कर्मणि प्रजावत् पुत्रपौत्रादियुक्तं द्रविणा धनमस्मे धत्तं अस्मान्संपादयतम् ॥

विश्वास-प्रस्तुतिः

मेद॑सा दे॒वा व॒पया॑ यजध्वम् ।
विष्णु॑ञ्च दे॒वव्ँवरु॑णञ्च रा॒तिम् ॥ 26 ॥
ता नो॒ अमी॑वा अप॒ बाध॑मानौ ।
इ॒मय्ँ य॒ज्ञञ्जु॒षमा॑णा॒वुपेत॑म् ।

मूलम्

मेद॑सा दे॒वा व॒पया॑ यजध्वम् ।
विष्णु॑ञ्च दे॒वव्ँवरु॑णञ्च रा॒तिम् ॥ 26 ॥
ता नो॒ अमी॑वा अप॒ बाध॑मानौ ।
इ॒मय्ँ य॒ज्ञञ्जु॒षमा॑णा॒वुपेत॑म् ।

सायण-टीका

11अथ वपाया याज्यामाह - हे देवा ऋत्विजः रातिं फलस्य दातारं विष्णुं च वरुणं च देवं मेदोयुक्तया वपया यजध्वं पूजयत । हे विष्णो वरुण ता तौ युवां नोऽस्माकं अमीवा रोगानपबाधमानाविमं यज्ञं सेवमानावुपेतं समीपमागच्छतम् ॥

विश्वास-प्रस्तुतिः

विष्णू॑वरुणा यु॒वम॑ध्व॒राय॑ नः ।
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।
दी॒र्घप्र॑यज्ज्यू ह॒विषा॑ वृधा॒ना ।
ज्योति॒षाऽरा॑तीर्दहत॒न्तमाँ॑सि ।

मूलम्

विष्णू॑वरुणा यु॒वम॑ध्व॒राय॑ नः ।
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ।
दी॒र्घप्र॑यज्ज्यू ह॒विषा॑ वृधा॒ना ।
ज्योति॒षाऽरा॑तीर्दहत॒न्तमाँ॑सि ।

सायण-टीका

12अथ पुरोडाशस्य पुरोनुवाक्यामाह - हे विष्णुवरुणौ युवां नोऽस्मदीयायाध्वराय यज्ञाय विशे करप्रदाय प्रजायै जनाय पुत्रपौत्रादिरूपाय मनुष्याय महि शर्म महत्सुखं यच्छतम् । दीर्घप्रयज्यू चिरं प्रकर्षेण यष्टव्यौ, हविषा वृधानाऽतिशयेन वर्धमानौ ज्योतिषा भवदीयेन तेजसाऽरातीः शत्रून् तमांसि अन्धकारांश्च दहतम् ॥

विश्वास-प्रस्तुतिः

ययो॒रोज॑सा स्कभि॒ता रजाँ॑सि ।
वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा ।
याऽपत्ये॑ ते॒ अप्र॑तीत्ता॒ सहो॑भिः ।
विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥ 27 ॥

मूलम्

ययो॒रोज॑सा स्कभि॒ता रजाँ॑सि ।
वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा ।
याऽपत्ये॑ ते॒ अप्र॑तीत्ता॒ सहो॑भिः ।
विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥ 27 ॥

सायण-टीका

13अथ पुरोडाशस्य याज्यामाह - ययोर्विष्णुवरुणयोरोजसा बलेन रजांसि रञ्जनात्मकानि पृथिव्यादिस्थानानि स्कभिता स्तम्भितानि दृढीकृतानीत्यर्थः । वीर्येभिः तत्तद्युद्धगतैः पराक्रमैर्वीरतमाऽत्यन्तं शूरैः शविष्ठाऽतिशयेन बलवन्तौ यौ विष्णुवरुणौ सहोभिर्बलैरप्रतीतौ प्रतिकूलरहितौ सन्तौ पत्येते ऐश्वर्यं प्राप्नुतः । तौ विष्णुर्वरुणश्चेत्येतौ पूर्वहूतौ प्रथममाडूतौ युवामगन् आगच्छतम् ॥

विश्वास-प्रस्तुतिः

विष्णू॑वरुणावभिशस्ति॒पावा॑म् ।
दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ ।
अपामी॑वाँ सेधतँ र॒क्षस॑श्च ।
अथा॑धत्तय्ँ॒यज॑मानाय॒ शय्ँ योः ।

मूलम्

विष्णू॑वरुणावभिशस्ति॒पावा॑म् ।
दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ ।
अपामी॑वाँ सेधतँ र॒क्षस॑श्च ।
अथा॑धत्तय्ँ॒यज॑मानाय॒ शय्ँ योः ।

सायण-टीका

14अथ हविषः पुरोनुवाक्यामाह - देवा ऋत्विजः हे विष्णुवरुणावभिशस्तिपा अपवादात्पातारौ वां युवां घृतेन हविषा घृतयुक्तेन पश्वङ्गलक्षणेन हविषा यजन्त पूजयन्तु । अमीवां रोगं रक्षसश्च रक्षांस्यप्यपसेधतं निराकुरुतम् । अथ अनन्तरं यजमानाय शं इष्टप्राप्तिनिमित्तं सुखं, योः अनिष्टवियोगं च धत्तं संपादयतम् ॥

विश्वास-प्रस्तुतिः

अँ॒हो॒मुचा॑ वृष॒भा सु॒प्रतू॑र्ती ।
दे॒वाना॑न्दे॒वत॑मा॒ शचि॑ष्ठा ।
विष्णू॑वरुणा॒ प्रति॑हर्यतन्नः ।
इ॒दन्नरा॒ प्रय॑तमू॒तये॑ ह॒विः ।

मूलम्

अँ॒हो॒मुचा॑ वृष॒भा सु॒प्रतू॑र्ती ।
दे॒वाना॑न्दे॒वत॑मा॒ शचि॑ष्ठा ।
विष्णू॑वरुणा॒ प्रति॑हर्यतन्नः ।
इ॒दन्नरा॒ प्रय॑तमू॒तये॑ ह॒विः ।

सायण-टीका

15अथ हविषो याज्यामाह - हे विष्णुवरुणौ नरा पुरुषश्रेष्ठौ युवां नोऽस्माकमूतये रक्षणाय प्रयतं प्रकर्षेण समर्पितमिदं हविः प्रतिहर्यतं कामयतम् । कीदृशौ युवां? अंहोमुचा पापान्मोचयितारौ । वृषभा श्रेष्ठौ । सुप्ततूर्ती सुष्ठु वैरिणां हिंसको । देवानां मध्ये देवतमा अतिशयेन दीप्तिमन्तौ । शचिष्ठा अतिशयेन शक्तिमन्तौ ॥

विश्वास-प्रस्तुतिः

म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ ।
रु॒चा भ॑वताँ शु॒चय॑द्भिर॒र्कैः ॥ 28 ॥
यत्सीव्ँ॒वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन् ।
नृ॒वद्भ्यो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ ।

मूलम्

म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ ।
रु॒चा भ॑वताँ शु॒चय॑द्भिर॒र्कैः ॥ 28 ॥
यत्सीव्ँ॒वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन् ।
नृ॒वद्भ्यो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ ।

सायण-टीका

16अथ ‘द्यावापृथिव्यां धेनुमालभेत ज्योगपरुद्धः’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - द्यावापृथिवी देवते अर्कैः अस्मदीयैरर्चनीयैस्तुष्टे सत्याविह भवतामस्मिन् कर्मणि तिष्ठताम् । कीदृश्यौ द्यावापृथिव्यौ? मही महत्यौ । नु प्रसिद्धे । रुचा स्वकीयेन तेजसा ज्येष्ठे अत्यन्तप्रशस्ते । कीदृशैरर्कैः? शुचयद्भिरस्मत्पापं शोधयद्भिः । यत् ये द्यावापृथिव्यौ सीं फलसीमानं विमिन्वन् निश्चितवत्यौ । ते द्यावापृथिव्याविति पूर्वत्रान्वयः । कीदृश्यौ? वरिष्ठे गुणैरत्यन्तश्रेष्ठे । बृहती स्वरूपेण विस्तृते । पप्रथानेभिरतिप्रथितैः प्रसिद्धैरेवैरागमनैर्नृवद्भ्यः ऋत्विक्पुरुषयुक्तेभ्यो यजमानेभ्यः अक्षा प्रत्यक्षत्वेनावस्थिते पुनःपूनरागत्य भक्तजनानां दृश्ये भवत इत्यर्थः ॥

विश्वास-प्रस्तुतिः

प्रपू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिः ।
गी॒र्भिᳵ कृ॑णुध्वँ॒ सद॑ने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्ये॑न ।
जने॑न यात॒म्महि॑ वाव्ँ॒वरू॑थम् ।

मूलम्

प्रपू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिः ।
गी॒र्भिᳵ कृ॑णुध्वँ॒ सद॑ने ऋ॒तस्य॑ ।
आ नो॑ द्यावापृथिवी॒ दैव्ये॑न ।
जने॑न यात॒म्महि॑ वाव्ँ॒वरू॑थम् ।

सायण-टीका

17अथ वपाया याज्यामाह - पूर्वजे सृष्ट्यादावुत्पन्ने पितरा मातापितृस्थानीये द्यावापृथिव्यौ नव्यसीभिरत्यन्तनूतनाभिर्गीर्भिः स्तुतिभिस्तुष्टे सत्यौ ऋतस्य यज्ञस्य संबन्धिनी सदने निवासाय द्वे स्थाने कृणुध्वं कुरुताम् । प्रशब्दः सदनविशेषणं, प्रकृष्टे स्थाने इत्यर्थः । हे द्यावापृथिव्यौ दैव्येन दिवि भवेन जनेन सह वां युवयोः संबन्धि महि वरूथं प्रौढं यागगृहं प्रत्यायातमागच्छतम् ॥

विश्वास-प्रस्तुतिः

स इत्स्वपा॒ भुव॑नेष्वास ।
य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ ।
उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ ।
अ॒वँ॒शे धीर॒श्शच्या॒ समै॑रत् ॥ 29 ॥

मूलम्

स इत्स्वपा॒ भुव॑नेष्वास ।
य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ ।
उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ ।
अ॒वँ॒शे धीर॒श्शच्या॒ समै॑रत् ॥ 29 ॥

सायण-टीका

18अथ पुरोडाशस्य पुरोनुवाक्यामाह - यः प्रजापतिरिमे द्यावापृथिव्यौ जजान उत्पादयामास स इत् स एव प्रजापतिर्भुवनेषु लोकेषु मध्ये स्वपा आस । अप्शब्दः कर्मवची । शोभनव्यापारो बभूवेत्यर्थः । कीदृश्यौ द्यावापृथिव्यौ? उर्वी स्वरूपेण विस्तीर्णे । गभीरे गुणैर्गम्भीरे । रजसी रञ्जनात्मिके । सुमेके सुनिर्माणे । अवंशे कश्यपभरद्वाजादिगोत्ररूपवंशरहिते, सर्वेभ्यो महर्षिभ्यः पूर्वमुत्पन्नत्वान्नास्ति तयोः कश्चिद्वंशः । तादृश्यौ द्यावापृथिव्यौ धीरः धीमान् प्रजापतिः शच्या स्वकीयया शक्त्या समैरत् संयोजितवान् ॥

विश्वास-प्रस्तुतिः

भूरि॒न्द्वे अच॑रन्ती॒ चर॑न्तम् ।
प॒द्वन्त॒ङ्गर्भ॑म॒पदी॑दधाते ।
नित्य॒न्न सू॒नुम्पि॒त्रोरु॒पस्थे॑ ।
तम्पि॑पृतँ रोदसी सत्य॒वाच॑म् ।

मूलम्

भूरि॒न्द्वे अच॑रन्ती॒ चर॑न्तम् ।
प॒द्वन्त॒ङ्गर्भ॑म॒पदी॑दधाते ।
नित्य॒न्न सू॒नुम्पि॒त्रोरु॒पस्थे॑ ।
तम्पि॑पृतँ रोदसी सत्य॒वाच॑म् ।

सायण-टीका

19अथ पुरोडाशस्य याज्यामाह - द्वे द्यावापृथिव्यौ गर्भं सर्वप्राणिरूपं दधते धारयतः । कीदृश्यौ द्वे? अचरन्ती क्वाप्यविचरन्त्यौ स्थिरे इत्यर्थः । अत एव अपदी पादरहिते, न हि गमनाभावे पादयोरस्ति कश्चिदुपयोगः । कीदृशं गर्भं? भूरि देवतिर्यगादिरूपेण बहुविधम् । चरन्तं जङ्गमत्वेन संचारयुक्तम् । अत एव पद्वन्तं पादयुक्तम् । तत्र दृष्टान्तः - पित्रोरुपस्थे मातापित्रोरुत्सङ्गे नित्यं न सूनुं पुत्रमिव सर्वदा वर्तमानम् । हे रोदसी द्यावापृथिव्यौ सत्यवाचमवितथवाग्युतं देवादिरूपं गर्भं पिपृतं पालयतम् ॥

विश्वास-प्रस्तुतिः

इ॒दन्द्या॑वापृथिवी स॒त्यम॑स्तु ।
पित॒र्मात॒र्यदि॒होप॑ ब्रु॒वे वा॑म् ।
भू॒तन्दे॒वाना॑मव॒मे अवो॑भिः ।
विद्यामे॒षव्ँ वृ॒जन॑ञ्जी॒रदा॑नुम् ।

मूलम्

इ॒दन्द्या॑वापृथिवी स॒त्यम॑स्तु ।
पित॒र्मात॒र्यदि॒होप॑ ब्रु॒वे वा॑म् ।
भू॒तन्दे॒वाना॑मव॒मे अवो॑भिः ।
विद्यामे॒षव्ँ वृ॒जन॑ञ्जी॒रदा॑नुम् ।

सायण-टीका

20अथ हविषः पुरोनुवाक्यामाह - हे पितः द्युलोक, हे मातः पृथिवि, वां युवामभिलक्ष्य इह कर्मणि यद्वचनमहमुपब्रुवे हे द्यावापृथिव्याविदं मदीयं वचनं सत्यमस्तु । किं तद्वचनमिति? तदुच्यते - अवोभिरस्मदीयरक्षणैः सह देवानां सर्वेषामवमे भूतं युवां रक्षके भवतम् । वयमपि भवत्प्रसादादिषमन्नं वृजनं पापवर्जितं जीरदानुं जीवनस्य दातारं विद्याम लभेम ॥

विश्वास-प्रस्तुतिः

उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते ।
उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।
दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती ।
द्यावा॒ रक्ष॑तम्पृथि॒वी नो॒ अभ्वा॑त् ।

मूलम्

उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते ।
उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।
दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती ।
द्यावा॒ रक्ष॑तम्पृथि॒वी नो॒ अभ्वा॑त् ।

सायण-टीका

21हविषो याज्यामाह - उर्वी गुणैरधिके, पृथ्वी स्वरूपेण विस्तीर्णे, बहुले भोगैः प्रभूते, दूरे अन्ते सर्वेषां दूरवर्तिन्यौ समीपवर्तिन्यौ च, सर्वत्र विद्यमानत्वात् । तादृश्यौ द्यावापृथिव्यावभिलक्ष्याहमस्मिन्यज्ञे नमसा नमस्कारेण युक्तमुपब्रुवे किंचिद्विज्ञापनं ब्रवीमि । किं तद्विज्ञापनमिति, तदुच्यते - ये द्यावापृथिव्यौ सुभगे सौभाग्ययुक्ते सुप्रतूर्ती सुष्ठु शत्रुऽहिंसके दधाते जगद्गर्भं धारयतः ते द्यावापृथिवी युवामुभे न: अस्मान् रक्षतं अभवनमसद्भावो विनाशस्तस्माद्विनाशात्पालयतम् ॥

विश्वास-प्रस्तुतिः

या जा॒ता ओष॑ध॒योऽति॒ विश्वा॑ᳶ परि॒ष्ठाः ।

मूलम्

या जा॒ता ओष॑ध॒योऽति॒ विश्वा॑ᳶ परि॒ष्ठाः ।

सायण-टीका

22अथ ‘ओषधीभ्यो वेहतमालभेत प्रजाकामः’ इत्यस्य पशोः सूक्ते क्रमेण वपापुरोडाशहविषां षट्प्रतीकानि दर्शयति - ‘या जाता ओषधयः’ इति वपाया पुरोनुवाक्या ।

  • या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
    मन्दा॑मि ब॒भ्रूणा॑महँ श॒तन्धामा॑नि स॒प्त च॑ ।

    • टीका १९११ (अथ चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः )।
      पञ्चमेऽनुवाकेऽग्निक्षेत्रकर्षणमुक्तम् । अथ षष्ठ ओषधिवापो विधीयते ।
      कल्पः—“या जाता ओषधय इति चतुर्दशभिरोवधीर्वपति” इति ।
      तत्र प्रथमामाह– या जाता इति। युगशब्दः कालवाची । त्रियुगं वर्षाः शरद्वसन्त इति कालत्रयमुद्दिश्य पुरा सृष्ट्यादौ देवेभ्यः सकाशाद्या ओषधय उत्पन्ना बभ्रूणां प्राणिभ-रणसमर्थानां परिपपाकेन (ण) पिङ्गलवर्णानां वा तासामोषधीनां शतं धामानि शतसं-ख्याकाञ्जातिभेदान्सप्त च विशेषाकारेण ग्राम्यानारण्यांश्च सप्त धान्यमेदानवेक्ष्य मन्दामि हृष्यामि ।

‘अतिविश्वाः परिष्ठास्तेन इव’ इति याज्या ।

  • अति॒ विश्वाः॑ परि॒ष्ठास्स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
    ओष॑धय॒ᳶ प्राचु॑च्यवु॒र्यत्किञ्च॑ त॒नुवाँ॒ रपः॑ ।

  • टीका अथैकादशीमाह— १९१६ अति विश्वा इति । परिष्ठाः शरीरस्योपरि स्थिता उदरमध्ये प्रविष्टा विश्वाः सर्वा ओषधयोऽत्यजीर्णादिदोषमतिलङ्घ्याक्रमुः क्रान्ता देहे व्याप्ता इत्यर्थः । तत्र दृष्टान्तः—स्तेन इव व्रज्रं, यथा रात्रौ गुप्तचोरो गोष्ठं प्रविश्य गामपहर्तुं सावधानो गोशालयां[लां] सर्वतो व्याप्नोति तद्वत् । तनुवां शरीराणां संबन्धि यक्तिंच रपो स्वरशिरोव्याधिगुल्मातिसारादिरूपं पापफलं यत्किंचिदस्ति तत्सर्वमोषधयः प्राचुच्यवुर्वि-नाशितवत्यः ।

विश्वास-प्रस्तुतिः

या ओष॑धय॒स्सोम॑राज्ञीरश्वाव॒तीँ सो॑मव॒तीम् ।

मूलम्

या ओष॑धय॒स्सोम॑राज्ञीरश्वाव॒तीँ सो॑मव॒तीम् ।

सायण-टीका

‘या ओषधयस्सोम राज्ञीः’ इति पुरोनुवाक्या ।

  • याः [27] ओष॑धय॒स्सोम॑राज्ञी॒ᳶ प्रवि॑ष्टाᳶ पृथि॒वीमनु॑ ।
    तासा॒न्त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव ।

  • टीका अथ द्वितीयामाह— या ओषधय इति । सोमो राजा यासां ताः सोमराऽयस्तादृश्यो या ओष-धयः पृथिवीमनु प्रविष्टास्तासां मध्य इदानीमुप्यमाने हे ओषधे त्वमुत्तमाऽसि । अतो नोऽस्माञ्जीवातवे जीवनौषधाय प्रसुव प्रकर्षेण प्रेरय ।

‘अश्वावतीँ सोमवतीम्’ इति याज्या ।

  • अ॒श्वा॒व॒तीँ सो॑मव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् ।
    आ वि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ।

    • टीका अथ चतुर्दशीमाह— अश्वावतीमिति । काचि॑दोषधिजातिरश्वावती, अश्वा अस्यां सन्तित्यश्वा वती, ओषधिसमृद्धौ सत्यां धनद्वारेणाश्वा लभ्यन्त इत्यर्थः । अन्या काचिदो षधिजातिः सोमवती सोमयागोऽस्यामस्तीति सोमवती, धान्यसमृद्धौ सत्यां सोमयागः कर्तुं शक्यत इत्यर्थः । अपरोर्जयन्ती, ऊर्ज बलं प्राणचेष्टां वा करोतीत्यर्थः । अन्या जातिरुदोजाः, उत्कृष्टयोजोऽष्टमधातुरूपं यस्याः सोदोजाः अन्नद्वारेण शरीरधातून्पोषयतीत्यर्थः । ताः सर्वा ओषधीरहमावित्सि लब्धवानस्मि । किमर्थम् । अस्मा अरिष्टतातये अरिष्टस्य ता-तिररिष्टतातिः । अस्य यजमानस्य हिंसाराहित्ययेत्यर्थः । १९१७ तदेवमोषधिवापार्था ऋचश्चतुर्दशाऽऽम्नाताः ।
विश्वास-प्रस्तुतिः

ओष॑धी॒रिति॑ मातरो॒ऽन्या वो॑ अ॒न्याम॑वतु ॥ 30 ॥

मूलम्

ओष॑धी॒रिति॑ मातरो॒ऽन्या वो॑ अ॒न्याम॑वतु ॥ 30 ॥

सायण-टीका

‘ओषधीरिति मातरः’ इति हविषः पुरोनुवाक्या ।

  • ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
    रपाँ॑सि विघ्न॒तीरि॑त॒ रपः॑ [24] चा॒तय॑मानाः ।
  • टीका अथ चतुर्थीमाह– ओषधीरितीति । हे मातरो मातृसमाना देवीर्देव्यः। इतिशब्दोऽत्र हेत्वर्थे वर्तते । यस्मादोषधीर्युयमोषधयस्तत्तस्माद्वो युष्मानुपब्रुवे प्रार्थये । ओषो दाहः फल-पाको धीयते स्थाप्यते यासु ता ओषधयः । अतो युष्मान्प्रति प्रार्थनमुचितमित्यर्थः । कथं प्रार्थनमिति तदुच्यते-रपांसि विघ्नतीः पापानि विनाशयन्त्यो रपश्चातयमानाः पापफलं दुःखमपि विनाशयन्त्य इत प्राप्नुत।

‘अन्या वो अन्यामवतु’ इति याज्या ।

  • अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
    तास्सर्वा॒ ओष॑धयस्सव्ँविदा॒ना इ॒दम्मे॒ प्राव॑ता॒ वचः॑ ।

    • टीका अथ नवमीमाह— अन्या व इति । हे ओषधयो वो युष्माकं मध्येऽन्या काचिदोषधिव्यक्तिर-न्यामितरामोषधिव्यक्तिमवतु रक्षतु । तथा रक्षिता साऽन्याऽप्यन्यस्या रक्षिकाया उपावत समीपमागत्य तामप्यवतु । संभूयकारित्वात्परल्पररक्षकत्वमुचितम् । तथाविधाः सर्वा हे ओषधयः संविदानाः परस्परमैकमत्यं गता इदं मे मदीयं वचो वाक्यं प्रार्थनारूपं प्रावत प्रकर्षेण रक्षत ।

एतत्सर्वं ‘या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा’ इत्यस्मिन्ननुवाके व्याख्यातम् ।

अत्र विनियोगसंग्रहः-
इन्द्रस्तरस्वानित्येतदभिमातिघ्न ऐन्द्रके ।
अनवो वज्रयुक्तैन्द्रे वशायां विष्णुमित्यदः ॥
मही द्यावापृथिव्यायां या जाता वेहतीष्यते ॥ १ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे क्लष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टकेऽष्टमप्रपाठके चतुर्थोऽनुवाकः ॥