०५ इन्द्रो वृत्रतूर्ये

सायणोक्त-विनियोगः

18अथ ‘इन्द्राय वृत्रतुरे ललामं प्राशृङ्गमालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रम॑तरद्वृत्र॒तूर्ये॑ ॥ 20 ॥
अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ ।
अन्वे॑नव्ँ॒विशो॑ अमदन्त पू॒र्वीः ।
अ॒यँ राजा॒ जग॑तश्चर्षणी॒नाम् ।

मूलम्

इन्द्रो॑ वृ॒त्रम॑तरद्वृत्र॒तूर्ये॑ ॥ 20 ॥
अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ ।
अन्वे॑नव्ँ॒विशो॑ अमदन्त पू॒र्वीः ।
अ॒यँ राजा॒ जग॑तश्चर्षणी॒नाम् ।

सायण-टीका

अयमिन्द्रो वृत्रतूर्ये वृत्रवधनिमित्ते युजे वृत्रमतरत् विनाशितवान् । स इन्द्रोऽनाधृष्यः केनापि तिरस्कर्तुमशक्यः । मघवा धनवान् । शूरो विक्रमयुक्तः । पूर्वीः पूर्वकालोना विशः प्रजा एनमिन्द्रं अन्वमदन्त बृत्रवधेनेन्द्रे हृष्टे सति प्रजा अपि हृष्टवत्यः । अयमिन्द्रः चर्षणीनां मनुष्याणां कृत्स्नस्य जगतश्च राजा भूत्वा वर्तते ॥

सायणोक्त-विनियोगः

19अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः

स ए॒व वी॒रस्स उ॑ वी॒र्या॑वान् ।
स ए॑करा॒जो जग॑तᳶ पर॒स्पाः ।
य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ ।
अथा॑भवद्दमि॒ताभिक्र॑तूनाम् ।

मूलम्

स ए॒व वी॒रस्स उ॑ वी॒र्या॑वान् ।
स ए॑करा॒जो जग॑तᳶ पर॒स्पाः ।
य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ ।
अथा॑भवद्दमि॒ताभिक्र॑तूनाम् ।

सायण-टीका

योऽयमिन्द्रः स एव वीरो युद्धेषु शूरः । स उ वीर्यवान् स एवोत्साहयुक्तः । स एकराजः कृत्स्नस्य जगत एक एव राजा । परस्पा अतिशयेन पाता । सोऽयं शूर इन्द्रो यदा वृत्रमतरत् विनाशितवान् अय अनन्तरमभिक्रतूनां अभिप्राप्तविरोधाचरणलक्षणकर्मणां दमिता दमनहेतुरभवत् ॥

सायणोक्त-विनियोगः

20अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

इन्द्रो॑ य॒ज्ञव्ँव॒र्धय॑न्वि॒श्ववे॑दाः ।
पु॒रो॒डाश॑स्य जुषताँ ह॒विर्नः॑ ।
वृ॒त्रन्ती॒र्त्वा दा॑न॒वव्ँवज्र॑बाहुः ॥ 21 ॥

मूलम्

इन्द्रो॑ य॒ज्ञव्ँव॒र्धय॑न्वि॒श्ववे॑दाः ।
पु॒रो॒डाश॑स्य जुषताँ ह॒विर्नः॑ ।
वृ॒त्रन्ती॒र्त्वा दा॑न॒वव्ँवज्र॑बाहुः ॥ 21 ॥

सायण-टीका

विश्ववेदाः सर्वज्ञोऽयमिन्द्रः यज्ञमस्मदीयं वर्धयन् नः अस्मदीयस्य पुरोडाशस्य सारांशं हविर्जुषताम् । वज्रबाहुरयं वत्राख्यं दानवं तीर्त्वा हत्वा दृंहणेन दृढीकरणसाधनेन दृंहिता दृढीकर्तुमुद्यतस्सन्दिशोऽदृंहत् वृत्रकृतोपद्रवेण प्रचलितानां सर्वदिग्वर्तिप्रजानां स्थैर्यं कृतवानित्यर्थः ॥

सायणोक्त-विनियोगः

21अथ पुरोडाशस्य याज्यामाह - स्पष्टोऽर्थः ॥

विश्वास-प्रस्तुतिः

पु॒रो॒डाश॒म्प्रति॑ गृभ्णा॒त्विन्द्रः॑ ।
य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ ।
अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् ।

मूलम्

पु॒रो॒डाश॒म्प्रति॑ गृभ्णा॒त्विन्द्रः॑ ।
य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ ।
अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् ।

सायणोक्त-विनियोगः

22अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् ।
इन्द्रो॑ दे॒वाना॑मभवत्पुरो॒गाः ।
इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः ।
वृ॒त्र॒तूर्नो॒ अभ॑यँ॒ शर्म॑ यँसत् ।

मूलम्

इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् ।
इन्द्रो॑ दे॒वाना॑मभवत्पुरो॒गाः ।
इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः ।
वृ॒त्र॒तूर्नो॒ अभ॑यँ॒ शर्म॑ यँसत् ।

सायण-टीका

शम्बरहत्ये शम्बराख्यस्यासुरस्य हत्थे वधे निष्पन्ने सति स इन्द्रो देवानावत् रक्षितवान् । स चेन्द्रो देवानां मध्ये पुरोगा मुख्योऽभवत् । इन्द्रोऽस्मितयज्ञे हविषा वावृधानोऽतिशयेन वर्धते । वृत्रतूः वृत्रघाती स इन्द्रो नोऽस्मभ्यमभयं भयरहितं शर्म सुखं यंसत् यच्छतु ॥

सायणोक्त-विनियोगः

23अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः

यस्स॒प्त सिन्धूँ॒ रद॑धात्पृथि॒व्याम् ।
यस्स॒प्त लो॒कानकृ॑णो॒द्दिश॑श्च ।
इन्द्रो॑ ह॒विष्मा॒न्त्सग॑णो म॒रुद्भिः॑ ।
वृ॒त्र॒तूर्नो॑ य॒ज्ञमि॒होप॑ यासत् ॥ 22 ॥

मूलम्

यस्स॒प्त सिन्धूँ॒ रद॑धात्पृथि॒व्याम् ।
यस्स॒प्त लो॒कानकृ॑णो॒द्दिश॑श्च ।
इन्द्रो॑ ह॒विष्मा॒न्त्सग॑णो म॒रुद्भिः॑ ।
वृ॒त्र॒तूर्नो॑ य॒ज्ञमि॒होप॑ यासत् ॥ 22 ॥

सायण-टीका

योऽयमिन्द्रः पृथिव्यां सप्त सिन्धून् समुद्रानदधात् स्थापितवान् । य इन्द्रः सप्त लोकान् भूरादीन्दिशश्चाकृष्णोत् कृतवान् । मरुद्भिर्देवैर्युक्तत्वेन सगणो गणसहित इन्द्रो हविष्मान् हविर्युक्तोऽभूत् । वृत्रतूः वृत्रघाती स इन्द्रः इह लोके नोऽस्मदीयं यज्ञमुपयासत् उपागच्छतु ।