सायणोक्त-विनियोगः
12अथ ‘इन्द्राय मरुत्वते पृश्निसक्थमालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
म॒रुत्व॑न्तव्ँ वृष॒भव्ँ वा॑वृधा॒नम् ।
अक॑वारिन्दि॒व्यँ शा॒समिन्द्र॑म् ।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय ।
उ॒ग्रँ स॑हो॒दामि॒ह तँ हु॑वेम ।
मूलम्
म॒रुत्व॑न्तव्ँ वृष॒भव्ँ वा॑वृधा॒नम् ।
अक॑वारिन्दि॒व्यँ शा॒समिन्द्र॑म् ।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय ।
उ॒ग्रँ स॑हो॒दामि॒ह तँ हु॑वेम ।
सायण-टीका
इह कर्मणि तमिन्द्रं हुवेम आह्वयामः । किमर्थं? नूतनाय अवसे अन्यैरकृतपूर्वाय रक्षणाय । कीदृशमिन्द्रं? मरुत्वन्तं मरुद्भिः संयुतम् । वृषभं कामानां वर्षितारम् । वावृधानं अतिशयेन वर्धमानम् । अकवारिं अकुत्सितारिम् । कुत्सितेनातिस्वल्पेन वैरिणा सह स्पर्धा लज्जायै भवति । दिव्यं दिवि भवम् । शासं शासितारम् । विश्वासाहं विश्वस्याभिभवितारम् । उग्रं अनभिभवनीयम् । सहोदां बलप्रदम् ॥
सायणोक्त-विनियोगः
13अथ वपाया याज्यामाह -
विश्वास-प्रस्तुतिः
जनि॑ष्ठा उ॒ग्रस्सह॑से तु॒राय॑ ॥ 18 ॥
म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
अव॑र्ध॒न्निन्द्र॑म्म॒रुत॑श्चि॒दत्र॑ ।
मा॒ता यद्वी॒रन्द॒धन॒द्धनि॑ष्ठा ।
मूलम्
जनि॑ष्ठा उ॒ग्रस्सह॑से तु॒राय॑ ॥ 18 ॥
म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
अव॑र्ध॒न्निन्द्र॑म्म॒रुत॑श्चि॒दत्र॑ ।
मा॒ता यद्वी॒रन्द॒धन॒द्धनि॑ष्ठा ।
सायण-टीका
हे इन्द्र त्वमुग्रः परैरप्रधृष्यः जनिष्ठ उत्पन्नोऽसि । किमर्थं? सहसे वैरिबलस्य तुराय हिंसार्थम् । कीदृश इन्द्रः? मन्द्रो हर्षयुक्तः । ओजिष्ठो बलवत्तरः । बहुलाभिमानः प्रभूताहंकारः । मरुतश्चित् मरुतोऽपि बलकर्मणि वृत्रवधादिके इन्द्रमवर्धन् वर्धितवन्तः । किंच धनिष्ठा अतिशयेन धनवती माता अदितिरूपा यद्वीरं यमिन्द्रं शूरं दधनत् धारितवती तमिन्द्रमवर्धन्नित्यन्वयः ॥
सायणोक्त-विनियोगः
14अथ पुरोडाशस्य पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
क्व॑स्यावो॑ मरुतस्स्व॒धाऽऽसी॑त् ।
यन्मामेकँ॑ स॒मध॑त्ताहि॒हत्ये॑ ।
अ॒हँ ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मान् ।
विश्व॑स्य॒ शत्रो॒रन॑मव्ँवध॒स्नैः ।
मूलम्
क्व॑स्यावो॑ मरुतस्स्व॒धाऽऽसी॑त् ।
यन्मामेकँ॑ स॒मध॑त्ताहि॒हत्ये॑ ।
अ॒हँ ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मान् ।
विश्व॑स्य॒ शत्रो॒रन॑मव्ँवध॒स्नैः ।
सायण-टीका
इन्द्रस्य मरुतां च परस्परसंवादोऽयम् । अहिनामकस्यामुरस्य वधे मरुत इन्द्रस्य साहाय्यमकृत्वा पलायिता अतस्तान्प्रतीन्द्रः कुपित एवं ब्रवीति - हे मरुतः यद्यस्मात्काराणादहिहत्ये अहिनामकशत्रोर्वधे मामेकमेव यूयं समधत्त संयोजितवन्तः तदानीं वो युष्माकं स्वधा साऽन्ननिमित्ता शक्तिः क्वासीत् कुत्र गता । अथवा किं मे युष्माभिः, अहं ह्युग्रः अहमेवातितीव्रः तविषः महान् तुविष्मान् बलवान् तादृशस्सन्विश्वस्य सर्वस्यापि शत्रोर्वधस्नैः वधबन्धनैः अनमं वशीकरणे शक्तोऽस्मि ॥
सायणोक्त-विनियोगः
15अथ पुरोडाशस्य याज्यामाह -
विश्वास-प्रस्तुतिः
वृ॒त्रस्य॑ त्वा श्व॒सथा॒ दीष॑माणाः ।
विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।
म॒रुद्भि॑रिन्द्र स॒ख्यन्ते॑ अस्तु ॥ 19 ॥
अथे॒मा विश्वा॒ᳶ पृत॑ना जयासि ।
मूलम्
वृ॒त्रस्य॑ त्वा श्व॒सथा॒ दीष॑माणाः ।
विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।
म॒रुद्भि॑रिन्द्र स॒ख्यन्ते॑ अस्तु ॥ 19 ॥
अथे॒मा विश्वा॒ᳶ पृत॑ना जयासि ।
सायण-टीका
पुरा वृत्रवधार्थमिन्द्रः सर्वेषां देवानां सहायमपेक्षमाणस्तैस्सह युद्धार्थमागतः । तदा सर्वे देवा वृत्रस्य श्वासमात्रेण निराकृताः सन्तो गताः । मरुतस्तु पलायनमकृत्वेन्द्रस्य सख्यमाचरन् । सोऽयं वृत्तान्तो बह्वृचब्राह्मणस्थोऽस्मिन्मन्त्रे सूच्यते । तमेतमर्थमिन्द्रं संबोध्य होता कथयति । हे इन्द्र विश्वे सर्वे देवा वृत्रस्य श्वसथात् तदुच्छ्वासादीषमाणाः पलायमानास्सन्तस्त्वामजहुः परित्यक्तवन्तः । ये तु सखायो मरुतो न पलायन्ते तैर्मरुद्भिः सख्यं तवास्तु । अथानन्तरमिमा विश्वाः सर्वाः पृतनाः सेना जयसि जेष्यसि ॥
सायणोक्त-विनियोगः
16अथ हविषः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
वधीव्ँ॑ वृ॒त्रम्म॑रुत इन्द्रि॒येण॑ ।
स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् ।
अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः ।
सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ।
मूलम्
वधीव्ँ॑ वृ॒त्रम्म॑रुत इन्द्रि॒येण॑ ।
स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् ।
अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः ।
सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ।
सायण-टीका
हे मरुतः इन्द्रोऽहं स्वेनेन्द्रियेण हस्तेन स्वेन भामेन स्वकीयेन कोपेन वृत्रं वधीं अवधिषम् । अतः तविषो बभूवान् महानभवम् । इन्द्रो महानित्येवं लोके कीर्तिर्जातेत्यर्थः । अहमिन्द्रो वज्रबाहुस्सन् विश्वश्चन्द्राः सर्वस्य जगत आह्लादकराः सुगाः सुखेन गन्तुं प्राप्तुं शक्या एता दृश्यमाना वृष्टिलक्षणा अपो मनवे मनुष्यार्थं चकर कृतवानस्मि । सर्वस्य लोकस्यानिष्ठनिवारणाय वृत्रं हत्वेष्टप्राप्तये वृष्टिमुत्पादितवानस्मीत्यर्थः ॥
सायणोक्त-विनियोगः
17अथ हविषो याज्यामाह -
विश्वास-प्रस्तुतिः
स यो वृषा॒ वृष्णि॑येभि॒स्समो॑काः ।
म॒हो दि॒वᳶ पृ॑थि॒व्याश्च॑ स॒म्राट् ।
स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु ।
म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ।
मूलम्
स यो वृषा॒ वृष्णि॑येभि॒स्समो॑काः ।
म॒हो दि॒वᳶ पृ॑थि॒व्याश्च॑ स॒म्राट् ।
स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु ।
म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ।
सायण-टीका
य इन्द्रो वृषत्वादिगुणकः स इन्द्रो नोऽस्मान्प्रति मरुत्वान् मरुद्भिर्युक्त ऊती रक्षणहेतुर्भवतु । के ते गुणा इति तेऽभिधीयन्ते - वृषा कामानां वर्षयिता । वृष्णियशब्दो बलनामसु पठितः । वृष्णियैर्बलैः समोकाः संयुक्तः । महो महत्या दिवः पृथिव्याश्च सम्राट् स्वामी सन् सम्यग्राजमानः । सतीनशब्दो जलनामसु पठितः । सतीनसत्त्वा वृष्ट्यात्मकजलप्रदः । भ्रियन्ते संपाद्यन्ते हवींषि येषु यागेष्विति भरा यागाः तेषु हव्यः आह्वानार्हः ॥