सायणोक्त-विनियोगः
8अथ ‘इन्द्राय मन्युमते मनस्वते ललाम प्राशृङ्गमालभेत’ इत्यस्य पशोः सूक्ते प्रतीकत्रयं दर्शयति - ‘आ ते मह इन्द्र’ इति वपायाः पुरोनुवाक्या । ‘यो जात एव प्रथमो मनस्वान्’ इति याज्या । एतच्चोभयमन्वहमासा इत्यत्र व्याख्यातम् ।
मूलम् (संयुक्तम्)
आ ते॑ म॒हो, यो जा॒त ए॒व ।
सायणोक्त-विनियोगः
‘अभि गोत्राणि सहसा गाहमानः’ इहि पुरोडाशस्य पुरोनुवाक्या । सा च ‘आशुः शिशानः’ इत्यत्र व्याख्याता ॥
मूलम् (संयुक्तम्)
अ॒भि गो॒त्राणि॑ ।
सायणोक्त-विनियोगः
9अथ पुरोडाशस्य याज्यामाह -
विश्वास-प्रस्तुतिः
आभि॒स्स्पृधो॑ मिथ॒तीररि॑षण्यन् ।
अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र ।
आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः ।
आर्या॑य॒ विशोव॑तारी॒र्दासीः॑ ।
मूलम्
आभि॒स्स्पृधो॑ मिथ॒तीररि॑षण्यन् ।
अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र ।
आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः ।
आर्या॑य॒ विशोव॑तारी॒र्दासीः॑ ।
सायण-टीका
हे इन्द्र, अमित्रस्य अस्मद्वैरिणः मन्युं क्रोधं व्यथय व्यथितं निष्फलं कुरु । अस्मासु क्रुद्धः शत्रुर्यदाऽस्मान् हन्तुं न क्षमते तदा तदीयः क्रोधो निष्कलो भवेत्तथा त्वं कुर्वित्यर्थः । किं कुर्वन्? स्पृधः शत्रूणां स्पर्धमाना अस्मदीयाः सेना मिथतीः त्वां प्रत्यभयं याचमाना आभिरस्मदीयाभिः स्तुतिभिः अरिषण्यन् अहिंसिताः कुर्वन् । अस्मदीयस्तुतिभिस्तुष्टस्त्वमस्मदीयाः सेना यथा न हिंसिता भवन्ति तथा कुर्वित्यर्थः । किंच विश्वा परकीयाः सर्वाः सेना अभियुजः अस्मद्वधमभिलक्ष्य प्रयुज्यमाना विषूचीः नानागतीर्दासीरुपक्षयं प्राप्ता विशः सर्वाः प्रजा अभितुष्टस्सन्नवतारीः विनाशय । यथा अस्मदयिस्तुत्या तुष्टं त्वां प्रत्यभयं याचमानानामस्मत्सेनानां न हिंसां कृतवानसि तथैवास्मदीयस्तुत्या तुष्टस्सन्परकीयसेनां विनाशयेत्यर्थः ॥
सायणोक्त-विनियोगः
10अथ हविषः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः
अ॒यँ शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन् ।
अ॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।
य॒दा स॒त्यङ्कृ॑णु॒ते म॒न्युमिन्द्रः॑ ॥ 17 ॥
विश्व॑न्दृ॒ढम्भ॑यत॒ एज॑दस्मात् ।
मूलम्
अ॒यँ शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन् ।
अ॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।
य॒दा स॒त्यङ्कृ॑णु॒ते म॒न्युमिन्द्रः॑ ॥ 17 ॥
विश्व॑न्दृ॒ढम्भ॑यत॒ एज॑दस्मात् ।
सायण-टीका
अयमिन्द्वः अध कदाचिज्जयन्वर्तते, उत अथवा घ्नन् वर्तत इत्यहं शृण्वे । अयमर्थः - यदा यदेन्द्रस्य वार्तां शृणोमि तदा तदा जयतीति वा वैरिणं हन्तीति वा शृणोमि । उत अपिच अयमिन्द्रः युधा युद्धेन गाः परकीयाः प्रकृणुते प्रकर्षेण स्वाधीनाः करोति । किंच यदाऽयमिन्द्रः स्वकीयं मन्युं सत्यमवश्यंभाविनं कृणुते करोति तदानीं दृढं क्वचिदेवावस्थितं स्थावरं एजत् कम्पमानं जङ्गमं च विश्वं सर्वं जगदस्मादिन्द्रात् भयते बिभेति । अयमर्थः - परिहासार्थो यः कोपस्तमन्तरेण यदा हृदयपूर्वकं कोपं करोति तदा सर्वं जगद्विभेतीति ।
सायणोक्त-विनियोगः
11अथ हविषो याज्यामाह -
विश्वास-प्रस्तुतिः
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अस्य ।
अव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् ।
स॒ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन ।
हन्म॑नाहन्न॒भिद्यून् ।
मूलम्
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अस्य ।
अव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् ।
स॒ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन ।
हन्म॑नाहन्न॒भिद्यून् ।
सायण-टीका
अस्येन्द्रस्य स्वधां हविर्लक्षणमनु आपः वृष्टिलक्षणा अक्षरन् स्रवन्ति । नाव्यानां नावा तरणीयानां नदीनां मध्य आऽवर्धत जलं सर्वतोऽभिवृद्धमभूत् । अयमिन्द्रः ओजिष्ठेनात्यन्तबलयुक्तेन सध्रीचीनेन सह वर्तमानेन मनसा युक्तस्तं प्रसिद्धं मेघमभिद्यून् प्रतिदिनं हन्मना हननसाधनेन स्वायुधेन वज्रेण अहन् ताडयति । अयमर्थः - यदाऽयं स्वेच्छया मेधं भिनत्ति तदा वृष्ट्या नदीपूरणक्षमं जलं वर्धत इति ॥