विश्वास-प्रस्तुतिः
ते शु॒क्रास॒श्शुच॑यो रश्मि॒वन्तः॑ ।
सीद॑न्नादि॒त्या अधि॑ ब॒र्हिषि॑ प्रि॒ये ।
कामे॑न दे॒वास्स॒रथ॑न्दि॒वो नः॑ ।
आ या॑न्तु य॒ज्ञमुप॑ नो जुषा॒णाः ।
मूलम्
ते शु॒क्रास॒श्शुच॑यो रश्मि॒वन्तः॑ ।
सीद॑न्नादि॒त्या अधि॑ ब॒र्हिषि॑ प्रि॒ये ।
कामे॑न दे॒वास्स॒रथ॑न्दि॒वो नः॑ ।
आ या॑न्तु य॒ज्ञमुप॑ नो जुषा॒णाः ।
सायण-टीका
(SB) 1प्रथमानुवाके वायव्यादीनां पशूनां सूक्तान्यभिहितानि । द्वितीये वशादीनां पशूनां सूक्तान्युच्यन्ते । तत्र ‘स एतामविं वशामादित्येभ्यः कामायालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - ते प्रसिद्धा आदित्याः प्रिये बर्हिषि अस्मदीये यागे अधिसीदन् अधिष्ठाय सीदन्तु । कीदृशा आदित्याः? शुक्रासः कान्तियुक्ताः । शुचयः शुद्धिहेतवः । रश्मिवन्तः रश्मिभिरनेकैर्युक्ताः । कामेनाभिलषितार्थप्रदेन देवेन सहिता आदित्या देवाः सरथं रथसहितं यथा भवति तथा दिवस्सकाशान्नोऽस्मान्प्रत्यायान्तु । ततो नोऽस्मदीयं यज्ञमुपेत्य जुषाणाः प्रीतिपूर्वकं सेवमानास्तिष्ठन्तु ॥
विश्वास-प्रस्तुतिः
ते सू॒नवो॒ अदि॑तेᳶ पीव॒सामिष॑म् ।
घृ॒तम्पिन्व॒त्प्रति॑हर्यन्नृते॒जाः ।
प्र य॒ज्ञिया॒ यज॑मानाय येमुरे ।
आ॒दि॒त्याᳵ काम॑म्पितु॒मन्त॑म॒स्मे ।
मूलम्
ते सू॒नवो॒ अदि॑तेᳶ पीव॒सामिष॑म् ।
घृ॒तम्पिन्व॒त्प्रति॑हर्यन्नृते॒जाः ।
प्र य॒ज्ञिया॒ यज॑मानाय येमुरे ।
आ॒दि॒त्याᳵ काम॑म्पितु॒मन्त॑म॒स्मे ।
सायण-टीका
2अथ वपाया यज्यायामाह - ते प्रसिद्धा अदितेरदितिदेवतायाः सूनवः पुत्राः ऋतेजाः यज्ञनिमित्तमुत्पन्नास्सन्तः पीवसां पीवराणामतिस्तूलानां हविषां मध्ये इषं इष्यमाणमस्मदीयपुरोडाशरूपमन्नं पिन्वद्घृतं प्रीतिसाधनमाज्यं च प्रतिहर्यन् प्रत्येकं कामयन्ताम् । यज्ञिया यज्ञयोग्या आदित्या अस्मे मह्यं यजमानाय पितुमन्तं अन्नवन्तं काममभिलषितार्थं प्रयेसुरे दत्तवन्तः ॥
विश्वास-प्रस्तुतिः
आ न॑ᳶ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् ।
आ॒दि॒त्यास॑ᳶ प॒थिभि॑र्देव॒यानैः॑ ॥7 ॥
अ॒स्मे काम॑न्दा॒शुषे॑ स॒न्नम॑न्तः ।
पु॒रो॒डाश॑ङ्घृ॒तव॑न्तञ्जुषन्ताम् ।
मूलम्
आ न॑ᳶ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् ।
आ॒दि॒त्यास॑ᳶ प॒थिभि॑र्देव॒यानैः॑ ॥7 ॥
अ॒स्मे काम॑न्दा॒शुषे॑ स॒न्नम॑न्तः ।
पु॒रो॒डाश॑ङ्घृ॒तव॑न्तञ्जुषन्ताम् ।
सायण-टीका
3अथ पुरोडाशस्य पुरोतुवाक्यामाह - अदितेः पुत्रा आदित्यास आदित्यनामका देवा देवयानैः पथिभिः देवानां योग्यैर्मार्गैः नोऽस्मदीयं यज्ञं प्रत्यायान्तु । आगत्य च दाशुषे हविर्दत्तवतेऽस्मे मह्यं यजमानाय काममाभिलषितार्थं सन्नमन्तः प्रापयन्तो घृतवन्तं बहुघृतयुक्तं पुरोडाशं जुषन्ताम् ॥
विश्वास-प्रस्तुतिः
स्क॒भा॒यत॒ निर्ऋ॑तिँ॒ सेध॒ताम॑तिम् ।
प्र र॒श्मिभि॒र्यत॑माना अमृध्राः ।
आदि॑त्या॒ᳵ काम॒ प्रय॑ताव्ँ॒वष॑ट्कृतिम् ।
जु॒षध्व॑न्नो ह॒व्यदा॑तिय्ँयजत्राः ।
मूलम्
स्क॒भा॒यत॒ निर्ऋ॑तिँ॒ सेध॒ताम॑तिम् ।
प्र र॒श्मिभि॒र्यत॑माना अमृध्राः ।
आदि॑त्या॒ᳵ काम॒ प्रय॑ताव्ँ॒वष॑ट्कृतिम् ।
जु॒षध्व॑न्नो ह॒व्यदा॑तिय्ँयजत्राः ।
सायण-टीका
4अथ पुरोडाशस्य याज्यामाह - हे आदित्याः हे काम यूयं सर्वे निर्ऋतिं राक्षसजातिं बाधिकां देवतानां स्कभायत स्तब्धां कुरुत । अस्मद्बाधसामर्थ्यरहितां कुरुतेत्यर्थः । अमतिमस्मदीयं बुद्धिमान्द्यं सेवत प्रतिषेध्यत निवारयतेत्यर्थः । कीदृशा आदित्याः? रश्मिभिः स्वकीयैः प्रयतमाना अन्धकारनिवारणार्थमुद्योगं कुर्वन्तः, अमृध्राः अमृदवोऽनिष्टनिवारणे तीक्ष्णा इत्यर्थः । तादृशा यूयं प्रयतां परिशुद्धां हव्यदातिं हविर्दानकारणभूतां नो वषट्कृ- तिमस्माभिः प्रयुक्तं वषट्कारं जुषध्वम् । कीदृशा यूयं? यजत्रा यज्ञयोग्याः ।
विश्वास-प्रस्तुतिः
आ॒दि॒त्यान्काम॒मव॑से हुवेम ।
ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः ।
सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थ॑म् ।
स्ती॒र्णम्ब॒र्हिर्ह॑वि॒रद्या॑य दे॒वाः ॥ 8 ॥
मूलम्
आ॒दि॒त्यान्काम॒मव॑से हुवेम ।
ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः ।
सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थ॑म् ।
स्ती॒र्णम्ब॒र्हिर्ह॑वि॒रद्या॑य दे॒वाः ॥ 8 ॥
सायण-टीका
5अथ हविषः पुरोनुवाक्यामाह - ये पूर्वोक्ता आदित्या देवाः यश्च कामदेवस्तान्सर्वान् अवसेऽस्मद्रक्षार्थं हुवेम इह कर्मण्याह्वायामः । ये देवा भूतानि जनयन्तः प्राणिजतान्युत्पादयन्तो विचिख्युः विशेषेण ख्यातिं गताः । ते देवा अदितेः पुत्रा हविरद्याय हविर्भक्षणायोपस्थं समीपे स्थातुं योग्यं स्तीर्णं वेद्यां प्रसारितं बर्हिः सीदन्तु प्राप्नुवन्तु ॥
विश्वास-प्रस्तुतिः
स्ती॒र्णम्ब॒र्हिस्सी॑दता य॒ज्ञे अ॒स्मिन् ।
ध्रा॒जास्सेध॑न्तो॒ अम॑तिन्दु॒रेवा॑म् ।
अ॒स्मभ्य॑म्पुत्रा अदिते॒ᳶ प्र यँ॑सत ।
आदि॑त्या॒ᳵ काम॑ ह॒विषो॑ जुषा॒णाः ।
मूलम्
स्ती॒र्णम्ब॒र्हिस्सी॑दता य॒ज्ञे अ॒स्मिन् ।
ध्रा॒जास्सेध॑न्तो॒ अम॑तिन्दु॒रेवा॑म् ।
अ॒स्मभ्य॑म्पुत्रा अदिते॒ᳶ प्र यँ॑सत ।
आदि॑त्या॒ᳵ काम॑ ह॒विषो॑ जुषा॒णाः ।
सायण-टीका
6अथ हविषो याज्यामाह - हे आदित्याः हे काम अस्मिन्यज्ञे स्तीर्णं वेद्यामास्तीर्णं बर्हिः सीदत प्राप्नुत । कीदृशाः? ध्राजाः गतिमन्तः अमतिमस्मदीयं बुद्धिमान्द्यं दुरेवां दुर्गतिं च सेधन्तः प्रतिषेधन्तस्तादृशा अदितेः पुत्रा यूयं हविषो जुषाणाः अस्मदीयं हविः सेवमानाः अस्मभ्यं प्रयंसत अभीष्टं प्रयच्छत ।
विश्वास-प्रस्तुतिः
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् ।
विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ ।
भूयि॑ष्ठान्ते॒ नम॑ उक्तिव्ँ विधेम ।
मूलम्
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् ।
विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ ।
भूयि॑ष्ठान्ते॒ नम॑ उक्तिव्ँ विधेम ।
सायण-टीका
7अथ यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतामह्ना आलभेत । आग्नेयीं कृष्णग्रीवीँसँहितामैन्द्रीँश्वेतां बार्हस्पत्याम्’ इत्यत्राग्नेय्याः सूक्ते वपायाः पुरोनुवाक्यामाह - हेऽग्ने देव त्वं विश्वानि वयुनानि सर्वान्मार्गान्विद्वान् जानन्वर्तसे । अतोऽस्मात् राये धनप्राप्तये सुपथा नय शोभनेन कर्मानुष्ठानमार्गेण प्रापय । जुहुराणं कुटिलं प्रतिबन्धकमेनः पापमस्मत् युयोधि अस्मत्तः पृथक्कुरु । ते तुभ्यं भूयिष्ठामतिबहुलां नमउकिं नमस्कारयुक्तां वाचं विधेम कुर्याम् ॥
विश्वास-प्रस्तुतिः
प्र व॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वम् ।
ह॒व्यम्म॒तिञ्चा॒ग्नये॒ सुपू॑तम् ॥ 9 ॥
यो दैव्या॑नि॒ मानु॑षा ज॒नूँषि॑ ।
अ॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ।
मूलम्
प्र व॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वम् ।
ह॒व्यम्म॒तिञ्चा॒ग्नये॒ सुपू॑तम् ॥ 9 ॥
यो दैव्या॑नि॒ मानु॑षा ज॒नूँषि॑ ।
अ॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ।
सायण-टीका
8अथ वपाया याज्यामाह - हे ऋत्विजः वो युष्माकमभीष्टसिद्ध्यर्थं शुक्राय निर्मलाय भानवे रश्मियुक्तायाग्नये सुपूतं सुष्ठु पूतं शुद्धमिदं हव्यं मतिं चाग्निध्यानार्थं प्रकर्षेण भरध्वं संपादयत । योऽग्रिर्दैव्यानि देवविषयाणि मानुषा मनुष्यविषयाणि जनूंषि जन्मानि विद्मना वेदनेन जिगाति प्राप्नोति । अभिज्ञस्सन्देवान्मनुष्यांश्च जनयतीत्यर्थः । पुनरप्यन्तर्देवानां मनुष्याणां च मध्ये यान्यवान्तरजन्मानि यक्षगन्धर्वादीनि ब्राह्मणक्षत्रादीनि च तानि विश्वानि सर्वाणि जिगाति । तस्मा अग्नय इति पूर्वत्रान्वयः ।
विश्वास-प्रस्तुतिः
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः॑ ।
अ॒ग्निय्ँय॑न्ति॒ द्रवि॑ण॒म्भिक्ष॑माणाः ।
सु॒स॒न्दृशँ॑ सु॒प्रती॑कँ॒ स्वञ्च॑म् ।
ह॒व्य॒वाह॑मर॒तिम्मानु॑षाणाम् ।
मूलम्
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः॑ ।
अ॒ग्निय्ँय॑न्ति॒ द्रवि॑ण॒म्भिक्ष॑माणाः ।
सु॒स॒न्दृशँ॑ सु॒प्रती॑कँ॒ स्वञ्च॑म् ।
ह॒व्य॒वाह॑मर॒तिम्मानु॑षाणाम् ।
सायण-टीका
9अथ पुरोडाशस्य पुरोनुवाक्यामाह - गिरः अस्मदीयाः स्तुतिरूपा वाचः मतयो ध्यानरूपा बुद्धयश्च देवयन्तीः देवानिच्छन्त्यो द्रविणं भिक्षमाणा धनं याचमाना अग्निमच्छ अग्निमभिमुखीकृत्य यन्ति प्रवर्तन्ते । कीदृशमग्निं? सुसंदृशं अत्यन्तं सुखेन द्रष्टुं शक्यम् । सुप्रतीकं शोभनावयवोपेतम् । स्वञ्चं शोभनगतिम् । मानुषाणां यजमानानां हव्यवाहं हविषो वोढारं मानुषैर्यद्धविर्दीयते तद्देवान्प्रति वहतीत्यर्थः । रतिरुपरमस्तद्रहितमरतिं, निरन्तरं वहतीत्यर्थः ।
विश्वास-प्रस्तुतिः
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वाः ।
अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः ।
पुन॑र॒स्मभ्यँ॑ सुवि॒ताय॑ देव ।
क्षाव्ँ विश्वे॑भिर॒जरे॑भिर्यजत्र ॥ 10 ॥
मूलम्
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वाः ।
अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः ।
पुन॑र॒स्मभ्यँ॑ सुवि॒ताय॑ देव ।
क्षाव्ँ विश्वे॑भिर॒जरे॑भिर्यजत्र ॥ 10 ॥
सायण-टीका
10अथ पुरोडाशस्य याज्यामाह - हेऽग्ने त्वं अमीवाः रोगजातीः अस्मत् युयोधि अस्मत्तो वियोजय । या रोगजातयोऽनग्नित्राः उदराग्नित्राणरहिता मन्दाग्निहेतव इत्यर्थः । तादृश्यो भूत्वा कृष्टीः मनुष्यान् अभ्यमन्त अभितो बाधितवत्यः तादृशीर्युयोधीति पूर्वत्रान्वयः। हे यजत्र यजनीय देव अजरेभिः जरानिवर्तकैः विश्वेभिः सर्वैरौषधैः क्षां क्षयव्याधिं पुनरस्मभ्यं युयोधि अस्मत्तो वियोजय । किमर्थं? सुविताय शोभनगमनाय नीरोगत्वेन जीवनायेत्यर्थः ।
विश्वास-प्रस्तुतिः
अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान् ।
स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी ।
भवा॑ तो॒काय॒ तन॑याय॒ शय्ँ योः ।
मूलम्
अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान् ।
स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी ।
भवा॑ तो॒काय॒ तन॑याय॒ शय्ँ योः ।
सायण-टीका
11अथ हविषः पुरोनुवाक्यामाह - हेऽग्ने त्वं विश्वानि दुर्गाण्यति सर्वानुपद्रवानतिक्रम्य स्वस्तिभिः श्रेयोविशेषैः फलैर्युक्तस्सन्नस्मान् पारय कर्मणः समाप्तिं प्रापय । कीदृशस्त्वं? नव्यः सर्वदनूतनो जरामरणरहित इत्यर्थः । नोऽस्माकं पूश्च निवासार्थं पुरी पृथ्वी विस्तृता भवतु । उर्वी सस्यनिष्पत्त्यर्था भूमिश्च बहुलाऽत्यधिका भवतु । त्वं च तोकाय पुत्राय तनयाय तत्पुत्राय च शं सुखहेतुः योः दुःखवियोरगहेतुश्च भव ।
विश्वास-प्रस्तुतिः
प्रका॑रवो मन॒ना व॒च्यमा॑नाः ।
दे॒व॒द्रीची॑न्नयथ देव॒यन्तः॑ ।
द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ।
ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची॑ ।
मूलम्
प्रका॑रवो मन॒ना व॒च्यमा॑नाः ।
दे॒व॒द्रीची॑न्नयथ देव॒यन्तः॑ ।
द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ।
ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची॑ ।
सायण-टीका
12अथ हविषो याज्यामाह - हे कारवः कर्मकर्तारः ऋत्विजः यूयं वाच्यमानाः मन्त्रपाठरूपं वचनं प्राप्नुवन्तः देवयन्तः देवानिच्छन्तः मनना मननीयामिमां यागक्रियां देवद्रीचीं नयथ देवान्प्रति यथा गच्छति तथा प्रापयत । सा च यज्ञक्रिया दक्षिणां वहतीति दक्षिणावाट् । वाजोऽन्नमस्या अस्तीति वाजिनी । प्रकृष्टं फलमञ्चति गच्छतीति प्राची । घृतमञ्चति प्राप्नोतीति घृताची । अग्नये हविर्भरन्ती सती एति प्रवर्तते ।
विश्वास-प्रस्तुतिः
इन्द्र॒न्नरो॑ यु॒जे रथ॑म् ।
मूलम्
इन्द्र॒न्नरो॑ यु॒जे रथ॑म् ।
सायण-टीका
13अथ ‘सँहितामैन्द्रीम्’ इत्यस्य पशोः सूक्ते वपाया याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘इन्द्रं नरो नेमधिता’ इति पुरोनुवाक्या । सा च ‘इन्द्रं वो विश्वतस्परि’ इत्यत्र व्याख्याता ।
-
[ मन्त्रः इन्द्र॒न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥ -
तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इह तु प्रतीकग्रहणम् । नरो मनुष्याः इन्द्रं हवन्ते आह्वयन्ति कीदृशं ? नेमधिता अर्धेन धार्यमाणं ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति । कदा ? यदा पार्याः दुःखपारप्राप्तिहेतुभूताः धियः कर्माणि प्रज्ञा वा युनजते तदा इन्द्रमाह्वयन्ति । स त्वं शूरो नृषाता नृभिस्सम्भजनीयः शवसः बलाद्धेतोः चकानस्तृप्तिशीलः ईदृशस्त्वमस्मान् गोमति व्रजे गोष्ठे आभज स्थापयेति ॥]
-
[ तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति । कीदृशम् ? नेमधिता, नेम इत्यर्धस्य नाम । ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः । निष्ठायां ‘सुधितवसुधितनेमधित’ इति धिभावो निपात्यते, ‘सुपां सुलुक्’ इति द्वितीयैकवचनस्याकारः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । कदा पुनरसौ नेमेन धार्यत इत्याह - यद्यदा । तेनैव सप्तम्या लुक् । पार्याः परलोके साधवः । छान्दसो ञ्यः । यद्वा - दुःखानां पारं समाप्तिः । तत्र सध्वीर्धियः कर्माणि ता यदर्थमिन्द्रमाह्वयन्ति । ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति । ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वेन श्नमो ङित्त्वाभावात्, ‘श्नसोरल्लोपः’ इति न प्रवर्तते । अथेन्द्रः प्रत्यक्षमुच्यते - शूरः वीरः । नृषाता नृभिर्मनुष्यैः साता सातः सम्भक्तः आश्रितः नृषातः । पूर्ववदाकारः, ‘जनसनखनां सञ्झलोः’ इत्यात्वं, पूर्ववत्पूर्वपदप्रकृतिस्वरत्वं, सुषामादित्वात्षत्वम् । यद्वा - नरो मनुष्याः सनितारस्सम्भक्तारः दातारो वा यस्य नृषाता । छान्दसमात्वं, ‘ऋतश्छन्दसि’ इति कबभावः । शवसो बलस्य नेतारो यस्य दातारो यजमाना[यजना]धीनबलत्वात् । यद्वा - शवसो बलस्य नृभ्यो दाता । छान्दसमात्वम्, पूर्वपदप्रकृतिस्वरत्वं च । चकानस्तृप्तिशीलः । चक तृप्तौ, भौवादिकः उदात्तेत्, ताच्छीलिकश्चानश्, ‘बहुलं छन्दसि’ इति शपो लुक् । ईदृशस्त्वं नोस्मान् गोमति व्रजे गोजाविमनुष्यादिमति सङ्घाते । यद्वा - व्रजे गोष्ठे भूयिष्ठगोभिर्युक्ते आभन आभिमुख्येनास्मान्योजय पशुमन्तं मां कुरु । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् ॥
-
4तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता, प्रतीकग्रहणमिदम् । नरो मनुष्याः इन्द्रमेव नेमधिता सर्वेषां हविषामर्धेन धार्यं भवते आह्वयामि । कदा ? यदा पार्याः परलाकोय हिताः परप्राप्तेर्वा साध्वीर्वा धियः कर्माणि ताः इन्द्रमेवापेक्षमाणा युनजते युञ्जते । तस्मात्स त्वं शूरो नृषाता नृभिस्सम्भक्ता शवसः बलस्य नृभ्यो दाता वा । इत्थंभूतः चकानः तृप्तिशीलः गोमति व्रजे अस्मानाभज यज्ञविभ्रेषदोषापननेन गोमतोस्मान् कुर्विति ॥]
‘युजे रथं गवेषणम्’ इति याज्या । सा च ‘जुष्टो दमूनाः’ इत्यत्र व्याख्याता ।
-
मन्त्रः यु॒जे रथ॑ङ्ग॒वेष॑णँ॒ हरि॑भ्याम् ।
उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा ।
इन्द्रो॑ वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् ॥3॥- टीका 8युजे रथमिति त्रिष्टुप् ॥ युजे युङ्क्ते । ‘बहुलं छन्दसि’ इति शपो लुक् । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । गवेषणं गोरुदकस्येषणं प्राप्तिहेतुं ‘अवङ् स्फोटायनस्य’ इत्यवङ् । वृष्टिहेतुं रथं हरिभ्यां अश्वाभ्यां युक्तं इन्द्रः । कदेत्याह - ब्रह्माणि परिबृढानि हवींषि जुजुषाणं प्रियमाणं उपास्थुः उपतिष्ठन्ते । जुषेः लिटि कानच् । तदानीं रथं युङ्क्ते । अनन्तरं च वृत्राणि अमित्रादीनि अप्रति प्रतीकाररहितं जघन्वान् क्वसौ ‘अभ्यासाच्च’ इति कुत्वम् । ईदृशोऽयमिन्द्रः अस्य यजमानस्य क्रतोः रोदसी रोदस्योः द्यावापृथिव्योरपि स्थितान् अमित्रान् विबाधिष्ट विविधं बाधते । ‘बहुलं छन्दस्यमाङ्योगेऽपि, इत्यङभावः । महित्वा माहात्म्येन, भावप्रत्ययान्तात्तृतीयाया आकारः ॥
विश्वास-प्रस्तुतिः
ज॒गृ॒भ्णाते॒ दक्षि॑णमिन्द्र॒ हस्त॑म् ॥ 11 ॥
व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् ।
वि॒द्मा हि त्वा॒ गोप॑तिँ शूर॒ गोना॑म् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँ वृष॑णँ र॒यिन्दाः॑ ।
मूलम्
ज॒गृ॒भ्णाते॒ दक्षि॑णमिन्द्र॒ हस्त॑म् ॥ 11 ॥
व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् ।
वि॒द्मा हि त्वा॒ गोप॑तिँ शूर॒ गोना॑म् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँ वृष॑णँ र॒यिन्दाः॑ ।
सायण-टीका
14अथ पुरोडाशस्य पुरोनुवाक्यामाह - हे इन्द्र ते त्वदीयं दक्षिणहस्तं जगृभ्णा वयं गृहीतवन्तः हस्तं धृत्वा प्रार्थयाम इत्यर्थः । कीदृशा वयं? वसूयवो धनेच्छावन्तः । वसूनां वसुपत इत्येतदिन्द्रस्य विशेषणम् । यानि वसूनि धनानि हिरण्यानि सन्ति तेषां मध्ये यानि श्रेष्ठानि मणिमुक्तादीनि तत्स्वामिन्नित्यर्थः । हे शूर शत्रूणामभिभवितः त्वां गोनां गवां मध्ये गोपतिं प्रशस्तगोस्वामिनं हि यस्माद्वयं विद्म तस्मादस्मभ्यं चित्रं नानाविधं वृषणं कामाभिवर्षणक्षमं रयिं दाः धनं देहि ।
विश्वास-प्रस्तुतिः
तवे॒दव्ँ विश्व॑म॒भित॑ᳶ पश॒व्य॑म् ।
यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र ।
भ॒क्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ।
मूलम्
तवे॒दव्ँ विश्व॑म॒भित॑ᳶ पश॒व्य॑म् ।
यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र ।
भ॒क्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ।
सायण-टीका
15अथ पुरोडाशस्य याज्यामाह - हे इन्द्र सूर्यस्य चक्षसा प्रकाशेन यद्विश्वं पश्यसि, तदिदं विश्वमभितः सर्वतः पशव्यं पशुयुक्तं तवाधीनमिति शेषः । त्वमेक एव गवां मध्ये गोपतिरसि प्रशस्तगोस्वामी भवसि । प्रयतस्य प्रयतमानस्य ते तव वस्वः वसूनि धनानि भक्षीमहि अनुभूयास्म ।
विश्वास-प्रस्तुतिः
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ ।
सँ सू॒रिभि॑र्मघव॒न्त्सँ स्व॒स्त्या ।
सम्ब्रह्म॑णा दे॒वकृ॑तय्ँ॒यदस्ति॑ ॥ 12 ॥
सन्दे॒वानाँ॑ सुम॒त्या य॒ज्ञिया॑नाम् ।
मूलम्
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ ।
सँ सू॒रिभि॑र्मघव॒न्त्सँ स्व॒स्त्या ।
सम्ब्रह्म॑णा दे॒वकृ॑तय्ँ॒यदस्ति॑ ॥ 12 ॥
सन्दे॒वानाँ॑ सुम॒त्या य॒ज्ञिया॑नाम् ।
सायण-टीका
16अथ हविषः पुरोनुवाक्यामाह - हे इन्द्र त्वं मनसा स्मरणमात्रेण नोऽस्मान् गोभिः संनेषि संयोजय । हे मघवन् सूरिभिर्विद्वद्भिः पुत्रैः संयोजय । स्वस्त्या क्षेमेण संयोजय । देवकृतं देवार्थं निष्पन्नं यन्मन्त्रजातमस्ति तेन ब्रह्मणा मन्त्रजातेन संयोजय । यज्ञियानां यज्ञार्हाणां देवानां सुमत्या अनुग्रहबुद्ध्या संयोजय ॥
विश्वास-प्रस्तुतिः
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रम् ।
उ॒ग्रो यश्शम्ब॑ᳶ पुरुहूत॒ तेन॑ ।
अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र ।
कृ॒धीधिय॑ञ्जरि॒त्रे वाज॑रत्नाम् ।
मूलम्
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रम् ।
उ॒ग्रो यश्शम्ब॑ᳶ पुरुहूत॒ तेन॑ ।
अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र ।
कृ॒धीधिय॑ञ्जरि॒त्रे वाज॑रत्नाम् ।
सायण-टीका
17अथ हविषो याज्यामाह - हे पुरुहूत बहुभिर्यजमानैराहूतेन्द्र, उग्रः क्रूरो यः शम्बनामकोऽसुरोऽस्ति तेन सहितं आरात्समीपे वर्तमानं शत्रुं दूरं यथा भवति तथाऽपबाधस्व । हे इन्द्र यवमत् यवैः प्रभूतैरुपेतं गोमत् बहुभिर्गोभिरुपेतं धनं अस्मे धेहि अस्मासु स्थापय । जरित्रे जरणशीले मयि वाजरत्नां अन्नेन रत्नैश्च संपूर्णां धियं अनुग्रहबुद्धिं कृधि कुरु ॥
विश्वास-प्रस्तुतिः
आ वे॒धसँ॒ स हि शुचिः॑ ।
मूलम्
आ वे॒धसँ॒ स हि शुचिः॑ ।
सायण-टीका
18अथ ‘श्वेतां बार्हस्पत्याम्’ इत्यस्य पशोः सूक्ते वपाया याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘आवेधसं नीलपृष्ठम्’ इति पुरोनुवाक्या । ‘स हि शुचिश्शतपत्रः’ इति याज्या । एतदुभयं ‘यज्ञो राये’ इत्यत्र व्याख्यातम् ॥
-
मन्त्रः आ वे॒धस॒न्नील॑पृष्ठम्बृ॒हन्त॑म् ।
बृह॒स्पतिँ॒ सद॑ने सादयध्वम् ।
सा॒दद्यो॑नि॒न्दम॒ आ दी॑दि॒वाँस॑म् ।
हिर॑ण्यवर्णमरु॒षँ स॑पेम ।- टीका 12द्वादशीमाह - हे ऋत्विग्यजमानाः! बृहस्पतिं देव सदने यज्ञस्थाने सादयध्यम् ॥ कीदृशम्? आवेधसं सर्वतः स्रष्टारं नीलपृष्ठं पृष्ठभागे नीलं बृहन्तं गुणैर्महान्तं सादद्योनिं योनौ स्वर्गस्थाने यजमानान् सादयन्तं दमे गृहे आदीदिवांसं सर्वतो दीप्यमानं हिरण्यवर्णं स्वर्णसमानकान्तिं अरुषं रोषरहितं तादृशं बृहस्पतिं सपेम संबध्नीमः ॥॥
-
मन्त्रः स हि शुचि॑श्श॒तप॑त्र॒स्स शु॒न्ध्यूः ॥21॥ हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः ।
बृह॒स्पति॒स्स स्वा॑वे॒श ऋ॒ष्वाः ।
पू॒रू सखि॑भ्य आसु॒तिङ्क॑रिष्ठः । -
टीका 13त्रयोदशीमाह - स हि प्रसिद्धो बृहस्पतिः शुचिः शुद्धः ॥ शतपत्रः शतसंख्याकवाहनोपेतः ॥ स बृहस्पतिः शुन्ध्यूः अन्ये- षामपि शोधको हिरण्यवाशीः हिरण्यस्य वाशो वाक्यं शतम- स्मै देहि सहस्रमस्मै देहीत्यादिरूपं तेन वाक्येनोपेतः ॥ इषिरः सर्वैरेषणीयः ॥ सुवर्षाः स्वर्गप्रदः ॥ स बृहस्पतिः स्वावेशः सुष्ट्वा वेष्टुं समाश्रयितुं शक्यः ॥ ऋष्वा ऋषिरतीन्द्रियद्रष्टा ॥ तादृशो बृहस्पतिः सखिभ्यः सखिसदृशेभ्यो यजमानेम्यः पूरू प्रभूतं आसुतिमन्नं करिष्ठोऽतिशयेन कर्ता ॥ एतच्च मन्त्रद्वयं - ‘श्वेतां बार्हस्पत्याम्’ इत्यस्य पशोः सूक्ते द्रष्टव्यम् ॥ तथा च प्रतीकद्वयमाम्नातम् - ‘आवेधसँ स हिं शुचिः’ इति ॥॥
विश्वास-प्रस्तुतिः
बृह॒स्पति॑ᳶ प्रथ॒मञ्जाय॑मानः ।
म॒हो ज्योति॑षᳶ पर॒मे व्यो॑मन् ।
स॒प्तास्य॑स्तुविजा॒तो रवे॑ण ।
वि स॒प्तर॑श्मिरधम॒त्तमाँ॑सि ॥ 13 ॥
मूलम्
बृह॒स्पति॑ᳶ प्रथ॒मञ्जाय॑मानः ।
म॒हो ज्योति॑षᳶ पर॒मे व्यो॑मन् ।
स॒प्तास्य॑स्तुविजा॒तो रवे॑ण ।
वि स॒प्तर॑श्मिरधम॒त्तमाँ॑सि ॥ 13 ॥
सायण-टीका
19अथ पुरोडाशस्य पुरोनुवाक्यामाह - योऽयं बृहस्पतिः सोऽयमितरेभ्यो देवेभ्यः प्रथमं पूर्वं जायमानस्सन् परमे व्योमन् उत्कृष्ट आकाशे स्वर्गरूपे ज्योतिषो महः अन्यदीयात्प्रकाशादत्यन्तं महान् भासते । कीदृशो बृहस्पतिः? रवेण वेदशास्त्ररूपेण शब्देन सप्तास्यः प्रसृतमुखः । अथवा सप्तसंख्याकान्यास्यानि ज्वालारूपाणि यस्याग्नेः सोऽयं सप्तास्यः । रवेण मन्त्रेण होमकाले हविः स्वीकर्तुं वह्निरूपो भवतीत्यर्थः । तुविजातः सर्वेषां मध्ये बलयुक्तत्वेनोत्पन्नः । तादृशो बृहस्पतिः सप्तरश्मिः अग्निरूपेण सप्तजिह्वात्मकरश्मियुक्तस्तन् तमांसि व्यधमत् विनाशितवान् ॥
विश्वास-प्रस्तुतिः
बृह॒स्पति॒स्सम॑जय॒द्वसू॑नि ।
म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः ।
अ॒पस्सिषा॑स॒न्त्सुव॒रप्र॑तीत्तः ।
बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ।
मूलम्
बृह॒स्पति॒स्सम॑जय॒द्वसू॑नि ।
म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः ।
अ॒पस्सिषा॑स॒न्त्सुव॒रप्र॑तीत्तः ।
बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ।
सायण-टीका
20अथ पुरोडाशस्य याज्यामाह - अयं बृहस्पतिः वसूनि धनानि समनयत् सम्यग्जितवान् । तथैष देवः गोमतः बहुभिर्गोभिर्युक्तान् महः महतः प्रौढन्व्रजान् गोगृहान् समज्यत् सम्यग्जितवान् । तादृशो बृहस्पतिः अपः सिषासन् वृष्टिरूपं जलं दातुमिच्छन् सुवः स्वर्गं अप्रतीत्तः प्रत्यावृत्तिराहित्येन प्राप्तः सर्वदा तत्र स्थित इत्यर्थः । स च बृहस्पतिः अर्कैः अस्मत्कृतैरर्चनैः अमित्रं शत्रुं हन्ति ॥
विश्वास-प्रस्तुतिः
बृह॑स्पते॒ पर्ये॒वा पि॒त्रे ।
मूलम्
बृह॑स्पते॒ पर्ये॒वा पि॒त्रे ।
सायण-टीका
21अथ हविषो याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘बृहस्पते परिदीया रथेन’ इति पुरोनुवाक्या । ‘एवा पित्रे विश्वदेवाय’ इति याज्या । ‘बृहस्पते परिदीया रथेन’ इत्यसौ ‘आशुश्शिशानः’ इत्यत्र व्याख्याता । ‘एवा पित्रे विश्वदेवाय’ इत्यसौ ‘अग्नाविष्णू महि तद्वाम्’ इत्यत्र व्याख्याता ॥
-
मन्त्रः बृह॑स्पते॒ परि॑ दीय [16] रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ।
- टीका अथ चतुर्थीमाह— बृहस्पते परीति। बृहद्वाक्तस्याः पालको बृहस्पतिरिन्द्रः। अत एव शाखान्तरे समाम्नातम्—“वाग्वै बृहत्तस्याः एष पतिस्तस्माद्बृहस्पतिरेषः” इति। व्याकरणकर्तृत्वमिन्द्रस्य वाक्पतित्वम्। तच्चान्यत्राऽऽम्नातम्— “ते देवा इन्द्रमब्रुवन्निमां नो वाच व्याकुर्विति” इति। तथाविध हे इन्द्र त्वं रथेन परिदीय सर्वतो गच्छ। कीदृश इन्द्रः, रक्षोहा राक्षसानां हन्ता, अमित्राञ्शत्रूनवबाधमानो यथाऽपयन्ति तथा बाधमानः, सोनाः परकीयाः प्रभञ्जन्प्रकर्षेण भाग्नाः कुर्वन्, प्रमृणः प्रकर्षेण हिंसको युधा युद्धेन जयन्सर्वत विजयमानः। अस्माकमस्मदीयानां रथानामवितैधि रक्षको भव।
-
मन्त्रः ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।
बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥ -
टीका 6तत्रैव याज्या - एवा पित्र इति त्रिष्टुप् ॥ एवमेव । लुगपवादस्सोर्डादेशः । पित्रे पात्रे रक्षित्रे विश्वदेवाय विश्वे देवा अस्य सन्तीति विश्वेपि देवा अस्याज्ञां कुर्वन्तीति । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति विश्वशब्दस्यान्तोदात्तत्वम् । वृष्णे वर्षित्रे । ‘क्रियाग्रहणं कर्तव्यम्’ इति कर्मणस्सम्प्रदानत्वाच्चतुर्थी । इमं देवं यज्ञैर्विधेम परिचरेम । विध विधाने, तौदादिकः । नमसा नमस्कारेण हविर्भिश्च चर्वादिभिः हे बृहस्पते । किमर्थमिति चेत् ’ सुप्रजाः शोभनपुत्रपौत्राः वीरवन्तोन्यैश्च शूरैश्च तद्वन्तः रयीणां धनानां च पतयस्स्याम भवेमेत्येवमर्थं परिचरेम । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
आ नो॑ दि॒वᳶ पावी॑रवी ।
मूलम्
आ नो॑ दि॒वᳶ पावी॑रवी ।
सायण-टीका
22अथ ‘सारस्वतं मेषम्’ इत्यस्य पशोः सूक्ते पञ्चानामृचां प्रतीकानि दर्शयति - ‘आ नो दिवो बृहतः’ इत्येषा वपायाः पुरोनुवाक्या । सा च ‘अग्राविष्णू महि तद्वाम्’ इत्यत्र व्याख्याता ।
-
मन्त्रः आ नो॑ दि॒वो बृ॑ह॒तो पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् ।
हव॑न्दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मान्नो॒ वाच॑मुश॒ती शृ॑णोतु ॥-
तत्रैव याज्या - आ न इति त्रिष्टुप् ॥ पर्वतादा इति प्रथमपादान्तः । सरस्वती देवी यजता यष्टव्या । यजेः क्तिच्[क्तः] । दिवः द्युलोकात् नः अस्माकं यज्ञमागन्तु आगच्छतु यद्यप्यनुच्छ्रिते प्रदेशे स्थिता शीघ्रमागच्च्छतु । छान्दसश्शपो लुक् । किञ्च - बृहतो महतः अपि पर्वतादागच्छतु प्रकृष्टाद्विषमाच्च प्रदेशादागच्छत्वित्यर्थः । किञ्च - हवमस्माकमाह्वानम् । ‘भावेनुपसर्गस्य’ इत्यप्, सम्प्रसारणं च । जुजुषाणा सेवमाना प्रीयमाणा वा घृताची घृतमाज्यभागं प्रत्यञ्चती । ‘चौ’ इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्त्वं च । शग्मां सुखां समर्थां वा अस्माकं स्तुतिरूपां शृणोतु उशती कामयमाना अस्मत्प्रत्तानि हवींषि स्तोत्राण्येव वा । वष्टेश्शतरि ‘शतुरनुमः’ इति नद्या उदात्तत्वम्
-
10अथ याज्या - नोस्मार्कं यज्ञं सरस्वती यजता यजनीया दिवोन्तरिक्षादागच्छतु, बृहतो वा पर्वतादागच्छतु । सर्वं हवं जुषाणा सेवमाना घृताची उदकस्याञ्चती उशती हवींषि कामयमाना नोस्माकं शग्मां शक्तां वाचं शृणोत्विति ॥
-
8तत्रैव याज्या - आ नो दिव इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । यजमानस्य वाजनीया देवी सरस्वती दिवः विप्रकृष्टाद्वा देशात् बृहतो वा पर्वतात् विषमाद्देशादागच्छतु । अस्माकमिमं यज्ञं अस्माकमाह्वानं सेवमाना घृताची घृताञ्चना उदकाञ्चना वा उशती कामयमाना अस्मत्स्तोत्रं हविर्वा शग्मां शक्तां वाचं शृणोत्विति ॥
-
‘पावीरवी कन्या’ इत्येषा याज्या । सा च ‘आग्नेयं यज्ञमध्वरम्’ इत्यत्र व्याख्याता ।
-
मन्त्रः पावी॑रवी क॒न्या॑ चि॒त्रायु॒स्सर॑स्वती वी॒रप॑त्नी॒ धिय॑न्धात् ।
ग्नाभि॒रच्छि॑द्रँ शर॒णँ स॒जोषा॑ दुरा॒धर्ष॑ङ्गृण॒ते शर्म॑ यँसत् । -
टीका तत्रैव याज्यामाह— पावीरवी कन्येति। सरस्वती धियं धादस्मदीये कर्मणि सावधानां बुद्धिं धारयतु । कीदृशी, पावीरवी पातॄन्वीरांश्च वयति जनयतीति पावीरवी । कन्या कमनीया। चित्रायुर्विचित्रं जीवनं यस्याः सा। वीरपत्नी वीराणां पालयित्री । ग्नाभिश्छन्दोभिर्युक्ता सरस्वती सजोषा यजमानेन समानप्रीतिः सतीगृणते स्तुवते यजमानाय शर्म यंसत्सुखं प्रयच्छतु । कीदृशं शर्म, अच्छिद्रमविछिन्नं शरण रक्षकं दुराधर्षमन्यैर्धर्षयितुमशक्यम् ।
विश्वास-प्रस्तुतिः
इ॒मा जुह्वा॑ना॒ यस्ते॒ स्तनः॑ ।
मूलम्
इ॒मा जुह्वा॑ना॒ यस्ते॒ स्तनः॑ ।
सायण-टीका
‘इमा जुह्वाना युष्मदा नमोभिः’ इत्येषा पुरोडाशस्य पुरोनुवाक्या । सा च ‘उत नः प्रिया’ इत्यत्र व्याख्याता ।
-
मन्त्रः इ॒मा जुह्वा॑नायु॒ष्मदा नमो॑भिः ।
प्रति॒ स्तोमँ॑ सरस्वति जुषस्व ।
तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑नाः ।
उप॑स्थेयाम शर॒णन्न वृ॒क्षम् । -
टीका 2अथ द्बितीयामाह - हे सरस्वति! युष्मत् युष्मान् त्वामित्यर्थः । इमे यजमाना नमोभिर्नमस्कारैस्सहाजुह्वानाः सर्वतो होममाह्नानं वा कुर्वन्तो वर्तन्ते । स्तोमं त्वदीयं स्तोत्रं प्रति प्रातिस्विकमसाधारणं जुषस्व सेवस्व । तव प्रियतमेऽतिप्रिये वृक्षवदुपकारके शर्मन् शरणे गृहे दधानाः हविर्धारयन्तः वयमुपस्थेयाम उपस्थानं करवाम । एतदुभयं सारस्वते कर्मणि द्रष्टव्यम् । तथा ‘सारस्वतीं मेषीमालाभेत’ इत्यस्य पशोः सूत्रे प्रतीकमाम्नातम् - ‘इमा जुह्वाना यस्ते स्तनः’ इति ॥
‘यस्ते स्तनश्शशयः’ इति याज्या । सा चारण्यकाण्डे प्रवर्ग्यमन्त्रेषु व्याख्यास्यते ।
- मन्त्रः यस्ते॒ स्तन॑श्शश॒यो यो म॑यो॒भूः ।
येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि ।
यो र॑त्न॒धा व॑सु॒विद्यस्सु॒दत्रः॑ ।
सर॑स्वति॒ तमि॒ह धात॑वेकः ।
विश्वास-प्रस्तुतिः
सर॑स्वत्य॒भि नो॑ नेषि ।
मूलम्
सर॑स्वत्य॒भि नो॑ नेषि ।
सायण-टीका
‘सरस्वत्यभि नो नेषि वस्यः’ इति हविषः पुरोनुवाक्या । सा च ‘जुष्ठी नरः’ इत्यत्र व्याख्याता ॥
-
मन्त्रः सर॑स्वत्य॒भिनो॑नेषि॒ वस्यः॑ ।
मा प॑स्फरी॒ᳶ पय॑सा॒ मा न॒ आध॑क् ।
जु॒षस्व॑ नस्स॒ख्या॑ वे॒श्या॑ च ॥21॥
मा त्वक्षेत्रा॒ण्यर॑णानि गन्म ।- टीका 3अथ तृतीयामाह - हे सरस्वति! नोऽस्मान् वस्योऽभि श्रेयः प्रति नेषि नय । मा पस्फरीर्मा हिंसीः । पयसा नदीरूपायास्तव जलेन नोऽस्मान् मा आ धक्सर्वतो मा धाक्षीः मा विनाशय । सख्या सखित्वेन वेश्या च गृहावस्थानेन च नोऽस्मान्प्रति जुषस्व । त्वत्तव प्रसादादरणानि रणरहितानि क्लेशकारणानि क्षेत्राणि मृत्युस्थानानि मा गन्म मा प्राप्नवाम । अयं च पादोऽन्यत्र ब्राह्मणेन व्याख्यातः - ‘मा त्वत्क्षेत्राण्यरागानि गन्मेत्याह मृत्योर्वै क्षेत्राण्यरणानि तेनैव मृत्योः क्षेत्राणि न गच्छति'8 इति । तस्मिन्नेव ब्राह्मणे मन्त्रोऽप्ययं विनियुक्तः - ‘सरस्वत्यभि नो नेषि वस्य इति पुरोरुचं कुर्यात्'8 इति । तत्र ‘उक्थ्याग्रान्गृह्णीत'8 इत्युपक्रान्तत्वात्तदीयेयं पुरोरुक् । तथा सूक्तेऽपि - ‘सारस्वतीं मेषीमालभेत’ इत्यस्य पशोर्हविषः पुरोनुवाक्यारूपेण प्रतीकमाम्नातम् ‘सरस्वत्यभि नो नेषि’ इति ॥
विश्वास-प्रस्तुतिः
इ॒यँ शुष्मे॑भिर्बिस॒खा इ॑वारुजत् ।
सानु॑ गिरी॒णान्त॑वि॒षेभि॑रू॒र्मिभिः॑ ।
पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ ।
सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥ 14 ॥
मूलम्
इ॒यँ शुष्मे॑भिर्बिस॒खा इ॑वारुजत् ।
सानु॑ गिरी॒णान्त॑वि॒षेभि॑रू॒र्मिभिः॑ ।
पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ ।
सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥ 14 ॥
सायण-टीका
23अथ हविषो याज्यामाह - इयं सरस्वती नदीरूपा ऊर्मिभिः स्वकीयैस्तरङ्गैः स्वतीरावस्थितानां गिरीणां सानु मूलप्रदेशं अरुजद्भग्नमकरोत् । तत्र दृष्टान्तः - बिसखा इव यथा जलमध्ये बिसानि खनितुं प्रवृत्तः पुरुष आयासमन्तरेणैवोन्मूलयत्येवमत्राप्यूर्मिस्पर्शमात्रेण पर्वतमूलानि विशीर्णानि भवन्ति । कीदृशैरूर्मिभिः? शुष्मेभिः प्रबलैः । तविषेभिः अतिस्थूलैः । वयं तु सरस्वतीं धीतिभिः ध्यानविशेषैः आविवासेम सर्वत आच्छादयामः । किमर्थम्? अवसे रक्षणार्थम् । कीदृशीं सरस्वतीं? पारावदघ्नीं अवदं अवरतीरं पारं परतीरं च स्ववेगेन हन्तीति पारावदघ्नी ताम् । कीदृशीभिर्धीतिभिः? सुवृक्तिभिः वृक्तिरन्यचिन्तावर्जनं सुष्ठु वृक्तिर्यासु ध्यानक्रियासु ताः सुवृक्तयः स्ताभिरनन्यचिन्तारहितैर्ध्यानविशेषैर्निरंन्तरं ध्यायाम इत्यर्थः ॥
अत्र विनियोगसंग्रहः-
ते शुक्रेति वपायां स्यादाग्नेय्यामग्न इत्यथ ।
इन्द्रमैन्द्र्यां तथाऽऽवेधसं श्वेतायामुदीरितम् ॥
आ नो मेष्यां द्वितीयेऽस्मिन्सूक्तपञ्चकमीरितम् ॥ १ ॥
इति श्रमित्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके अष्टमप्रपाठके द्वितीयोऽनुवाकः ॥