०५ आदित्यम्

सायणोक्त-विनियोगः

18अथ ‘यः कामयेत प्रथेय पशुभिः प्र प्रजया जायेयेति स एतामविं वशामादित्येभ्यः कामायालभेत’ इत्यस्य पशोः सूक्ते वपापुरोडाशहविष्षु क्रमेण याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति - ‘आदित्यानामवसा नूतनेन’ इति वपाया पुरोनुवाक्या । ‘न दक्षिणा विचिकिते’ इति याज्या ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्याना॒मव॑सा॒ न द॑क्षि॒णा ।

मूलम्

आ॒दि॒त्याना॒मव॑सा॒ न द॑क्षि॒णा ।

सायणोक्त-विनियोगः

‘धारयन्त आदित्यासो जगत्स्थाः’ इति पुरोडाशस्य पुरोनुवाक्या । ‘तिस्रो भूमीर्धारयंस्त्रीँ रुत द्यून्’ इति याज्या ।

विश्वास-प्रस्तुतिः

धा॒रय॑न्त आदि॒त्यास॑स्ति॒स्रो भूमी॑र्धारयन् ।

मूलम्

धा॒रय॑न्त आदि॒त्यास॑स्ति॒स्रो भूमी॑र्धारयन् ।

सायण-टीका
  • मन्त्रः धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः ।
    दी॒र्घाधि॑यो॒ रक्ष॑माणाः (63) अ॒सु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ।

  • टीका 15’आदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुद्धो वाऽपरुद्ध्यमानो वा’ इत्यस्याः पुरोनुवाक्या - धारयन्त इति त्रिष्टुप् ॥ जगद्धारयन्तस्स्थापयन्तः आदित्यासः आदित्याः स्थाः स्थास्नवः ‘क्विप्च’ इति क्विप् । देवाः देवनशीलाः विश्वस्य भुवनस्य भूतजातस्य गोपाः पोषकाः दीर्घाधियः दीर्घाण्यविच्छिन्नानि धियः कर्माणि उदयास्तमयलक्षणानि बुद्धयो वा येषान्ते दीर्घाधियः । छान्दसं पूर्वपदस्य दीर्घत्वम् । असुर्यं असुरमर्हतीति । ‘छन्दसि च’ इति यः । असुस्थानीयमुदकं ददातीत्यसुरो मेघः । तेन धार्यमुदकं रक्षमाणा रक्षन्तः ऋतावानस्सत्यवन्तः यज्ञवन्तो वा । पूर्ववद्वनिप्, दीर्घत्वं च, चयमानाः चाययन्तः गमयन्तः । चय गतौ, अनुदात्तेत् भौवादिकः । ऋणानि दिव्यानि मानुषाणि ; वृष्ट्या हि सस्योत्पत्तौ यजमानस्य सर्वाणि ऋणान्यपाक्रियन्ते इति । क्रियापदाभावाद्योग्यं पदमध्याह्रियते । ईदृशा आदित्या इमं यजमानमनपरुद्धं कुर्वन्त्विति ॥

  • मन्त्रः ति॒स्रो भूमी॑र्धारय॒न्त्रीँ रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् ।
    ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वन्तद॑र्यमन्वरुण मित्र॒ चारु॑ ।

  • टीका 16तत्रैव याज्या - तिस्र इति त्रिष्टुप् ॥ तिस्रो भूमीः पृथिवी पातालनागलोकान् पृथिव्यन्तरिक्षद्युलोकान्वा । ये इत्यध्याह्रियते । ये धारयन् धारयन्ति । धारयतेश्छान्दसो लङ्, ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । उत अपि च त्रीन् द्यून् दिवः परान् द्युतिमतो लोकान् । रुत्वानुनासिकौ पूर्ववत् ।
    किञ्च - त्रीणि व्रतानि कर्माणि लोकत्रयगोचराणि त्रीणि व्रतानि । एषां लोकानां अन्तः मध्ये सर्वलोकधारणार्थानि रसादानधारणमध्यस्थानायनलक्षणानि च कर्माणि ये धारयन्ति आदित्या विदथे यज्ञे यज्ञार्थं, उपलक्षणत्वात् सर्वव्यापारार्थं, इत्थं कुर्वन्त्येते आदित्याः यद्वा - धारयन्तीति वचनव्यत्ययेनैकवचनम् । हे धारयन्तः आदित्याः किं तिस्रो भूमीः त्रींश्च द्यून् येषां च मध्ये त्रीणि व्रतानि यज्ञार्थं धारयन्तः हे आदित्याः वः युष्माकं महित्वं महत्त्वं माहात्म्यं, महि महत् तत्तादृशं यथोक्तलक्षणं चारु शोभनं चायनीयं वा ऋतेन सत्येन नात्र कार्या विचारणेति । इदानीमादित्यानेकैकत्वेनामन्त्रयते - अर्यमन्वरुण मित्रेति । प्रदर्शनं चैतदन्येषामपि ॥

सायणोक्त-विनियोगः

‘यज्ञो देवानां प्रत्येति’ इति हविषः पुरोनुवाक्या । ‘शुचिरपः सूयवसा अदब्धः’ इति याज्या । तदेतत्सूक्तं सर्वं ‘इन्द्रं वो विश्वतस्परीन्द्रं नरः’ इत्यत्र व्याख्यातम् ।

विश्वास-प्रस्तुतिः

य॒ज्ञो दे॒वानाँ॒ शुचि॑र॒पः ॥ 6 ॥

मूलम्

य॒ज्ञो दे॒वानाँ॒ शुचि॑र॒पः ॥ 6 ॥

सायण-टीका
  • मन्त्रः य॒ज्ञो दे॒वाना॒म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ ।
    आवो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादँ॒होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् ।

    • टीका 13’आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपेद्भूतिकामः’ इत्यस्याः पुरोनुवाक्या - यज्ञो देवानामिति त्रिष्टुप् ॥ ग्रहेषु व्याख्याता ‘कदाचन’ इत्यत्र ।
    • [ पुनरपि नरपि तस्मिन्नेव सोमं गृह्णाति - यज्ञो देवानामिति चतुष्पदया त्रिष्टुभा । ‘तिसृभिर् ऋग्भिर्गृह्णाति’ इति ब्राह्मणम् ॥ अयं यज्ञोस्मदीयं धनं देवानां सुम्नं सुखं प्रति एति एतु प्राप्नोतु सुखं सम्पादयतु । यद्वा - अयं देवानां यज्ञः अस्माकं सुखं प्रत्येतु प्रत्याययतु ।
  • किञ्च - हे आदित्यासः आदित्याः अस्मान्मृडयन्तस्सुखयन्तो भवत । असुन्, आमन्त्रितस्याविद्यमानत्वात्तिङन्तं न निहन्यते । ‘छन्दस्युभयथा’ इति शतुरार्धधातुकत्वे ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वाभावः । किञ्च - वः यष्माकं या सुमतिः शोभनात्मिकानुग्रहपरा मतिः सार्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । वृतेर्व्यत्ययेन परस्मैपदम्, लिङि यासुट्, ‘बहुलं छन्दसि’ इति शप् श्लुः । अर्वागञ्चतीत्यर्वाची, ऋत्विगादिना क्विन्, ‘अञ्चतेश्चोपसङ्ख्यानम्’ इति ङीप्, ‘मन्क्तिन्व्याख्यान’ इत्यादिना सुमतिशब्दस्योत्तरपदान्तोदात्तत्वम् ।पुनरपि सुमतिर्विशेष्यते - या युष्माकं सुमतिः अंहोः हननशीलस्य दुरात्मनः चित् स्ववच्छेत्री । छिदेः कर्तरि क्विप्, आदिवर्णव्यत्ययः । हन्तीत्यंहुः, हन्तेरौणादिक उप्रत्ययः । आद्यो हकारोन्तेवतिष्ठते, नकारस्यानुस्वारः । यद्वा - अहि गतौ, स एव प्रत्ययः । गत्यर्थाश्च बुद्ध्यर्थाः । पुरुषस्य या चित् चेतिः । चेततेः क्विप् । ज्ञाता हि मतिस्सुमतिर्भवतीति भावः । व्युत्पत्तिद्वयेपि चिच्छब्दस्यानुदात्तत्वं मृग्यम् । अथ ब्रूमः - चिदिति निपातः चादित्वादनुदात्तः, अवधाराणे वर्तते, इवार्थे वा । अंहोरेव ज्ञातुरिव वा या मतिः सा आवर्ततामिति । वरिवोवित्तरा च या मतिरसत् भवेत् । अस्तेर्लेङन्तस्य अडागमः । सा आवर्ततामिति । वरिवो धनं, तस्य वेदयित्री लम्भयित्री वरिवोवित् । विन्दतेर्ण्यन्तात्क्विपि, ‘बहुलं संज्ञाछन्दसोः’ इति णिलुक्, ततोतिशायने तरप्प्रत्ययः । ज्ञातुरेव हि मतिर्वरिवोवित्तरा भवति । तस्माद्या ईदृशी मतिर्भवति सा सुमतिरस्मानावर्ततामिति ॥]

अयमस्मदीयो यज्ञः देवानां सुम्नं सुखं प्रत्येति गच्छतु । किञ्च - हे आदित्याः यूयमप्यस्मान् मृडयन्तो भवत किञ्च - युष्माकं सुमतिश्शोभनानुग्रहात्मिका बुद्धिरर्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । किञ्च - अंहो ज्ञातुरिव ज्ञातृष्विव या मतिः वरिवोवित्तरा धनस्य लम्भयित्री भवेदिति ॥

  • मन्त्रः शुचि॑र॒पस्सू॒यव॑सा॒ अद॑ब्ध॒ उप॑क्षेति वृ॒द्धव॑यास्सु॒वीरः॑ ।
    नकि॒ष्टङ्घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒म्भव॑ति॒ प्रणी॑तौ ।

  • टीका 14तत्रैव याज्या - शुचिरिति त्रिष्टुप् ॥ शुचिश्शुद्धो भूत्वा अपः कर्माणि कर्मफलानि वा उपक्षेति उपगच्छति । क्षि निवासगत्योः, ‘बहुलं छन्दसि’ इति शपो लुक् । सूयवसाः शोभनयवसाः शोभनांशुकाः । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम्, ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । अदब्धः केन चिदप्यहिंसितः वृद्धवयाः प्रभूतान्नतमः सुवीरः शोभनपुत्रपौत्रादिकः । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । किञ्च - केचिदपि तं नकिः घ्नन्ति हन्तुं समर्था भवन्ति । ‘युष्मत्तत्ततक्षुषु’ इति षत्वम् । अन्तितः अन्तिकेपि स्थिताः न च दूराद्दूरेपि स्थिताः । ‘कादिलोपो बहुलम्’ इत्यन्तिकस्य लोपः । कस्यैतदेवं भवतीत्याहय – आदित्यानामादित्यार्थं प्रणीतौ परिचरणे भवति वर्तते ॥

अत्रेदं सूक्तं ‘यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतां दशर्षभामालभेत’ इति पशौ योजनीयम् । पूर्वोक्ते तु पशौ सूक्तमुत्तरत्र भविष्यति । तत्र हि कामेन देवा इति कामशब्दोदितो लिङ्गविशेषः प्रतीयते । लिङ्गेन हि पाठक्रमस्य बाधो युक्तः । तस्माद्दशर्षभाया आदित्यदेवताकत्वात्तत्रेदं सूक्तमुत्क्रष्टव्यम् ।

अत्र विनियोगसंग्रहः-
याज्याः काम्यपशूनां तु वर्णिता अष्टमे क्रमात् ।
ऋचः षट्सूक्त एकस्मिन्विधिशेषो विविच्यते ॥ १ ॥

पीवोन्नामिति वायव्ये पशौ सूकमुदीरितम् ।
प्रजासूक्तं तूपरे स्यात्सोमा त्रैते पशुप्रदे ॥ २ ॥

उदुत्तमं वारुणे स्यादादित्यानामवेत्यदः ।
दशर्षभायां विज्ञेयं लिङ्गेन क्रमबाधनात् ॥ ३ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके अष्टमप्रपाठके प्रथमोऽनुवाकः ॥