०३ सोमापौष्णम्

सायणोक्त-विनियोगः

12अथ ‘सोमापौष्णं त्रैतमालभेत पशुकामः’ इत्यस्य पशोः सूक्ते वपासंबन्धियाज्यापुरोनुवाक्ययोः प्रतीके दर्शयति - ‘सोमापूषणा जनना’ इति पुरोनुवाक्या । ‘इमौ देवौ जायमानो जुषन्त’ इति याज्या । एतच्चोभयं ‘अग्नाविष्णू महितद्वां महित्वम्’ इत्यत्र व्याख्यातम् ॥

विश्वास-प्रस्तुतिः

सोमा॑पूषणे॒मौ दे॒वौ ।

मूलम्

सोमा॑पूषणे॒मौ दे॒वौ ।

सायण-टीका
  • मन्त्रः सोमा॑पूषणा॒ जन॑ना रयी॒णाञ्जन॑ना दि॒वो जन॑ना पृथि॒व्याः ।
    जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥

  • टीका 17यदि बिभीयद्दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर्वपेत्' इत्यस्य पुरोनुवाक्या - सोमापूषणेति त्रिष्टुप् ॥ हे सोमापूषणौ । पूर्ववदाकारः । रयीणां धनानां जनना जननौ जनयितारौ युवाम् । 'नामन्यतरस्यां' इति नाम उदात्तत्वम् । दिवश्च पृथिव्याश्च जनयितारौ । 'ऊडिदम्' इति दिवो विभक्तिरुदात्ता । 'उदात्तयणः' इति पृथिव्याः । जातौ जातमात्रावेव युवां विश्वस्य भुवनस्य भूतजातस्य गोपा गोपयितारौ । इर्दृशौ युवां देवा अकृण्वन् अकुर्वन् । अमृतस्य नाभिं नहनौ बन्धनौ ॥      
    
  • मन्त्रः इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमाँ॑सि गूहता॒मजु॑ष्टा ।
    आ॒भ्यामिन्द्र॑ᳶ प॒क्वमा॒मास्व॒न्तस्सो॑मापू॒षभ्या॑ञ्जनदु॒स्रिया॑सु ॥ [42]

    • टीका 18 तत्रैव याज्या - इमौ देवाविति त्रिष्टुप् ॥ इमौ देवौ सोमापूषणौ जायमानावेवावस्थितौ जुषन्त अजुषन्त सेवितवन्तः सर्वे देवाः । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । किञ्च - इमौ देवौ तमांसि अजुष्टा अजुष्टानि अप्रियाणि । ‘शेश्छन्दसि’ इति लोपः । अजुष्टा अजुष्टौ तमोभिरसेवितारौ । पूर्ववदाकारः । गूहतामनाशयताम् । छान्दसो लिङ्, ‘ऊदुपधाया गोहः’ । यद्वा - इमौ खलु सर्वस्य तमांसि गूहतां गूहयतः । लडर्थे लिङ् । किञ्च – आभ्यां सोमापूषभ्यां सह । अन्वादेशत्वेपि व्यत्ययेन निघाताभावः, ‘ऊडिदम्’ इति विभक्त्युदात्तत्वमेव प्रवर्तते । आभ्यां महेन्द्रः, आमासु तरुणीषु उस्रियासु गोषु अन्तः परिपक्वं पयो जनत् जनयति उत्पादयति । जनेर्ण्यन्तात्पूर्ववल्लङ्, पूर्ववदडभावः, ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वाण्णिलोपः । ताविमावेवम्महानुभावौ अस्माकं दुश्चर्मतां नाशयतां शोभनानि दत्तामित्यर्थः ॥
सायणोक्त-विनियोगः

13अथ तत्रैव पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

सोमा॑पूषणा॒ रज॑सो वि॒मान॑म् ।
स॒प्तच॑क्रँ॒ रथ॒मवि॑श्वमिन्वम् ।
वि॒षू॒वृत॒म्मन॑सा यु॒ज्यमा॑नम् ।
तञ्जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ।

मूलम्

सोमा॑पूषणा॒ रज॑सो वि॒मान॑म् ।
स॒प्तच॑क्रँ॒ रथ॒मवि॑श्वमिन्वम् ।
वि॒षू॒वृत॒म्मन॑सा यु॒ज्यमा॑नम् ।
तञ्जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ।

सायण-टीका

हे सोमापूषणौ वृषणा कामवर्षकौ तं रथं जिन्वथः प्रीणयथ आरोहणेनालंकुरुत इत्यर्थः । कीदृशं रथं? रजसो रञ्जनात्मकस्य गमनस्य विमानं निर्मातारम् । सप्तचक्रं सप्तसंख्याकैश्चक्रैर्युक्तम् । अत एवान्यत्राप्याम्नायते - ‘सप्तचक्रं सप्त वहन्त्यश्वाः’ इति । अविश्वमिन्वं विश्वैः प्राणिभिर्मीयते परिच्छिद्यत इति विश्वमिन्वः तद्विलक्षणमविश्वमिन्वं केनापि पारेच्छेत्तुमशक्यमित्यर्थः । विषूवृतं अप्रतिहतगतित्वान्नानादेशेषु वर्तमानम् । मनसा युज्यमानं इच्छामात्रेणाश्वैः संयुज्यमानम् । पञ्चरश्मिं हेमन्तशिशिरयोरैक्येन पञ्चर्तवो रश्मिस्थानीया यस्य सूर्यरथस्य सोऽयं पञ्चरश्मिः । आदित्यरथगमनेन ह्यृतवो निष्पाद्यन्ते । तस्मादृतूनां रश्मित्वोपचारः ॥

सायणोक्त-विनियोगः

14अथ पुरोडाशस्य यज्यामाह -

विश्वास-प्रस्तुतिः

दि॒व्य॑न्यस्सद॑नञ्च॒क्र उ॒च्चा ।
पृ॒थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे ।
ताव॒स्मभ्य॑म्पुरु॒वार॑म्पुरु॒क्षुम् ।
रा॒यस्पोषव्ँ॒विष्य॑ता॒न्नाभि॑म॒स्मे ॥ 5 ॥

मूलम्

दि॒व्य॑न्यस्सद॑नञ्च॒क्र उ॒च्चा ।
पृ॒थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे ।
ताव॒स्मभ्य॑म्पुरु॒वार॑म्पुरु॒क्षुम् ।
रा॒यस्पोषव्ँ॒विष्य॑ता॒न्नाभि॑म॒स्मे ॥ 5 ॥

सायण-टीका

योंऽयं सोमश्चन्द्रः यश्च पूषाऽऽदित्यः तयोरन्य एकः सूर्यो दिवि द्युलोके उच्चा सदनं चक्रे उन्नतदेशे स्थानं कृतवान् । अन्यश्चन्द्रः पृथिव्यामन्तरिक्षे चाध्युपरि सदनं स्थानं चक्रे । पृथिव्यां लतात्मकः सोमस्तिष्ठति । अन्तरिक्षे चन्द्रस्तिष्ठति । तौ सोमापूषणावस्मभ्यं रायस्पोषं दत्तामिति शेषः । कीहृशं? पुरुवारं पुरुभिर्बहुभिर्वरणीयम् । पुरुक्षुं पुरुभिर्बहुभिः क्षूयते शब्द्यते प्रशस्यत इति पुरुक्षुस्तादृशम् । नाभिं नहनं दारिद्र्यबन्धनं अस्मे विष्यतां अस्मत्तः शिथिलयताम् ॥

सायणोक्त-विनियोगः

13अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

धिय॑म्पू॒षा जि॑न्वतु विश्वमि॒न्वः ।
र॒यिँ सोमो॑ रयि॒पति॑र्दधातु ।
अव॑तु दे॒व्यदि॑तिरन॒र्वा ।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।

मूलम्

धिय॑म्पू॒षा जि॑न्वतु विश्वमि॒न्वः ।
र॒यिँ सोमो॑ रयि॒पति॑र्दधातु ।
अव॑तु दे॒व्यदि॑तिरन॒र्वा ।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।

सायण-टीका

विश्वं मिनोत्येतावदिति निश्चिनोतीति विश्वमिन्वः तादृशः पूषा सूर्यो धियं अस्मद्बुद्धिं जिन्वतु प्रीणयतु । रयिपतिः धनस्वामी सोमो रयिं धनं दधातु अस्मासु संपादयतु । अदितिः भूमिदेवी अस्मानवतु । कीदृशी? अनर्वा अर्वणा भ्रातृव्येण रहिता । ‘भ्रातृव्यो वा अर्वा’ हति श्रुतेः । अर्वा रिपुः । सर्वोऽपि भूमेर्बन्धुरेव न तु कश्चिदपि शत्रुः । सुवीराः शोभनपुत्राद्युपेता वयं विदथे यज्ञे बृहत्प्रौढं स्तोत्रं वदेम ॥

सायणोक्त-विनियोगः

16अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः

विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॑ ।
विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति ।
सोमा॑पूषणा॒वव॑त॒न्धिय॑म्मे ।
यु॒वभ्याव्ँ॒विश्वा॒ᳶ पृत॑ना जयेम ।

मूलम्

विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॑ ।
विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति ।
सोमा॑पूषणा॒वव॑त॒न्धिय॑म्मे ।
यु॒वभ्याव्ँ॒विश्वा॒ᳶ पृत॑ना जयेम ।

सायण-टीका

अन्यः सोमो विश्वानि भुवनान्योषधिद्वारा जजान उत्पादयामास । अन्यः पूषा विश्वमभिचक्षाणः सर्वतः प्रकाशयमानः प्रतिसंचरति । हे सोमापूषणौ मे धियं बुद्धिं सत्कर्मविषयं अवतं रक्षतम् । युवभ्यां युवयोः प्रसादाद्वयं विश्वाः पृतनाः सर्वाः परकीयसेना जयेम ॥