०१ वायुः

सायणोक्त-विनियोगः

1’वायव्यँ श्वेतमालभेत भूतिकामः’ इत्यत्र वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

पीवो॑न्नाँ रयि॒-वृध॑स् सुमे॒धाः ।
श्वे॒तस्-सि॑षक्ति नि॒युता॑म् अभि॒श्रीः ।
ते वा॒यवे॒ स-म॑नसो॒ वित॑स्थुः
विश्वेन् नर॑स् स्व्-अप॒त्यानि॑ चक्रुः

मूलम्

पीवो॑न्नाँ रयि॒वृध॑स्सुमे॒धाः ।
श्वे॒तस्सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः ।
विश्वेन्नर॑स्स्वप॒त्यानि॑ चक्रुः ।

सायणोक्त-विनियोगः

2अथ वपाया याज्यामाह -

सायण-टीका

यो वायुदेवताकः श्वेतच्छागः पशुः सोऽयं सिषक्ति सक्तो भवति संबध्नातीत्यर्थः । उत्तरार्धे नर इत्यभिधास्यमानत्वान्नॄन्मनुष्यान्यजमानान्सिषक्तीति योजनीयम् । कीदृशान्यजमानान्? पीवोन्नान् पीवांसि स्थूलानि प्रभूतान्यन्नानि येषां ते पीवोन्नाः तान् । रयिवृधः रक्ष्या धनेन वर्धमानान् । सुमेधाः शोभनया मेधया यज्ञप्रयोगधारणशक्त्या युक्तान् । कीदृशः श्वेतः पशुः? नियुतामभिश्रीः नितरां युवन्ति रथे मिश्रयन्तीति नियुतः वायोर्वडवाः तासामभिश्रयणीयः । एतस्य पशोर्वायव्यत्वेन वायुद्वारा वडवा अप्येतमाश्रयन्ति । यागे तान् नॄन् यजमानात् श्वेतः सिषक्ति । ते नरो यजमाना वायवे वायुदेवतार्थं समनसः तेन देवेन समानमनस्काः तस्मिन्प्रीतियुक्ता भूत्वा वितस्थुः विशेषेण स्थिताः । ततो विश्वेत् विश्वान्येव वायुदेवताकानि कर्माणि स्वपत्यानि शोभनापत्यप्रदानि चक्रुः कृतवन्तः ॥

विश्वास-प्रस्तुतिः

रा॒येऽनु यञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे ।
रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।
अधा॑ वा॒युन्नि॒युत॑स्सश्चत॒ स्वाः ।
उ॒त श्वे॒तव्ँवसु॑धितिन्निरे॒के ।

मूलम्

रा॒येऽनु यञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे ।
रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।
अधा॑ वा॒युन्नि॒युत॑स्सश्चत॒ स्वाः ।
उ॒त श्वे॒तव्ँवसु॑धितिन्निरे॒के ।

सायण-टीका

रोदसी द्यावापृथिव्यावुभे रायेऽनु धनार्थमेव यं वायुं जज्ञतुः उत्पादितवत्यौ । यजमानानां धिषणा बुद्धिः देवी विद्योतमाना सती वायुं देवं धाति धारयति निरन्तरं ध्यायतीत्यर्थः । अधा आरब्धयागे तं वायुं स्वा नियुतः स्वकीया वडवाः सश्चत सेवन्ते । उत अपिच रेको रिक्तत्वं तद्रहितं कर्म निरेकं, तादृशे सर्वसाधनसंपूर्णे कर्मणि वसुधितिं हविर्लक्षणस्य वसुनो धारकं श्वेतं पशुमपि निभृतः सश्चतेत्वन्वयः ॥

सायणोक्त-विनियोगः

3अथ पुरोडाशस्य याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘आ वायो भूषा’ इति पुरेऽनुवाक्या । सा चैन्द्रवायवप्रस्तावे व्याख्याता । ‘प्रयाभिर्यासि दाश्वाँसम्’ इत्येषा याज्या । सा च हिरण्यगर्भ आपो हेत्यनुवाके व्याख्याता ॥

विश्वास-प्रस्तुतिः

आ वा॑यो॒ प्र याभिः॑ ।

मूलम्

आ वा॑यो॒ प्र याभिः॑ ।

सायण-टीका
  • {मन्त्रः} आ वा॑यो भूष शुचिपा॒ उप॑ नस्स॒हस्र॑न्ते नि॒युतो॑ विश्ववार ।
    उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥

    • 1ऐन्द्रवायवपात्रेण वायव्यं गृह्णाति - आवायो इति चतुष्पदया त्रिष्टुभा ॥ हे वायो शुचिपाः शुचेश्शुद्धस्य पातः । उपेत्युपसर्गश्रुतेर्योग्यं क्रियापदमध्याह्रियते । नः अस्मानुपेत्य, इममस्मदीयं सोमं पानेनाभूष आ समन्तादलं कुरु । यद्वा - अस्मदीयं यज्ञमागमनेनालङ्कुरु । भूष अलङ्कारे, भौवादिकः । कथमनेनागमनेन यज्ञोलङ्क्रियत इत्याह - विश्ववार निजबलेन विश्वस्यावारक , विश्वेषां वा वरणीय, ते तव सहस्रं नियुतः अश्वाः, अतस्तवैवागमनं भूषणाय भवति ।
      हे वायो नियुतमश्वा अस्मानुपयान्तु । यद्वा - वायो आभूषय यज्ञं । तदर्थं किं क्रियतामित्याह – तव सहस्रं नियुतः अस्मानुपागच्छन्तु । यद्वा - भूषेत्यामन्त्रितमेव, भूषयतीति भूषः अलङ्कर्ता कस्य ? तस्य यत्र यत्र गच्छतीति । हे एवंगुणक वायो, तव सहस्रं नियुतोस्मानुपयन्तु तैस्सहितस्सन्नस्मत्सकाशमागच्छेत्यर्थः । उपसर्गद्वयेन क्रियापदमध्याह्रियते । उपो इत्युपशब्दस्यार्थे वर्तते । उपो अयामि समीपं प्रापयामि । किं सोमम् । अहं तुभ्यमागताय सोममुपहरामि । इ गतौ भौवादिकः अन्तर्भावितण्यर्थः णिलुग्वा । कीदृशमित्याह – अन्धः अदनीयम् । ‘अदेर्नुम्धश्च’ इत्यसुन् । मद्यं मदकरम् । ‘गदमदचर’ इत्यादिना यत्, ‘यतो नावः’ इत्याद्युदात्तत्वम् ।
      पुनश्च सोमो विशेष्यते - हे देव वायो यस्य पूर्वपेयं प्रथमपानं त्वं दधिषे दधासि आचरसि, यं लब्ध्वा प्रथमं पिबसि, अन्यमग्रेपिबन्तं न क्षमसे यागेषु । ‘छन्दसि लुङ्लङ्लिटः’ इति दधातेर्लिट् । पिबतेर्भावे ‘अचो यत्’, कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘यतो नावः’ ॥

      • 1अजावशाया उपाकरणेऽनुवर्तयति - आ वायो इति त्रिष्टुप् ॥ इयं व्याख्याता ग्रहेषु । हे वायो शुचिपाः अस्मानुपेत्य आभूषय हे विश्ववार यस्य ते सहस्रं नियुतं अश्वाः । तस्य ते अन्धः अन्नं मद्यं मदहेतुं उपायामि उपगच्छामि । हे देव यस्य च पूर्वपेयं दधिषे दधासि तत्संपादयामीति ॥
  • {मन्त्रः} प्र याभि॒र्यासि॑ दा॒श्वाँस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे ।
    नि नो॑ र॒यिँ सु॒भोज॑सय्ँयुवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यञ्च॒ राधः॑ ।

    • टीका 8तत्रैव याज्या - प्र याभिरिति त्रिष्टुप् । अच्छेति प्रथमपादान्तः ॥ हे वायो याभिः वडबाभिः नियुत्संज्ञाभिः प्रयासि गच्छसि । दाश्वांसं हविर्दत्तवन्तं अच्छ अभिगन्तुं इष्टये यागाय पुनरपि यागं प्रवर्तयितुम् । ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वम्, ‘निपातस्य च’ इति संहितायां अच्छेत्यस्य दीर्घत्वम् । दुरोणे यज्ञगृहे ताभिरागत्येहास्मद्यज्ञगृहे रयिं धनं सुभोजसं शोभनभोजनम् । ‘सोर्मनसि’ इत्युत्तरपदाद्युदात्तत्वम् । नियुव मिश्रय शोभनभुक्तिकं धनमस्माभिर्मिश्रय । पूर्ववद्व्यत्ययेन शः । नियुव च रायः धनम् । कीदृशं ? वीरवत् पुत्रपौत्रादिवत् गव्यं गोसमृद्धिनिमित्तम् । ‘गोद्व्यचः’ इति यत् । यद्वा - गव्यैः क्षीरादिभिस्तद्वत् । अश्वियं अश्वसमूहवत्, ‘केशाश्वाभ्याम्’ इति छः, छान्दसं ह्रस्वत्वम् । आद्युदात्तत्वं च । यद्वा - अश्वयोग स्यापि निमित्तभूतम् । छान्दसो यत् ॥
सायणोक्त-विनियोगः

4अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

बृ॒हद्र॑यिव्ँ वि॒श्ववा॑राँ रथ॒प्राम् ।
द्यु॒तद्या॑मा नि॒युत॒ᳶ पत्य॑मानः ।
क॒विᳵ क॒विमि॑यक्षसि प्रयज्यो ।
आ नो॑ नि॒युद्भि॑श्श॒तिनी॑भिरध्व॒रम् ।

मूलम्

बृ॒हद्र॑यिव्ँ वि॒श्ववा॑राँ रथ॒प्राम् ।
द्यु॒तद्या॑मा नि॒युत॒ᳶ पत्य॑मानः ।
क॒विᳵ क॒विमि॑यक्षसि प्रयज्यो ।
आ नो॑ नि॒युद्भि॑श्श॒तिनी॑भिरध्व॒रम् ।

सायण-टीका

बृहती महती मनीषा यजमानस्य बुद्धिः वायुमभिलक्ष्य प्रकर्षेण यातीति शेषः । कीदृशं वायुं? बृहद्रयिं बृहती रयिर्महद्धनं यस्यासौ बृहद्रयिः बृहद्धनप्रदमित्यर्थः । विश्ववारां विश्वेषामनिष्टानां निवारकम् । रथप्रां स्वकीयं रथमपेक्षितैर्धनैः पूरयन्तम् । हे प्रयज्यो! प्रकर्षेण यष्टुमुद्युक्त यजमान! कविः देवतातत्त्वाभिज्ञंस्त्वं कविं सर्वज्ञं वायुं देवं इयक्षसि भज पूजय । कीदृशः कविः? द्युतद्यामा यामशब्देन नियमरूपो यागोऽभिधीयते द्योतमानो यागो यस्यासौ द्युतद्यामा । नियुतः पत्यमानः नियुतो याः पूर्वोक्ता वडवास्ताः पत्यमानो वायोरानयनार्थं सेवमानः ॥

सायणोक्त-विनियोगः

5अथ याज्यामाह -

विश्वास-प्रस्तुतिः

स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।

मूलम्

स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व ।
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।

सायण-टीका

हे वायो शतिनीभिः शतसंख्यायुक्ताभिः सहस्रिणीभिः सहस्रसंख्यायुकाभिश्च नियुद्भिर्वडवाभिस्सह नः अस्मदीयमध्वरं हिंसारहितं यज्ञं प्रति उप समीपे आयाहि आगच्छ । आगत्य चास्मिन्हविषि स्वीकृते सति मादयस्व त्वं हृष्टः स्सन्नस्मानपि हर्षय । यूयं त्वं च त्वदीयभृत्याश्च सर्वे स्वस्तिभिरविनाशैः फलैर्नोऽस्मान्सदा पात रक्षत । यदेतत्षडृचं सूक्तं वायव्यपशौ प्रवृत्तं तदेतत्सूत्रकारः स्पष्टीचकार - ‘काम्यैः पशुभिरमावास्यायां पौर्णमास्यां वा यजेत । तेषां निरूढपशुबन्धवत्कल्पो वायव्यँ श्वेतमिति । ये ब्राह्मणेन व्याख्यातास्तेषामावापिकेषु स्थानेषु यथादेवतं षडृचो निदधाति । वपायाः पुरोडाशस्य हविष इति द्वे द्वे पीवोन्नाँ रयिवृधः सुमेधा इत्येतानि यथापूर्वं यथालिङ्गमाम्नातानि भवन्ति’ इति ॥