विस्तारः (द्रष्टुं नोद्यम्)
काम्यपशुयाज्यानुवाक्या ब्राह्मणम्
सायण-टीका
(SB) अथ द्वितीयाष्टकेऽष्टमप्रपाठकारम्भः ॥
यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
प्रपाठके सप्तमे हि सवाः सर्वै समीरिताः ।
याज्यानुकवक्याः काम्यानां पशूनामष्टमे श्रुताः ॥ २ ॥
वायव्यः श्वेत आलभ्य इति काम्या उदीरिताः ।
एकैकस्मिन्पशौ सूक्तमेकैकं भवति क्रमात् ॥ ३ ॥
ऋचः षट्सूक्त एकस्मिंस्तत्र द्वे द्वे क्रमाच्छ्रुते ।
वपायां च पुरोडाशे हविषीति क्रमो भवेत् ॥ ४ ॥