१८ विघनाख्य एकाह्नविशेषः

विश्वास-प्रस्तुतिः

इन्द्रव्ँ॒ वै स्वाविशो॑ म॒रुतो॒ नापा॑चायन् ।

सोऽन॑पचाय्यमान ए॒तव्ँ वि॑घ॒नम॑पश्यत् ।
तमाऽह॑रत् ।
तेना॑यजत ।

मूलम्

इन्द्रव्ँ॒ वै स्वाविशो॑ म॒रुतो॒ नापा॑चायन् ।

सोऽन॑पचाय्यमान ए॒तव्ँ वि॑घ॒नम॑पश्यत् ।
तमाऽह॑रत् ।
तेना॑यजत ।

सायण-टीका

(SB) 1सप्तदशे राजाभिषेकाङ्गवपनार्था मन्त्रा उक्ताः । तावताऽभिषेकः समाप्तः । अथाष्टादशे विघनाख्यः कश्चिदेकाहविशेष उच्यते । तत्रादौ विघननिर्वचनं दर्शयति - पुरा कदाचिद्राज्यं कुर्वन्तमिन्द्रं मरुत्संज्ञकाः स्वकीयाः प्रजाः करप्रदानेन पूजां नाकुर्वन् ।

विश्वास-प्रस्तुतिः

तेनै॒वासा॒न्तँ सँ॑ स्त॒म्भव्व्ँय॑हन् ।

मूलम्

तेनै॒वासा॒न्तँ सँ॑ स्त॒म्भव्व्ँय॑हन् ।

सायण-टीका

सोऽयमपूज्यमान इन्द्रस्तत्परिहारायैतं विघनाख्यं क्रतुविशेषमेकाहं निश्चित्य तदनुष्ठानेनासां प्रजानां तं संस्तम्भं स्तम्भनरूपं प्रातिकूल्याचरणं व्यहन् विहतं कृतवान् ।

मूलम्

यद्व्यह॑न् । तद्वि॑घ॒नस्य॑ विघन॒त्वम् ।

वि पा॒प्मान॒म्भ्रातृ॑व्यँ हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ ॥62॥

विश्वास-प्रस्तुतिः

यद्व्यह॒न्न् तद्वि॑घ॒नस्य॑ विघन॒त्वम् ।

वि पा॒प्मान॒म्भ्रातृ॑व्यँ हते॒ ,य ए॒तेन॒ यज॑ते॒, य उ॑ चैनमे॒वव्ँ वेद॑ ॥62॥

मूलम्

यद्व्यह॒न्न् तद्वि॑घ॒नस्य॑ विघन॒त्वम् ।

वि पा॒प्मान॒म्भ्रातृ॑व्यँ हते॒ ,य ए॒तेन॒ यज॑ते॒, य उ॑ चैनमे॒वव्ँ वेद॑ ॥62॥

सायण-टीका

यद्यस्मात्कारणादनेन कर्मणा विहतवान्, तस्माद्विहन्त्यनेनेति व्युत्पत्या कर्मणो विघननाम संपन्नम् ॥

मूलम्

यँ राजा॑नव्ँ॒विशो॒ नाप॒चाये॑युः । यो वा॑ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑त॒स्स्यात् । स ए॒तेन॑ यजेत ।

वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑ । वि॒शामाधि॑पत्यङ्गच्छति ।

विश्वास-प्रस्तुतिः

यँ राजा॑नव्ँ॒विशो॒ नाप॒चाये॑यु॒र् यो वा॑ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑त॒स्स्यात्त् स ए॒तेन॑ यजेत ।

मूलम्

यँ राजा॑नव्ँ॒विशो॒ नाप॒चाये॑यु॒र् यो वा॑ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑त॒स्स्यात्त् स ए॒तेन॑ यजेत ।

सायण-टीका

2तमेतं विघनाख्यं क्रतुं विधते - अथ तत्राधिकरणं दर्शयति - यं राजानं स्वकीयाः प्रजा न पूजयेयुः करं न दद्युः, अथवा यो वा ब्राह्मणस्तमोरूपेण पाप्मना प्रकर्षेणावृतः स्यात् । सोऽयमुभयविधः पुरुषोत्राधिकारी । स च विघनाख्येनैव क्रतुना यजेत ।

विश्वास-प्रस्तुतिः

वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑ वि॒शामाधि॑पत्यङ्गच्छति ।

मूलम्

वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑ वि॒शामाधि॑पत्यङ्गच्छति ।

सायण-टीका

तथा प्रातिकूल्यं विनाश्य प्रजानामधिपत्यं राजा गच्छति, ब्राह्मणश्च विपापो भवति ॥

विश्वास-प्रस्तुतिः

तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः ।
द्वे च॑तुर्विँ॒शे ।
औद्भि॑द्यमे॒व तत् ।

मूलम्

तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः ।
द्वे च॑तुर्विँ॒शे ।
औद्भि॑द्यमे॒व तत् ।

मूलम्

ए॒तद्वै क्ष॒त्रस्यौद्भि॑द्यम् ।
यद॑स्मै॒ स्वाविशो॑ ब॒लिँ हर॑न्ति ॥63॥

विश्वास-प्रस्तुतिः

ए॒तद्वै क्ष॒त्रस्यौद्भि॑द्य॒म् यद॑स्मै॒ स्वाविशो॑ ब॒लिँ हर॑न्ति ॥63॥

मूलम्

ए॒तद्वै क्ष॒त्रस्यौद्भि॑द्य॒म् यद॑स्मै॒ स्वाविशो॑ ब॒लिँ हर॑न्ति ॥63॥

सायण-टीका

3स्तोत्रविशेषं विधत्ते - तस्य विघनाख्यस्य क्रतोर्द्वादशाख्येन स्तोमेन युक्तं स्तोत्रद्वयं कर्तव्यम् । तथा चतुर्विंशाख्येन स्तोमेन युक्तं स्तोत्रद्वयं कर्तव्यम् । तच्च स्तोत्रचतुष्टयमौद्भिद्यमेव उद्भेदनसाधनमेव । अत्र च प्रकृते क्षत्त्रस्य राज्ञः स्वकीयाः प्रजाः करं प्रयच्छन्तीति यदेतदेवौद्भिद्यं प्रातिकूल्यस्योद्भेदनं तच्च स्तोत्रचतुष्टयेन सिध्यति ॥

विश्वास-प्रस्तुतिः

हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् ।
ऐन॒मप्र॑तिख्यातङ्गच्छति ।
य ए॒वव्ँ वेद॑ ।

मूलम्

हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् ।
ऐन॒मप्र॑तिख्यातङ्गच्छति ।
य ए॒वव्ँ वेद॑ ।

सायण-टीका

4वेदनं प्रशंसति - अस्मै वेदित्रे प्रजाः पूजां कुर्वन्ति । अप्रतिख्यातं केनाप्यनिराकृता कीर्तिश्चैनं वेदितारमागच्छति ॥

विश्वास-प्रस्तुतिः

प्र॒बाहु॒ग्वा अग्रे॑ क्ष॒त्राण्याते॑पुः ।

मूलम्

प्र॒बाहु॒ग्वा अग्रे॑ क्ष॒त्राण्याते॑पुः ।

सायण-टीका

5एतस्य विघनस्य यागवेदने पुनः प्रशंसति - अग्रे पुरा कदाचित्क्षत्त्राणि क्षत्त्रियवंशे जाताः पुरुषाः प्रबाहुग्वै बाहुल्येनैव ओतेपुः सर्वतस्तपः कृतवन्तः ।

विश्वास-प्रस्तुतिः

तेषा॒मिन्द्रः॑ क्ष॒त्राण्याद॑त्त ।
“न वा इ॒मानि॑ क्ष॒त्राण्य॑भूव॒न्नि"ति॑ ।
तन्नक्ष॑त्राणन्नक्षत्र॒त्वम् ।

मूलम्

तेषा॒मिन्द्रः॑ क्ष॒त्राण्याद॑त्त ।
“न वा इ॒मानि॑ क्ष॒त्राण्य॑भूव॒न्नि"ति॑ ।
तन्नक्ष॑त्राणन्नक्षत्र॒त्वम् ।

सायण-टीका

तेषां तपः कुर्वतां सर्वेषा यानि क्षत्त्राणि बलानि तानीन्द्र आदत्त स्वीकृतवान् । तत इमानि क्षत्त्राणि बलानि नैवाभूवन्निति सर्वे जना उक्तवन्तः । यस्मादिन्द्रविरोधिनां क्षत्त्रं बलं नासीत्तस्मात्तेषां बलराहित्यवाचि नक्षत्रनाम संपन्नम् ।

मूलम्

आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यन्द॑त्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ ॥ 64॥

विश्वास-प्रस्तुतिः

आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यन्द॑त्ते॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ ॥ 64॥

मूलम्

आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यन्द॑त्ते॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ ॥ 64॥

सायण-टीका

तस्मादिन्द्रवद्यो यजते यश्च वेद सोऽयमुभयविधः पुमान् श्रेयसोऽधिकस्य भ्रातृव्यस्य तेजः आज्ञाशक्तिमिन्द्रियं शरीरं बलं चादत्ते ॥

मूलम्

तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याता॑म् । ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ॑ । अ॒युक्षु॒ स्तोमे॑षु क्रियेते । पा॒प्मनोऽप॑हत्यै ।

विश्वास-प्रस्तुतिः

तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याता॑म् ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमाव् अ॒युक्षु॒ स्तोमे॑षु क्रियेते पा॒प्मनोऽप॑हत्यै ।

मूलम्

तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याता॑म् ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमाव् अ॒युक्षु॒ स्तोमे॑षु क्रियेते पा॒प्मनोऽप॑हत्यै ।

मूलम्

अप॑ पा॒प्मान॒म्भ्रातृ॑व्यँ हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ ।

विश्वास-प्रस्तुतिः

अप॑ पा॒प्मान॒म्भ्रातृ॑व्यँ हते॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ ।

मूलम्

अप॑ पा॒प्मान॒म्भ्रातृ॑व्यँ हते॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ ।

सायण-टीका

6पूर्वोक्तयोर्द्वादशचतुर्विंशस्तोमयोः स्थानविशेषं विधत्ते - चक्रमस्यास्तीति चक्री रथः, चक्रिणा सह वर्तेते इति सचक्रिणौ रथस्वामिनौ कप्लकौ कपिवद्गमनसमर्थो तादृशौ द्वौ पुरुषौ यथा लोके उपावहितौ गमनाय सावधानौ स्यातां, एवमेतौ युग्मन्तौ समसंख्यायुक्तौ द्वादशचतुर्विंशस्तोमौ क्रतोः पारगमने समर्थौ । तावुभौ अयुक्षु विषमसंख्यायुक्तेषु स्तोमेषु कर्तव्यौ । त्रिवृत्पञ्चदशसप्तदशैकविंशाख्याश्चोदकप्राप्ता विषमसंख्यायुक्ताः स्तोमाः, तेषां स्थाने द्वावेतौ स्तोमौ प्रयोक्तव्यौ । तत्र त्रिवृत्पञ्चदशयोः स्थाने द्वादशः सप्तदशैकविंशयोः स्थाने चतुर्विंश इति विवेकः । एतच्च पापविनाशनार्थं भवति ॥

मूलम्

तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑ । ए॒वञ्छन्दाँ॑सि ।

विश्वास-प्रस्तुतिः

तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्य॑ ए॒वञ्छन्दाँ॑सि ।

तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः ॥65॥

मूलम्

तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्य॑ ए॒वञ्छन्दाँ॑सि ।

तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः ॥65॥

सायण-टीका

7एतदनुष्ठानवेदने प्रशंसति । उक्तस्तोमयुक्तानां स्तोत्राणामाधारभूतानृग्विशेषान्विधत्ते - सूता रथप्रास्सारथयः, ग्रामण्यो ग्रामनिर्वाहकाः, तत्र लोकै यथा सूतग्रामण्यस्तथा गायत्रादीनि छन्दांसि प्रवर्तन्ते । सूतेषु मध्ये रथस्वामी यमङ्गीकरोति स एव सूतो रथं प्रवर्तयति । ग्रामणीषु मध्ये राजा यमङ्गीकरोति स एव ग्रामं नयति । एवमत्राप्यसावादित्यः तेषु छन्दस्सु मध्ये बृहतीहछन्दोयुक्ता ऋचः अभ्यूढः अङ्गीकृतवान् । तस्मात्कारणात् सतोबृहतीनामकच्छन्दोयुक्तास्वृक्षु स्तोत्रं कुर्युः । तेषां स्तोत्राणां प्रत्येकमयमभिप्रायः - सतः सन्मार्गवर्तिनः पुरुषात् बृहन्नधिकः सतो बृहन् । प्रजया च पशुभिश्चाहं सतो बृहन्नसानि भवानीत्येव स्तोतारः प्रवर्तन्ते ॥

विश्वास-प्रस्तुतिः

स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन् ।
प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व ।
व्यति॑षक्ताभिस्स्तुवते ।

व्यति॑षक्तव्ँ॒ वै क्ष॒त्रव्ँ वि॒शा ।
वि॒शैवैन॑ङ्क्ष॒त्रेण॒ व्यति॑षजति ।
व्यति॑षक्ताभिस्स्तुवते ।

मूलम्

स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन् ।
प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व ।
व्यति॑षक्ताभिस्स्तुवते ।

व्यति॑षक्तव्ँ॒ वै क्ष॒त्रव्ँ वि॒शा ।
वि॒शैवैन॑ङ्क्ष॒त्रेण॒ व्यति॑षजति ।
व्यति॑षक्ताभिस्स्तुवते ।

सायण-टीका

8तास्वृक्षु गानकाले कंचिद्विशेषं विधत्ते - याः सतोबृहत्य ऋचः ताश्छन्दोन्तरयुक्ताभिः ऋग्भिर्व्यतिषक्ताः कार्याः । ऋगेका सतोबृहती, ऋगन्तरमन्यच्छन्दोयुक्तं पुनरपि सतोबृहती पुनरपि च्छन्दोन्तरमित्येवं व्यतिषङ्गः । तादृशीष्वृक्षु स्तुतिं कुर्युः । क्षत्त्रं क्षत्त्रजातिः विशा वैश्यजात्या व्यतिषक्तं मिश्रीभूय वर्तते । प्रजाभ्यः करं गृहीत्वा क्षत्त्रियो राज्यं करोति । एवं सति व्यतिषक्तस्तोत्रेणैनं यजमानं विशा क्षत्रेण व्यतिषजयति मिश्रयति ॥

विश्वास-प्रस्तुतिः

व्यति॑षक्तो॒ वै ग्रा॑म॒णीस्स॑जा॒तैः ।
स॒जा॒तैरे॒वैन॒व्व्ँयति॑षजति ।
व्यति॑षक्ताभिस्स्तुवते ।

मूलम्

व्यति॑षक्तो॒ वै ग्रा॑म॒णीस्स॑जा॒तैः ।
स॒जा॒तैरे॒वैन॒व्व्ँयति॑षजति ।
व्यति॑षक्ताभिस्स्तुवते ।

सायण-टीका

व्यतिषङ्गं प्रकारान्तरेण प्रशंसति - ग्रामस्य निर्वाहकः पुरुषः सजातैः सहोत्पन्नैभ्रात्रादिभिस्तद्ग्रामनिवासिभिर्व्यतिषक्तो मिश्रीभूतो वर्तते । अतो व्यतिषक्तस्तोत्रेणैवैनं यजमानं सजातैर्भ्रात्रादिभिः संयोजयति ॥

विश्वास-प्रस्तुतिः

व्यति॑षक्तो॒ वै पुरु॑षᳶ पा॒प्मभिः॑ ।
व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते ॥66॥

मूलम्

व्यति॑षक्तो॒ वै पुरु॑षᳶ पा॒प्मभिः॑ ।
व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते ॥66॥

सायण-टीका

10पुनरपि प्रकारान्तरेण प्रशंसति - पुरुषः प्रमादकृतैः पाप्मभिः संसृष्टो वर्तते । ततोऽत्र व्यतिषक्तस्तोत्रेणास्य पुरुषस्य पापानि विनाशयति ।

अस्य प्रपाठकस्यानुवाकार्थसंग्रहः-

सप्तमे तु सवाख्याः स्युः सूयते ह्यभिषिच्यते ।
ईश्वरत्वेन येष्वेते प्रोच्यन्ते सवनामकाः ॥ १ ॥

बृहस्पतिसवो वैश्यसवो ब्रह्मसवस्तथा ।
प्रोक्तः सोमसवस्तद्वत्सवः स्यात्पृथिनामकः ॥ २ ॥

गोसवश्चोदनाख्ये तु सवे होमार्थमन्त्रकाः ।
रथारोहः कर्मविधिः पञ्चशारदनामकः ॥ ३ ॥

क्रतुस्तदीयपशवो ह्यग्निष्टुति पुरोरुचः ।
इन्द्रस्तुतिः पुरोरुक्स्यादप्तोर्यामविधिस्तथा ॥ ४ ॥

राजाभिषेकमन्त्राश्च रथारोहणमन्त्रकाः ।
भवन्ति वपने मन्त्रा विघनः क्रतुरप्ययम् ॥ २ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थभहेश्वरः ॥ ६ ॥

इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते मधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठकेऽष्टादशोऽनुवाकः ॥
सप्तमः प्रपाठकस्समाप्तः ॥