१७ राजाभिषेकाङ्गे वपनम्

विश्वास-प्रस्तुतिः

ये के॒शिन॑ᳶ प्रथ॒मास्स॒त्रमास॑त ।
येभि॒राभृ॑तय्ँ॒यदि॒दव्ँ वि॒रोच॑ते ।
तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ ।
रा॒यस्पोषे॑णे॒मव्ँवर्च॑सा॒ सँ सृ॑जाथ ।

मूलम्

ये के॒शिन॑ᳶ प्रथ॒मास्स॒त्रमास॑त ।
येभि॒राभृ॑तय्ँ॒यदि॒दव्ँ वि॒रोच॑ते ।
तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ ।
रा॒यस्पोषे॑णे॒मव्ँवर्च॑सा॒ सँ सृ॑जाथ ।

सायण-टीका

(SB) 1षोडशे राजाभिषेकाङ्गं रथारोहणमुक्तम् । सप्तदशे तदङ्गं वपनमभिधीयते । कल्पः - ‘ये केशिनो नर्ते ब्रह्मण इति द्वे आहुती हुत्वा’ इति । तत्र प्रथमामाह - केशा येषां सन्ति ते केशिनः । केशिनोऽग्निवायुसूर्याः । शाखान्तरे त्रयः केशिन इत्याम्नानात् । ते च देवाः प्रथमाः इतरेभ्यो देवेभ्यः पूर्वं प्रवृत्ताः । केशिनो ये सत्रमासत अनुष्ठितवन्तः यदिदं जगद्विरोचते विशेषेण प्रकाशते तदिदं सर्वं येभिर्यैर्देवैराभृतं संपादितं तेभ्यो देवेभ्यः घृतेन बहुधा बहुप्रकारं जुहोमि । हे देवाः केशिन इमं राजानं धनपुष्ट्या बलेन च संयोजयथ ॥

विश्वास-प्रस्तुतिः

नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः ।
द्वि॒नाम्नी॑ दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ।
प्र केशा॑स्सु॒वते॑ का॒ण्डिनो॑ भवन्ति ।
तेषा॑म्ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः ।

मूलम्

नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः ।
द्वि॒नाम्नी॑ दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ।
प्र केशा॑स्सु॒वते॑ का॒ण्डिनो॑ भवन्ति ।
तेषा॑म्ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः ।

सायण-टीका

2अथ द्वितीयामाह - ब्रह्मणः परिवृढादेतस्माद्वपनादृतेऽभिषेकाख्यव्रतरूपात्तपसो विमोको विसर्गः समाप्तिर्नास्ति । उपक्रान्तं हि व्रतं समापनीयम् । अस्य चाभिषेकाख्यव्रतस्य वपनेनैव समाप्तिः । व्रतरूपा चेयमभिषेकदीक्षा द्विनाम्नी नामद्वययुक्ता । तस्याश्च वशिनीत्येकं नाम । तया हि सर्वाः प्रजा वशीक्रियन्ते । उग्रेत्यपरं नाम, तया हि दीक्षया शत्रवोऽभिभूयन्ते । दीक्षाया द्विविधव्रतत्वं सोमप्रकरणेऽप्याम्नातम् - ‘एतद्वै सुजघनं नाम व्रतमिति प्रथमम् । एतद्वै क्षुरपवि नाम व्रतमिति द्वितीयम्’ । अतोऽस्य व्रतस्य समाप्तये वपनं कुर्यात् । अस्य राज्ञः केशाः प्रसुवते प्रकर्षेणात्यन्ता वर्धन्ते । अत एव काण्डिनो बहुसमूहयुक्ता भवन्ति । तेषां वर्धमानानां बहुसमूहयुक्तानां केशानां वपनस्य ब्रह्मेत् प्रजापतिरेव ईशे समर्थो भवति । न त्वन्यः कश्चित् । तस्मात्प्रजापतिरूपोऽयं पुरोहितो वपनं करोत्वित्यर्थः ॥

विश्वास-प्रस्तुतिः

आ रो॑ह॒ प्रोष्ठव्ँ॒विष॑हस्व॒ शत्रू॑न् ।
अवा॑स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ॥59॥
दे॒हि दक्षि॑णा॒म्प्रति॑र॒स्वायुः॑ ।
अथा॑मुच्यस्व॒ वरु॑णस्य॒ पाशा॑त् ।

मूलम्

आ रो॑ह॒ प्रोष्ठव्ँ॒विष॑हस्व॒ शत्रू॑न् ।
अवा॑स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ॥59॥
दे॒हि दक्षि॑णा॒म्प्रति॑र॒स्वायुः॑ ।
अथा॑मुच्यस्व॒ वरु॑णस्य॒ पाशा॑त् ।

सायण-टीका

3कल्पः - “यजमानायतन औदुम्बरीमासन्दीं प्रतिष्ठापयति ताँगजाऽऽरोहति ‘आरोह प्रोष्ठम्’ इत्यारोहन्तमभिमन्त्रयते” इति । हे राजन्, प्रोष्ठमासन्दीरूपं मञ्चकमारोह । शत्रून्विषहस्व विशेषेणाभिभव । येयं वशिन्युग्रा चेति द्विनाम्नी दीक्षा सेयं यस्मादवास्राक् अवसृष्टा समाप्ता तस्मात्पुरोहिताय दक्षिणां देहि । आयुः प्रतिरस्व त्वमपि दीर्घमायुः प्राप्नुहि । अथानन्तरं वरुणस्य पाशादस्माद्रथनिर्बन्धान्मुच्यस्व मुक्तो भव ॥

विश्वास-प्रस्तुतिः

येनाव॑पत्सवि॒ता क्षु॒रेण॑ ।
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम् ।
र॒य्या वर्च॑सा॒ सँसृ॑जाथ ।

मूलम्

येनाव॑पत्सवि॒ता क्षु॒रेण॑ ।
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम् ।
र॒य्या वर्च॑सा॒ सँसृ॑जाथ ।

सायण-टीका

4कल्पः - ‘तस्यामासीनः केशान्वापयते येनावपत्सविता क्षुरेण’ इति । पुरा विद्वान्सविता राज्ञो रानाभिषेकं प्राप्नुवतः सोमस्य वरुणस्य च केशान्येन क्षुरेणावपत्तेन क्षुरेण हे ब्राह्मणाः प्रजापतिरूपाः पुरोहिता अस्येदं केशजातं वपत । इमं च राजानं ऊर्जा क्षीरादिरसेन रय्या धनेन वर्चसा बलेन च संसृजाथ संयोजयत ॥

विश्वास-प्रस्तुतिः

मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत् ।
तथा॑ धा॒ता क॑रोतु ते ।
तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑ ।
स॒वि॒ता वर्च॒ आद॑धात् ॥60॥

मूलम्

मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत् ।
तथा॑ धा॒ता क॑रोतु ते ।
तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑ ।
स॒वि॒ता वर्च॒ आद॑धात् ॥60॥

सायण-टीका

5कल्पः - ‘मा ते केशानिति केशान्प्रकीर्यमाणाननुमन्त्रयते’ इति । हे राजन्, ते वर्चो वलं केशाननु मा गात् माऽपगच्चछतु । ते तवैतद्यथा भवति तथा धाता करोतु । तुभ्यं त्वदर्थमिन्द्रबृहस्पतिसवितारो नूतनमप्यधिकं वर्चो बलं संपादयन्तु ॥

विश्वास-प्रस्तुतिः

तेभ्यो॑ नि॒धान॑म्बहु॒धा व्यैच्छ॑न् ।
अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ।
द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑ ।
पौँस्ये॑ने॒मव्ँवर्च॑सा॒ सँसृ॑जाथ ।

मूलम्

तेभ्यो॑ नि॒धान॑म्बहु॒धा व्यैच्छ॑न् ।
अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ।
द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑ ।
पौँस्ये॑ने॒मव्ँवर्च॑सा॒ सँसृ॑जाथ ।

सायण-टीका

6कल्पः - ‘तान्समोप्य दर्भस्तम्बे निदधाति तेभ्यो निधानम्’ इति । तेभ्यः तत्केशार्थं निधानं स्थापनपदेशं बहुधा बहुप्रकारं व्यैच्छन् ब्राह्मणा विशेषेणेच्छां कृतवन्तः । किं स्थानमिति तदुच्यते - ते द्यावाष्टथिवी अन्तरा द्यावापृथिव्योर्मध्यमेकं स्थानमैच्छन् । अपो जलं द्वितीयं स्थानमैच्छन् । सुवः स्वर्गरूपं तृतीयं स्थानमैच्छन् । वीर्यकृते सामर्थ्येन संपादिते दर्भस्तम्बे तान्केशान्निधायेमं राजानं पौंस्येन वर्चसा पौरुषेण बलेन संसृजाथ हे ब्राह्मणाः संयोजयत ॥

विश्वास-प्रस्तुतिः

बल॑न्ते बाहु॒वोस्स॑वि॒ता द॑धातु ।
सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑ ।
स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् ।
पौँस्ये॑ने॒मव्ँवर्च॑सा॒ सँसृ॑जाथ ।

मूलम्

बल॑न्ते बाहु॒वोस्स॑वि॒ता द॑धातु ।
सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑ ।
स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् ।
पौँस्ये॑ने॒मव्ँवर्च॑सा॒ सँसृ॑जाथ ।

सायण-टीका

7कल्पः - “अथैनमाज्यमिश्रेण पयसाऽनक्ति ‘बलं ते बाहुवोः’ इति बाहू” इति । हे राजन्, ते बाहुवोर्बलं संपादयतु । सोमस्त्वां पयसा धृतेन च समनक्तु सम्यगक्तं करोतु । अश्विना हे अश्विनौ एतद्रमणीयं रूपमेतदीयासु स्त्रीषु निधत्तं स्थापयतम् । पौंस्येनेत्यादि पूर्ववत् ॥

  • इमं राजानं पौंस्येन वर्चसा पौरुषेण बलेन संसृजाथ हे ब्राह्मणाः संयोजयत ॥
विश्वास-प्रस्तुतिः

यत्सी॒मन्त॒ङ्कङ्क॑तस्ते लि॒लेख॑ । यद्वा॑ क्षु॒रᳶ प॑रिव॒वर्ज॒ वपँ॑स्ते । स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् । पौँस्ये॑ने॒मँ सँसृ॑जाथो वी॒र्ये॑ण ॥61॥

मूलम्

यत्सी॒मन्त॒ङ्कङ्क॑तस्ते लि॒लेख॑ । यद्वा॑ क्षु॒रᳶ प॑रिव॒वर्ज॒ वपँ॑स्ते । स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् । पौँस्ये॑ने॒मँ सँसृ॑जाथो वी॒र्ये॑ण ॥61॥

सायण-टीका

8कल्पः - ‘यत्सीमन्तमिति शिरः’ इति । आज्यमिश्रेण पयसाऽनक्तीत्यनुवर्तते । हे राजन् ते तव वपनात्पुरा कङ्कतः केशलघिमासंपादकः शलाकाविशेषः, यत्सीमन्तं लिलेख शिखावशेषाय वपनीयस्थापनीयययोः केशभागयोर्विभागं चकार । यद्वा अथवा क्षुरोऽयं वपन्वपनं कुर्वन्यत्केशजातं परिववर्ज वपनमकृत्वा स्थापितवान् । सीमन्तलेखनात्मकं यद्दर्शनीयं रूपं यच्च वपनवर्जननिमित्तं रूपं एतदुभयं हेऽश्विनावेतदीयासु स्त्रीष्वलंकाराय निधत्तम् । इमं तु राजानं पौंस्येन पुरुषसंबन्धिना वीर्येण संसृजाथ संयोजयतम् ॥

अत्र विनियोगसंग्रहः-
ये केशिनः प्र नर्ते द्वे आहुती जुहुयादथ ।
आरोहन्तं तमासन्दीमारोहेत्यभिमन्त्रयेत् ॥ १ ॥

येन वापयते केशान्मा ते केशानुमन्त्रणम् ।
तेभ्यस्तान् स्तम्ब आदध्याद्वलं बाह्वोर्घृताञ्जनम् ।
यत्सीमन्तेऽञ्जनं मन्त्रा अष्टावत्र प्रकीर्तिताः ॥ २ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्ठके सप्तमप्रपाठके सप्तदशोऽनुवाकः ॥