१६ राजाभिषेकाङ्गे रथारोहणम्

विश्वास-प्रस्तुतिः

अ॒भिप्रेहि॑ वी॒रय॑स्व ।

उ॒ग्रश्चेत्ता॑ सपत्न॒हा ।

मूलम्

अ॒भिप्रेहि॑ वी॒रय॑स्व ।

उ॒ग्रश्चेत्ता॑ सपत्न॒हा ।

सायण-टीका

(SB) 1पञ्चदशे राजाभिषेक उक्तः । षोडशे तदङ्गत्वेन रथारोहणमुच्यते । कल्पः - ‘अग्रेणाग्निँ रथोऽवस्थितो भवत्यभि प्रेहीति तँ राजाऽभ्येति’ इति । सोऽयं मन्त्रोऽष्टमेऽनुवाके व्याख्यातः ।

  • टीका (SB) 1सप्तमेऽनुवाके ओदनसवस्य होमादिमन्त्रा उक्ताः । अष्टमे रथारोहणमन्त्रा उच्यन्ते । कल्पः - “अग्रेणाहवनीयं रथोऽवस्थितो भवति । ‘अभिप्रेहि’ इति तं यजमानोऽभ्येति” इति । हे यजमान रथमभिलक्ष्य प्रेहि प्रकर्षेण गच्छ । गत्वा च वीरयस्व विक्रमं कुरु ।

  • उग्रः तीव्रशासनः चेत्ता जयोपायाभिज्ञः सपत्नहा वैरिघाती च भव ।

विश्वास-प्रस्तुतिः

आति॑ष्ठ मित्र॒वर्ध॑नः ।

मूलम्

आति॑ष्ठ मित्र॒वर्ध॑नः ।

विश्वास-प्रस्तुतिः

आति॑ष्ठ वृत्र॒हन्त॑मः ।

तुभ्य॑न्दे॒वा अधि॑ब्रवन् ।

मूलम्

आति॑ष्ठ वृत्र॒हन्त॑मः ।

तुभ्य॑न्दे॒वा अधि॑ब्रवन् ।

सायण-टीका

कल्पः - ‘आतिष्ठ वृत्रहन्तम इत्यारोहन्तमभिमन्त्रयते’ इति । अयमपि तत्रैव व्याख्यातः ॥

  • टीका कल्पः - ‘आतिष्ठ मित्रवर्धन इत्यारोहन्तमभिमन्त्रयते’ इति । हे यजमान त्वं मित्राभिवृद्धिहेतुस्सन् रथमातिष्ठ आरोह ।

  • देवास्तुभ्यं त्वदर्थमधिब्रवन् अधिकोऽयं यजमान इति ब्रुवन्तु ।

विश्वास-प्रस्तुतिः

अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यौ । ध्वा॒न्तव्ँ वा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ । दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री । ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ।

मूलम्

अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यौ । ध्वा॒न्तव्ँ वा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ । दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री । ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ।

सायण-टीका

2कल्पः - ‘अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति’ इति । अङ्क इति दक्षिणचक्रस्य नाम, न्यङ्क इत्युत्तरचक्रस्य । रथमभितः रथस्य पार्श्वयोर्यावङ्कौ यौ च न्यङ्कौ विद्येते । एकैकस्मिन्पार्श्वे चक्रद्वयं रथस्य चक्रचतुष्टयोपेतत्वात् । अथवाऽङ्कशब्दश्चक्रवाची । न्यङ्कशब्दश्चक्रयुक्तपक्षवाची । यावङ्कौ तौ यौ च न्यङ्कौ तौ धवन्तं ध्वनियुक्तं वाताग्रं वायोः पूर्वभागमनुसंचरन्तौ वायोरपि शीघ्रवेगेन गच्छत इत्यर्थः । दूरे हेतिरित्यादिभिस्त्रिभिः शब्दैस्त्रयोऽग्निविशेषा उच्यन्ते । ते त्रयोऽप्यग्नयः पप्रयः गमनं पूरयन्तो नोऽस्मान्पारयन्तु गमनसमाप्तिं प्रापयन्तु ॥

  • अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यौ
    ध्वा॒न्तव्ँवा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ ।
    दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री
    ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ॥ [33]

    • टीका 8रथस्य चक्रे पक्षसी वाभिमृशति - अङ्काविति त्रिष्टुभा ॥ अङ्कौ लक्षणभूतौ रथस्य । अकि लक्षणे, करणे घञ् । अञ्चतेर्वा । याभ्यां रथोञ्चति गच्छति तादृशौ । उञ्छादिर्द्रष्टव्यः । न्यङ्कौ नियतगमनौ निश्चितगमनौ वा । क्व? अभितो रथं रथस्य पार्श्वयोः यौ नियतगमनौ । ‘नेरनिधाने’ इत्युत्तरपदान्तोदात्तत्वम् । ध्वान्तं शब्दितं शब्दवत् । णिचि व्यत्ययेनेडभावः । वाताग्नं वातस्य पूर्वभागं अनुसञ्चरन्तौ शीघ्रतया वातमतिलङ्घ्य चरन्तौ तावङ्कौ । दूरेहेतिः, इन्द्रियावान्, पतत्रीत्येतन्नामानस्त्रयो नोस्माकमग्नयः पप्रयः पूरयितारः कर्मणाम् । एतावङ्कौ पारयन्तु कर्मणि समर्थौ कुर्वन्तु । यद्वा - नोस्माकं पप्रयः अस्मद्धितार्थं तौ पारयन्तु । प्रा पूरणे, छान्दसस्य लिटः ‘आदृगमहन’ इति किन्प्रत्ययः । ते इति वा लिङ्गव्यत्ययः ; तावित्यर्थः । पक्षसी वा विशेष्येते ; ‘अङ्कसाधने ते पक्षसी पारयन्त्विति । पार तीर कर्मसमाप्तौ ॥
विश्वास-प्रस्तुतिः

नम॑स्त ऋषे गद ।

मूलम्

नम॑स्त ऋषे गद ।

सायण-टीका

3कल्पः - ‘नमस्त ऋष इति पुरोहितमभिमन्त्रयते’ इति । हे ऋषे अतीन्द्रियद्रष्टः पुरोहित ते तुभ्यं नमोऽस्तु । गद अस्मभ्यं हितं कथय ।

विश्वास-प्रस्तुतिः

अव्य॑थायै त्वा स्व॒धायै॑ त्वा ॥55॥

मूलम्

अव्य॑थायै त्वा स्व॒धायै॑ त्वा ॥55॥

सायण-टीका

अव्यथायै शत्रुकृतबाधाराहित्याय त्वा त्वां भजाम इति शेषः । स्वधायै अन्नार्थं त्वां भजामः ।

विश्वास-प्रस्तुतिः

मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः ।

मूलम्

मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः ।

सायण-टीका

हे ऋष्व पुरोहितात्मन् ऋषे, इन्द्र परमैश्वर्यसंपन्न नोऽस्माकं त्वत् तव प्रसादादरिष्टासः अस्माभिर्हिंसितुं बाधितुमशक्याः प्रत्यवायाः अभितः सर्वतो मा भूवन् ।

विश्वास-प्रस्तुतिः

ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु ।

मूलम्

ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु ।

सायण-टीका

हे ब्रह्मन्, तवेत् तवैव प्रसादादेवेत्थमेवास्तु ॥

विश्वास-प्रस्तुतिः

तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः ।

मूलम्

तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः ।

सायण-टीका

4कल्पः - ‘तिष्ठा रथे इति सारथिम्’ इति । अभिमन्त्रयत इत्यनुवर्तते । हे सारथे यस्मात्त्वं वज्रहस्तस्तस्माद्रथेऽप्यधितिष्ठ अधिरुह्य स्थितो भव ।

विश्वास-प्रस्तुतिः

आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ ।

मूलम्

आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ ।

सायण-टीका

कल्पः - ‘आ रश्मीनिति रश्मीनालभेत’ इति । हे देव रथप्रवर्तक स्वश्वः शोभनाश्वयुक्तस्त्वं रश्मीन् प्रग्रहान् युवसे आदाय मिश्रीकुरु ।

विश्वास-प्रस्तुतिः

आति॑ष्ठ वृत्रहन्ना॒तिष्ठ॑न्त॒म्परि॑ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॑ त्वा मि॒त्रावरु॑णौ ।

मूलम्

आति॑ष्ठ वृत्रहन्ना॒तिष्ठ॑न्त॒म्परि॑ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॑ त्वा मि॒त्रावरु॑णौ ।

सायण-टीका

कल्पः - ‘आतिष्ठ वृत्रहन्निति षड्भिरारूढम्’ इति । अभिमन्त्रयत इत्यनुवर्तते । तत्र चतुर्णां मन्त्राणां प्रतीकानि दर्शयति - एते मन्त्रा अष्टमानुवाके व्याख्याताः ॥

  • आ ति॑ष्ठ वृत्रह॒न्रथय्ँ॑यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
    अ॒र्वा॒चीनँ॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥

    • टीका 1षोडशिनं गृह्नाति - आतिष्ठेत्यनुष्टुभा ॥ हे वृत्रहन् रथमातिष्ठ । यस्मात्ते तव स्वभूतौ हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता युक्तौ । ‘सुपां सुलुक्’ इत्याकारः । तस्माद्रथमातिष्ठेति । किञ्च - ते तव मनः अर्वाचीनं अस्मद्यज्ञाभिमुखं ग्रावा अभिषवाश्मा सुकृणोतु सुष्ठु करोतु वग्नुना वचनीयेन श्रवणीयेनाभिषवशब्देन ॥
  • मन्त्रः आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूषन् ।
    श्रियव्ँ॒वसा॑नश्चरति॒ स्वरो॑चाः ।
    म॒हत्तद॒स्यासु॑रस्य॒ नाम॑ ।
    आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।

  • टीका 2अथ द्वितीयामृचमाह - आतिष्ठन्तं रथमारोहन्तं यजमानं विश्वेदेवाः सर्वेऽपि देवाः पर्यभूषन् परितोऽलंकृतवन्तः । अयं च रथस्त्वयाऽधिष्ठितः श्रियं वसान आच्छादयंस्त्वयि सर्वसंपदं कुर्वन्नित्यर्थः । स्वरोचाः स्वायत्तदीप्तिस्सन् चरति प्रवर्तते । असुरस्य शत्रूणां निरसितुर्मित्राणां वा प्राणप्रदस्यास्य रथस्य तन्नाम महत् अधिकम् । त्वदीयो रथ आयातीति श्रुत्वा शत्रवः पलायन्त इत्यर्थः । एवंविधो रथो विश्वरूपो बडुदेशसंचारेण बडुविधरूपस्सन् अमृतानि अमरणसाधनानि फलानि आतस्थौ संपादयति ॥

  • मन्त्रः अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ॥23॥
    अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् ।
    अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु ।
    अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः ।

  • टीका 3अथ तृतीयामाह - हे यजमान रथमातिष्ठन्तं त्वामिन्द्रबृहस्पतिसोमा अनुमदन्तु अनुमोदन्तामङ्गीकुर्वताम् । अग्नेरपि त्वां अनु क्रमेण आवीत् रक्षतु । ये विश्वे देवास्तेऽपि त्वां अनुक्रमेणावन्तु । उत अपिच सप्त राजानः त्वदीयदिग्व्यतिरिक्ताः सप्तसु दिक्षु वर्तमाना राजानोऽभिषिक्ता ये सन्ति ते सर्वेऽपि त्वामनुमोदन्तु ॥

  • मन्त्रः अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् ।
    अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू ।
    सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु ।
    च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वाऽवतु ।

  • टीका 4अथ चतुर्थीमाह - मित्रावरुणविह कर्मणि त्वां अनु क्रमेण रक्षताम् । विश्वशंभू विश्वस्य सुखस्य भावयित्र्यौ द्यावापृथिव्यौ त्वामनुरक्षताम् । सूर्योऽयमहोभिः सह त्वामन्ववतु । चन्द्रमा नक्षत्रैः सह त्वामनुरक्षतु ॥

विश्वास-प्रस्तुतिः

द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा ।
शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु ।
अनु॑ स्व॒धा चि॑किताँ॒ सोमो॑ अ॒ग्निः ।
अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑ ॥56॥

मूलम्

द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा ।
शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु ।
अनु॑ स्व॒धा चि॑किताँ॒ सोमो॑ अ॒ग्निः ।
अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑ ॥56॥

सायण-टीका

5पञ्चमं मन्त्रमाह - अत्रापि पादत्रयं तस्मिन्नेवानुवाके व्याख्यातम् । हे राजान् सविता देवः सवेन प्रेरणेन त्वा अन्ववतु अनुकूलस्सन् रक्षतु ।

  • टीका 5 अथ पञ्चमीमाह - द्यौश्च पृथिवी चेत्येते प्रचेतसा प्रकृष्टज्ञानयुक्ते सत्यौ त्वां रक्षताम् । योऽयं सोमयागे शुक्राख्यो ग्रहः स त्वां पिपर्तु पालयतु । तथा बृहत् साम त्वां पिपर्तु । दक्षिणा त्वां पिपर्तु । स्वधाशब्दोपलक्षितमन्नं त्वामनुचिकित्सतां तवानिष्टं निवारयत्वित्यर्थः । तथा तमोऽग्निश्चेत्येतावुभौ त्वदीयमनिष्टं निवारयेताम् ।
विश्वास-प्रस्तुतिः

इन्द्रव्ँ॒विश्वा॑ अवीवृधन् ।
स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ ।
र॒थीत॑मँ रथी॒नाम् ।
वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् ।

मूलम्

इन्द्रव्ँ॒विश्वा॑ अवीवृधन् ।
स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ ।
र॒थीत॑मँ रथी॒नाम् ।
वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् ।

सायण-टीका

अथ षष्ठमन्त्रमाह - अयं मन्त्रः पूर्वानुवाके व्याख्यातः ॥

  • विश्वा गिरः सर्वाः स्तुतिरूपा वाचस्त्वामवीवृधन् वर्धितवत्यः । कीदृशं त्वाम्? इद्रं परमैश्वर्ययुक्तं समुद्रव्यचसं समुद्रवद्व्यापिनं रथीनां रथीतमम् रथयुक्तानां राज्ञां मध्येऽतिशयेन रथस्वामिनं वाजानामन्नानां पतिं पालकं तथा सत्पतिं सन्मार्गवर्तिनां फालकम् ।
विश्वास-प्रस्तुतिः

परि॑मा से॒न्या घोषाः॑ ।
ज्यानाव्ँ॑ वृञ्जन्तु गृ॒ध्नवः॑ ।
मे॒थि॒ष्ठाᳶ पिन्व॑माना इ॒ह ।
माङ्गोप॑तिम॒भि सव्ँ वि॑शन्तु ।

मूलम्

परि॑मा से॒न्या घोषाः॑ ।
ज्यानाव्ँ॑ वृञ्जन्तु गृ॒ध्नवः॑ ।
मे॒थि॒ष्ठाᳶ पिन्व॑माना इ॒ह ।
माङ्गोप॑तिम॒भि सव्ँ वि॑शन्तु ।

सायण-टीका

6कल्पः - ‘परि मा सेन्या इति द्वे वाचयित्वा’ इति । तत्र प्रथमामाह - सेन्याः परकीयायां सेनायां भवाः, ज्यानां धनुर्गतानां घोषा नादा मा परिवृञ्जन्तु मां परितो वर्जयन्तु । तदीया धनुर्घोषा मद्विषये मा प्रवर्तन्ताम् । कीदृशा घोषाः? गृध्नवः परराष्ट्रग्रहणेच्छावन्तः, मेथिष्ठाः श्रोत्रसंगमनोचिताः, इह अस्मिन्कर्मणि युद्धविशेषे वा पिन्वमाना अप्रतिकूलत्वेन मां प्रणीयन्तः । तादृशा ज्याघोषा गोपतिं भूपतिं मामभिसंविशन्तु अभितः सम्यक्प्रवि- शन्तु । ये शत्रुसंबन्धिनो घोषास्ते सर्वेऽप्यप्रतिकूलत्वेन स्वकीयघोषा भवन्त्वित्यर्थः ॥

विश्वास-प्रस्तुतिः

तन्मेऽनु॑मति॒रनु॑ मन्यताम् ।
तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ॥57॥
तद्ग्रावा॑णस्सोम॒सुतो॑ मयो॒भुवः॑ ।
तद॑श्विना शृणुतँ सौभगा यु॒वम् ।

मूलम्

तन्मेऽनु॑मति॒रनु॑ मन्यताम् ।
तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ॥57॥
तद्ग्रावा॑णस्सोम॒सुतो॑ मयो॒भुवः॑ ।
तद॑श्विना शृणुतँ सौभगा यु॒वम् ।

सायण-टीका

7अथ द्वितीयामाह - अनुमत्याख्या देवी तत् मदीयं कर्म अनुमन्यतां अङ्गीकरोतु । पृथिव्याख्या माता तदनुमन्यताम् । द्युलोकरूपः पिता तदनुमन्यताम् । सोमसुतः सोममभिषुण्वन्तः मयोभुवः सुखस्य भावयितारः ग्रावाणः पाषाणास्तदनुमन्यताम् । हेऽश्विनौ सौभगा युवं भाग्यवन्तौ युवां तच्छृणुतम् ॥

विश्वास-प्रस्तुतिः

अव॑ ते॒ हेड॒ उदु॑त्त॒मम् ।

मूलम्

अव॑ ते॒ हेड॒ उदु॑त्त॒मम् ।

सायण-टीका

8कल्पः - ‘उत्तराभिस्तिसृभिरभिमत्र्य’ इति । तत्र द्वयोः प्रतीके दर्शयति - एतच्चोभयं संहितायां ‘वैश्वानरो न’ इत्यनुवाके व्याख्यातम् ।

  • अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ ।
    क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाँ॑सि शिश्रथᳵ कृ॒तानि॑ ॥

  • अथ त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या - अवते हेड इति त्रिष्टुप् ॥ हे वरुण ते तव हेडः क्रोधमभिशस्त्यादिहेतुं नमोभिर्नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः । ततस्त्वमस्मभ्यमस्मदर्थमेव हे क्षयन्निवसन् अस्मदुपकारायैव यतमान । क्षियतेर्व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अस्मदीयानि कृतान्येनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥

  • अथ वारुणस्य पुरोनुवाक्या - अव ते हेड इति त्रिष्टुप् ॥ इयं ‘वैश्वानरो नः’ इत्यत्र व्याख्याता । हे वरुण नमोभिः नमस्कारैरन्नैर्वा यज्ञैश्च हविर्भिश्च हविष्मद्भिर्वा यज्ञैः तव हेडः क्रोधं अवेमहे अवनयामः । हे असुर प्राणप्रद प्रकृष्टचेतस्क राजन् अस्मभ्यमस्मदर्थं क्षयन्निवसन् अस्माकं कृतानि पापानि शिश्रथः श्लथयेति ॥

  • मन्त्रः

    • उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मव्ँवि म॑ध्य॒मँ श्र॑थाय ।
      अथा॑ व॒यमा॑दित्य [49] व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥

    • टीका 6तत्रैव याज्या - उदुत्तममिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण उत्तमं उत्तमफलप्राप्तिहेतुं ऊर्ध्वकर्षणं वा पाशं कर्मपाशं अस्मत्त उच्छ्रथाय ऊर्ध्वमुत्क्षिप्य उत्कृष्य नाशय । अधमं निकृष्टफलप्राप्तिहेतुं अधःपतनहेतुं वा कर्मपाशमवश्रथय अधस्तादपकृष्य नाशय । मध्यमं पाशं विश्रथय विष्वङ्नाना विकृष्य नाशय । अथैवं त्वया कृते वयमनागसः क्षाळितसर्वकर्माणः तव व्रते कर्मणि उपासनात्मनि स्याम अदितये अखण्डितैश्वर्याय हे आदित्य देवानामादिभूत अदितेर्वा अपत्येति ॥

    • तत्रैव याज्या - उदुत्तममिति त्रिष्टुप् ॥ हे वरुण उत्तमं पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वमुच्छ्रथय । अधममवश्रथय अधस्तादवकृष्य नाशय । मध्यमं विश्रथय विष्वक्कृत्य नाशय । श्रथ दौर्बल्ये चुरादिरदन्तः, वर्णव्यत्ययेनोपान्त्यस्य दीर्घत्वम् । अत्र केचित् - उद्भूतादिभूतमध्यस्थशक्तितया धर्मपाशानां त्रैविध्यमाहुः । उत्तमाधममध्यमदेहप्रभवतया त्वन्ये । ऊर्ध्वाधोमध्यमगतिहेतुत्वेनापरे । अथानन्तरं वयमनागसः विमुक्तसर्वपापाः तव व्रते कर्मणि स्याम योग्या भवेम । अदितये अखण्डितत्वाय अदीनत्वाय वा स्यामेति । हे आदित्य अदितेः पुत्र । यद्वा - इत्थमनागसस्सन्तो वयमदितये अनभिशस्तये स्याम । किमर्थं? तव व्रते कर्मणि कर्मार्थं योग्यतार्थमिति । अनागस इति बहुव्रीहौ व्यत्ययेन ‘नञ्सुभ्याम्’ इति न प्रवर्तते, लुप्तमत्वर्थीयो वा अनागस्विन इति ॥

विश्वास-प्रस्तुतिः

ए॒ना व्या॒घ्रम्प॑रिषस्वजा॒नाः ।
सिँ॒हँ हि॑न्वन्ति मह॒ते सौभ॑गाय ।
स॒मु॒द्रन्न सु॒हुव॑न्तस्थि॒वाँस॑म् ।
म॒र्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्व॑न्तः ।

मूलम्

ए॒ना व्या॒घ्रम्प॑रिषस्वजा॒नाः ।
सिँ॒हँ हि॑न्वन्ति मह॒ते सौभ॑गाय ।
स॒मु॒द्रन्न सु॒हुव॑न्तस्थि॒वाँस॑म् ।
म॒र्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्व॑न्तः ।

सायण-टीका

अथ तृतीयामाह - व्याघ्रं व्याघ्रवत्केनाप्यप्रधृष्यं सिंहं सिंहसमानशक्तियुक्तमेनं राजानं परिषस्वजाना आलिङ्गयन्तो ब्राह्मणा बान्धवाश्च महते सौभगाय हिन्वति प्रीणयन्त्याशीर्वादान्कुर्वन्तीत्यर्थः । समुद्रं न समुद्रमिव सुखेनाह्वातुं शक्यं तस्थिवांसं तस्मिन्स्थानेऽवस्थितमेनं मर्मृज्यन्ते अभिषेकलेपान्पुनःपुनः शोधयन्ति । तत्र दृष्टान्तः - अप्स्वन्तः जलमध्ये द्वीपिनं गजं यथा प्रक्षांलयन्ति तद्वदित्यर्थः ।

विश्वास-प्रस्तुतिः

उद॒सावे॑तु॒ सूर्यः॑ ।
उदि॒दम्मा॑म॒कव्ँवचः॑ ।
उदि॑हि देव सूर्य ।
स॒ह व॒ग्नुना॒ मम॑ ।

मूलम्

उद॒सावे॑तु॒ सूर्यः॑ ।
उदि॒दम्मा॑म॒कव्ँवचः॑ ।
उदि॑हि देव सूर्य ।
स॒ह व॒ग्नुना॒ मम॑ ।

सायण-टीका

9कल्पः - ‘उदसावेत्वित्यादित्यमुदीक्षयति’ इति । असौ राजा सूर्यसमो भूत्वा उदेतु उदयमभिवृद्धिं गच्छतु । मामकं मदीयमिदमाशीर्वादरूपं वच उदेतु अभिवृद्धिं गच्छतु । हे सूर्य देव दीप्यमान राजन् मम ब्राह्मणस्य सह वग्नुना वचनेनाशीर्वादेन सह त्वमुदिहि अभ्युदयं गछ ।

विश्वास-प्रस्तुतिः

अ॒हव्ँ वा॒चो वि॒वाच॑नम् ।
मयि॒ वाग॑स्तु धर्ण॒सिः ।
यन्तु॑ न॒दयो॒ वर्ष॑न्तु प॒र्जन्याः॑ ।
सु॒पि॒प्प॒ला ओष॑धयो भवन्तु ।

मूलम्

अ॒हव्ँ वा॒चो वि॒वाच॑नम् ।
मयि॒ वाग॑स्तु धर्ण॒सिः ।
यन्तु॑ न॒दयो॒ वर्ष॑न्तु प॒र्जन्याः॑ ।
सु॒पि॒प्प॒ला ओष॑धयो भवन्तु ।

सायण-टीका

अहं पुरोहितः वाचः धर्माधर्मात्मिकायाः विवाचनं विशेषेणाभिवदनसामर्थ्यं प्राप्नुयामिति शेषः । येयं मयि स्थिताऽऽशीर्वादरूपा वाक्सा धर्णसिः धरणशीला सुप्रतिष्ठिताऽस्तु । नदयो नद्यः सर्वा यन्तु पूर्णाः प्रवहन्तु । पर्जन्या मेघाः स्वस्वकाले वर्षन्तु । ओषधयो व्रीह्यादयः सुपिप्पलाः शोभनफलोपेता भवन्तु ॥

विश्वास-प्रस्तुतिः

अन्न॑वतामोद॒नव॑तामा॒मिक्ष॑वताम् ।
ए॒षाँ राजा॑ भूयसाम् ॥58॥

मूलम्

अन्न॑वतामोद॒नव॑तामा॒मिक्ष॑वताम् ।
ए॒षाँ राजा॑ भूयसाम् ॥58॥

सायण-टीका

10कल्पः - ‘अन्नवतामिति जनपदाननुवीक्षते’ इति । अदनीयानि प्रशस्तभक्ष्यभोज्यानि येषु ग्रामेषु ते ग्रामा अन्नवन्तः । प्रभूतेन व्रीहिप्रियङ्गाद्योदनेन युक्ता ओदनवन्तः । आमिक्षशब्देन दधिक्षीरादिरसद्रव्याण्युपलक्ष्यन्ते तैर्युक्ता आमिक्षवन्तः । तादृशानामेषां ग्रामाणां राजा स्वामी भूयासम् ॥

अत्र विनियोगसंग्रहः -
अभीति रथमागत्यातिष्ठारोढुस्तु मन्त्रणम् ।
अङ्कौ चक्रे उपस्पृश्य नमो विप्राभिमन्त्रणम् ॥ १ ॥

सारथिं मन्त्रयेत्तिष्ठारश्मीन्रश्म्यभिमर्शनम् ।
आतिष्ठ षड्भिरारूढं मन्त्रयेत परिद्वयम् ॥ २ ॥

वाचयेतावते हेड त्रिभिस्तमभिमन्त्रयेत् ।
उदसाविति राजानं द्वाभ्यां सूर्यमवेक्षयेत् ॥

अन्नग्रामानवेक्षेत प्रोक्ता मन्त्रास्तु विंशतिः ॥ ३ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके षोडशोऽनुवाकः ॥