विश्वास-प्रस्तुतिः
व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः ।
ऋषी॑णाम्पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् ।
न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि ।
मा दे॒वाना॑म्मिथु॒याक॑र्म भा॒गम् ।
मूलम्
व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः ।
ऋषी॑णाम्पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् ।
न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि ।
मा दे॒वाना॑म्मिथु॒याक॑र्म भा॒गम् ।
सायण-टीका
(SB) 1चतुर्दशेऽप्तोर्यामोऽभिहितः । अथ पञ्चदशषोडशसप्तदशेष्वनुवाकेषु यज्ञसंयुक्तालौकिको राजाभिषेकोऽभिधीयते । तत्रास्मिन्ननुवाके तावदादौ होममन्त्रा उच्यन्ते । कल्पः - ‘व्याघ्रोऽयमग्नाविति सप्ताहुतीर्हुत्वा’ इति । तत्र प्रथमामृचमाह - अयमभिषेकार्हो राजाऽस्मिन्नाहुत्याधारेऽग्नौ प्रविष्टो व्याघ्रवदप्रधृष्यो भूत्वा लोके चरति । सोऽयमृषीणामृत्विजां पुत्रः, अभिषेकसंस्कारेण तैरुत्पादितत्वात् । अभिशस्तिपाः पापेभ्यः पाता रक्षिता भवत्विति शेषः । हेऽग्ने ते तव नमस्कारेण यूक्तोऽहं नमसा उपनतेन हविषा जुहोमि । देवानां भागं मिथुया कर्म यथा मिथ्या भवति तथा वयं मा कर्ष्म किंतु सत्यमेव कुर्म इत्यर्थः ॥
विश्वास-प्रस्तुतिः
सावी॒र्हि दे॑व प्रस॒वाय॑ पित्रे ।
व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै ।
अथा॒स्मभ्यँ॑ सवितस्स॒र्वता॑ता ।
दि॒वेदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ।
मूलम्
सावी॒र्हि दे॑व प्रस॒वाय॑ पित्रे ।
व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै ।
अथा॒स्मभ्यँ॑ सवितस्स॒र्वता॑ता ।
दि॒वेदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ।
सायण-टीका
2अथ द्वितीयामाह - हे देव प्रसवाय प्रजानां प्रेरकाय पित्रे पालकायास्मै राज्ञे वर्ष्माणं सावीर्हि सर्वथा प्रेरय । अस्य राज्ञो देहो यथा सर्वान्पालयति तथा त्वमनुगृहाणेत्यर्थः । किं चास्मै राज्ञे वरिमाणमुरुत्वं राज्यविस्तारं सावीः प्रेरय अनुजानीहि । अथ अनन्तरं हे सवितः सर्वे देवास्तायन्ते विस्तीर्यन्त एष्विति सर्वताता ये यज्ञास्तेषु सर्वताता अस्मभ्यमस्मदर्थं भूरिपश्वः भृरीन्बहुलान्पशून् आसुव सर्वतः प्रेरय ॥
विश्वास-प्रस्तुतिः
भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः ।
स भू॒ताना॒मधि॑पतिर्बभूव ॥49॥
तस्य॑ मृ॒त्यौ च॑रति राज॒सूय॑म् ।
स राजा॑ रा॒ज्यमनु॑मन्यतामि॒दम् ।
मूलम्
भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः ।
स भू॒ताना॒मधि॑पतिर्बभूव ॥49॥
तस्य॑ मृ॒त्यौ च॑रति राज॒सूय॑म् ।
स राजा॑ रा॒ज्यमनु॑मन्यतामि॒दम् ।
सायण-टीका
3अथ तृतीयामाह - भूतेषु प्राणिजातेषु मध्ये प्रविष्टोऽयं भूतः स्वयमुद्भूतश्चरति सर्वनियामकत्वेन प्रवर्तते । अत एव भूतानां प्राणिनां सर्वेषामधिपतिः स्वामी बभूव । तस्य राज्ञो मृत्यौ दुष्टशिक्षारूपमरणनिमित्तभूते सति राजसूयं चरति । राजा सूयतेऽभिषिच्यतेऽस्मिन्कर्मणीति राजसूयाख्यमिममभिषेकमिदं कर्म च दुष्टशिक्षार्थं प्रवर्तत इत्यर्थः । सोऽभिषिक्तो राजा राज्यमिदमनुमन्यतां दुष्टशिक्षाशिष्टपरिपालनरूपं यद्राजकृत्यं तदङ्गीकरोतु ॥
विश्वास-प्रस्तुतिः
येभि॒श्शिल्पै॑ᳶ पप्रथा॒नामदृँ॑हत् ।
येभि॒र्द्याम॒भ्यपिँ॑शत्प्र॒जाप॑तिः ।
येभि॒र्वाचव्ँ॑वि॒श्वरू॑पाँ स॒मव्य॑यत् ।
तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ।
मूलम्
येभि॒श्शिल्पै॑ᳶ पप्रथा॒नामदृँ॑हत् ।
येभि॒र्द्याम॒भ्यपिँ॑शत्प्र॒जाप॑तिः ।
येभि॒र्वाचव्ँ॑वि॒श्वरू॑पाँ स॒मव्य॑यत् ।
तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ।
सायण-टीका
4अथ चतुर्थीमाह - प्रजापतिर्येभिः शिल्पैः कौशलैः पप्रथानां विस्तारयुक्तामिमां पृथिवीमदृंहत् दृढीकृतवान्, तथा येभिः कर्मकौशलैर्द्यां द्युलोकमभ्यपिंशत् अभितश्चन्द्रतारकादिभिः सुरूपामकरोत्, तथा येभिर्यैः कर्मकौशलैर्वाचमिमामुच्चार्यमाणां विश्वरूपां नानापदार्थवाचकत्वेनानेकरूपां समव्ययत् सम्यक्संपादितवान्, तेन तथाविधकौशलजातेन वर्चसा तद्योगेन बलेन च हेऽग्ने इमं राजानमिह लोके समङ्ग्धि समर्थं कुरु, तथाविधसामर्थ्येन संयोजयेत्यर्थः ॥
विश्वास-प्रस्तुतिः
येभि॑रादि॒त्यस्तप॑ति॒ प्र के॒तुभिः॑ ।
येभि॒स्सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः ।
येभि॒र्वाच॑म्पुष्क॒लेभि॒रव्य॑यत् ।
तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ॥50॥
मूलम्
येभि॑रादि॒त्यस्तप॑ति॒ प्र के॒तुभिः॑ ।
येभि॒स्सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः ।
येभि॒र्वाच॑म्पुष्क॒लेभि॒रव्य॑यत् ।
तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ॥50॥
सायण-टीका
5अथ पञ्चमीमाह - येभिः प्रकेतुभिः प्रकृष्टतेजोविशेषैरयमादित्यः सर्वत्र तापं करोति, किंच येभिर्यैस्तेजोविशेषैः सूर्यश्चित्रभानुर्हृदये विचित्ररश्मियुक्तोऽयमिति प्राणिभिर्दृश्यते, येभिर्यैस्तेजोविशेषैः पुष्कलैः संपूर्णैर्वाचं शब्दात्मिकामव्ययत् विविधां परिवृतां सर्वो जन्तुरकरोत् । तेनेत्यादि पूर्ववत् ॥
विश्वास-प्रस्तुतिः
आऽयम्भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः ।
इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावा॑न् ।
अ॒स्मा अ॑स्तु पुष्क॒लञ्चि॒त्रभा॑नु ।
आऽयम्पृ॑णक्तु॒ रज॑सी उ॒पस्थ॑म् ।
मूलम्
आऽयम्भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः ।
इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावा॑न् ।
अ॒स्मा अ॑स्तु पुष्क॒लञ्चि॒त्रभा॑नु ।
आऽयम्पृ॑णक्तु॒ रज॑सी उ॒पस्थ॑म् ।
सायण-टीका
6अथ षष्ठीमाह - अयं राजा शवसा बलेन पञ्च कृष्टीः पञ्चसंख्याकान्मनुष्यान्निषादपञ्चमाब्राह्मणादिवर्णविशेषानाभातु समन्ताद्दीपयतु । किंचायं राजा स्वयमिन्द्र इव ज्येष्ठः प्रशस्यतमः प्रजावान् स्वाधीनप्रजायुक्तो भवतु । अस्मै राज्ञे विद्यमानं सर्ववस्तुजातं पुष्कलं संपूर्णं चित्रभानु विचित्रत्वेन भासमानं स्वस्वकार्यक्षममस्तु । किंचायं राजा रजसी रञ्जनात्मिके द्यावापृथिव्यावुपस्थं तत्समीपस्थितमन्तरिक्षं च आपृणक्तु तेजसा सर्वतः प्राप्नोतु पालयत्वित्यर्थः ॥
विश्वास-प्रस्तुतिः
यत्ते॒ शिल्प॑ङ्कश्यप रोच॒नाव॑त् ।
इ॒न्द्रि॒याव॑त्पुष्क॒लञ्चि॒त्रभा॑नु ।
यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ।
तस्मि॒न्राजा॑न॒मधि॒ विश्र॑ये॒मम् ।
मूलम्
यत्ते॒ शिल्प॑ङ्कश्यप रोच॒नाव॑त् ।
इ॒न्द्रि॒याव॑त्पुष्क॒लञ्चि॒त्रभा॑नु ।
यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ।
तस्मि॒न्राजा॑न॒मधि॒ विश्र॑ये॒मम् ।
सायण-टीका
7अथ सप्तमीमाह - हे कश्यपाख्य प्रजापते ते तव यच्छिल्पं कर्मकौशलं रोचनावद्दीप्तिमत् इन्द्रियावद्वीर्योपेतं पुष्कलं संपूर्णं चित्रभानु विचित्रत्वेन भासमानम् । किंच यस्मिंस्त्वदीये शिल्पे सप्तसंख्याकाः सूर्याः साकमर्पिताः सहावस्थापिताः । ते च सप्त सूर्या आरण्यकाण्डे ‘आरोगो भ्राज’ इत्यनुवाके प्रपञ्चिताः । तस्मिन् शिल्पे इमं राजानं अधिविश्रय अधिकत्वेनाश्रितं कुरु ॥
विश्वास-प्रस्तुतिः
द्यौर॑सि पृथि॒व्य॑सि ।
मूलम्
द्यौर॑सि पृथि॒व्य॑सि ।
सायण-टीका
8कल्पः - ‘द्यौरसि पृथिव्यसीति यजमानायतने शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमास्तृणाति, इति । हे शार्दूलचर्म त्वं द्युलोकरूपमसि भूलोकरूपमसि ।
विश्वास-प्रस्तुतिः
व्या॒घ्रो वैया॒घ्रेऽधि॑ ॥51॥
विश्र॑यस्व॒ दिशो॑ म॒हीः ।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु ।
मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ।
मूलम्
व्या॒घ्रो वैया॒घ्रेऽधि॑ ॥51॥
विश्र॑यस्व॒ दिशो॑ म॒हीः ।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु ।
मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ।
सायण-टीका
कल्पः - “तस्मिन्राजोपविशति ‘व्याघ्रोवैयाघ्रे’ इत्यासीनमभिमन्त्रयते” इति । हे राजन्, त्वं व्याध्रवदप्रधृष्यो भूत्वा व्याघ्रसंबन्धिनि चर्मण्यधि उपरिस्थितो महीर्महतीर्दिशः प्राच्यादिका विश्रयस्व विशेषणाश्रितो भव । सर्वा विशः प्रजास्त्वां वाञ्छन्तु कामयन्तु । इदं राष्ट्रं त्वत् माऽधिभ्रशत् त्वत्सकाशाद्भ्रष्टं मा भूत् ॥
विश्वास-प्रस्तुतिः
या दि॒व्या आप॒ᳶ पय॑सा सम्बभू॒वुः ।
या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः ।
तासा॑न्त्वा॒ सर्वा॑साँ रु॒चा ।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा ।
अ॒भि त्वा॒ वर्च॑साऽसिचन्दि॒व्येन॑ ।
पय॑सा स॒ह ।
यथासा॑ राष्ट्र॒वर्ध॑नः ॥52॥
तथा॑ त्वा सवि॒ता क॑रत् ।
मूलम्
या दि॒व्या आप॒ᳶ पय॑सा सम्बभू॒वुः ।
या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः ।
तासा॑न्त्वा॒ सर्वा॑साँ रु॒चा ।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा ।
अ॒भि त्वा॒ वर्च॑साऽसिचन्दि॒व्येन॑ ।
पय॑सा स॒ह ।
यथासा॑ राष्ट्र॒वर्ध॑नः ॥52॥
तथा॑ त्वा सवि॒ता क॑रत् ।
सायण-टीका
9कल्पः - “अथैनं तोक्मावास्ताभिर्दूर्वावास्ताभिर्वाऽद्भिरभिषिञ्चति ‘या दिव्या आपः’ इति प्रतिपद्यापाङ्क्तात्” इति । यास्वप्सु तोक्मानि व्रीह्यङ्कुराण्यवास्तानि प्रक्षिप्तानि ता आपस्तोक्मावास्ता एवं दूर्वावास्ता अपि । दिव्या दिवि भवा आपो याः पयसा क्षीरेण सह संबभूवुः । अन्तरिक्षे याः संबभूवुः । उत अपिच पार्थिवीः पृथिव्यामुत्पन्ना या आपस्तासां सर्वासां रुचा दीप्त्या वर्चसा बलेन हे राजंस्त्वामभिषिञ्चामि ।
पयसा दिव्येन सह वर्चसा बलेन त्वामभितः सिचं सर्वतः सिक्तं करोमि । यथा लोके सविता स्वयं राष्ट्रवर्धन आस तथा त्वामपि राष्ट्रवर्धनं करोतु ।
विश्वास-प्रस्तुतिः
इन्द्रव्ँ॒विश्वा॑ अवीवृधन् ।
स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ ।
र॒थीत॑मँ रथी॒नाम् ।
वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् ।
मूलम्
इन्द्रव्ँ॒विश्वा॑ अवीवृधन् ।
स॒मु॒द्रव्य॑चस॒ङ्गिरः॑ ।
र॒थीत॑मँ रथी॒नाम् ।
वाजा॑नाँ॒ सत्प॑ति॒म्पति॑म् ।
सायण-टीका
विश्वा गिरः सर्वाः स्तुतिरूपा वाचस्त्वामवीवृधन् वर्धितवत्यः । कीदृशं त्वाम्? इद्रं परमैश्वर्ययुक्तं समुद्रव्यचसं समुद्रवद्व्यापिनं रथीनां रथीतमम् रथयुक्तानां राज्ञां मध्येऽतिशयेन रथस्वामिनं वाजानामन्नानां पतिं पालकं तथा सत्पतिं सन्मार्गवर्तिनां फालकम् ।
विश्वास-प्रस्तुतिः
वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा ।
रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा ।
विश्वे॑ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा ।
बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥53॥
मूलम्
वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा ।
रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा ।
विश्वे॑ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा ।
बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥53॥
सायण-टीका
हे राजन् त्वां पुरस्तात्पूर्वस्यां दिशि गायत्रच्छन्दोभिमानिदेवेन सह वसवोऽभिषिञ्चन्तु । एवं रुद्रास्त्वेत्यादिवाक्येष्वपि योजनीयम् ॥
विश्वास-प्रस्तुतिः
अ॒रु॒णन्त्वा॒ वृक॑मु॒ग्रङ्ख॑जङ्क॒रम् ।
रोच॑मानम्म॒रुता॒मग्रे॑ अ॒र्चिषः॑ ।
सूर्य॑वन्तम्म॒घवा॑नव्ँ विषास॒हिम् ।
इन्द्र॑मु॒क्थेषु॑ नाम॒हूत॑मँ हुवेम ।
मूलम्
अ॒रु॒णन्त्वा॒ वृक॑मु॒ग्रङ्ख॑जङ्क॒रम् ।
रोच॑मानम्म॒रुता॒मग्रे॑ अ॒र्चिषः॑ ।
सूर्य॑वन्तम्म॒घवा॑नव्ँ विषास॒हिम् ।
इन्द्र॑मु॒क्थेषु॑ नाम॒हूत॑मँ हुवेम ।
सायण-टीका
10कल्पः - ‘अरुणं त्वा वृकमित्येनमभिमन्त्र्य’ इति । हे राजन् त्वामुक्थ्येषु स्तोत्रेष्विन्द्रं हुवेम इन्द्रत्वेनाह्वयाम इन्द्रनाम्नैव व्यवहराम इत्यर्थः । कीदृशं त्वां? अरुणं उदयकालीनसूर्यसदृशं, वृकं आरण्यमृगवच्छत्रूणां भयहेतुम् । अतएवोग्रं, खजकरं खजः शत्रूणां भर्त्सनं तत्करोतीति खजंकरस्तं, मरुतां देवानामर्चिषः अग्रे रोचमानं, तदीयप्रकाशादप्यधिकेन प्रकाशेन युक्तमित्यर्थः । सूर्यवन्तं उपमानार्थं सूर्योऽस्यास्तीति सूर्यवास्तं, मघवानं अन्नवन्तं, विषवद्वैरिणः सहतेऽभिभवतीति विषासहिस्तं, नामहूतं युद्धेषु शत्रूनतिशयेन तत्तन्नाम्नाऽऽह्वयतीति नामहूतस्तम् ॥
विश्वास-प्रस्तुतिः
प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः ।
आ नो॒ गव्यू॑तिमुक्षतङ्घृ॒तेन॑ ।
आ नो॒ जने॑ श्रवयतय्ँ युवाना ।
श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा ।
मूलम्
प्र बा॒हवा॑ सिसृतञ्जी॒वसे॑ नः ।
आ नो॒ गव्यू॑तिमुक्षतङ्घृ॒तेन॑ ।
आ नो॒ जने॑ श्रवयतय्ँ युवाना ।
श्रु॒तम्मे॑ मित्रावरुणा॒ हवे॒मा ।
सायण-टीका
11कल्पः - ‘प्र बाहवेति बाहू प्रसार्य’ इति । हे बाहवा उभौ बाहू नोऽस्माकं जीवसे जीवनाय प्रसिसृतं प्रसुतौ भवतम् । नोऽस्माकं गव्यूतिं गोसमूहं घृतेन उक्षतं सिञ्चतम् । युवाना तरुणौ परस्परमिश्रितौ वा युवां नोऽस्मान् जने जनसमूहे आश्रवयतं सर्वत्र प्रख्यापयतम् । हे मित्रावरुणरूपौ बाहू मे मदीयं इमा हव इदमाह्वानं श्रुतं शृणुतम् ॥
विश्वास-प्रस्तुतिः
इन्द्र॑स्य ते वीर्य॒कृतः॑ । बा॒हू उ॒पाव॑हरामि ॥54॥
मूलम्
इन्द्र॑स्य ते वीर्य॒कृतः॑ । बा॒हू उ॒पाव॑हरामि ॥54॥
सायण-टीका
12कल्पः - ‘इन्द्रस्य ते वीर्यकृत इत्युपाहरति’ इति । हे राजन् वीर्यकृतः पराक्रमकारिण इन्द्रस्य परमैश्वर्ययुक्तस्य ते तव प्रसृतौ बाहू उपावहरामि पुनः संकुचितौ करोमि ॥
अत्र विनियोगसंग्रहः-
व्याघ्रो राजाभिषेकाय जुडुयात्सप्तमन्त्रकैः ।
द्यौर्व्याघ्रचर्म संस्तीर्य तत्स्थं व्याघ्रोऽभिमन्त्रयेत् ॥
अभिषिञ्चेदष्टभिर्वा, अरुणं मन्त्रयेत्तथा ॥ १ ॥
प्र बाहवा प्रसारः स्यादिद्रोपावहरेदुभौ ।
अनुवाके पञ्चदशे प्रोक्ता मन्त्रास्तु विंशतिः ॥ २ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके पञ्चदशोऽनुवाकः ॥