१४ अप्तोर्यामविधिः

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिᳶ प॒शून॑सृजत ।
ते॑ऽस्मात्सृ॒ष्टाᳶ परा॑ञ्च आयन् ।
तान॑ग्निष्टो॒मेन॒ नाप्नो॑त् ।

तानु॒क्थ्ये॑न॒ नाप्नो॑त् ।
तान्त्षो॑ड॒शिना॒ नाप्नो॑त् ।

तान्रात्रि॑या॒ नाप्नो॑त् ।
तान्त्स॒न्धिना॒ नाप्नो॑त् ।

सो॑ऽग्निम॑ब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ ।

मूलम्

प्र॒जाप॑तिᳶ प॒शून॑सृजत ।
ते॑ऽस्मात्सृ॒ष्टाᳶ परा॑ञ्च आयन् ।
तान॑ग्निष्टो॒मेन॒ नाप्नो॑त् ।

तानु॒क्थ्ये॑न॒ नाप्नो॑त् ।
तान्त्षो॑ड॒शिना॒ नाप्नो॑त् ।

तान्रात्रि॑या॒ नाप्नो॑त् ।
तान्त्स॒न्धिना॒ नाप्नो॑त् ।

सो॑ऽग्निम॑ब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ ।

सायण-टीका

(SB) 1त्रयोदशे इन्द्रस्तुन्नामके क्रतौ ग्रहाणां पुरोरुच उक्ताः । चतुर्दशे त्वप्तोर्यामविधिरुच्यते । तं विधातुमाख्यानमाह – प्रजापतिना सृष्टाः पशवो यदा पुनरावृत्तिरहिताः प्रजापतेस्सकाशाद्गतास्तदा प्रजापतिरग्निष्टोमादिकं क्रमेणानुष्ठाय तत्यपशून्प्राप्तुं न शक्तोऽभूत् । यद्रात्रिया अतिरात्रक्रतुगतै रात्रिपर्यायैः स्तोत्रैः, संधिना अतिरात्रावसाने त्रिवृद्रथंतरः संधिरिति यत्स्तोत्रं विहितं तेन स्तोत्रेण ।

विश्वास-प्रस्तुतिः

सो॑ऽग्निम॑ब्रवीद् -“इ॒मान्म॑ ई॒प्से"ति॑ ।

मूलम्

सो॑ऽग्निम॑ब्रवीद् -“इ॒मान्म॑ ई॒प्से"ति॑ ।

सायण-टीका

एतैरुपायैः पशून्प्राप्तुमशक्तः प्रजापतिरग्निं प्रत्यब्रवीत् । हेऽग्ने मे मदर्थमिमान्पशूनीप्सा आप्तुमिच्छ तदर्थमुद्योगं कुर्विति ।

विश्वास-प्रस्तुतिः

तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नो॑त् ॥46॥

मूलम्

तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नो॑त् ॥46॥

सायण-टीका

ततः सोऽग्निस्तदर्थं त्रिवृत्स्तोममनुष्ठाय तेन प्राप्तुं शक्तो नाभूत् ।

मूलम्

स इन्द्र॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ ।

विश्वास-प्रस्तुतिः

स इन्द्र॑मब्रवीद् “इ॒मान्म॑ ई॒प्से"ति॑ ।

तानिन्द्र॑ᳶ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नो॑त् ।

मूलम्

स इन्द्र॑मब्रवीद् “इ॒मान्म॑ ई॒प्से"ति॑ ।

तानिन्द्र॑ᳶ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नो॑त् ।

मूलम्

स विश्वा॑न्दे॒वान॑ब्रवीत् । इ॒मान्म॑ ईप्स॒तेति॑ ।

विश्वास-प्रस्तुतिः

स विश्वा॑न्दे॒वान॑ब्रवीद् - “इ॒मान्म॑ ईप्स॒ते"ति॑ ।

तान् विश्वे॑ दे॒वास्स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन् ।

मूलम्

स विश्वा॑न्दे॒वान॑ब्रवीद् - “इ॒मान्म॑ ईप्स॒ते"ति॑ ।

तान् विश्वे॑ दे॒वास्स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन् ।

मूलम्

स विष्णु॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ ।

विश्वास-प्रस्तुतिः

स विष्णु॑मब्रवीद् - “इ॒मान्म॑ ई॒प्से"ति॑ ।

तान् विष्णु॑रेकविँ॒शेन॒ स्तोमे॑नाप्नोत् ।

वा॒र॒व॒न्तीये॑नावारयत ॥47॥

मूलम्

स विष्णु॑मब्रवीद् - “इ॒मान्म॑ ई॒प्से"ति॑ ।

तान् विष्णु॑रेकविँ॒शेन॒ स्तोमे॑नाप्नोत् ।

वा॒र॒व॒न्तीये॑नावारयत ॥47॥

सायण-टीका

एवमिन्द्रो विश्वे देवाश्च । विष्णुस्तु एकविंशस्तोममनुष्ठाय तेन पशून्प्राप्य वारवन्तीयेन साम्ना पुनर्गमनं निवारयामास ।

विश्वास-प्रस्तुतिः

“इ॒दव्ँ विष्णु॒र्विच॑क्रम॒” इति॒ व्य॑क्रमत ।

मूलम्

“इ॒दव्ँ विष्णु॒र्विच॑क्रम॒” इति॒ व्य॑क्रमत ।

सायण-टीका

अतोऽयं विष्णुः’इदं विष्णुः’ इति मन्त्रेणोक्तो यो विक्रमस्तं कृतवान् । तमेव पशुप्राप्तिरूपं विक्रमं मन्त्रोऽवादीदित्यर्थः ॥

मूलम्

यस्मा॑त्प॒शव॒ᳶ प्रप्रेव॒ भ्रँशे॑रन् । स ए॒तेन॑ यजेत ।

विश्वास-प्रस्तुतिः

यस्मा॑त्प॒शव॒ᳶ प्रप्रेव॒ भ्रँशे॑र॒न्न् स ए॒तेन॑ यजेत ।

मूलम्

यस्मा॑त्प॒शव॒ᳶ प्रप्रेव॒ भ्रँशे॑र॒न्न् स ए॒तेन॑ यजेत ।

सायण-टीका

2इदानीमप्तोर्यामकत्रुं विधत्ते - एकः प्रशब्दः प्राथम्यवाची, अपरः प्रकर्षवाची । प्रथममेव पशवो यस्मात्पुरुषात् प्रेव भ्रंशेरन् प्रकर्षेण भ्रष्टा इव यवन्ति स पुरुष एतेनाप्तोर्यामेण स्तोमेन यजेत । तत्स्वरूपं सूत्रकारेण स्पष्टमुक्तम् - ‘अप्तोर्यामश्चेत्संधिचमसानुन्नयंश्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति’ इति । संधिस्तोत्रपर्यन्तैरेकोनत्रिंशत्स्तौत्रैर्युक्तमतिरात्रप्रयोगमनुष्ठाय तत ऊर्ध्वं चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयेत् । ततः पुनरपि चत्वारि स्तोत्राणि भवन्ति । तदेवं त्रयस्त्रिंशत्स्तोत्रयुक्तोऽप्तोर्यामः ॥

मूलम्

यदाप्नो॑त् । तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् ।

ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा । यङ्काम॒मका॑मयन्त॒ तमा॑प्नुवन् ।

यङ्काम॑ङ्का॒मय॑ते । तमे॒तेना॑प्नोति ॥48॥

विश्वास-प्रस्तुतिः

यदाप्नो॒त् तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् ।

ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा यङ्काम॒मका॑मयन्त॒ तमा॑प्नुवन् ।

यङ्काम॑ङ्का॒मय॑ते॒ तमे॒तेना॑प्नोति ॥48॥

मूलम्

यदाप्नो॒त् तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् ।

ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा यङ्काम॒मका॑मयन्त॒ तमा॑प्नुवन् ।

यङ्काम॑ङ्का॒मय॑ते॒ तमे॒तेना॑प्नोति ॥48॥

सायण-टीका

3तस्य निर्वचनं दर्शयति - यस्मात्कारणादनेन क्रतुना पशूनाप्नोत्तस्मात्कारणादाप्त्यर्थो यामो यज्ञ इति व्युत्पत्त्या तन्नाम संपन्नम् । एतस्य क्रतोः सर्वकामप्राप्तिसाधनत्वं दर्शयति - पुरा देवा एतेनाप्तोर्यामक्रतुना जेतव्यानि सर्वाणि युद्धानि जित्वा काम्यमानं फलं प्राप्नुवन् । अतोऽन्योऽपि देववत्सर्वं प्राप्नोति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके चतुर्दशोऽनुवाकः ॥