१३ इन्द्रस्तुद्यागे ग्रहाणां पुरोरुचः

विश्वास-प्रस्तुतिः

तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि ।
वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।
पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे ।
इन्द्र॒स्स्वाहा॑ ररि॒मा ते॒ मदा॑य ।

मूलम्

तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि ।
वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।
पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे ।
इन्द्र॒स्स्वाहा॑ ररि॒मा ते॒ मदा॑य ।

सायण-टीका

(SB) 1द्वादशेऽनुवाकेऽग्निष्टुद्यागे ग्रहाणां पुरोरुचोऽभिहिताः । अथ त्रयोदशे इन्द्रस्तुद्यागे ग्रहाणां पुरोरुचोऽभिधीयन्ते । एतच्च सूत्रे स्पष्टमभिहितम् - ‘इन्द्रस्तुति इन्द्रस्तोमेनोक्थ्येनेन्द्रियकामो वीर्यकामो वा यजेत, ऐन्द्रियः पुरोरुचस्तिष्ठा हरी कस्य वृषेत्यैन्द्रवायवस्य तृतीया मैत्रावरुणस्य चतुर्थ्याश्विनस्य पञ्चभी षष्ठी शुक्रामन्थिनोः सप्तम्याग्रयणस्य नित्योक्थ्यस्य नियुनक्ति ध्रुवैन्द्राग्नवैश्वदेवानां नित्यामरुत्वतीयमाहेन्द्राणां, आ नो विश्वाभिरिति तिस्र आदित्यग्रहस्योत्तमा सावित्रस्य’ इति । तत्रैन्द्रवायवस्य प्रथमां पुरोरुचमाह - हे इन्द्र युज्यमाना रथे संबध्यमानौ हरी अश्वावातिष्ठ अधितिष्ठ, नोऽस्मान् अच्छ अभिलक्ष्य आयाहि आगच्छ । तत्र दृष्टान्तः - वायुर्न नियुतः यथा नियुत्संज्ञकानश्वानभिलक्ष्य वायुर्याति तद्वत्, आगत्य च अस्मे अस्माभिः अभिसृष्टः प्रेरितस्त्वं अन्धः अन्नरूपं सोमं पिबाति पीतवान्भव । हे इन्द्र ते मदाय तव हर्षार्थं स्वाहा ररिमा स्वाहाकृतं हविर्ददिम ॥

विश्वास-प्रस्तुतिः

कस्य॒ वृषा॑ सु॒ते सचा॑ ।
नि॒युत्वा॑न्वृष॒भो र॑णत् ।
वृ॒त्र॒हा सोम॑पीतये ।

मूलम्

कस्य॒ वृषा॑ सु॒ते सचा॑ ।
नि॒युत्वा॑न्वृष॒भो र॑णत् ।
वृ॒त्र॒हा सोम॑पीतये ।

सायण-टीका

2अथ तत्रैव द्वितीयां पुरोरुचमाह - कस्य प्रजापतेः संबन्धी वृषा इन्द्रः सुतेऽभिषुते सोमे सचा संबद्धो नियुत्वान् नियुन्नामकैरश्वैर्युक्तो वायुः वृषभो रणत्, यथा वृषभो दृप्तो रणति तथाऽयं वायुस्तुष्टो रणति गर्जति । वृत्रहा इन्द्रश्च सोमपीतये सोमपानाय रणति ॥

विश्वास-प्रस्तुतिः

इन्द्रव्ँ॑व॒यम्म॑हाध॒ने ।
इन्द्र॒मर्भे॑ हवामहे ।
युजव्ँ॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥41॥

मूलम्

इन्द्रव्ँ॑व॒यम्म॑हाध॒ने ।
इन्द्र॒मर्भे॑ हवामहे ।
युजव्ँ॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥41॥

सायण-टीका

3अथ मैत्रावरुणग्रहस्य पुरोरुचमाह - वयं यजमाना महाधने बहुधनसाध्ये प्रौढकर्मणीन्द्रं हवामहे आह्वयामः । अर्भे स्वल्पेऽपि कर्मणि इन्द्रं हवामहे आह्वयामः । कीदृशमिन्द्रं? युजं कर्मद्वयेऽपि योग्यं, वृत्रेषु प्राप्तेषु शत्रुषु वज्रिणं वज्रहस्तम् ॥n

विश्वास-प्रस्तुतिः

द्वि॒ता यो वृ॑त्र॒हन्त॑मः ।
वि॒द इन्द्र॑श्श॒तक्र॑तुः ।
उप॑ नो॒ हरि॑भिस्सु॒तम् ।

मूलम्

द्वि॒ता यो वृ॑त्र॒हन्त॑मः ।
वि॒द इन्द्र॑श्श॒तक्र॑तुः ।
उप॑ नो॒ हरि॑भिस्सु॒तम् ।

सायण-टीका

4अथाश्विनग्रहस्य पुरोरुचमाह - द्वयोर्लोकयोः समूहो द्विता तस्यां द्वितायां वृत्रहन्तमः अतिशयेन वैरिघाती शतक्रतुः शतसंख्या- काश्वमेधयुक्तो य इन्द्रो विद्यते सोऽयमिन्द्रो हरिभिरश्वैः सह उप अस्माकं समीपं प्राप्य सुतं अभिषुतं सोमं विदे लब्धवान् ॥

विश्वास-प्रस्तुतिः

स सूर॒ आज॒नय॒ञ्ज्योति॒रिन्द्र॑म् ।
अ॒या धि॒या त॒रणि॒रद्रि॑बर्हाः ।
ऋ॒तेन॑ शु॒ष्मी नव॑मानो अ॒र्कैः ।

मूलम्

स सूर॒ आज॒नय॒ञ्ज्योति॒रिन्द्र॑म् ।
अ॒या धि॒या त॒रणि॒रद्रि॑बर्हाः ।
ऋ॒तेन॑ शु॒ष्मी नव॑मानो अ॒र्कैः ।

सायण-टीका

5अथ शुक्रग्रहस्य पुरोरुचमाह - स शुक्रग्रहरूपः सूरः आदित्यः ज्योतिः प्रकाशं जनयन्निन्द्रमागच्छतु । अया धिया अनया मदनुग्रहबुद्ध्या तरणिः त्वरमाणः अद्रिबर्हाः पर्वतानां शत्रूणां निबर्हिता अभिभविता भदति । ऋतेन यज्ञेनानुष्ठितेन शुष्मीन् बलवतोऽस्मान् अर्कैः अर्चनीयैः फलैः अवमानः पालयमानो वर्तते । अस्रः निरसनकुशलः अद्रिः पर्वतसमान इन्द्र उस्रिधः उत्कर्षेणागच्छतः शत्रून् विबिभेद विशेषेण दारितवात् ॥

विश्वास-प्रस्तुतिः

व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद ।
उ॒तत्यदा॒श्वश्वि॑यम् ।
यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।
अग्रे॑ वि॒क्षु प्रतीद॑यत् ॥42॥

मूलम्

व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद ।
उ॒तत्यदा॒श्वश्वि॑यम् ।
यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।
अग्रे॑ वि॒क्षु प्रतीद॑यत् ॥42॥

सायण-टीका

6अथ मन्थिग्रहस्य पुरोरुचमाह - हे इन्द्र नाहुषीषु नहुषस्य राज्ञः सबन्धिनीषु विक्षु प्रजासु यद्धनं प्रतीदयत् प्रत्येकमेव प्राप्तमासीत् तादृशं आश्वश्वियमुत आशुगाम्यश्वसमूहयुक्तमपि हेऽग्ने आ त्यत् त्वमेव स्वभक्तेभ्य आनयसि ॥

विश्वास-प्रस्तुतिः

भरे॒ष्विन्द्रँ॑ सु॒हवँ॑ हवामहे ।
अँ॒हो॒मुचँ॑ सु॒कृत॒न्दैव्य॒ञ्जन॑म् ।
अ॒ग्निम्मि॒त्रव्ँवरु॑णँ सा॒तये॒ भग॑म् । द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये॑ ।

मूलम्

भरे॒ष्विन्द्रँ॑ सु॒हवँ॑ हवामहे ।
अँ॒हो॒मुचँ॑ सु॒कृत॒न्दैव्य॒ञ्जन॑म् ।
अ॒ग्निम्मि॒त्रव्ँवरु॑णँ सा॒तये॒ भग॑म् । द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये॑ ।

सायण-टीका

7अथाग्रयणस्य पुरोरुचमाह - सुहवं सुखेनाह्वातुं शक्यमिन्द्रं भरेषु भरणीयेषु कर्मसु हवामहे आह्नयामः । तथाऽग्निमित्रावरुणान्भगमादित्यं च सातये धनलाभायाह्वयामः । तथा द्यावापृथिव्यौ मरुतश्च स्वस्तये क्षेमायाह्वयामः ॥

विश्वास-प्रस्तुतिः

म॒हि क्षेत्र॑म्पु॒रुश्च॒न्द्रव्ँ वि वि॒द्वान् ।
आदित्सखि॑भ्यश्च॒रथँ॒ समै॑रत् ।
इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नस्सा॒कम् ।
सूर्य॑मु॒षस॑ङ्गा॒तुम॒ग्निम् ।

मूलम्

म॒हि क्षेत्र॑म्पु॒रुश्च॒न्द्रव्ँ वि वि॒द्वान् ।
आदित्सखि॑भ्यश्च॒रथँ॒ समै॑रत् ।
इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नस्सा॒कम् ।
सूर्य॑मु॒षस॑ङ्गा॒तुम॒ग्निम् ।

सायण-टीका

8अथैन्द्राग्नस्य पुरोरुचमाह - अयमिन्द्रो विविद्वान् विविधद्रव्यजातं जानन् आदित् अनन्तरमेव सखिभ्यः सखिसदृशेभ्यो यजमानेभ्यो महि प्रौढं क्षेत्रं पुरुश्चन्द्रं बहुलमाह्लादकारि धनं च रथं चरणशीलं गोमहिषादि च समैरयत् सम्यक्प्रेरितवान् दत्तवानित्यर्थः । सोऽयमिन्द्रः दीद्यानः दीप्यमानः तृभिः मनुष्यैः ऋत्विग्भिस्सार्धं सूर्यादीनजनत् अजनयदुत्पादितवान् । गातुं गमनशीलो वायुः तम् ॥

विश्वास-प्रस्तुतिः

उ॒रुन्नो॑ लो॒कमनु॑नेषि वि॒द्वान् ।
सुव॑र्व॒ज्ज्योति॒रभ॑यँ स्व॒स्ति ॥43॥
ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू ।
उप॑स्थेयाम शर॒णा बृ॒हन्ता॑ ।

मूलम्

उ॒रुन्नो॑ लो॒कमनु॑नेषि वि॒द्वान् ।
सुव॑र्व॒ज्ज्योति॒रभ॑यँ स्व॒स्ति ॥43॥
ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू ।
उप॑स्थेयाम शर॒णा बृ॒हन्ता॑ ।

सायण-टीका

9अथ वैश्वदेवग्रहस्य पुरोरुचमाह - हे इन्द्र त्वं विद्वान् सर्वं जानन्नोऽस्मदर्थमुरुं विस्तीर्णं लोकं अनुनेषि अनुक्रमेण संपादयसि । तथा सुवर्वन् स्वर्गयुक्तं तत्साधनभूतमित्यर्थः । अभयं भयरहितं स्वस्ति क्षेमकरं ज्योतिः अग्निस्वरूपं ऋष्व प्राप्नुहि । स्थविरस्य चिरकालीनत्वेन वृद्धसदृशस्य ते तव बाहू उपस्थेयाम उपस्थानं करवाम । त्वदीयं बाहुद्वयमनुग्रहबुद्ध्या यथाऽस्मच्छिरसि स्थापयसि तथा वयं त्वां भजेम । कीदृशौ बाहू? शरणा रक्षितारौ बृहन्ता गुणाधिकौ ॥

विश्वास-प्रस्तुतिः

आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः॑ ।
ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
वरी॑वृज॒त्स्थवि॑रेभिस्सुशिप्र ।
अ॒स्मे दध॒द्वृष॑णँ॒ शुष्म॑मिन्द्र ।

मूलम्

आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः॑ ।
ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
वरी॑वृज॒त्स्थवि॑रेभिस्सुशिप्र ।
अ॒स्मे दध॒द्वृष॑णँ॒ शुष्म॑मिन्द्र ।

सायण-टीका

10अथादित्यग्रहस्य तिस्रः पुरोरुचः । तत्र प्रथमामाह - हरिनामकावश्वौ यस्यासौ हर्यश्वः । शोभने शिप्रे हनू यस्यासौ सुशिप्रः, तादृश हे इन्द्र त्वं ब्रह्म जुषाणः परिबृढमिदं कर्म सेवमानः सजोषाः अस्माभिस्सह समानप्रीतिस्सन् विश्वाभिरूतिभिः समस्तै रक्षणैस्सहितो नोऽस्मान्प्रति आयाहि आगच्छ । किं कुर्वन्? स्थविरेभिर्वरीवृजत् प्रवृद्धैरुपायैर्वर्जयितव्याञ्छत्रूनत्यर्थं वर्जयन् । तथा वृषणं कामवर्षणहेतुं शुष्मं बलं अस्मे दधत् अस्मासु संपादयन् ॥n

विश्वास-प्रस्तुतिः

इन्द्रा॑य॒ गाव॑ आ॒शिर॑म् ।
दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
यत्सी॑मुपह्व॒रे वि॒दत् ।

मूलम्

इन्द्रा॑य॒ गाव॑ आ॒शिर॑म् ।
दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
यत्सी॑मुपह्व॒रे वि॒दत् ।

सायण-टीका

11अथ द्वितीयामाह - वज्रिणे वज्रयुक्ताय इन्द्राय इन्द्रार्थं आशिरं ईषन्मथितं दधिहेतुभूतं मधु मधुरं क्षीरं गावो दुदुह्रे दुग्धवत्यः । यत्सीं यदेव क्षीरमुपह्वरेऽस्मिन्प्रवृत्तेऽध्वरे वर्तमान इन्दोऽविदत् अलब्ध । तत्क्षीरं दुदुह्र इति पूर्वत्रान्वयः ॥

विश्वास-प्रस्तुतिः

तास्ते॑ वज्रिन्धे॒नवो॑ जोजयुर्नः ॥44॥
गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः ।
अह॑रह॒र्भूय॒ इज्जोगु॑वानाः ।
पू॒र्णा इ॑न्द्र क्षु॒मतो॒ भोज॑नस्य ।

मूलम्

तास्ते॑ वज्रिन्धे॒नवो॑ जोजयुर्नः ॥44॥
गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः ।
अह॑रह॒र्भूय॒ इज्जोगु॑वानाः ।
पू॒र्णा इ॑न्द्र क्षु॒मतो॒ भोज॑नस्य ।

सायण-टीका

12अथ तृतीयामाह - हे वज्रिन् वज्रयुक्तेन्द्र ते त्वदर्थं ताः पूर्वोक्ता धेनवो नोऽस्माञ्जोजयुः शीघ्रमेव प्राप्ताः । कीदृश्यो धेनवः? गभस्तयो दीप्तिमत्यः पुष्टशरीरा इत्यर्थः । नियुतो नियमेन क्षीरादेर्मिश्रयित्र्यः । विश्ववाराः स्वकीयक्षीरेण क्षुधादिरूपं विश्वं सर्वमप्युपद्रवं वारयन्तीति विश्ववाराः । अहरहः दिनेदिने भूयइत् भूयिष्ठमेव जोगुवानाः शब्दयन्त्यः क्षीरपूर्णस्तनत्वेन दोहनार्थं वत्समाकारयितुं हम्भारवं कुर्वत्य इत्यर्थः । क्षुमतः शब्दवतो भोजनस्य पूर्णाः पूरयित्र्यः क्षीरस्य बाहुल्ये सति चुलुकेन पुनःपुनर्भोजने हि महान् शब्द उत्पद्यते ॥

विश्वास-प्रस्तुतिः

इ॒मान्ते॒ धिय॒म्प्र भ॑रे म॒हो म॒हीम् ।
अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिम् ।
इन्द्र॑न्दे॒वास॒श्शव॑सा मद॒न्ननु॑ ॥45॥

मूलम्

इ॒मान्ते॒ धिय॒म्प्र भ॑रे म॒हो म॒हीम् ।
अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिम् ।
इन्द्र॑न्दे॒वास॒श्शव॑सा मद॒न्ननु॑ ॥45॥

सायण-टीका

13अथ सावित्रग्रहस्य पुरोरुचमाह - हे इन्द्र महो महनीयस्य ते तव महीं महतीमिमामनुग्रहरूपां धियं प्रभरे प्रकर्षेण धारयामि । अस्य ते इदृशस्य तव संबन्धि यत्स्तोत्रमानजे त्वद्गुणानभिव्यञ्जयति तस्मिन् स्तोत्रे धिषणा मदीया बुद्धिः प्रर्वततामिति शेषः । उत्सवेऽस्मिन्कर्मानुष्ठानरूपे प्रसवे च तत्फलोत्पादने सासहिं अत्यन्तसहिष्णुं सर्वदोद्युक्तमित्यर्थः । तादृशं शवसा बलेन युक्तं तमिन्द्रं देवासः सर्वे देवा अनुमदन् अनुमोदन्ताम् ॥

अत्र विनियोगसंग्रहः-
इन्द्रस्तुन्नामके यागे ग्रहाणां स्युः पुरोरुचः ।
तिष्ठा कस्येत्यैन्द्रवायव इन्द्रं तदनन्तरे ॥ १ ॥

द्विताय इत्याश्विने स्यात्स सूरः शुक्रसंज्ञके ।
उत त्यं मन्थिनाम्नि स्याद्भरेष्वाग्रयणग्रहे ॥ २ ॥

महीत्यैन्द्राग्नके वैश्वदेवे तरुं न इत्यसौ ।
आदित्ये तिस्र आ न स्युरिमां सावित्रकग्रहे ।
त्रयोदशेऽनुवाकेऽस्मिन्मन्त्रा उक्तास्त्रयोदश ॥ ३ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थत्रप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके त्रयोदशोऽनुवाकः ॥