विश्वास-प्रस्तुतिः
अ॒स्या जरा॑सो द॒मा म॒रित्राः॑ ।
अ॒र्चद्धू॑मासो अ॒ग्नय॑ᳶ पाव॒काः ।
श्वि॒ची॒चय॑श्श्वा॒त्रासो॑ भुर॒ण्यवः॑ ।
व॒न॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ।
मूलम्
अ॒स्या जरा॑सो द॒मा म॒रित्राः॑ ।
अ॒र्चद्धू॑मासो अ॒ग्नय॑ᳶ पाव॒काः ।
श्वि॒ची॒चय॑श्श्वा॒त्रासो॑ भुर॒ण्यवः॑ ।
व॒न॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ।
सायण-टीका
(SB) 1एकादशे पञ्चशारदीयगताः पशवोऽभिहिताः । द्वादशे त्वग्निष्टुदाख्ये क्रतौ ग्रहाणां ग्रहकाले पुरोरुचोऽभिधीयन्ते । अत एव सूत्रकारेणोक्तम् - ‘तथाऽग्निष्टुत्तस्य पुरोरुचोऽस्याजरासोऽग्न आयूँषि पवस इत्यैन्द्रवायवस्य द्वितीया मैत्रावरुणस्य तृतीयाऽऽश्विनस्य चतुर्थी पञ्चमी शुक्रामन्थिनोः षष्ट्याग्रयणस्यान्यामाग्नेयीमुक्थ्यस्य नियुनक्ति नित्या ध्रुवस्य नियुनक्यैन्द्राग्नवैश्वदेवयोरग्निश्रिय इति तिस्रो मरुत्वतीयानां श्रुधि श्रुत्कर्णेत्युत्तरा माहेन्द्रस्य विश्वेषामदितिरिति तिस्र आदित्यग्रहस्योत्तमा सावित्रस्य’ इति । तत्रैन्द्रवायवस्य या प्रथमा पुरोरुग्विद्यते तामाह - अस्य यजमानस्य दमा यज्ञग्रहा एवंगुणकाः सन्त्विति प्रार्थयन्ते । किंगुणकाः? अजरासः विनाशरहिताः । मरित्राः म्रियन्ते संज्ञप्यन्ते पशवो येष्विति मरित्राः पुनःपुनर्विशस्यमानपशुका इत्यर्थः । अत एव श्वात्रासः श्वेता निर्मला इत्यर्थः । अर्चद्धूमासः अर्चनीयधूमाः अग्नयः अग्निमन्तः पावकाः शोधकाः श्विचीचयः श्विचिं वृद्धिमञ्चन्ति गच्छन्ति प्रतिदिनमनुष्ठानवृद्धियुक्ता इत्यर्थः । भुरण्यवः भरणकुशलाः फलसंपादका इत्यर्थः । वनर्षदः वननीयफलप्राप्तिहेतवः । वायवो न वायुसदृशाः निरन्तरयज्ञप्रवृत्तियुक्ता इत्यर्थः । सोमाः सोमयागयुक्ताः ॥
विश्वास-प्रस्तुतिः
यजा॑ नो मि॒त्रावरु॑णा ।
यजा॑ दे॒वाँ ऋ॒तम्बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वन्दम॑म् ।
मूलम्
यजा॑ नो मि॒त्रावरु॑णा ।
यजा॑ दे॒वाँ ऋ॒तम्बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वन्दम॑म् ।
सायण-टीका
2अथ मैत्रावरुणग्रहस्य पुरोरुचमाह - हे ग्रह! नः अस्मदर्थं मित्रावरुणा यजा मित्रावरुणाख्यौ देवौ पूजय । तद्द्वारा देवान्सर्वान्यज । ऋतं यज्ञरूपमिदं कर्म बृहत् प्रौढं वर्तते । अतो हेऽग्ने । स्वं दमं स्वकीयं ग्रहं यक्षि पूजय कर्मनिष्पादनेनालंकुर्वित्यर्थः ॥
विश्वास-प्रस्तुतिः
अश्वि॑ना॒ पिब॑तँ सु॒तम् ।
दीद्य॑ग्नी शुचिव्रता ।
ऋ॒तुना॑ यज्ञवाहसा ॥ 35॥
मूलम्
अश्वि॑ना॒ पिब॑तँ सु॒तम् ।
दीद्य॑ग्नी शुचिव्रता ।
ऋ॒तुना॑ यज्ञवाहसा ॥ 35॥
सायण-टीका
3अथाश्विनग्रहस्य षुरोरुचमाह - हे अश्विनौ! युवां सुतमभिषुतं सोमं पिबतम् । कीदृशौ? दीद्यग्री दीप्यमानाग्नियुक्तौ, शुचिव्रता शुद्धकर्मयुक्तौ, तथा यज्ञवाहसा यज्ञनिर्वाहकौ, ऋतुना यज्ञोचितकालविशेषेण युक्ताविति शेषः ॥
विश्वास-प्रस्तुतिः
द्वे विरू॑पे चरत॒स्स्वर्थे॑ ।
अ॒न्याऽन्या॑ व॒त्समुप॑धापयेते ।
हरि॑र॒न्यस्या॒म्भव॑ति स्व॒धावा॑न् ।
शु॒क्रो अ॒न्यस्या॑न्ददृशे सु॒वर्चाः॑ ।
मूलम्
द्वे विरू॑पे चरत॒स्स्वर्थे॑ ।
अ॒न्याऽन्या॑ व॒त्समुप॑धापयेते ।
हरि॑र॒न्यस्या॒म्भव॑ति स्व॒धावा॑न् ।
शु॒क्रो अ॒न्यस्या॑न्ददृशे सु॒वर्चाः॑ ।
सायण-टीका
4अथ शुक्रग्रहस्य पुरोरुचमाह - अहश्च रात्रिश्चेत्येते द्वे विरूपे शुक्लकृष्णत्वाद्विषमरूपे स्वर्थे सुप्रयोजने चरतः पर्यावर्तेते । अन्याऽन्या तयोरेकैका पृथक्पृथगेव वत्समुपधापयेते वत्ससदृशं स्वस्वोचितं देवमुपधापयेते स्तनपानेनेव प्रीणयतः । तयोर्मध्येऽन्यस्यां रात्रिरूपायां मातरि वत्सस्थानीयो हरिः हरणशीलोऽग्निः स्वधावान् अन्नवान्भवति । अन्यस्यामहस्संज्ञिकायां मातरि वत्सस्थानीयः शुक्रः शुभ्रः सुवर्चाः शोभनदीप्तिरादित्योऽन्नवान्दृश्यते । तथा चाग्निहोत्रब्राह्मणे श्रुतम् - ‘तस्मादग्नये सायं हूयते सूर्याय प्रातः’ इति । एवंविधसूर्याग्निरूपोऽयं शुक्रग्नह इत्यर्थः ॥
विश्वास-प्रस्तुतिः
पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अध्व॒रम् ।
विश्वा॑न्य॒न्यो भुव॑नाऽभि॒चष्टे॑ ।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।
मूलम्
पू॒र्वा॒प॒रञ्च॑रतो मा॒ययै॒तौ ।
शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अध्व॒रम् ।
विश्वा॑न्य॒न्यो भुव॑नाऽभि॒चष्टे॑ ।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।
सायण-टीका
5अथ मन्थिग्रहस्य पुरोरुचमाह - एतौ सूर्याचन्द्रमोरूपौ मातृस्थनीयाया दिवः शिशू बालकौ पूर्वभागमपरभागं च प्रति संचरतः । उदयाय पूर्वभागोऽस्तमयाय पश्चिमभागः । एवंविधसंचारे पारमेश्वरी मायैव साधनम् । सा हि पारमेश्वरी शक्तिः सूर्याचन्द्रमसौ निर्माय स्वस्वव्यापारे स्थापितवती । तौ च शिशू स्वकीयलीलया क्रीडन्तावस्मदीयमध्वरं परियातः प्राप्नुतः । तयोर्मध्येऽन्यः सूर्यो विश्वानि भुवनानि सर्वान् लोकानभिचष्टे सर्वतः प्रकाशयति । अन्यश्चन्द्रमाः ऋतून्वसन्तादीन्विदधत् निष्पादयन्पुनर्जायते तत्तच्छुक्लप्रतिपदि पुनः पुनरुत्पद्यते । एवंविधचन्द्ररूपोऽयं मन्थिग्रहः । तथाच श्रुतम् - ‘असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थी’ इति ॥
विश्वास-प्रस्तुतिः
त्रीणि॑ श॒ता त्रीष॒हस्रा॑ण्य॒ग्निम् ।
त्रिँ॒शच्च॑ दे॒वा नव॑ चाऽसपर्यन्न् ॥36॥
औक्ष॑न्घृ॒तैरास्तृ॑णन्ब॒र्हिर॑स्मै ।
आदिद्धोता॑र॒न्न्य॑षादयन्त ।
मूलम्
त्रीणि॑ श॒ता त्रीष॒हस्रा॑ण्य॒ग्निम् ।
त्रिँ॒शच्च॑ दे॒वा नव॑ चाऽसपर्यन्न् ॥36॥
औक्ष॑न्घृ॒तैरास्तृ॑णन्ब॒र्हिर॑स्मै ।
आदिद्धोता॑र॒न्न्य॑षादयन्त ।
सायण-टीका
6अथाग्रयणस्य पुरोरुचमाह - यद्यपि हविर्भुजस्त्रयस्त्रिंशद्देवास्तथाऽपि योगैश्वर्यकल्पितलीलाविग्रहभेदाच्छतत्रयं सहस्रत्रयं त्रिंशन्नव चेत्येतावन्तो देवा भवन्ति । ते च देवा अग्निमसपर्यन् परिचितवन्तः । त्रयस्त्रिंशत्संख्याकानामेव मुख्यदेवतानामितरे लीलाविग्रहाः । इत्यमुमर्थं वाजसनेयिनः साकल्यब्राह्मणे समामनन्ति - ‘महिमान एवैषां ये ते त्रयस्त्रिंशत्त्वेव देवाः’ इति । ते देवाः कथं परिचरन्तीति तदुच्यते - घूरतैराज्यैरौक्षन्नुपरि सिञ्चन्ति जुह्वतीत्यर्थः । अस्मै अग्न्यर्थं बर्हिः आस्तृणन् वेद्यां बर्हिरास्तृणन्ति । आदित् अनन्तरमेवैनमग्निं होतारमनुमन्यमाना न्यषादयन्त निषण्णं कुर्वन्ति ॥
विश्वास-प्रस्तुतिः
अ॒ग्निना॒ऽग्निस्समि॑ध्यते ।
क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
ह॒व्य॒वाड्जु॒ह्वा॑स्यः ।
मूलम्
अ॒ग्निना॒ऽग्निस्समि॑ध्यते ।
क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
ह॒व्य॒वाड्जु॒ह्वा॑स्यः ।
सायण-टीका
7अथैन्द्राग्नस्य पुरोरुचमाह - इन्द्रसहितेनाग्निना ग्रहदेवतारूपेणायमाहुत्याधारोऽग्निः समिध्यते सम्यग्दीप्यते । कीदृशोऽग्निः? कविः हवनप्रकारं विद्वान्, गृहपतिः यज्ञगृहस्वामी, युवा सर्वदा तरुणः, देवार्थं हव्यं वहतीति हव्यवाट्, जुडूरेवास्य मुखं यस्यासौ जुह्वास्यः जुहूगतं हविरयं भक्षयतीत्यर्थः ॥
विश्वास-प्रस्तुतिः
अ॒ग्निर्दे॒वाना॑ञ्ज॒ठर॑म् ।
पू॒तद॑क्षᳵ क॒विक्र॑तुः ।
दे॒वो दे॒वेभि॒राग॑मत् ।
मूलम्
अ॒ग्निर्दे॒वाना॑ञ्ज॒ठर॑म् ।
पू॒तद॑क्षᳵ क॒विक्र॑तुः ।
दे॒वो दे॒वेभि॒राग॑मत् ।
सायण-टीका
8अथ वैश्वदेवग्रहस्य पुरोरुचमाह - योऽयमग्निः स एव देवानां जठरं उदरस्थानीयः । पूतश्चासौ दक्षश्चेति पूतदक्षः, पूतः शुद्धः दक्षः कर्मनिष्पादनकुशलः । कविक्रतुः कवीनां विदुषां देवानां संबन्धी क्रतुर्यागो यस्यासौ कविक्रतुः तादृशो देवोऽग्रिर्देवेभिरन्यैर्देवैस्सह आगमत् इह कर्मण्यागच्छतु ॥
विश्वास-प्रस्तुतिः
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः ।
आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ॥37॥
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः ।
सिँ॒हा न हे॒षक्र॑तवस्सु॒दान॑वः ।
मूलम्
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः ।
आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ॥37॥
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः ।
सिँ॒हा न हे॒षक्र॑तवस्सु॒दान॑वः ।
सायण-टीका
9अथ मरुत्वतीयग्रहाणां यास्तिस्रः पुरोपरुचस्तासां मध्ये प्रथमामाह - एते मरुतस्ते अग्निश्रियो विश्वकृष्टयश्च । अग्निं श्रयन्ते सेवन्त इत्यग्निश्रियः ते हविस्स्वीकरणार्थमग्निमाश्रयन्ति । विश्वे कृष्टयो मनुष्या येषां ते विश्वकृष्टयः सर्वैर्मनुष्यैः पूज्या इत्यर्थः । तादृशानां मरुतां अवः रक्षणं आ समन्तात् वयमीमहे प्राप्नुमः । ते ह्यस्मान्रक्षन्ति । कीदृशं रक्षणं? त्वेषं दीप्तिमत् उग्रं विरोधिनां भयंकरम् । यथा दीप्त्या विरोधि तमो नश्यति एवमेव तदीयरक्षणजन्येन तेजसा अस्मद्विरोधिनो नश्यन्तीत्यर्थः । ते मरुतो वायुविशेषाः स्वानिनः वृष्टिवेलायां स्वानयुक्ता गर्जनयुक्ताः । रुद्रो वैद्युताग्निः ‘रुद्गो वा एष यदग्निः’ इति श्रुतेः, । रुद्रियाः वैद्युताग्नियुक्ताः । वर्षेण निर्णेजन्ति भूमिं शोधयन्तीति वर्षनिर्णिजः । सिंहा न सिंहा इव । हेषक्रतवः शब्दकारिणः उत्साहेन सिंहनादं कुर्वन्तीत्यर्थः । सुदानवः शोभनफलस्य दातारः ॥
विश्वास-प्रस्तुतिः
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॑ ।
यद्वा॑ऽव॒मे सु॑भगासो दि॒वि ष्ठ ।
ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑ ।
अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः ।
मूलम्
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॑ ।
यद्वा॑ऽव॒मे सु॑भगासो दि॒वि ष्ठ ।
ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑ ।
अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः ।
सायण-टीका
10अथ द्वितीयामाह - हे मरुतो यूयं यदुत्तमे स्थाने स्थिताः यदि वा मध्यमे स्थिताः यद्वा अवमेऽत्यन्तनिकृष्टे स्थाने स्थिताः अथवा सुभगासः सौभाग्ययुक्तास्सन्तो दिवि द्युलोके स्थिताः । हे रुद्राः दुःखद्राविणो मरुतः ततो द्युस्थानात् उत वा अन्यस्मात्स्थानात् नः अनु अस्माननुगच्छत । हेऽग्ने यद्धविर्वयं यजामः अस्य हविषः सारं वित्तात् जानीहि ॥
विश्वास-प्रस्तुतिः
ईडे॑ अ॒ग्निँ स्वव॑स॒न्नमो॑भिः ।
इ॒ह प्र॑स॒प्तो वि च॑ यत्कृ॒तन्नः॑ ।
रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑ ।
प्र॒द॒क्षि॒णिन्म॒रुताँ॒ स्तोम॑मृद्ध्याम् ॥38॥
मूलम्
ईडे॑ अ॒ग्निँ स्वव॑स॒न्नमो॑भिः ।
इ॒ह प्र॑स॒प्तो वि च॑ यत्कृ॒तन्नः॑ ।
रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑ ।
प्र॒द॒क्षि॒णिन्म॒रुताँ॒ स्तोम॑मृद्ध्याम् ॥38॥
सायण-टीका
11अथ तृतीयामाह - स्ववसं सुष्ठु रक्षकमग्निं नमोभिः नमस्कारैस्सह ईडे स्तुतिं कुर्वे । सोऽग्निरिह कर्मणि प्रसप्तः प्रकर्षेण समागतस्सम् नः अस्माभिः यत्कृतं कर्म तत् विचयत् विचिनुयात् । वाजयद्भिः अन्नमिच्छद्भिः ऋत्विग्भिस्सहितोऽहं रथैरिव प्रभरे यथा रथैर्युद्धसाधनानि प्रकर्षेण हरन्ति एवमहं हवींषि प्रकर्षेण हरामि । प्रदक्षिणिन् प्रदक्षिणयन्भक्त्या प्रदक्षिणं कुर्वन्नहं मरुतां संबन्धिनं स्तोमं स्तोत्रयुक्तं यज्ञं ऋध्या समृद्धं कुर्याम् ॥
विश्वास-प्रस्तुतिः
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः । दे॒वैर॑ग्ने स॒याव॑भिः ।
आसी॑दन्तु ब॒र्हिषि॑ । मि॒त्रो वरु॑णो अर्य॒मा । प्रा॒त॒र्यावा॑णो अध्व॒रम् ।
मूलम्
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः । दे॒वैर॑ग्ने स॒याव॑भिः ।
आसी॑दन्तु ब॒र्हिषि॑ । मि॒त्रो वरु॑णो अर्य॒मा । प्रा॒त॒र्यावा॑णो अध्व॒रम् ।
सायण-टीका
12अथ माहेन्द्रग्रहस्य पुरोरुचमाह - हेऽग्ने श्रुत्कर्ण शृण्वत्कर्ण विज्ञाप्यस्य श्रोतः वह्निभिः हविषो वोढृभिः, सयावभिः गमनशीलसहितैर्दैवैस्सह त्वं श्रुधि अस्मद्विज्ञाप्यं शृणु । अध्वरं यज्ञं प्रातर्यावाणः प्रातःकाले गन्तारो मित्रादयस्त्रयः बर्हिषि अस्मदीय यज्ञे आसीदन्तु आगत्य तिष्ठन्तु ॥
विश्वास-प्रस्तुतिः
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम् ।
विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।
अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः ।
सु॒मृ॒डी॒को भवतु वि॒श्ववे॑दाः ।
मूलम्
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम् ।
विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।
अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः ।
सु॒मृ॒डी॒को भवतु वि॒श्ववे॑दाः ।
सायण-टीका
13अथादित्यग्रहस्य तिस्रः पggरोरुचः । तत्र प्रथमामाह - अयमग्निः सुमृडीकः सुखहेतुर्भवतु । कीदृशोऽग्निः? यज्ञियानां यज्ञयोग्यानां विश्वेषां सर्वेषामृत्विजां अदितिः अखण्डयिता मातृवत्पालक इत्यर्थः । तथा विश्वेषां सर्वेषां मानुषाणां अतिथिः अतिथिवत्पूजनीयः । देवानां संर्यषां मध्ये अदः अस्मद्रक्षणं आवृणानः सर्वत्र प्रार्थयमानः । विश्ववेदाः विश्वस्य वेदिता ॥
विश्वास-प्रस्तुतिः
त्वे अ॑ग्ने सुम॒तिम्भिक्ष॑माणाः ॥39॥
दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः ।
नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे ।
कृ॒ष्णञ्च॒ वर्ण॑मरु॒णञ्च॒ सन्धुः॑ ।
मूलम्
त्वे अ॑ग्ने सुम॒तिम्भिक्ष॑माणाः ॥39॥
दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः ।
नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे ।
कृ॒ष्णञ्च॒ वर्ण॑मरु॒णञ्च॒ सन्धुः॑ ।
सायण-टीका
14अथ द्वितीयामाह - हेऽग्रे यज्ञियासः यज्ञार्हा ऋत्विग्यजमानाः त्वे त्वयि सुमतिं शोभनबुद्धिं त्वत्सेवापरां भिक्षमाणाः याचमानाः दिवि द्युलोके श्रवः कीर्तिं दधिरे संपादितवन्तः । त्वां सेवित्वा देवेषु कीर्तिं प्राप्ता इत्यर्थः । उषमा उषःकालेन सह नक्ता च रात्रिमपि चकारादहश्च विरूपे विलक्षणरूपयुक्ते चक्रुः कृतवन्तः । तदेव कथमिति तदुच्यते - कृष्णं वर्णं रात्रेः कृष्णरूपम्, अरुणं चोषसो रक्तरूपम्, चकाराभ्यामह्नः शुक्लरूपं च संधुः संपादितवन्तः यज्ञानुष्ठानद्वारा यजमाना यज्ञेन तुष्टा देवा वा तादृशं रूपं कृतवन्त इत्यर्थः ॥
विश्वास-प्रस्तुतिः
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य॑म् ।
त्वाञ्जि॒ह्वाँ शुच॑यश्चक्रिरे कवे ।
त्वाँ रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे ।
त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।
मूलम्
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य॑म् ।
त्वाञ्जि॒ह्वाँ शुच॑यश्चक्रिरे कवे ।
त्वाँ रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे ।
त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।
सायण-टीका
15अथ तृतीयामाह - हेऽग्ने, आदित्यासः एते आदित्याः त्वामास्यं मुखं चक्रिरे त्वयि हुतस्य भक्षणात् । हे कवे विद्वन्नग्ने शुचयः शुद्धा अन्येऽपि देवास्त्वां स्वकीयजिह्वां चक्रिरे । रातिं फलदानं सचन्ते समवनयन्तीति रातिषाचः फलप्राप्तिकामा इत्यर्थः । तादृशा यजमानास्त्वामग्निमध्वरेषु यागेषु सश्चिरे फलदानाय प्राप्तवन्तः । देवाः सर्वेऽपि त्वे त्वयि आहुतं सर्वतो हुतं हविरिदमदन्ति ॥
विश्वास-प्रस्तुतिः
नि त्वा॑ य॒ज्ञस्य॒ साध॑नम् ।
अग्ने॒ होता॑रमृ॒त्विज॑म् ।
व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम् ।
जी॒रन्दू॒तमम॑र्त्यम् ॥40॥
मूलम्
नि त्वा॑ य॒ज्ञस्य॒ साध॑नम् ।
अग्ने॒ होता॑रमृ॒त्विज॑म् ।
व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम् ।
जी॒रन्दू॒तमम॑र्त्यम् ॥40॥
सायण-टीका
16अथ सावित्रग्रहस्य पुरोरुचमाह - हेऽग्ने देव त्वां निधीमहि नितरां ध्यायेम । कीदृशं? यज्ञस्य साधनं होमद्वारा निष्पादकं, होतारं देवानामाह्वातारं, अत एव ऋत्विजं ऋत्विक्समानं, प्रचेतसं प्रकृष्टज्ञानयुक्तं, जीरं जीवनप्रदं, दूतं हितार्थं यतमानं अमर्त्यं मरणरहितम् । वनुष्वदिति क्रियाविशेषणम् । परिचरणवद्यथा भवति तथा ध्यायेमेत्यर्थः ॥
अत्र विनियोगसंग्रहः-
अस्याजरा पुरोरुक्स्यादग्निष्टुत्यैन्द्रवायवे ।
यजेति मैत्रावरुणे अश्विनेत्याश्विने ग्रहे ॥ १ ॥
द्वे द्विरूपे तु शुक्रस्य ग्रहे पूर्वेति मन्थिनी ।
त्रीणीत्याग्रयणे ह्यग्निनेत्यैन्द्राग्नग्रहे भवेत् ॥ २ ॥
अग्निर्देवा वैश्वदेवे ह्यग्निश्रिय इति त्रयम् ।
ज्ञेया मरुत्वतीयेषु माहेन्द्रे तु श्रुधीत्यसौ ॥ ३ ॥
विश्वेषां तिस्र आदित्ये नि त्वा सावित्रके ग्रहे ।
अनुवाके द्वादशेऽस्मिन्मन्त्राः षोडश वर्णिताः ॥ ४ ॥
अथ मीमांसा । दशमाध्यायस्य चतुर्थे पादे चिन्तितम्-
आग्नेयेषु ग्रहेषूहो नास्ति वा स्तुतशस्त्रयोः ।
संस्कारत्वादस्ति मैवमर्थकर्मत्वनिर्णयात् ॥
अग्निष्टुदाख्य एकाहे श्रूयते - ‘आग्नेया ग्रहा भवन्ति’ इति । तेषु चोदकप्राप्तयोर्नानादेदत्ययोः स्तुतशस्त्रयोः संस्कारकर्मत्वभ्रमेणास्त्यूह इति वदन्तं प्रत्येतदुत्तरं - द्वितीयाध्याये तयोरर्थकर्मत्वस्य निर्णीतत्वान्नास्त्यूह इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके द्वादशोऽनुवाकः ॥