विश्वास-प्रस्तुतिः
अ॒गस्त्यो॑ म॒रुद्भ्य॑ उ॒क्ष्णᳶ प्रौक्ष॑त् ।
मूलम्
अ॒गस्त्यो॑ म॒रुद्भ्य॑ उ॒क्ष्णᳶ प्रौक्ष॑त् ।
सायण-टीका
(SB) 1दशमे पञ्चशारदीयविधिरुक्तः । एकादशे तदीयपशुविधिरुच्यते । तत्रादौ सामविशेषं विधत्ते - अगस्त्यो महर्षिर्मरुत उद्दिश्य उक्ष्णः वृषभान्पशून्प्रोक्षितवान् ।
विश्वास-प्रस्तुतिः
तानिन्द्र॒ आद॑त्त ।
मूलम्
तानिन्द्र॒ आद॑त्त ।
सायण-टीका
तान् मरुदर्थं प्रोक्षितान्पशून् इन्द्रोऽपजहार ।
विश्वास-प्रस्तुतिः
त ए॑नव्ँ॒वज्र॑मु॒द्यत्या॒भ्या॑यन्त ।
तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् ।
मूलम्
त ए॑नव्ँ॒वज्र॑मु॒द्यत्या॒भ्या॑यन्त ।
तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् ।
सायण-टीका
तदा ते मरुतो हस्तैर्वज्रमुद्यम्यैनमिन्द्रमभिलक्ष्य हन्तुमागताः ।
विश्वास-प्रस्तुतिः
ताञ्छा॒न्तानुपा॑ह्वयत ।
यत्क॑याशु॒भीय॒म्भव॑ति॒ शान्त्यै॑ ।
मूलम्
ताञ्छा॒न्तानुपा॑ह्वयत ।
यत्क॑याशु॒भीय॒म्भव॑ति॒ शान्त्यै॑ ।
सायण-टीका
तदानीमगस्त्येन्द्रौ कयाशुभीयाख्येन साम्ना तान्मरुतः शान्तानकुरुताम् ।
विश्वास-प्रस्तुतिः
तस्मा॑दे॒त ऐ॑न्द्रामारु॒ता उ॒क्षाण॑स्सव॒नीया॑ भवन्ति ।
मूलम्
तस्मा॑दे॒त ऐ॑न्द्रामारु॒ता उ॒क्षाण॑स्सव॒नीया॑ भवन्ति ।
सायण-टीका
तत इन्द्रो गतक्रोधांस्तान् मरुतः स्वसमीपे समाहूतवान् । अतोऽस्मिन्पञ्चशारदीये शान्त्यर्थं कयाशुभीयं साम गायेत् ॥
विश्वास-प्रस्तुतिः
त्रय॑ᳶ प्रथ॒मेऽह॒न्नाल॑भ्यन्ते ।
ए॒वन्द्वि॒तीये॑ ।
ए॒वन्तृ॒तीये॑ ॥32॥
ए॒वञ्च॑तु॒र्थे ।
पञ्चो॑त्त॒मेऽह॒न्ना ल॑भ्यन्ते ।
मूलम्
त्रय॑ᳶ प्रथ॒मेऽह॒न्नाल॑भ्यन्ते ।
ए॒वन्द्वि॒तीये॑ ।
ए॒वन्तृ॒तीये॑ ॥32॥
ए॒वञ्च॑तु॒र्थे ।
पञ्चो॑त्त॒मेऽह॒न्ना ल॑भ्यन्ते ।
सायण-टीका
2अथ पशून्विधत्ते - यस्मादिन्द्रस्य मरुतां च पशुविषयमैकमत्यं संपन्नं तस्मादैन्द्रा मारुताः कर्तव्याः । तेषां च सवनीयानां सप्तदशानामुक्ष्णां पञ्चसु दिनेषु विभज्य प्रयोगः । तत्र प्रतिदिनं पशुत्रये सति द्वावधिकाववशिष्येते । अतस्ताभ्यां सह पञ्च पशवः उत्तमेऽहन्यालभ्याः । यस्मादेतदहः समाप्तिदिनत्वादतिशयेन प्रवृद्धम् । तत्र ह्युदीच्यादिदिग्विशेषा अतिरात्रत्वेन स्तोत्रविशेषाश्च संपद्यन्ते । तस्मात्तत्र पशुबाहुल्यं युक्तम् ॥
विश्वास-प्रस्तुतिः
वर्षि॑ष्ठमिव॒ ह्ये॑तदहः॑ ।
वर्षि॑ष्ठस्समा॒नाना॑म्भवति ।
मूलम्
वर्षि॑ष्ठमिव॒ ह्ये॑तदहः॑ ।
वर्षि॑ष्ठस्समा॒नाना॑म्भवति ।
मूलम्
य ए॒तेन॒ यज॑ते । य उ॑चैनमे॒वव्ँ वेद॑ । स्वारा॑ज्यव्ँ॒वा ए॒ष य॒ज्ञः ।
विश्वास-प्रस्तुतिः
य ए॒तेन॒ यज॑ते॒ य उ॑चैनमे॒वव्ँ वेद॒ स्वारा॑ज्यव्ँ॒वा ए॒ष य॒ज्ञः ।
मूलम्
य ए॒तेन॒ यज॑ते॒ य उ॑चैनमे॒वव्ँ वेद॒ स्वारा॑ज्यव्ँ॒वा ए॒ष य॒ज्ञः ।
सायण-टीका
3यजमानवेदने प्रशंसति - समानानां मध्ये वर्षिष्ठः गुणैरतिशयेन प्रवृद्धः । पञ्चशारदीयं प्रशंसति - एष पञ्चशारदीयाख्यो यज्ञः स्वराज्यस्वरूपः, तत्प्राप्तिहेतुत्वात् ।
विश्वास-प्रस्तुतिः
ए॒तेन॒ वा एक॒यावा॑ कान्द॒मस्स्वारा॑ज्यमगच्छत् । स्वरा॑ज्यङ्गच्छति ।
मूलम्
ए॒तेन॒ वा एक॒यावा॑ कान्द॒मस्स्वारा॑ज्यमगच्छत् । स्वरा॑ज्यङ्गच्छति ।
मूलम्
य ए॒तेन॒ यज॑ते ॥33॥
य उ॑ चैनमे॒वव्ँ वेद॑ ।
मा॒रु॒तो वा ए॒ष स्तोमः॑ ।
विश्वास-प्रस्तुतिः
य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ मारु॒तो वा ए॒ष स्तोमः॑ ।
मूलम्
य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ मारु॒तो वा ए॒ष स्तोमः॑ ।
सायण-टीका
एतेन प्रञ्चशारदीयेनैव पुरा कान्दमो नाम कश्चिदृषिः स्वाराज्यं प्राप्तवान् । स कीदृशः? एकयावा एकेन वाहनेन यातीत्येकयावा, रथेनैव गच्छति न तु वाहनान्तरेणेत्यर्थः ॥
विश्वास-प्रस्तुतिः
ए॒तेन॒ वै म॒रुतो॑ दे॒वाना॒म्भूयि॑ष्ठा अभवन् । भूयि॑ष्ठस्समा॒नाना॑म्भवति ।
मूलम्
ए॒तेन॒ वै म॒रुतो॑ दे॒वाना॒म्भूयि॑ष्ठा अभवन् । भूयि॑ष्ठस्समा॒नाना॑म्भवति ।
मूलम्
य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ । प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः ।
विश्वास-प्रस्तुतिः
य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॒ पञ्चशार॒दीयो॒ वा ए॒ष य॒ज्ञः ।
मूलम्
य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॒ पञ्चशार॒दीयो॒ वा ए॒ष य॒ज्ञः ।
सायण-टीका
4यागवेदने प्रशंसति । पशुदेवतारूपमरुत्संबन्धेन क्रतुं प्रशंसति - यस्मादेतेन पञ्चशारदीयेन देवानां मध्ये मरुतः अतिशयेन बहुला अभवन् तस्मादेष त्रिवृत्पञ्चदशसप्तदशस्तोमयुक्तो यागो मारुतः । एतद्याजी तद्वेदी च समानानां मध्येऽत्यन्तबहलो भवति ॥
विश्वास-प्रस्तुतिः
आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति ।
मूलम्
आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति ।
मूलम्
य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ । स॒प्त॒द॒शँ स्तोमा॒ नाति॑यन्ति ।
विश्वास-प्रस्तुतिः
य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ सप्तद॒शँ स्तोमा॒ नाति॑यन्ति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑तेरे॒व नैति॑ ॥34॥
मूलम्
य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॑ सप्तद॒शँ स्तोमा॒ नाति॑यन्ति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑तेरे॒व नैति॑ ॥34॥
सायण-टीका
5पञ्चसु संवत्सरेष्वनुष्ठानं प्रशंसति - स्वात्मानमारभ्य पुत्रपौत्रादिद्वारा यः पञ्चमः पुरुषस्तत्पर्यन्तं सर्वेषामन्नसमृद्धिर्भवति । सप्तदशं स्तोमावसानं प्रशंसति । प्रजापतेः सकाशान्नातिगच्छतीत्यर्थः ।
अत्र मीमांसा । एकादशाध्यायस्य द्वितीयपादे चिन्तितम् -
‘उक्षोत्सर्गे किमुत्कर्षस्त्यागो वाऽऽद्योऽत्र पूर्ववत् ।
अन्वहत्रित्वयोरुत्तमाहपञ्चत्वयोर्विधौ ॥
वाक्यभेदाद्विशिष्टानामन्येषां कर्मणां विधिः ।
तस्मादारण्यवच्छेषत्याग उत्सर्ग इष्यताम् ॥
अस्त्यहीनेषु पञ्चशारदीयनामकः कश्चित्सवविशेषः पञ्चाहः । स च पञ्चसु संवत्सरेष्वनुष्ठेयः । तत्र प्रथमे संवत्सरे विशाखानक्षत्रयुक्तायाममावास्यायां सप्तदश स्त्रीपशवः सप्तदशोक्षाणश्च विहिताः । तेषु सर्वेषु पर्यग्निकृतेषु मोक्षितेषु सत्सु स्त्रीपशूनामालभ्यं पुरुषपशूनामुत्सर्गं चाम्नाय पुनर्द्वितीये तृतीये चतुर्थे संवत्सरे तथैवानुष्ठानमाम्नाय पश्चादिदमाम्नातम् - ‘त्रींस्त्रीनित्यकैकस्मिन्नहन्यालभेरन्पञ्चोत्तमेऽहनि’ इति ।
तत्र वत्सरचतुष्टयगतासु चतसृष्वमावास्यासु योऽयं षुरुषपशूनामुक्ष्णामुत्सर्गस्तत्र तत्कर्मशेषत्यागो न भवति, किंतूत्कर्षः । कुतः? त्रींस्त्रीनितिवाक्येनालम्भस्याभिधानात् । यथा पूर्वत्र प्राजापत्यानामालभ्योत्कर्षस्तथाऽत्रापि युज्यत इति प्राप्ते ब्रूमः । ‘त्रींस्त्रीनेकैकस्मिन्नहन्यालभेरन्’ इत्यत्र पर्यग्निकारणानन्तरभाविनं प्राप्तमालम्भमनूद्यैकैकाहत्वत्रित्वगुणयोर्विधौ वाक्यं भिद्येत । तस्माद्गुणद्वयविशिष्टानामन्येषां कर्मणां विधिरभ्युपेयः । तथा ‘पञ्चोत्तमेऽहन्’ इत्यत्रोत्तमाहत्वपञ्चत्वयोर्विधौ वाक्यभेदः । तथासत्यारण्यपशुन्यायेन सप्तदशोक्षाणः पर्यग्निकरणप्रोक्षणाभ्यां समापनीयाः ॥
इति श्रमित्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके एकादशोऽनुवाकः ॥