१० पञ्चशारदीयविधिः

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरकामयत “ब॒होर्भूया॑न्त्स्या॒"मिति॑ ।
स ए॒तम्प॑ञ्चशार॒दीय॑मपश्यत् ।

तमाऽह॑रत् । तेना॑यजत ।

ततो॒ वै स ब॒होर्भूया॑नभवत् ।

मूलम्

प्र॒जाप॑तिरकामयत “ब॒होर्भूया॑न्त्स्या॒"मिति॑ ।
स ए॒तम्प॑ञ्चशार॒दीय॑मपश्यत् ।

तमाऽह॑रत् । तेना॑यजत ।

ततो॒ वै स ब॒होर्भूया॑नभवत् ।

मूलम्

यᳵ का॒मये॑त ब॒होर्भूया॑न्त्स्या॒मिति॑ । स प॑ञ्चशार॒दीये॑न यजेत ।

विश्वास-प्रस्तुतिः

यᳵ का॒मये॑त ब॒होर्भूया॑न्त्स्या॒मिति॒ स प॑ञ्चशार॒दीये॑न यजेत ।

मूलम्

यᳵ का॒मये॑त ब॒होर्भूया॑न्त्स्या॒मिति॒ स प॑ञ्चशार॒दीये॑न यजेत ।

सायण-टीका

(SB) 1नवमेऽनुवाके ओदनसवोऽभिहितः । दशमे पञ्चशारदीयविधिरुच्यते । स च सूत्रकारेण स्पष्टमुदाहृतः - ‘पञ्चशारदीयेन बहोर्भूयान्भवति । अनुवत्सरं पशुबन्धेन यजते । सप्तदश पृश्नीनुक्ष्णः पञ्चवर्षानानयन्ति । सप्तदश पृश्नीर्वत्सतर्यः स्त्रीवत्सा अप्रवीताः । प्रोक्षितान्पर्यग्निकृतानुक्ष्ण उत्सृजन्ति वत्सतरीरालभन्ते’ इति । तमिमं पञ्चशारदीयं विधत्ते - बहोर्धनप्रजादिसमृद्धादन्यपुरुषादपि भूयानत्यन्तसमृद्धः । पञ्चसु शरत्सु संवत्सरेष्वनुष्ठेयः पञ्चशारदीयः । स्पष्टमन्यत् ॥

विश्वास-प्रस्तुतिः

ब॒होरे॒व भूया॑न्भवति ।

म॒रु॒त्स्तो॒मो वा ए॒षः ।
म॒रुतो॒ हि दे॒वाना॒म्भूयि॑ष्ठाः ॥30 ॥
ब॒हुर्भ॑वति ।

मूलम्

ब॒होरे॒व भूया॑न्भवति ।

म॒रु॒त्स्तो॒मो वा ए॒षः ।
म॒रुतो॒ हि दे॒वाना॒म्भूयि॑ष्ठाः ॥30 ॥
ब॒हुर्भ॑वति ।

सायण-टीका

3तमेतं प्रशंसति - स्तोमशब्देन स्तोमयुक्तो यज्ञ उपलक्ष्यते । मरुत्संज्ञकानां देवगणानां संबन्धी स्तोमो मरुत्स्तोमः । मरुतो ह्येतस्यानुष्ठानेन देवानां मध्येऽत्यन्तं समृद्धाः संपन्नाः ॥

मूलम्

य ए॒तेन॒ यज॑ते । य उ॑चैनमे॒वव्ँ वेद॑ । प॒ञ्च॒शा॒र॒दीयो॑ भवति ।

विश्वास-प्रस्तुतिः

य ए॒तेन॒ यज॑ते॒, य उ॑चैनमे॒वव्ँ वेद॑ पञ्चशार॒दीयो॑ भवति ।

पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒रः । ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑तिष्ठति ।

अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑रुन्धे ।

मूलम्

य ए॒तेन॒ यज॑ते॒, य उ॑चैनमे॒वव्ँ वेद॑ पञ्चशार॒दीयो॑ भवति ।

पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒रः । ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑तिष्ठति ।

अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑रुन्धे ।

सायण-टीका

3यागं वेदनं च प्रशंसति । संवत्सरसंख्यां प्रशंसति - पञ्चसंख्यासामान्यादृतुद्वारा संवत्सरे प्रतिष्ठा । तथा पङ्किच्छन्दोद्वारा यज्ञप्राप्तिः । स्तोमानामवधिं विधत्ते - त्रिवृदादिस्तोमाः सप्तदश स्तोमं नातिक्रामन्ति । तमेतमनतिक्रामं सूत्रकारः स्पष्टमुदाजहार- ‘उत्तमीरालभ्य दीक्षन्ते त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चदशोऽग्निः सप्तदशोऽतिरात्रः’ इति । पञ्चमे संवत्सरे वत्सतरीर्हि चरमभाविनीरालभ्य पश्चात्पञ्चरात्राय दीक्ष- यित्वा क्रमेण त्रिवृदग्निष्टोमादीनि पञ्चाहान्यनुष्ठेयानि । तेषु पञ्चस्वप्यहस्स्वेकविंशत्रिणवादयः स्तोमा न विद्यन्ते ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शँ स्तोमा॒ नाति॑यन्ति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ॥31॥

मूलम्

स॒प्त॒द॒शँ स्तोमा॒ नाति॑यन्ति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ॥31॥

सायण-टीका

सोऽयं सप्तदशस्तोमानतिक्रमः ‘आश्रावय’ इत्याद्यक्षरात्मकत्वेन प्रजापतिस्सप्तदशः । अतस्तदनतिक्रमः प्रजापतेः प्रात्यै भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितियाष्टके सप्तमप्रपाठके दशमोऽनुवाकः ॥