विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
सायण-टीका
(SB) 1अष्टमेऽनुवाके ओदनसवगता रथारोहणमन्त्रा उक्ताः । सोऽयमोदनसवो नवमेऽभिधीयते । तमेतं विधत्ते - प्रजापतिना सृष्टाः प्रजा अन्नार्थिन्यस्तदन्वेषणाय पुनरावृत्तिरहिताः आयन् यत्र क्वापि गताः ।
विश्वास-प्रस्तुतिः
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
स ए॒तम्प्र॒जाप॑तिरोद॒नम॑पश्यत् ।
मूलम्
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
स ए॒तम्प्र॒जाप॑तिरोद॒नम॑पश्यत् ।
सायण-टीका
तदानीं प्रजापतिरन्नहेतुमोदनसवं दृष्ट्वा तदनुष्ठानेनान्नं प्राप्तोऽतिष्ठत् ।
मूलम्
ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्वा । प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त ।
विश्वास-प्रस्तुतिः
ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्वा प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त ।
अन्न॑मे॒वैन॑म्भू॒तम्पश्य॑न्तीᳶ प्र॒जा उ॒पाव॑र्तन्ते ।
मूलम्
ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्वा प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त ।
अन्न॑मे॒वैन॑म्भू॒तम्पश्य॑न्तीᳶ प्र॒जा उ॒पाव॑र्तन्ते ।
सायण-टीका
ताश्च प्रजा अन्यत्रान्नमलन्ध्वा पुनः प्रजापतिं प्रत्यागताः ।
मूलम्
य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ । सर्वा॒ण्यन्ना॑नि भवन्ति ॥25॥
विश्वास-प्रस्तुतिः
य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॒ सर्वा॒ण्यन्ना॑नि भवन्ति ॥
मूलम्
य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँ वेद॒ सर्वा॒ण्यन्ना॑नि भवन्ति ॥
सायण-टीका
यो यजमान एतेनौदनसवेन यजते यश्चैनमोदनसवं सम्यग्वेद वेत्ति, तमेतमुभयविधं पुरुषमन्नप्राप्तियुक्तं दृष्ट्वा प्रजाः सर्वा आगच्छन्ति ॥
विश्वास-प्रस्तुतिः
सर्वे॒ पुरु॑षाः । सर्वा॑ण्ये॒वान्ना॒न्यव॑रुन्धे । सर्वा॒न्पुरु॑षान् ।
मूलम्
सर्वे॒ पुरु॑षाः । सर्वा॑ण्ये॒वान्ना॒न्यव॑रुन्धे । सर्वा॒न्पुरु॑षान् ।
सायण-टीका
2-3पूर्वोक्तैः ‘सिंहे व्याघ्रे’ इत्यादिभिर्मन्त्रैर्यदन्नं होतव्यं तदिह विधत्ते - ब्रीहिप्रियङ्गश्यामाकादिभिर्निष्पाद्यानि यावन्त्यन्नानि संभवन्ति तावन्ति सर्वाण्यत्र कर्तव्यानि । कर्तारश्च ब्राह्मणक्षत्रियवैश्यशूद्वाः सर्वे पुरुषाः । तेन सर्वान्नसर्वपुरुषसमृद्धिः प्राप्यते ।
विश्वास-प्रस्तुतिः
“राड॑सि वि॒राड॒सी"त्या॑ह ।
स्वारा॑ज्यमे॒वैन॑ङ्गमयति ।
मूलम्
“राड॑सि वि॒राड॒सी"त्या॑ह ।
स्वारा॑ज्यमे॒वैन॑ङ्गमयति ।
सायण-टीका
मन्थकल्पनमन्त्राणां तात्पर्यं दर्शयति - राडसीत्यादींश्चतुरो मन्त्रान्पठेत्तेन स्वाराज्यप्राप्तिः ॥
मूलम्
यद्धिर॑ण्य॒न्ददा॑ति । तेज॒स्तेनाव॑रुन्धे ।
यत्ति॑सृध॒न्वम् । वी॒र्य॑न्तेन॑ ।
यदष्ट्रा॑म् ॥26॥
पुष्टि॒न्तेन॑ ।
यत्क॑म॒ण्डलु॑म् । आयु॒ष्टेन॑ ।
यद्धिर॑ण्यमाब॒ध्नाति॑ । ज्योति॒र्वै हिर॑ण्यम् ।
विश्वास-प्रस्तुतिः
यद्धिर॑ण्य॒न्ददा॑ति॒ तेज॒स्तेनाव॑रुन्धे ।
यत्ति॑सृध॒न्वम् वी॒र्य॑न्तेन॑ +++(अवरुन्धे)+++।
मूलम्
यद्धिर॑ण्य॒न्ददा॑ति॒ तेज॒स्तेनाव॑रुन्धे ।
यत्ति॑सृध॒न्वम् वी॒र्य॑न्तेन॑ +++(अवरुन्धे)+++।
सायण-टीका
4-5यदुक्तं सूत्रकारेण ‘हिरण्यं ब्राह्मणाय ददाति । तिसृधन्वं राजन्याय ।
विश्वास-प्रस्तुतिः
यदष्ट्रा॑म् पुष्टि॒न्तेन॑ +++(अवरुन्धे)+++।
यत्क॑म॒ण्डलु॑म् आयु॒ष्टेन॑ +++(अवरुन्धे)+++।
यद्धिर॑ण्यमाब॒ध्नाति॒ ज्योति॒र्वै हिर॑ण्यम् ।
मूलम्
यदष्ट्रा॑म् पुष्टि॒न्तेन॑ +++(अवरुन्धे)+++।
यत्क॑म॒ण्डलु॑म् आयु॒ष्टेन॑ +++(अवरुन्धे)+++।
यद्धिर॑ण्यमाब॒ध्नाति॒ ज्योति॒र्वै हिर॑ण्यम् ।
सायण-टीका
अष्ट्रां वैश्याय । माषकमण्डलुं शूद्राय’ इति । तदेतत्सर्वं विधत्ते - तिसृभिरिषुभिः सहितं धनुस्तत्तिसृधन्वम् । अष्ट्राफालं लाङ्गलाग्रस्था लोहशलाकेत्यर्थः । कर्णे हिरण्याभरणबन्धनं विधत्ते - हिरण्यगता दीप्तिर्ज्योतिः तद्धारणेन मुखस्य शोभनत्वं तेजः ॥
विश्वास-प्रस्तुतिः
अथो॒ तेजो॒ वै हिर॑ण्यम् ।
तेज॑ ए॒वात्मन्ध॑त्ते ।
मूलम्
अथो॒ तेजो॒ वै हिर॑ण्यम् ।
तेज॑ ए॒वात्मन्ध॑त्ते ।
मूलम्
यदो॑द॒नम्प्रा॒श्ञाति॑ । ए॒तदे॒व सर्व॑मव॒रुध्य॑ ॥27॥
विश्वास-प्रस्तुतिः
यदो॑द॒नम्प्रा॒श्ञात्य् ए॒तदे॒व सर्व॑मव॒रुध्य॑ ॥27॥
मूलम्
यदो॑द॒नम्प्रा॒श्ञात्य् ए॒तदे॒व सर्व॑मव॒रुध्य॑ ॥27॥
सायण-टीका
6होमद्रव्यशेषप्राशनं विधत्ते - सर्वान्नशेषभक्षणे सत्येतत्सर्वमन्नजातं संपूर्णं संपाद्य तत्संपादितमस्मिन्यजमान एकधा अधात् एकीकृत्य स्थापयति ॥
विश्वास-प्रस्तुतिः
तद॑स्मिन्नेक॒धाऽधा॑त् । रो॒हि॒ण्याङ्का॒र्यः॑ ।
मूलम्
तद॑स्मिन्नेक॒धाऽधा॑त् । रो॒हि॒ण्याङ्का॒र्यः॑ ।
मूलम्
यद्ब्रा॑ह्म॒ण ए॒व रो॑हि॒णी । तस्मा॑दे॒व ।
विश्वास-प्रस्तुतिः
यद्ब्रा॑ह्म॒ण ए॒व रो॑हि॒णी तस्मा॑दे॒व ।
अथो॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ।
मूलम्
यद्ब्रा॑ह्म॒ण ए॒व रो॑हि॒णी तस्मा॑दे॒व ।
अथो॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ।
सायण-टीका
7ओदनसवप्रयोगस्य नक्षत्रविशेषं विधत्ते - यस्मात्कारणाद्रोहिणीनक्षत्रं ब्राह्मणवत्प्रशस्तं तस्मादेव कारणाद्रोहिण्यामयं कार्यः । ‘सप्त सप्त क्रमाज्ज्ञेया विप्राद्याः कृत्तिकादयः’ इति ज्योतिश्शास्त्रे ब्राह्मणनक्षत्रेषु सप्तस्ववस्थितत्वाद्गोहिण्या ब्राह्यणत्वम् । अपिच रोहिण्यां कुर्वन्नेनं यजमानं समानानां सर्वेषां शिरस्स्थानीयं करोति ॥
विश्वास-प्रस्तुतिः
उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ ।
उ॒द्यन्तव्ँ॒वा ए॒तँ सर्वा॑ᳶ प्र॒जाᳶ प्रति॑नन्दन्ति ।
मूलम्
उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ ।
उ॒द्यन्तव्ँ॒वा ए॒तँ सर्वा॑ᳶ प्र॒जाᳶ प्रति॑नन्दन्ति ।
सायण-टीका
8रोहिणीनक्षत्रदिनेऽप्युदयकालं विधत्ते - उदयं गच्छता सूर्येण सहायं सवः कर्तव्यः, सूर्योदयस्य सर्वपुरुषानन्दहेतुत्वात्तत्रानुष्ठानं प्रशस्तम् ।
विश्वास-प्रस्तुतिः
दि॒दृ॒क्षेण्यो॑ दर्श॒नीयो॑ भवति । य ए॒वव्ँ वेद॑ ।
मूलम्
दि॒दृ॒क्षेण्यो॑ दर्श॒नीयो॑ भवति । य ए॒वव्ँ वेद॑ ।
सायण-टीका
वेदनं प्रशंसति - दिदृक्षेण्यो दर्शनेच्छाविषय उपास्य इत्यर्थः । दर्शनीयः सुरूपः ॥
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥28॥
अ॒वेत्यो॑ऽवभृ॒था३ ना३ इति॑ ।
यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति । तत्स्वि॑दे॒वावै॑ति ।
तन्नावै॑ति । त्रि॒भिᳶ प॑वयति ।
त्रय॑ इ॒मे लो॒काः । ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ।
अथो॑ अ॒पाव्ँ वा ए॒तत्तेजो॒ वर्चः॑ । यद्द॒र्भाः ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “अ॒वेत्यो॑ऽवभृ॒था३ ना३” इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “अ॒वेत्यो॑ऽवभृ॒था३ ना३” इति॑ ।
सायण-टीका
9यदुक्तं सूत्रकारेण - ‘अथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति । अवभृथप्रत्याम्नायो भवतीति विज्ञायते’ इति । तदिदं विधत्ते - अस्मिन्नोदनसवे किमवभृथः कार्यो न वेति ब्रह्मवादिनां विचारार्थेयं प्लुतिः । तदनुष्ठाने तु क्रियाबाहुल्यम् । अनुष्ठानाभावे शुद्ध्यभाव हति तेषामभिप्रायः । तत्र दोषद्वयरहितमिदमुत्तरम् ।
विश्वास-प्रस्तुतिः
यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति॒ तत्स्वि॑दे॒वावै॑ति ।
तन्नावै॑ति ।
मूलम्
यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति॒ तत्स्वि॑दे॒वावै॑ति ।
तन्नावै॑ति ।
सायण-टीका
दर्भपुञ्जीलशब्देन कतिपयदर्भनाडियुक्ताः शाखाविशेषा उच्यन्ते । तैः शोधने सति तदेवावभृथाख्यं कर्म अवैति स्वित् अनुष्ठितमेव शुद्धेः संपन्नत्वात् । तन्नानुष्ठितमपि क्रियाबाहुल्याभावात् ॥
विश्वास-प्रस्तुतिः
त्रि॒भिᳶ प॑वयति । त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ।
अथो॑ अ॒पाव्ँ वा ए॒तत्तेजो॒ वर्चो॒ यद्द॒र्भाः ।
मूलम्
त्रि॒भिᳶ प॑वयति । त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ।
अथो॑ अ॒पाव्ँ वा ए॒तत्तेजो॒ वर्चो॒ यद्द॒र्भाः ।
मूलम्
यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति । अ॒पामे॒वैन॒न्तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ॥29॥
विश्वास-प्रस्तुतिः
यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑त्य् अ॒पामे॒वैन॒न्तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ॥29॥
मूलम्
यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑त्य् अ॒पामे॒वैन॒न्तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ॥29॥
सायण-टीका
10दर्भपुञ्जीलसंख्यां विधत्ते - त्रित्वसंख्याया लोकसाम्याल्लोकैः शुद्धिःकृता भवति । अपिच दर्भाणानुदकसारत्वाद्बलहेतुत्वाश्च सारबलाभ्यामयं शोधितो भूत्वाऽभिषिक्तो भवति ।
इति श्रीमत्सायणाचार्यवरचित माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके नवमोऽनुवाकः ॥