०८ ओदनसवगता रथारोहणमन्त्राः

विश्वास-प्रस्तुतिः

अ॒भिप्रेहि॑ वी॒रय॑स्व ।

मूलम्

अ॒भिप्रेहि॑ वी॒रय॑स्व ।

सायण-टीका

(SB) 1सप्तमेऽनुवाके ओदनसवस्य होमादिमन्त्रा उक्ताः । अष्टमे रथारोहणमन्त्रा उच्यन्ते । कल्पः - “अग्रेणाहवनीयं रथोऽवस्थितो भवति । ‘अभिप्रेहि’ इति तं यजमानोऽभ्येति” इति । हे यजमान रथमभिलक्ष्य प्रेहि प्रकर्षेण गच्छ । गत्वा च वीरयस्व विक्रमं कुरु ।

विश्वास-प्रस्तुतिः

उ॒ग्रश्चेत्ता॑ सपत्न॒हा ।

मूलम्

उ॒ग्रश्चेत्ता॑ सपत्न॒हा ।

सायण-टीका

उग्रः तीव्रशासनः चेत्ता जयोपायाभिज्ञः सपत्नहा वैरिघाती च भव ।

विश्वास-प्रस्तुतिः

आति॑ष्ठ मित्र॒वर्ध॑नः ।

मूलम्

आति॑ष्ठ मित्र॒वर्ध॑नः ।

सायण-टीका

कल्पः - ‘आतिष्ठ मित्रवर्धन इत्यारोहन्तमभिमन्त्रयते’ इति । हे यजमान त्वं मित्राभिवृद्धिहेतुस्सन् रथमातिष्ठ आरोह ।

विश्वास-प्रस्तुतिः

तुभ्य॑न्दे॒वा अधि॑ब्रवन् ।

मूलम्

तुभ्य॑न्दे॒वा अधि॑ब्रवन् ।

सायण-टीका

देवास्तुभ्यं त्वदर्थमधिब्रवन् अधिकोऽयं यजमान इति ब्रुवन्तु ।

विश्वास-प्रस्तुतिः

अ॒ङ्कौ न्य॒ङ्काव॒भित॒ आति॑ष्ठ वृत्रह॒न्रथ॑म् ।

मूलम्

अ॒ङ्कौ न्य॒ङ्काव॒भित॒ आति॑ष्ठ वृत्रह॒न्रथ॑म् ।

सायण-टीका

कल्पः - “अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति पक्षसी वा । ‘आतिष्ठ वृत्रहन्’ इति पञ्चभिरारूढम्” इति । अभिमन्त्रयत इत्यनुवर्तते । अत्र चक्रस्पर्शनहेतोः ऋचः, अभिमन्त्रणमन्त्रणेषु प्रथमाया ऋचश्च प्रतीके दर्शयति - ‘अङ्कौ न्यङ्कावभितो रथं यौ’ इति । एषा संहितायाः प्रथमकाण्डे देव सवितः प्रसुवेत्यनुवाके व्याख्याता । ‘आतिष्ठ वृत्रहन्’ इत्येषा ग्रहकाण्डे व्याख्याता ।

  • अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यौ
    ध्वा॒न्तव्ँवा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ ।
    दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री
    ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ॥ [33]

    • {टीका } 2कल्पः - ‘अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति’ इति । अङ्क इति दक्षिणचक्रस्य नाम, न्यङ्क इत्युत्तरचक्रस्य । रथमभितः रथस्य पार्श्वयोर्यावङ्कौ यौ च न्यङ्कौ विद्येते । एकैकस्मिन्पार्श्वे चक्रद्वयं रथस्य चक्रचतुष्टयोपेतत्वात् । अथवाऽङ्कशब्दश्चक्रवाची । न्यङ्कशब्दश्चक्रयुक्तपक्षवाची । यावङ्कौ तौ यौ च न्यङ्कौ तौ धवन्तं ध्वनियुक्तं वाताग्रं वायोः पूर्वभागमनुसंचरन्तौ वायोरपि शीघ्रवेगेन गच्छत इत्यर्थः । दूरे हेतिरित्यादिभिस्त्रिभिः शब्दैस्त्रयोऽग्निविशेषा उच्यन्ते । ते त्रयोऽप्यग्नयः पप्रयः गमनं पूरयन्तो नोऽस्मान्पारयन्तु गमनसमाप्तिं प्रापयन्तु ॥

    • { टीका } 8 रथस्य चक्रे पक्षसी वाभिमृशति - अङ्काविति त्रिष्टुभा ॥ अङ्कौ लक्षणभूतौ रथस्य । अकि लक्षणे, करणे घञ् । अञ्चतेर्वा । याभ्यां रथोञ्चति गच्छति तादृशौ । उञ्छादिर्द्रष्टव्यः । न्यङ्कौ नियतगमनौ निश्चितगमनौ वा । क्व? अभितो रथं रथस्य पार्श्वयोः यौ नियतगमनौ । ‘नेरनिधाने’ इत्युत्तरपदान्तोदात्तत्वम् । ध्वान्तं शब्दितं शब्दवत् । णिचि व्यत्ययेनेडभावः । वाताग्नं वातस्य पूर्वभागं अनुसञ्चरन्तौ शीघ्रतया वातमतिलङ्घ्य चरन्तौ तावङ्कौ । दूरेहेतिः, इन्द्रियावान्, पतत्रीत्येतन्नामानस्त्रयो नोस्माकमग्नयः पप्रयः पूरयितारः कर्मणाम् । एतावङ्कौ पारयन्तु कर्मणि समर्थौ कुर्वन्तु । यद्वा - नोस्माकं पप्रयः अस्मद्धितार्थं तौ पारयन्तु । प्रा पूरणे, छान्दसस्य लिटः ‘आदृगमहन’ इति किन्प्रत्ययः । ते इति वा लिङ्गव्यत्ययः ; तावित्यर्थः । पक्षसी वा विशेष्येते ; ‘अङ्कसाधने ते पक्षसी पारयन्त्विति । पार तीर कर्मसमाप्तौ ॥

  • आ ति॑ष्ठ वृत्रह॒न्रथय्ँ॑यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
    अ॒र्वा॒चीनँ॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥

    • { टीका } 1षोडशिनं गृह्नाति - आतिष्ठेत्यनुष्टुभा ॥ हे वृत्रहन् रथमातिष्ठ । यस्मात्ते तव स्वभूतौ हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता युक्तौ । ‘सुपां सुलुक्’ इत्याकारः । तस्माद्रथमातिष्ठेति । किञ्च - ते तव मनः अर्वाचीनं अस्मद्यज्ञाभिमुखं ग्रावा अभिषवाश्मा सुकृणोतु सुष्ठु करोतु वग्नुना वचनीयेन श्रवणीयेनाभिषवशब्देन ॥
विश्वास-प्रस्तुतिः

आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूषन् ।
श्रियव्ँ॒वसा॑नश्चरति॒ स्वरो॑चाः ।
म॒हत्तद॒स्यासु॑रस्य॒ नाम॑ ।
आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।

मूलम्

आ॒तिष्ठ॑न्त॒म्परि॒ विश्वे॑ अभूषन् ।
श्रियव्ँ॒वसा॑नश्चरति॒ स्वरो॑चाः ।
म॒हत्तद॒स्यासु॑रस्य॒ नाम॑ ।
आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।

सायण-टीका

2अथ द्वितीयामृचमाह - आतिष्ठन्तं रथमारोहन्तं यजमानं विश्वेदेवाः सर्वेऽपि देवाः पर्यभूषन् परितोऽलंकृतवन्तः । अयं च रथस्त्वयाऽधिष्ठितः श्रियं वसान आच्छादयंस्त्वयि सर्वसंपदं कुर्वन्नित्यर्थः । स्वरोचाः स्वायत्तदीप्तिस्सन् चरति प्रवर्तते । असुरस्य शत्रूणां निरसितुर्मित्राणां वा प्राणप्रदस्यास्य रथस्य तन्नाम महत् अधिकम् । त्वदीयो रथ आयातीति श्रुत्वा शत्रवः पलायन्त इत्यर्थः । एवंविधो रथो विश्वरूपो बडुदेशसंचारेण बडुविधरूपस्सन् अमृतानि अमरणसाधनानि फलानि आतस्थौ संपादयति ॥

विश्वास-प्रस्तुतिः

अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ॥23॥
अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् ।
अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु ।
अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः ।

मूलम्

अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ॥23॥
अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् ।
अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु ।
अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः ।

सायण-टीका

3अथ तृतीयामाह - हे यजमान रथमातिष्ठन्तं त्वामिन्द्रबृहस्पतिसोमा अनुमदन्तु अनुमोदन्तामङ्गीकुर्वताम् । अग्नेरपि त्वां अनु क्रमेण आवीत् रक्षतु । ये विश्वे देवास्तेऽपि त्वां अनुक्रमेणावन्तु । उत अपिच सप्त राजानः त्वदीयदिग्व्यतिरिक्ताः सप्तसु दिक्षु वर्तमाना राजानोऽभिषिक्ता ये सन्ति ते सर्वेऽपि त्वामनुमोदन्तु ॥

विश्वास-प्रस्तुतिः

अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् ।
अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू ।
सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु ।
च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वाऽवतु ।

मूलम्

अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् ।
अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू ।
सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु ।
च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वाऽवतु ।

सायण-टीका

4अथ चतुर्थीमाह - मित्रावरुणविह कर्मणि त्वां अनु क्रमेण रक्षताम् । विश्वशंभू विश्वस्य सुखस्य भावयित्र्यौ द्यावापृथिव्यौ त्वामनुरक्षताम् । सूर्योऽयमहोभिः सह त्वामन्ववतु । चन्द्रमा नक्षत्रैः सह त्वामनुरक्षतु ॥

विश्वास-प्रस्तुतिः

द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा ।
शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु ।
अनु॑ स्व॒धा चि॑किताँ॒ सोमो॑ अ॒ग्निः ।
आऽयम्पृ॑णक्तु॒ रज॑सी उ॒पस्थ॑म् ॥24॥

मूलम्

द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा ।
शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु ।
अनु॑ स्व॒धा चि॑किताँ॒ सोमो॑ अ॒ग्निः ।
आऽयम्पृ॑णक्तु॒ रज॑सी उ॒पस्थ॑म् ॥24॥

सायण-टीका

5अथ पञ्चमीमाह - द्यौश्च पृथिवी चेत्येते प्रचेतसा प्रकृष्टज्ञानयुक्ते सत्यौ त्वां रक्षताम् । योऽयं सोमयागे शुक्राख्यो ग्रहः स त्वां पिपर्तु पालयतु । तथा बृहत् साम त्वां पिपर्तु । दक्षिणा त्वां पिपर्तु । स्वधाशब्दोपलक्षितमन्नं त्वामनुचिकित्सतां तवानिष्टं निवारयत्वित्यर्थः । तथा तमोऽग्निश्चेत्येतावुभौ त्वदीयमनिष्टं निवारयेताम् । अयं रथो रजसी रञ्जनात्मके द्यावापृथिव्यौ उपस्थं तत्समीपे स्थितमन्तरिक्षं च आपृणक्तु सर्वतः स्वेन संपृक्तानि करोतु । स्वयं लोकत्रयं व्याप्नोत्वित्यर्थः ॥

अत्र विनियोगसंग्रहः-
अभीति रथमभ्येति ह्यातिष्ठेत्यभिमन्त्रणम् ।
अङ्कौ चक्रे स्पृशेदाभिमन्त्रयेद्रथसंस्थितम् ॥

पञ्चभिश्चैवमत्रोक्ता अष्टौ मन्त्राः क्रमादमी ॥ २ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठकेऽष्टमोऽनुवाकः ॥