विश्वास-प्रस्तुतिः
ए॒ष गो॑स॒वः ।
ष॒ट्त्रिँ॒श उ॒क्थ्यो॑ बृ॒हत्सा॑मा ।
पव॑माने कण्वरथन्त॒रम्भ॑वति ।
मूलम्
ए॒ष गो॑स॒वः ।
ष॒ट्त्रिँ॒श उ॒क्थ्यो॑ बृ॒हत्सा॑मा ।
पव॑माने कण्वरथन्त॒रम्भ॑वति ।
सायण-टीका
1पञ्चमे पृथिसव उक्तः । षष्ठे गोसव उच्यते - एष वक्ष्यमाणो गोसवाख्यः क्रतुरनुष्ठेयः । स च सर्वेषु स्तोत्रेषु षटुत्रिंशस्तोमयुक्त उक्थ्यसंस्थारूपः । पृष्ठस्तोत्रे बृहत्सामयुक्तः । तस्य पवमानस्तोत्रे कण्वरथंतराख्यं साम भवति ॥
मूलम्
यो वै वा॑ज॒पेयः॑ । स स॑म्राट्त्स॒वः ।
यो रा॑ज॒सूयः॑ । स व॑रुणस॒वः ।
प्र॒जाप॑ति॒स्स्वारा॑ज्यम्परमे॒ष्ठी ।
स्वारा॑ज्य॒ङ्गौरे॒व । गौरि॑व भवति ॥13॥
विश्वास-प्रस्तुतिः
यो वै वा॑ज॒पेय॒स् स स॑म्राट्त्स॒वः ।
यो रा॑ज॒सूय॒स् स व॑रुणस॒वः ।
प्र॒जाप॑ति॒स्स्वारा॑ज्यम्परमे॒ष्ठी ।
स्वारा॑ज्य॒ङ्गौरे॒व गौरि॑व भवति ॥13॥
मूलम्
यो वै वा॑ज॒पेय॒स् स स॑म्राट्त्स॒वः ।
यो रा॑ज॒सूय॒स् स व॑रुणस॒वः ।
प्र॒जाप॑ति॒स्स्वारा॑ज्यम्परमे॒ष्ठी ।
स्वारा॑ज्य॒ङ्गौरे॒व गौरि॑व भवति ॥13॥
सायण-टीका
2अथ वाजपेयराजसूयाभ्यामुत्कृष्टत्वेनैतं सवं प्रशंसति - योऽयं वाजपेयोऽस्ति सोऽयं साम्राज्यहेतुरेव सवः । यश्च राजसूयः सोऽपि वरुणैश्वर्यप्राप्तिहेतुरेव सवः । न तु तदुभयमधिकफलप्राप्तिहेतुः । यस्तु स्वाराज्यं पराधीनत्वमप्राप्तः परमेष्ठी परमे पदे स्थितः प्रजापतिरस्ति स तु सर्वेभ्यः फलेभ्योऽधिकफलभूतः । स्वाराज्यं हि सर्वैः प्रार्थ्यते । स्वराज्यं नाम गौरेव गोसव एव, स्वाराज्यप्राप्तिहेतुत्वात् ॥
मूलम्
य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ । उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । तद्धि स्वारा॑ज्यम् ।
अ॒युत॒न्दक्षि॑णाः । तद्धि स्वारा॑ज्यम् ।
प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति । तद्धि स्वारा॑ज्यम् ।
विश्वास-प्रस्तुतिः
य ए॒तेन॒ यज॑ते॒, य उ॑ चैनमे॒वव्ँ वेदो॒भे बृ॑हद्रथन्त॒रे भ॑वत॒स् तद्धि स्वारा॑ज्यम् ।
अ॒युत॒न्दक्षि॑णा॒स् तद्धि स्वारा॑ज्यम् ।
प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति॒ तद्धि स्वारा॑ज्यम् ।
मूलम्
य ए॒तेन॒ यज॑ते॒, य उ॑ चैनमे॒वव्ँ वेदो॒भे बृ॑हद्रथन्त॒रे भ॑वत॒स् तद्धि स्वारा॑ज्यम् ।
अ॒युत॒न्दक्षि॑णा॒स् तद्धि स्वारा॑ज्यम् ।
प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति॒ तद्धि स्वारा॑ज्यम् ।
सायण-टीका
3-6एतदनुष्ठानं तद्वेदनं च प्रशसंति - यथा गौररण्ये स्वच्छन्दचारी एवमयं ब्रह्मलोकेऽपि स्वतन्त्रो भवति । बृहत्सामेति यदुक्तं तदेव सामद्वयरूपेण प्रशंसति - अत्रैकेनैव बृहत्साम्ना सामद्वयसाध्योऽतिशयः क्रियते । अतस्तद्धि बृहत्सामानुष्ठानमेव स्वाराज्यप्राप्तिहेतुः । दक्षिणायां विशेषं विधत्ते - गवामयुतमत्र दक्षिणात्वेन दातव्यम् । अभिषेकद्रव्यं विधत्ते - प्रतिधुषा तदानीमेव दुग्धेन क्षीरेण अभिषिञ्चेत् । सोऽयमभिषेकोऽयुतगोप्राप्तिवत्स्वाराज्यहेतुः ॥
विश्वास-प्रस्तुतिः
अनु॑द्धते॒ वेद्यै॑ दक्षिण॒त आ॑हव॒नीय॑स्य बृह॒तस्स्तो॒त्रम्प्रत्य॒भिषि॑ञ्चति ।
मूलम्
अनु॑द्धते॒ वेद्यै॑ दक्षिण॒त आ॑हव॒नीय॑स्य बृह॒तस्स्तो॒त्रम्प्रत्य॒भिषि॑ञ्चति ।
सायण-टीका
7अथाभिषेकस्य देशकालौ विधत्ते - वेद्यै वेद्या मध्य आहवनीयस्य दक्षिणभागे योऽयमनुद्धतदेशोऽस्ति सोऽयमभिषेकस्य योग्यो देशः तस्मिन्देशेऽभिषिञ्चेत् । बृहतस्तोत्रं प्रति बृहत्साम्ना क्रियमाणं स्तोत्रं यदा प्रवर्तते तदाऽभिषिञ्चेत् ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वाव र॑थन्त॒रम् ॥14॥
अ॒सौ बृ॒हत् ।
अ॒नयो॑रे॒वैन॒मन॑न्तर्हितम॒भिषि॑ञ्चति ।
मूलम्
इ॒यव्ँ वाव र॑थन्त॒रम् ॥14॥
अ॒सौ बृ॒हत् ।
अ॒नयो॑रे॒वैन॒मन॑न्तर्हितम॒भिषि॑ञ्चति ।
सायण-टीका
यदिदं कण्वरथंतरं पवमानस्तोत्रे प्रवृत्तं तद्भूमिस्वरूपं, यच्च पृष्ठस्तोत्रे बृहत्साम तद्द्युलोकरूपं, तयोरुभयोर्लोकयोर्मध्येऽनन्तर्हितं व्यवधानरहितमेवैनं यजमानमभिषिञ्चन्ति ॥
मूलम्
प॒शु॒स्तो॒मो वा ए॒षः । तेन॑ गोस॒वः ।
विश्वास-प्रस्तुतिः
प॒शु॒स्तो॒मो वा ए॒षस् तेन॑ गोस॒वः ।
ष॒ट्त्रिँ॒शस्सर्वः॑ ।
मूलम्
प॒शु॒स्तो॒मो वा ए॒षस् तेन॑ गोस॒वः ।
ष॒ट्त्रिँ॒शस्सर्वः॑ ।
सायण-टीका
8षट्त्रिंश उक्थ्यो बृहत्सामेति यत्पूर्वमुक्तं तत्र स्तोमं प्रशंसति - यस्मादेष क्रतुः पशुहेतुना स्तोमेन युक्तस्तेन गोसव इत्युच्यते । पशुहेतुस्तोमयुक्तत्वमेव षट्त्रिंश इत्यनेन विशदीक्रियते । ‘षट्त्रिंशदक्षरा बृहती बार्हताः पशवः’ इत्यन्यत्राम्नातम् । अतोऽस्मिन्गोसवे सर्वोऽपि स्तोमः षट्त्रिंश एव क्रियते न तु त्रिवृदादिः ॥
विश्वास-प्रस्तुतिः
रे॒वज्जा॒तस्सह॑सा वृ॒द्धः ।
क्ष॒त्राणा॑ङ्खत्र॒भृत्त॑मो वयो॒धाः ।
म॒हान्म॑हि॒त्वे त॑स्तभा॒नः ।
क्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि ।
मूलम्
रे॒वज्जा॒तस्सह॑सा वृ॒द्धः ।
क्ष॒त्राणा॑ङ्खत्र॒भृत्त॑मो वयो॒धाः ।
म॒हान्म॑हि॒त्वे त॑स्तभा॒नः ।
क्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि ।
सायण-टीका
9अथाभिषेकार्थमन्त्रमाह - हे यजमान! त्वं रेवत् धनवत् जीवनं यथा भवति तथा जातः प्रवृत्तः, सहसा वृद्धो बलेनाधिकः क्षत्राणां बलवतां मध्ये क्षत्रभृत्तमः अतिशयेन बलवान् वयोधा दीर्धायुष्यधारी महान् विद्याचारादिगुणैरधिकः महित्वे पूज्यत्वे तस्तभानः स्थिरं वर्तमानः । क्षत्रे बलकार्ये राष्ट्रे जनपदे च जागृहि अप्रमत्तो वर्धस्व ।
विश्वास-प्रस्तुतिः
“प्र॒जाप॑तेस्त्वा परमे॒ष्ठिन॒स्स्वारा॑ज्येना॒भिषि॑ञ्चा॒मी"त्या॑ह । स्वारा॑ज्यमे॒वैन॑ङ्गमयति ॥15॥
मूलम्
“प्र॒जाप॑तेस्त्वा परमे॒ष्ठिन॒स्स्वारा॑ज्येना॒भिषि॑ञ्चा॒मी"त्या॑ह । स्वारा॑ज्यमे॒वैन॑ङ्गमयति ॥15॥
सायण-टीका
परमेष्ठिन उत्तमे पदे स्थितस्य प्रजापतेः संबन्धिना स्वाराज्येन पराधीनरहितत्वेन राज्येन निमित्तेन त्वामभिषिञ्चामि । तमेतं मन्त्रं विधत्ते - इत्युक्तमेत मन्त्रमेतदभिषेककाले पठेत् तेन पाठेनैनं यजमानं स्वाराज्यं यापयति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके षष्ठोऽनुवाकः ॥