०५ पृथिसवः

मूलम्

यो वै सोमे॑न सू॒यते॑ । स दे॑वस॒वः ।

यᳶ प॒शुना॑ सू॒यते॑ । स दे॑वस॒वः ।

य इष्ट्या॑ सू॒यते॑ । स म॑नुष्यस॒वः ।

विश्वास-प्रस्तुतिः

यो वै सोमे॑न सू॒यते॒ स दे॑वस॒वः ।

यᳶ प॒शुना॑ सू॒यते॒ स दे॑वस॒वः ।

य इष्ट्या॑ सू॒यते॒ स म॑नुष्यस॒वः ।

मूलम्

यो वै सोमे॑न सू॒यते॒ स दे॑वस॒वः ।

यᳶ प॒शुना॑ सू॒यते॒ स दे॑वस॒वः ।

य इष्ट्या॑ सू॒यते॒ स म॑नुष्यस॒वः ।

सायण-टीका

(SB) 1चतुर्थे सोमसवोऽभिहितः । पञ्चमे पृथिसवोऽभिधीयते । तमेतं विधत्ते - यः क्रतुः सोमेन सूयते निष्पाद्यते स देवानां योग्यः सवः । यथा पूर्वोक्तो बृहस्पतिसवः । यश्च पशुना निष्पाद्यते वैश्यसवादिः सोऽपि देवानामपि योग्यः सवः । अतस्तदुभयं तथैव तिष्ठतु । यश्च स्वयमिष्ट्या निष्पाद्यते स मनुष्ययोग्यः सवः सर्वेषां सुलभः ।

विश्वास-प्रस्तुतिः

ए॒तव्ँ वै पृथ॑ये दे॒वाᳶ प्राय॑च्छन् ।
ततो॒ वै सोऽप्या॑र॒ण्याना॑म्पशू॒नाम॑सूयत ।

मूलम्

ए॒तव्ँ वै पृथ॑ये दे॒वाᳶ प्राय॑च्छन् ।
ततो॒ वै सोऽप्या॑र॒ण्याना॑म्पशू॒नाम॑सूयत ।

सायण-टीका

तस्मादेतमेव मनुष्यसवं पृथिनाम्ने कस्मैचिद्राज्ञे वेनपुत्राय देवाः प्रायच्छन् । तस्मादेव स मनुष्यसवः । स पृथिरारण्यानामपि पशूनामसूयत अधिपतिरासीत्किमुत ग्राम्याणाम् । पृथिनाऽनुष्ठितत्वादयं पृथिसवः । एतेन पृथिसवेन यो यजते, यश्चैनमेवं वेद स द्विविधोऽप्यसौ पुरुषः प्रजाभिरुच्यमानानां तासां सर्वासां वाचां सूयते आदीपतिर्भवति ।

मूलम्

याव॑ती॒ᳵ किय॑तीश्च प्र॒जा वाचव्ँ॒वद॑न्ति । तासाँ॒ सर्वा॑साँ सूयते ॥11॥

विश्वास-प्रस्तुतिः

याव॑ती॒ᳵ किय॑तीश्च प्र॒जा वाचव्ँ॒वद॑न्ति॒ तासाँ॒ सर्वा॑साँ सूयते ॥11॥

मूलम्

याव॑ती॒ᳵ किय॑तीश्च प्र॒जा वाचव्ँ॒वद॑न्ति॒ तासाँ॒ सर्वा॑साँ सूयते ॥11॥

सायण-टीका

प्रजाश्च यावतीः कियतीश्च यावत्यः कियत्यश्च सन्ति ताः प्रजा वाचं वदन्ति तस्यां वाचि कोऽप्यंशो न परित्यज्यते । एतदभिप्रेत्य तासां सर्वासामिति बहुवचननिर्देशः ॥

मूलम्

य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वव्ँ वेद॑ । ना॒रा॒शँ॒स्यर्चाऽभिषि॑ञ्चति ।

म॒नु॒ष्या॑ वै नरा॒शँसः॑ । नि॒ह्नुत्य॒ वावैतत् । अथा॒भिषि॑ञ्चति ।

विश्वास-प्रस्तुतिः

य ए॒तेन॒ यज॑ते॒ , य उ॑ चैनमे॒वव्ँ वेद॑ नाराशँ॒स्यर्चाऽभिषि॑ञ्चति ।

म॒नु॒ष्या॑ वै नरा॒शँसः॑ । नि॒ह्नुत्य॒ वावैत॒द् अथा॒भिषि॑ञ्चति ।

मूलम्

य ए॒तेन॒ यज॑ते॒ , य उ॑ चैनमे॒वव्ँ वेद॑ नाराशँ॒स्यर्चाऽभिषि॑ञ्चति ।

म॒नु॒ष्या॑ वै नरा॒शँसः॑ । नि॒ह्नुत्य॒ वावैत॒द् अथा॒भिषि॑ञ्चति ।

सायण-टीका

2अस्मिन्पृथिसवेऽभिषेकमन्त्रं विधत्ते - नरैः शंसनीयः स्वयमपि मनुष्यरूपो देवविशेषो नराशंसः तत्संबन्धिनी ‘ये मे पञ्चाशतम्’ इत्यादिका नाराशंसी तयाऽभिषिञ्चेत् । तत्र पूर्वोक्तरीत्या मनुष्यमूर्तय एव देवा नराशंसशब्देनोच्यन्ते, तत्सबन्ध्यभिषेचनं यदस्ति एतेन निह्नुत्यैवापलप्यैव भवन्तो यतो मनुष्या अतो भवज्जातीयानस्माननुग्रहीतुमर्हन्तीत्येवं प्रलोभ्यैवानन्तरमभिषिञ्चति ॥

विश्वास-प्रस्तुतिः

यत्किञ्च॑ राज॒सूय॑मनुत्तरवे॒दीक॑म् ।
तत्सर्व॑म्भवति ।

मूलम्

यत्किञ्च॑ राज॒सूय॑मनुत्तरवे॒दीक॑म् ।
तत्सर्व॑म्भवति ।

सायण-टीका

3अस्मिन्पृथिसवे कर्तव्यविशेषं विधत्ते - राजमूये ह्युत्तरवेदियुक्ताः सत्यसोमयागा द्विपशुः पशुबन्धश्चातुर्मास्यानि चैतानि वर्जयित्वा यदन्यदनुमत्यादिकं सौत्रामण्यन्तमस्ति, तत्सर्वमत्र कर्तव्यम् ।

विश्वास-प्रस्तुतिः

ये मे॑ पञ्चा॒शत॑न्द॒दुः ।
अश्वा॑नाँ स॒धस्तु॑तिः ।
द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ ।
बृ॒हत्कृ॑धि म॒घोना॑म् ।
नृ॒वद॑मृत नृ॒णाम् ॥12॥

मूलम्

ये मे॑ पञ्चा॒शत॑न्द॒दुः ।
अश्वा॑नाँ स॒धस्तु॑तिः ।
द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ ।
बृ॒हत्कृ॑धि म॒घोना॑म् ।
नृ॒वद॑मृत नृ॒णाम् ॥12॥

सायण-टीका

4अथ नाराशंसीमृचं पठति - ये मनुष्या मे मह्यमृत्विजेऽश्वानां पञ्चाशतं ददुः दातुं समर्थाः तेषां मघोनां धनिकानां नृणां मनुष्याणां यजमानानां यज्ञो हेऽग्ने मघस्तुतिः स्तुत्या सहितं श्रवो बृहत्कृधि । कीदृशं श्रवः? द्युमत् दीप्तिमत् धनयुक्तमित्यर्थः । महि महत् । नृवत् पुत्रभृत्यादियुक्तम् । अमृतशब्दः संबुद्ध्यन्तोऽग्निविशेषणम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके पञ्चमोऽनुवाकः ॥