विश्वास-प्रस्तुतिः
न वै सोमे॑न॒ सोम॑स्य स॒वो॑ऽस्ति ।
ह॒तो ह्ये॑षः ।
अ॒भिषु॑तो॒ ह्ये॑षः ।
मूलम्
न वै सोमे॑न॒ सोम॑स्य स॒वो॑ऽस्ति ।
ह॒तो ह्ये॑षः ।
अ॒भिषु॑तो॒ ह्ये॑षः ।
सायण-टीका
(SB) 1तृतीये ब्राह्मणसवोऽभिहितः । चतुर्थे सोमसवोऽभिधीयते । तस्य सोमयागरूपत्वं निषिध्य पशुरूपत्वं विधत्ते - सोमेन यागेन सोमस्य देवस्य च सवोऽभिषेको नैवास्ति । यस्मात्कारणाच्च एष सोमो हतः । हननं कथमिति तदुच्यते - यस्मादेवैष सोमोऽभिषुतस्तस्मादस्ति तस्य हननं ‘घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति’ इत्यन्यत्राभिषवस्य हननरूपत्वश्रवणात् ।
विश्वास-प्रस्तुतिः
न हि ह॒तस्सू॒यते॑ ।
सौ॒मीँ सू॒तव॑शा॒माल॑भते ।
मूलम्
न हि ह॒तस्सू॒यते॑ ।
सौ॒मीँ सू॒तव॑शा॒माल॑भते ।
सायण-टीका
न हि क्वचिदपि हतः पुरुषोऽभिषिच्यमानो दृश्यते । तस्मात्सोमस्याभिषेकसिद्धये सोमयागं परित्यज्य सोमदेवताकां सूतवशामालभते । सकृत्प्रजामुत्पाद्य पश्चाद्वन्ध्या सूतवशा ।
विश्वास-प्रस्तुतिः
सोमो॒ वै रे॑तो॒धाः ।
रेत॑ ए॒व तद्द॑धाति ।
मूलम्
सोमो॒ वै रे॑तो॒धाः ।
रेत॑ ए॒व तद्द॑धाति ।
सायण-टीका
सोमस्य रेतोधारकत्वात्तया देवतया रेत एव धारयति ॥
विश्वास-प्रस्तुतिः
सौ॒म्यर्चाऽभिषि॑ञ्चति ।
रे॒तो॒धा ह्ये॑षा ।
रेत॒स्सोमः॑ ।
रेत॑ ए॒वास्मि॑न्दधाति ।
मूलम्
सौ॒म्यर्चाऽभिषि॑ञ्चति ।
रे॒तो॒धा ह्ये॑षा ।
रेत॒स्सोमः॑ ।
रेत॑ ए॒वास्मि॑न्दधाति ।
सायण-टीका
2अथाभिषेकमन्त्रं विधत्ते - ‘अषाढम्’ इत्यादिका वक्ष्यमाणा सौमी । यस्मादृगेषा रेतोधारणहेतुः सोमोऽपि रेतस्स्वरूपः अतः सौम्याभिषेके सत्यस्मिन्यजमाने रेत एव दधाति ॥
विश्वास-प्रस्तुतिः
यत्किञ्च॑ राज॒सूय॑मृ॒ते सोम॑म् ।
तत्सर्व॑म्भवति ।
मूलम्
यत्किञ्च॑ राज॒सूय॑मृ॒ते सोम॑म् ।
तत्सर्व॑म्भवति ।
सायण-टीका
3अस्मिन्सवे कर्तव्यान्तरं विधते - राजसूये हेमपवित्राभिषेचनी यद्दशपेयकेशवपनीयव्युष्टिद्विरात्रक्षत्रधृतिसंज्ञकाः सप्त सोमयागाः, तान्वर्जयित्वा यात्किंचिदनुमत्यादिकं सौत्रामण्यन्तं प्रयोगजातं तत्सर्वमस्मिन् सोमसवेऽनुष्ठेयम् । तस्मिन्राजसूयप्रयोगमध्येऽरत्नीनां हविर्भ्य ऊर्ध्वं संसृपां हविर्भ्यः पुरस्तात्सौमी सूतवशाऽऽलब्धव्या । तस्याः स्विष्टकृतः पुरस्तादभिषेकः कार्यः ॥
विश्वास-प्रस्तुतिः
अषा॑ढय्ँ यु॒त्सु पृत॑नासु॒ पप्रि॑म् ।
सु॒व॒र्षाम॒प्स्वाव्ँ वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सम् ।
जय॑न्त॒न्त्वामनु॑ मदेम सोम ॥10॥
मूलम्
अषा॑ढय्ँ यु॒त्सु पृत॑नासु॒ पप्रि॑म् ।
सु॒व॒र्षाम॒प्स्वाव्ँ वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सम् ।
जय॑न्त॒न्त्वामनु॑ मदेम सोम ॥10॥
सायण-टीका
4अभिषेकाय सौमीमृचं पठति - हे सोम! वयं त्वामनुसृत्य मदेम हृष्यास्म । कीदृशं त्वां? युत्सु युद्धेषु अषाढं सोढुमशक्यं, पृतनासु सेनासु पप्रिं पूरकं, सुवर्षां सुवः स्वर्गस्यात्यरिष्टं विनाशयतीति सुवर्षास्तं सुवर्षां अप्स्वां न केनापि प्सायते भुज्यत इत्यप्सा अप्सा एवाप्स्वास्तं, वृजनं पापवर्जनं तस्य गोपां रक्षितारं, भरेषु भरणीयेष्वग्निष्टोमादिषु जायते निवसतीति भरेषुजास्तं भरेषुजां, सुक्षितिं शोभना क्षितिर्भूमिर्निवासस्थानं यस्यासौ सुक्षितिस्तं, सुष्ठु श्रवः कीर्तिर्यस्यासौ सुश्रवास्तं सुश्रवसं, जयन्तं सर्वत्र जयशीलम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके चतुर्थोऽनुवाकः ॥