विश्वास-प्रस्तुतिः
यदा॑ग्ने॒यो भव॑ति ।
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः ।
मूलम्
यदा॑ग्ने॒यो भव॑ति ।
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः ।
सायण-टीका
(SB) 1द्वितीये वैश्यसवोऽभिहितः । तृतीये ब्राह्मणसवोऽभिधीयते । स च सूत्रकारेण स्पष्टीकृतः - ‘ब्राह्मणो ब्रह्मवर्चसकाम आग्नेयादीन्यष्टौ हवींषि निर्वपति पुरस्तात्स्विष्टकृतो हिरण्येन घृतमुत्पूरय तेन कृष्णाजिन आसीनमभिषिञ्चति’ इति । तान्येतानि हवींषि विधातव्यानि । तत्र प्रथमं विधत्ते - आग्रेयोऽष्टाकपालः कर्तव्यः । अग्निना सह ब्राह्मणस्य प्रजापतिमुखजत्वसाम्येनाग्नेयत्वम् ॥
विश्वास-प्रस्तुतिः
अथ॒ यत्सौ॒म्यः ।
सौ॒म्यो हि ब्रा॑ह्म॒णः ।
मूलम्
अथ॒ यत्सौ॒म्यः ।
सौ॒म्यो हि ब्रा॑ह्म॒णः ।
सायण-टीका
2द्वितीयं विधत्ते - सौम्य एकादशकपालः कर्तव्यः । ‘सोमोऽस्माकं ब्राह्मणानाँराजा’ इति श्रुतेः ब्राह्मणस्य सौम्यत्वम् ॥
विश्वास-प्रस्तुतिः
प्र॒स॒वायै॒व सा॑वि॒त्रः ।
अथ॒ यद्बा॑र्हस्प॒त्यः ।
ए॒तद्वै ब्रा॑ह्म॒णस्य॑ वाक्प॒तीय॑म् ।
मूलम्
प्र॒स॒वायै॒व सा॑वि॒त्रः ।
अथ॒ यद्बा॑र्हस्प॒त्यः ।
ए॒तद्वै ब्रा॑ह्म॒णस्य॑ वाक्प॒तीय॑म् ।
सायण-टीका
3-4तृतीयं विधत्ते - सावित्रोऽष्टाकपालः कार्यः । स च प्रसवायैव कल्प्यते । चतुर्थं विधत्ते - बार्हस्पत्योऽष्टाकपालः कर्तव्यः । यद्बृहस्पतिसंबन्धित्वं एतदेव ब्राह्मणस्य वाक्पतित्वं नाम ॥
विश्वास-प्रस्तुतिः
अथ॒ यद॑ग्नीषो॒मीयः॑ ।
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः ।
मूलम्
अथ॒ यद॑ग्नीषो॒मीयः॑ ।
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः ।
मूलम्
तौ य॒दा स॒ङ्गच्छे॑ते ॥7॥
अथ॑ वी॒र्या॑वत्तरो भवति ।
विश्वास-प्रस्तुतिः
तौ य॒दा स॒ङ्गच्छे॑त॒ अथ॑ वी॒र्या॑वत्तरो भवति ।
मूलम्
तौ य॒दा स॒ङ्गच्छे॑त॒ अथ॑ वी॒र्या॑वत्तरो भवति ।
सायण-टीका
5पञ्चमं विधत्ते - अग्नीषोमीय एकादशकपालः कर्तव्यः । ब्राह्मणस्याग्नेयत्वं पूर्वमुक्तम् । तेन पूर्वोक्तं सौम्यत्वमप्युपलक्ष्यते । तावग्निश्च सोमश्चेत्येतौ यदा सङ्गतौ भवतस्तदानीं द्विगुणब्राह्मण्येन वीर्यातिशयो भवति ॥
विश्वास-प्रस्तुतिः
अथ॒ यत्सा॑रस्व॒तः ।
ए॒तद्धि प्र॒त्यक्ष॑म्ब्राह्म॒णस्य॑ वाक्प॒तीय॑म् ।
मूलम्
अथ॒ यत्सा॑रस्व॒तः ।
ए॒तद्धि प्र॒त्यक्ष॑म्ब्राह्म॒णस्य॑ वाक्प॒तीय॑म् ।
सायण-टीका
6अथ षष्ठं विधत्ते - सारस्वतोऽष्टाकपालः कार्यः । ब्राह्मणस्य सरस्वतीसंबन्धित्वं यदस्ति एतत्प्रत्यक्षमेव वाक्पतित्वम् । बृहस्पतिसंबन्धेन तु यद्वाक्पतित्वं पूर्वमुक्तं तच्छास्त्रसिद्धम् । जिह्वायाः सरस्वतीसंबन्धे तु तद्वाक्पतित्वमनुभूयते ॥
विश्वास-प्रस्तुतिः
नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः ।
मूलम्
नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः ।
सायण-टीका
7सप्तमं विधत्ते - वारुणोऽष्टाकपालः कर्तव्यः । स च पूर्ववद्वरुणपाशराहित्यायैव संपद्यते ।
मूलम्
अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॑ । स हि वा॑रु॒णः ।
विश्वास-प्रस्तुतिः
अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॒ स हि वा॑रु॒णः ।
मूलम्
अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॒ स हि वा॑रु॒णः ।
सायण-टीका
अपिच य एव कश्चित्पुमानधमोऽपि सूयतेऽभिषिच्यते स पुमान्वरुणेनानुगृहीतो राजा भवति ॥
विश्वास-प्रस्तुतिः
अथ॒ यद्द्या॑वापृथि॒व्यः॑ ।
मूलम्
अथ॒ यद्द्या॑वापृथि॒व्यः॑ ।
सायण-टीका
8अष्टमं विधत्ते - द्यावापृथिव्यः एककपालः कर्तव्यः ।
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् ।
मूलम्
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् ।
सायण-टीका
पुरा कदाचिदिन्द्रो वृत्रवधार्थं वज्रमुद्यतवान् ।
विश्वास-प्रस्तुतिः
तन्द्यावा॑पृथि॒वी नान्व॑मन्येताम् ।
मूलम्
तन्द्यावा॑पृथि॒वी नान्व॑मन्येताम् ।
सायण-टीका
तमिन्द्रं ते द्यावापृथिव्यौ नान्वमन्येताम् । अनूमत्यभावे कारणं दर्शपूर्णमासबाह्यणे स्पष्टमभिहितम् - ‘ते अब्रूतां द्यावापृथिवी मा प्रहारावयोर्वै श्रितः’ इति ।
मूलम्
तमे॒तेनै॒व भा॑ग॒धेये॒नान्व॑मन्येताम् ॥8॥
वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाय॑ । अनु॑मतवज्रस्सूयाता॒ इति॑ ।
विश्वास-प्रस्तुतिः
वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाया॒नु॑मतवज्रस्सूयाता॒ इति॑ ।
मूलम्
वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाया॒नु॑मतवज्रस्सूयाता॒ इति॑ ।
सायण-टीका
योऽयमेककपालरूपो भागोऽस्ति तेन भागधेयेन तुष्टे द्यवापृथिव्यौ वृत्रवधार्थमुद्यतं वज्रमङ्गीकृतवत्यौ । अतोऽत्रापि यः पुरोडाशः स एव वज्रस्यानुमत्यर्थं संपद्यते । अनुमतवज्रो हि पुंरुषः शत्रुक्षये समर्थत्वात्सूयाता अभिषेकमर्हतीत्येवाभिज्ञा आहुः ॥
विश्वास-प्रस्तुतिः
अ॒ष्टावे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॒य॒त्रि॒यैव ब॑ह्मवर्च॒समव॑रुन्धे ।
मूलम्
अ॒ष्टावे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॒य॒त्रि॒यैव ब॑ह्मवर्च॒समव॑रुन्धे ।
सायण-टीका
9अधिकत्वशङ्कानिवारणाय हविस्संख्यां दर्शयति - अष्टसंख्योपेताया गायत्र्या ब्रह्मवर्चसहेतुतया ब्रह्मवर्चसप्राप्तिः ।
विश्वास-प्रस्तुतिः
हिर॑ण्येन घृ॒तमुत्पु॑नाति ।
तेज॑स ए॒व रु॒चे ।
मूलम्
हिर॑ण्येन घृ॒तमुत्पु॑नाति ।
तेज॑स ए॒व रु॒चे ।
सायण-टीका
अभिषेकद्रव्यस्योत्पवनं विधत्ते - निर्मलद्रव्यत्वात्स्वतोऽपि घृतं तेजोर्थमेव पुनरपि हिरण्योत्पवनेनात्यन्तदीप्त्यर्थं भवति ॥
विश्वास-प्रस्तुतिः
कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति ।
मूलम्
कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति ।
मूलम्
ब्रह्म॑णो॒ वा ए॒तदृ॑क्सा॒मयो॑ रू॒पम् । यत्कृ॑ष्णाजि॒नम् ।
विश्वास-प्रस्तुतिः
ब्रह्म॑णो॒ वा ए॒तदृ॑क्सा॒मयो॑ रू॒पम् यत्कृ॑ष्णाजि॒नम् ।
ब्रह्म॑न्ने॒वैन॑मृक्सा॒मयो॒रध्य॒भिषि॑ञ्चति ।
मूलम्
ब्रह्म॑णो॒ वा ए॒तदृ॑क्सा॒मयो॑ रू॒पम् यत्कृ॑ष्णाजि॒नम् ।
ब्रह्म॑न्ने॒वैन॑मृक्सा॒मयो॒रध्य॒भिषि॑ञ्चति ।
सायण-टीका
10अभिषेककालीनमाधारं विधत्ते - कृष्णाजिने समासीनमेनभभिषिञ्चेत् । कृष्णाजिनं च ब्रह्मणो वेदस्य संबन्धिनोः ऋक्सामयोः स्वरूपम् । ‘ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने कृष्णोरूपं कृत्वाऽपक्रम्पातिष्ठताम्’ इत्यन्यत्राम्नानात् । अतः कृष्णाजिनेऽभिषेकेण ब्रह्मन्नेव वेद एव ऋक्सामयोरुपर्येनमभिषिञ्चति ॥
विश्वास-प्रस्तुतिः
घृ॒तेना॒भिषि॑ञ्चति । तथा॑ वी॒र्या॑वत्तरो भवति ॥9॥
मूलम्
घृ॒तेना॒भिषि॑ञ्चति । तथा॑ वी॒र्या॑वत्तरो भवति ॥9॥
सायण-टीका
11द्रव्यं विधत्ते - घृतस्य वज्ररूपत्वमन्यत्राम्नातम् - ‘घृतं खलु वै देवा वज्रं कृत्वा’ इति । अतो घृतेनाभिपेके वीर्यातिशयो भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः ॥