०२ वैश्यसवः

मूलम्

यदा॑ग्ने॒यो भव॑ति । अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ ।

विश्वास-प्रस्तुतिः

यदा॑ग्ने॒यो भव॑त्य् अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ ।

मूलम्

यदा॑ग्ने॒यो भव॑त्य् अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ ।

सायण-टीका

1प्रथमे बृहस्मतिसवोऽभिहितः । द्वितीये वैश्यसवोऽभिधीयते! स च सूत्रकारेण स्पष्टमभिहितः - ‘अथ सवानां व्याख्यातो बृहस्पतिसवः । वैश्यः पुष्टिकाम आग्नोयादीनि सप्त हवींषि निर्वपति । पृश्निः पष्ठौही मारुत्यालभ्यते । तस्याः पुरस्तात्स्विष्टकृतो यजमानायतन ऋषभचर्म प्राचीनग्रीवमुत्तरलोममास्तीर्य तस्मिन्नासीनं यजमानं दघ्नाऽभिपिञ्चति’ इति । तत्र प्रथमं हविर्विघत्ते - आग्नेयोऽष्टाकपालः कर्तव्यः, समृद्धेरग्निपूर्वकत्वात् । आदावाग्नेयेन तत्समृद्धं कर्म भवति ॥

विश्वास-प्रस्तुतिः

अथ॒ यत्पौ॒ष्णः । पुष्टि॒र्वै पू॒षा ।
पुष्टि॒र्वैश्य॑स्य ।
पुष्टि॑मे॒वाव॑रुन्धे ।

मूलम्

अथ॒ यत्पौ॒ष्णः । पुष्टि॒र्वै पू॒षा ।
पुष्टि॒र्वैश्य॑स्य ।
पुष्टि॑मे॒वाव॑रुन्धे ।

सायण-टीका

2द्वितीयं हविर्विधत्ते - पौष्णश्चरुः कर्तव्यः, पूषदेवतायाः पुष्टिहेतुत्वात् । वैश्यस्य पुष्टिकामत्वात्पुष्टिमेव प्राप्नोति ।

विश्वास-प्रस्तुतिः

प्र॒स॒वाय॑ सावि॒त्रः ।

मूलम्

प्र॒स॒वाय॑ सावि॒त्रः ।

सायण-टीका

3-5अथ तृतीयं हविर्विधत्ते - सावित्रोऽष्टाकपालः पुरोडाशः कार्यः । स च सवितुः प्रसवाय प्रेरणाय संपद्यते ।

विश्वास-प्रस्तुतिः

अथ॒ यत्त्वा॒ष्ट्रः ।
त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑ ।

मूलम्

अथ॒ यत्त्वा॒ष्ट्रः ।
त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑ ।

सायण-टीका

चतुर्थं हविर्विधत्ते - अष्टाकपालः त्वाष्ट्रः कार्यः । तस्मात्त्वष्टा निषिक्ते रेतसि विविधानि रूपाणि करोति ।

विश्वास-प्रस्तुतिः

नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः ॥5॥

मूलम्

नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः ॥5॥

सायण-टीका

पञ्चमं हविर्विधत्ते - अष्टाकपालो वारुणः कार्यः । स च निर्वरुणत्वाय वरुणपाशराहित्याय संपद्यते ।

मूलम्

अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॑ । स हि वा॑रु॒णः ।

विश्वास-प्रस्तुतिः

अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॒ स हि वा॑रु॒णः ।

मूलम्

अथो॒ य ए॒व कश्च॒ सन्त्सू॒यते॒ स हि वा॑रु॒णः ।

सायण-टीका

अपिच पूर्वं यः को ह्यल्पः पुरुषः सन्सूयतेऽभिषिच्यते स हि तदा वारुणो वरूणेनानुगृहीत इत्युच्यते । तस्माद्वारुणयागोऽभिषेकयोग्यः ॥

विश्वास-प्रस्तुतिः

अथ॒ यद्वै॑श्वदे॒वः ।
वै॒श्व॒दे॒वो हि वैश्यः॑ ।

मूलम्

अथ॒ यद्वै॑श्वदे॒वः ।
वै॒श्व॒दे॒वो हि वैश्यः॑ ।

सायण-टीका

6षष्ठं हविर्विधत्ते - एकादशकपालो वैश्वदेवः कार्यः । यस्माद्वैश्यः विश्वैर्देवैः सह प्रजापतेर्मध्यभागादुत्पन्नः । तं विश्वे देवा देवता अन्वसृज्यन्त । ‘जगती छन्दो वैरूपं साम वैश्यो मनुष्याणाम्’ इति श्रुत्यन्तरविधानात् । ततस्तदीयत्वाद्वैश्वदेवस्तत्र योग्यः॥

विश्वास-प्रस्तुतिः

अथ॒ यन्मा॑रु॒तः ।
मा॒रु॒तो हि वैश्यः॑ ।

मूलम्

अथ॒ यन्मा॑रु॒तः ।
मा॒रु॒तो हि वैश्यः॑ ।

सायण-टीका

7सप्तमं हविर्विधत्ते - एकादशकपालो मारुतः कार्यः । मरुतां देववीट्त्वेऽन वैश्ययागे योग्यत्वात् । मरुतां विट्त्वम् ‘मारुतो वै देवानां विशः’ इति विप्रसिद्धश्रुतेः ।

विश्वास-प्रस्तुतिः

स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति ।
स॒प्तग॑णा॒ वै म॒रुतः॑ ।

मूलम्

स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति ।
स॒प्तग॑णा॒ वै म॒रुतः॑ ।

सायण-टीका

8अधिकशङ्कानिवृत्तये हविस्संख्यां दर्शयति - ‘ईदृङ् चान्यादृङ् च’ इत्यादयः सप्त गणाः ।

विश्वास-प्रस्तुतिः

पृश्ञि॑ᳶ पष्ठौ॒ही मा॑रु॒त्याल॑भ्यते ।

मूलम्

पृश्ञि॑ᳶ पष्ठौ॒ही मा॑रु॒त्याल॑भ्यते ।

सायण-टीका

अथ पशुं विधत्ते - पृश्निः श्वेतवर्णा, पष्ठौही चतुर्वर्षा । तादृशी काचिदजा मरुद्देवताकाऽऽलब्धव्या ।

विश्वास-प्रस्तुतिः

विड्वै म॒रुतः॑ ।
विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते ।
तस्मा॒द्वा ए॒ष वि॒शᳶ प्रि॒यः ।
वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते॑ ।

मूलम्

विड्वै म॒रुतः॑ ।
विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते ।
तस्मा॒द्वा ए॒ष वि॒शᳶ प्रि॒यः ।
वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते॑ ।

सायण-टीका

9अथाभिषेककालविधिमुन्नयति - एतस्य पशोर्मध्ये स्विष्टकृतः पुरस्तादभिषिञ्चेदिति विधिरुन्नेयः । एवं सति विशः प्रजाया मध्य एतदभिषेचनं कृतं भवति । यस्माद्विशो मध्येऽभिषेकः कृतस्तस्मादेवैष वैश्यः सर्वानुष्ठायिविशां प्रियो भवति ।

विश्वास-प्रस्तुतिः

ऋ॒ष॒भ॒च॒र्मेऽध्य॒भिषि॑ञ्चति ।
स हि प्र॑जनयि॒ता ।
द॒ध्नाऽभिषि॑ञ्चति ।
ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ ।
ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ॥6॥

मूलम्

ऋ॒ष॒भ॒च॒र्मेऽध्य॒भिषि॑ञ्चति ।
स हि प्र॑जनयि॒ता ।
द॒ध्नाऽभिषि॑ञ्चति ।
ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ ।
ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ॥6॥

सायण-टीका

10अभिषेकार्थमासनं विधत्ते - यस्मादृषभः प्रजोत्पादकस्तस्मात्तदीये चर्मणि पर्यभिषिञ्चेत् । अभिषेकद्रव्यं विधत्ते । दध्नो रसरूपत्वात्तादृशेनान्नेनैनं वैश्यं समर्धयति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके द्वितीयोऽनुवाकः ॥