०१ बृहस्पतिसवः

सवा - एकाहविशेषाः

बृहसपतिसवः

(SB) अथ द्वितीयाष्टके सप्तमप्रपाठकारम्भः ॥

विश्वास-प्रस्तुतिः

त्रि॒वृत्स्तोमो॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वै त्रि॒वृत् ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।

मूलम्

त्रि॒वृत्स्तोमो॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वै त्रि॒वृत् ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।

सायण-टीका

यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

षष्ठे प्रपाठके सौत्रामणिः कोकिल्युदीरिता ।
सवनामान एकाहाः कथ्यन्ते सप्तमे स्फुटम् ॥ २ ॥

1सूयत ईश्वरत्वेनाभिषिच्यत एष्विति सवा एकाहविशेषाः । तत्रादौ बृहस्पतिसव उच्यते । तस्मिंश्च बृहस्पतिसवे चोदकप्राप्तांस्त्रिवृदादिस्तोमान्द्वादशस्वपि स्तोत्रेषु बाधितुमेकं स्तोमं विधत्ते - प्रकृतौ बहिष्पवमानस्तोत्रे त्रिवृत्स्तोमः, चतुर्ष्वाज्यस्तोत्रेषु माध्यंदिनपवमानस्तोत्रे च पञ्चदशस्तोमः, चतुर्षु पृष्ठस्तोत्रेष्वार्भवपवमानस्तोत्रे च सप्तदशम्तोमाः, यज्ञायज्ञयिस्तोत्र एकविंशस्तोमः । तान्बाधित्वा सर्वेषु स्तोत्रेषु त्रिवृत्स्तोम एकः कर्तव्यः । तस्य ब्रह्मवर्चसहेतुत्वाद्ब्रह्मवर्चसप्राप्तिर्भवति ॥

विश्वास-प्रस्तुतिः

अ॒ग्नि॒ष्टो॒मस्सोमो॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वा अ॑ग्निष्टो॒मः ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।

र॒थ॒न्त॒रँ साम॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वै र॑थन्त॒रम् ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।

मूलम्

अ॒ग्नि॒ष्टो॒मस्सोमो॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वा अ॑ग्निष्टो॒मः ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।

र॒थ॒न्त॒रँ साम॑ भवति ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वै र॑थन्त॒रम् ।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ।

सायण-टीका

2-3सोमयागसंस्थाविशेषं विधत्ते । पृष्ठस्तोत्रे विकल्पितबृहत्सामव्यावृत्त्यर्थं रथंतरसाम विधत्ते ॥

विश्वास-प्रस्तुतिः

प॒रि॒स्र॒जी होता॑ भवति ॥1॥

अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः ।

ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् ।
रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।

मूलम्

प॒रि॒स्र॒जी होता॑ भवति ॥1॥

अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः ।

ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् ।
रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।

सायण-टीका

4होतरि कंचिद्विशेषं विधत्ते - परिस्रजी खलतिः, शिरसि स्रगाकारेण परित एव केशा न तु मध्य इत्यर्थः । अरुणः संध्यावर्णः । मिर्मिरः पुनःपुनरतिवेगेन चक्षुर्मीलनयुक्तः । त्रिशुक्रः त्रिषु वेदेषु शुद्धो मातृवंशपितृवंशनिजाचारेषु वा शुद्धः । यदेतद्द्विजवेषस्य लक्षणं खलत्यादि, यच्च त्रिशुक्रत्वं तदुभयमपि ब्रह्मवर्चसस्वरूपम् । अतस्तदनुकूलेन रूपेण ब्रह्मवचसं प्राप्नोति ॥

विश्वास-प्रस्तुतिः

बृह॒स्पति॑रकामयत “दे॒वाना॑म्पुरो॒धाङ्ग॑च्छेय॒"मिति॑ ।
स ए॒तम्बृ॑हस्पतिस॒वम॑पश्यत् ।
तमाऽह॑रत् ।
तेना॑यजत ।
ततो॒ वै स दे॒वाना॑म्पुरो॒धाम॑गच्छत् ।

मूलम्

बृह॒स्पति॑रकामयत “दे॒वाना॑म्पुरो॒धाङ्ग॑च्छेय॒"मिति॑ ।
स ए॒तम्बृ॑हस्पतिस॒वम॑पश्यत् ।
तमाऽह॑रत् ।
तेना॑यजत ।
ततो॒ वै स दे॒वाना॑म्पुरो॒धाम॑गच्छत् ।

मूलम्

यᳶ पु॑रो॒धाका॑म॒स्स्यात् । स बृ॑हस्पतिस॒वेन॑ यजेत ॥2॥

विश्वास-प्रस्तुतिः

यᳶ पु॑रो॒धाका॑म॒स्स्या॒त्त् स बृ॑हस्पतिस॒वेन॑ यजेत ।
पु॒रो॒धामे॒व ग॑च्छति ।

मूलम्

यᳶ पु॑रो॒धाका॑म॒स्स्या॒त्त् स बृ॑हस्पतिस॒वेन॑ यजेत ।
पु॒रो॒धामे॒व ग॑च्छति ।

सायण-टीका

5बृहस्पतिसवस्योत्पत्तिविधिमुक्त्वा प्रयोगं विधत्ते । बृहस्पतिः पुरोधां देवगुरुत्वलक्षणं मुख्यत्वं पौरोहित्यं वा ॥

मूलम्

तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराशँ॒सेषु॑ । एका॑दश॒ दक्षि॑णा नीयन्ते ।

विश्वास-प्रस्तुतिः

तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराशँ॒सेष्व्॒ एका॑दश॒ दक्षि॑णा नीयन्ते ।
एका॑दश॒ माध्य॑न्दिने॒ सव॑ने स॒न्नेषु॑ नाराशँ॒सेषु॑ ।
एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराशँ॒सेषु॑ ।

त्रय॑स्त्रिँश॒त्सम्प॑द्यन्ते ।

त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑रुन्धे ।

मूलम्

तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराशँ॒सेष्व्॒ एका॑दश॒ दक्षि॑णा नीयन्ते ।
एका॑दश॒ माध्य॑न्दिने॒ सव॑ने स॒न्नेषु॑ नाराशँ॒सेषु॑ ।
एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराशँ॒सेषु॑ ।

त्रय॑स्त्रिँश॒त्सम्प॑द्यन्ते ।

त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ ।
दे॒वता॑ ए॒वाव॑रुन्धे ।

सायण-टीका

6दक्षिणायां विशेषं विधत्ते - भक्षिताप्यायितचमसा नराशंसाः तेषु दक्षिणस्य हविर्धानस्याधस्तात्सन्नेषु सत्स्वेकादश गावो दक्षिणात्वेन नीयन्ते दातव्याः । एवमुत्तरयोरपि सवनयोः । स्ता मिलित्वा त्रयस्त्रिशत्संख्यया देवतासाम्यात्तत्प्रीतिहेतवो भवन्ति ‘ये देवा दिव्येकादश स्थ’ इति मन्त्रे त्रयस्त्रिंशद्देवा आम्नाताः ॥

विश्वास-प्रस्तुतिः

अश्व॑श्चतुस्त्रिँ॒शः ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ॥3॥
प्र॒जाप॑तिश्चतुस्त्रिँ॒शो दे॒वता॑नाम् ।

मूलम्

अश्व॑श्चतुस्त्रिँ॒शः ।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ॥3॥
प्र॒जाप॑तिश्चतुस्त्रिँ॒शो दे॒वता॑नाम् ।

मूलम्

याव॑तीरे॒व दे॒वताः॑ । ता ए॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

याव॑तीरे॒व दे॒वता॒स् ता ए॒वाव॑रुन्धे ।

मूलम्

याव॑तीरे॒व दे॒वता॒स् ता ए॒वाव॑रुन्धे ।

सायण-टीका

7दक्षिणायामपरं विशेषमाह - पूर्वोक्तगवापेक्षया चतुस्त्रिंशत्संख्यापूरकोऽश्वो दातव्यः । प्रजापतिजन्यत्वात्प्राजापत्यत्वम् । प्रजापतिश्च पूर्वोक्तदेवतापेक्षया चतुस्त्रिंशः । अतोऽश्वदानेन सर्वदेवताप्राप्तिर्भवति ॥

मूलम्

कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति ।

ब्रह्म॑णो॒ वा ए॒तद्रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्र॒ह्म॒व॒र्च॒सेनै॒वैनँ॒ सम॑र्धयति ।

विश्वास-प्रस्तुतिः

कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तद्रू॒पम् यत्कृ॑ष्णाजि॒नम् ब्रह्मवर्च॒सेनै॒वैनँ॒ सम॑र्धयति ।

मूलम्

कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तद्रू॒पम् यत्कृ॑ष्णाजि॒नम् ब्रह्मवर्च॒सेनै॒वैनँ॒ सम॑र्धयति ।

सायण-टीका

8एतस्य कर्मणः सवत्वादभिषेकं विधत्ते - कृष्णाजिनमास्तीर्य तत्रोपविष्टं यजमानमभिषिञ्चेत् । ऋक्सामयोः कृष्णमृगरूपत्वसाधारणत्वाद्ब्रह्मरूपत्वम् । तेन ब्रह्मवर्चससमृद्धिः ॥

विश्वास-प्रस्तुतिः

आज्ये॑ना॒भिषि॑ञ्चति ।
तेजो॒ वा आज्य॑म् ।
तेज॑ ए॒वास्मि॑न्दधाति ॥4॥

मूलम्

आज्ये॑ना॒भिषि॑ञ्चति ।
तेजो॒ वा आज्य॑म् ।
तेज॑ ए॒वास्मि॑न्दधाति ॥4॥

सायण-टीका

9अभिषेकद्रव्यं विधत्ते । आज्यस्य स्निग्धत्वात्तेजस्त्वम् ॥

अत्र मीमांसा । चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्-

इष्ट्वा तु वाजपेयेन बृहस्पतिसवं यजेत् ।
कालं वा बोधयेद्वाक्यमुताङ्गत्वस्य बोधकम् ॥

क्त्वाश्रुत्या भाति कालोऽत्र मैवमङ्गत्वबोधनम् ।
श्रुतेर्मुख्यं प्रक्रिया च तथा सत्यनुगृह्यते ॥

इदमाम्नायते - ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत । अग्निं चित्वा सौत्रामण्या यजेत’ इति । तत्रेष्ट्वेति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालिकतां ब्रूते । तस्माद्वाक्यमिदं बृहस्पतिसवस्योत्तरकालीनतां बोधयतीति चेन्मैवम् । वाजपेयाङ्गत्ववोधनमेव क्त्वाश्रुतेर्मुख्योऽर्थः । ‘समानकर्तृकयोः पूर्वकाले’ इति सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात् । यद्यपि सूत्रे पूर्वकाल इत्युक्तम्, तथाऽपि तन्न नियतं, मुखं व्यादाय स्वपितीत्यत्र कालैक्येऽपि प्रयोगदर्शनात् । वाजपेयप्रकरणमप्यङ्गत्वेन गृह्यते । अन्यथा त्वप्रकृते बृहस्पतिसवे कालविधानात्प्रकरणं बाध्येत । अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसवत्वाभावात्तच्छब्दोऽनुपपन्न इति चेन्न । मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात् । तस्माद्वाक्यमिदमङ्गत्वबोधकम् । अग्निं चित्वेत्यत्राप्येवं योजनीयम् ॥

इति श्रमित्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके प्रथमोऽनुवाकः ॥