विश्वास-प्रस्तुतिः
दे॒वम्ब॒र्हिरिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वन्दे॒वम॑वर्धयत् ।
गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् । तेज॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
मूलम्
दे॒वम्ब॒र्हिरिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वन्दे॒वम॑वर्धयत् ।
गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् । तेज॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
सायण-टीका
(SB) 1एकोनविंशे वपापुरोडाशहविषां याज्यानुवाक्या उक्ताः । अथ विंशेऽनूयाजानां मैत्रावरुणप्रैषा उच्यन्ते । तत्र प्रथममन्त्रमाह - बर्हिश्शब्देन प्रथमानूयाजदेवस्वरूपमुच्यते । तच्च देवं द्योतनशीलम् । योऽयमिन्द्रो वयोधा आयुष्याधारकः तं देवमिन्द्रं पूर्वोक्तदेवनशीलं बर्हिस्स्वरूपमवर्धयद्वर्धितवत् । तच्च गायत्र्याख्येन छन्दसा सहितं सत् इन्द्रियं चक्षुरादिपाटवं तेजः शरीरकान्तिः वय आयुष्यं च दधत् संपादयति । वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वीर्द्वारो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वीर्दे॒वम॑वर्धयन् ।
उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम् ।
प्रा॒णमिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥90॥
मूलम्
दे॒वीर्द्वारो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वीर्दे॒वम॑वर्धयन् ।
उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम् ।
प्रा॒णमिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥90॥
सायण-टीका
2अथ द्वितीयमन्त्रमाह - द्वारशब्दवाच्या देव्यो द्वितीयानुयाजदेवता यास्सन्ति ता देव्यो देवं द्योतमानं वयोधसमिन्द्रं देवमवर्धयन् । ताश्च देव्य उष्णिहा छन्दसा सहेन्द्रियपाटवं प्राणं स्थैर्यमायुष्यं चेन्द्रे संपादयन्तु ॥
- वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वी दे॒वव्ँव॑यो॒धस॑म् ।
उ॒षे इन्द्र॑मवर्धताम् ।
अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् ।
वाच॒मिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
मूलम्
दे॒वी दे॒वव्ँव॑यो॒धस॑म् ।
उ॒षे इन्द्र॑मवर्धताम् ।
अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् ।
वाच॒मिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
सायण-टीका
3अथतृतीयमन्त्रमाह - उषे देवी उषाख्ये देव्यौ तृतीयानुयाजदेवते । ते उभे वयोधसमिन्द्रं देवं वर्धितवत्यौ । ते चानुष्टुभा छन्दसा सहेन्द्रियं वाग्वयांसीन्द्रे संपादयतः ॥
- वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वी जोष्ट्री॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वी दे॒वम॑वर्धताम् ।
बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् । श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥91॥
मूलम्
दे॒वी जोष्ट्री॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वी दे॒वम॑वर्धताम् ।
बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् । श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥91॥
सायण-टीका
4अथ चतुर्थमन्त्रमाह - जोष्ट्री देवी जोष्ट्र्याख्ये देव्यौ ये विद्येते ते देव्यौ द्योतमानं वयोधसं इन्द्रं देवं वर्धितवत्यौ । ते च बृहत्या छन्दसा सहेन्द्रियं श्रोत्रवयांसीन्द्रे संपादयतः । इन्द्रियश्ब्दः सामान्यवाची वाक्श्रोत्रादयो विशेषवाचिनः ॥
- वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वी दे॒वम॑वर्धताम् ।
प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् । शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
मूलम्
दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वी दे॒वम॑वर्धताम् ।
प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् । शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ।
सायण-टीका
5अथ पञ्चममन्त्रमाह - ऊर्जाहुत्याख्ये ये देव्यौ द्योतमानं वयोधसमिन्द्रं देवं वर्धितवत्यौ । ते च पङ्क्त्या छन्दसा सहेन्द्रियं शुक्रं वयांसीन्द्रे संपादयतः । शुक्रशब्देन दीप्तिरुच्यते ॥
- वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वा दे॒वम॑वर्धताम् ।
त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥92॥
मूलम्
दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वा दे॒वम॑वर्धताम् ।
त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीताय्ँ॒यज॑ ॥92॥
सायण-टीका
6अथ षष्ठमन्त्रमाह - दैव्यहोतृनामकौ यौ देवौ विद्यते तौ देवौ द्योतमानं वयोधसमिन्द्रं देवं वर्धितवन्तौ । तौ च त्रिष्टुभा छन्दसा सहेन्द्रियं त्विषिं वयांसीन्द्रे दधतुः । पूर्वत्र शुक्रशब्देन शरीरकान्तिरुक्त। इह त्विषिशब्देन रश्मिरुच्यते ॥
- वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धस॑म् । पति॒मिन्द्र॑मवर्धयन् ।
जग॑त्या॒ छन्द॑सेन्द्रि॒यम् । बल॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒व॒ने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
मूलम्
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धस॑म् । पति॒मिन्द्र॑मवर्धयन् ।
जग॑त्या॒ छन्द॑सेन्द्रि॒यम् । बल॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒व॒ने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
सायण-टीका
7अथ सप्तममन्त्रमाह - या देव्यस्तिस्रस्त्रिसंख्याका एकैकस्यास्त्रिमूर्तित्वात्पुनरपि तिस्र इत्युच्यन्ते । तास्सर्वाः वयोधसं पालकमिन्द्रं वर्धितवत्यः । ताः पुनर्जगत्या छन्दसा सह इन्द्रियं बलं वयांसीन्द्रे संपादयन्ति ॥
विश्वास-प्रस्तुतिः
दे॒वो नरा॒शँसो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥93॥
मूलम्
दे॒वो नरा॒शँसो॑ दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥93॥
सायण-टीका
8अथाष्टममन्त्रमाह - नराशंसाख्यो यो देवोऽस्ति स देवो द्योतमानं वयोधसमिन्द्रं देवं वर्धितवान् । स च विराजा छन्दसा युक्त इन्द्रियं रेतो वयांसीन्द्रे संपादयति ॥
- वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वो दे॒वम॑वर्धयत् ।
द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् । भग॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
मूलम्
दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वो दे॒वम॑वर्धयत् ।
द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् । भग॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
सायण-टीका
9अथ नवममन्त्रमाह - वनस्पत्याख्यो यो देवोऽस्ति स देवो द्योतमानं वयोधसमिन्द्रं वर्धितवान् । स च द्विपदा छन्दसा सह इन्द्रियसौभाग्यवयांसीन्द्रे संपादयति ॥
- वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वम्ब॒र्हिर्वारि॑तीनान्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वन्दे॒वम॑वर्धयत् ।
क॒कुभा॒ छन्द॑सेन्द्रि॒यम् । यश॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
मूलम्
दे॒वम्ब॒र्हिर्वारि॑तीनान्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् । दे॒वन्दे॒वम॑वर्धयत् ।
क॒कुभा॒ छन्द॑सेन्द्रि॒यम् । यश॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
सायण-टीका
10अथ दशममन्त्रमाह - वारितीनां जलप्राप्तीनां संबन्धि बर्हिराख्यं यद्देवस्वरूपमस्ति तदिदं बर्हिस्स्वरूपं द्योतमानं वयोधसमिन्द्रं देवं वर्धितवत् । तच्च ककुभा छन्दसा सह इन्द्रिययशोवयांसीन्द्रे संपादयति ॥
- वसुधेयस्य धनधारकस्य देवस्य वसुवने धनदाननिमित्तं अयं प्रथमानूयाजदेवो वेतु आज्यं पिबतु । तदर्थं हे होतः? यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वो दे॒वम॑वर्धयत् ।
अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् ।
क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥94॥
मूलम्
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृद्दे॒वमिन्द्रव्ँ॑वयो॒धस॑म् ।
दे॒वो दे॒वम॑वर्धयत् ।
अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् ।
क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥94॥
सायण-टीका
11अथैकादशमन्त्रमाह - स्विष्टकृदाख्योऽग्निर्देवो योऽस्ति स देवो द्योतमानं वयोधसं इन्द्रं देवं वर्धितवान् । स च अतिच्छन्दोरूपेण छन्दसा सह इन्द्रियबलवयांसि इन्द्रे संपादयति । अतो धनधारकस्य धनदाननिमित्तं अयं स्विष्टकृद्देवः आज्यं वेतु पिबतु । तदर्थं हे होतः! यज याज्यां पठ ॥
अस्य प्रपाठकस्यानुवाकार्थसंग्रहः -
ग्रहा उपस्थितिर्होम उपहोमोऽभिषेचनम् ।
तथाऽवभृथ ऐन्द्रे तु पशौ चत्वार ईरिताः ॥ १ ॥
पशुत्रयेऽथ चत्वारः सूक्तवाके त्वनन्तरः ।
पितृयज्ञे तूत्तरः स्यात्पशावैन्द्रे चतुष्टयम् ॥ २ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेथ्वरः ॥ ३ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके विंशोऽनुवाकः ॥
षष्ठप्रपाठकस्समाप्तः ॥