विश्वास-प्रस्तुतिः
उ॒शन्त॑स्त्वा हवामह॒ आ नो॑ अग्ने सुके॒तुना॑ ।
मूलम्
उ॒शन्त॑स्त्वा हवामह॒ आ नो॑ अग्ने सुके॒तुना॑ ।
सायण-टीका
(SB) 1-10पञ्चदशे सूक्तवाकप्रैषोऽभिहितः । षोडशे पितृयज्ञविषया मन्त्रा उच्यन्ते । पितृयज्ञश्च सूत्रकारेण निर्दिष्टः- ‘पूर्ववत्पितृयज्ञः’ इति । स च राजसूयप्रकरणे चातुर्मास्येषु ‘सोमाय पितृमते’ इत्यनुवाके व्याख्यातः । तदर्थानां मन्त्राणां दशानां प्रतीकानि दर्शयति - एतास्वृक्षु ‘उशन्तस्त्वा हवामहे’ एषा सामिधेनी, सेयं संहितायां द्वितीयकाण्डे व्याख्याता18 ।
‘आ नो अग्ने’ ‘त्वं सोम महे'19 इत्युभे आज्यभागयोः पुरोनुवाक्ये, ते च ‘वृषासो अंशुः पवते'19 इत्यनुवाके व्याख्याते ।
-
{मन्त्रः} उ॒शन्त॑स्त्वा हवामह उ॒शन्त॒स्समि॑धीमहि ।
उ॒शन्नु॑श॒त आ व॑ह॒ पि॒तॄन्ह॒विषे॒ अत्त॑वे ।- {टीका }- 1महापितृयज्ञे सामिधेनी एकैव त्रिरुच्यते । उशन्त इत्यनुष्टुप् ॥ उशन्तः कामयमानाः पितॄन् त्वा हवामहे आह्वयामः । तानेव कामयमानास्त्वां समिधीमहि सम्यग्दीपयामः । त्वमपि तान् पितॄन् उशन्नावह । कीदृशान् उशतः हविरत्तुं कामयमानान् हविषे अत्तवे हविर्भोक्तुं । तुमर्थे तवै प्रत्ययः, कर्मणस्सप्रदानत्वाच्चत्तुर्थी ॥
-
आ नो॑ अग्ने सुके॒तुना॑ ।
र॒यिव्ँ वि॒श्वायु॑पोषसम् ।
मा॒र्डी॒कन्धे॑हि जी॒वसे॑ ।- टीका 7अथ सप्तमीमाह - हे अग्ने! सुकेतुना शोभनेन ज्ञानेन युक्तस्त्वं विश्वायुपोषसं विश्वस्यायुषः पोषणे क्षमं रयिं धनं मार्डीकं अतिशयेन सुखसाधनभूतं जीवसे अस्माकं जीवनाय आधेहि सर्वतः संपदाय ॥
विश्वास-प्रस्तुतिः
त्वँ सो॑म म॒हे भग॒न्त्वँ सो॑म॒ प्रचि॑कितो मनी॒षा ।
मूलम्
त्वँ सो॑म म॒हे भग॒न्त्वँ सो॑म॒ प्रचि॑कितो मनी॒षा ।
सायण-टीका
‘सोमाय पितृमते पुरोडाशं षट्कपालं निर्वपति'17 इत्यस्मिन् कर्मणि ‘त्वं सोम प्रचिकितः'18 ‘त्वया हि नः पितरः'18 इत्येते पुरोनुवाक्ये ।
तत्रैव ‘त्वं सोम पितृभिः'18 इति याज्या ।
-
{ मन्त्रः} त्वँ सो॑म म॒हे भग॑म् । त्वय्ँ यून॑ ऋताय॒ते । दक्ष॑न्दधासि जी॒वसे॑ ।
- { टीका } 8अथाष्टमीमाह - हे सोम! त्वं महे महते वृद्धाय भगं सौभाग्यं दधासि संपादयसि । तथा त्वं ऋतायते यज्ञमिच्छते यूने यौवनोपेताय यजमानाय जीवसे जीवनार्थं दक्षं समर्थं धनं दधासि संपादयसि । एते उभे ऋचौ चातुर्मास्यान्तर्गतमहापितृयज्ञे आज्यभागयोः पुरोनुवाक्ये । तथा च सूत्रकार आह - ‘जीववन्तावाज्यभागौ यजत्या नो अग्ने सुकेतुना’ इति ॥
-
{ मन्त्रः} त्वँ सो॑म॒ प्रचि॑कितो मनी॒षा त्वँ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः॑ ।- {टीका} 2सोमबर्हिषदग्निष्वात्तकव्यवाहनानां क्रमेण द्वेद्वे पुरोनुवाक्ये एकैकस्य तूत्तरा याज्या सर्वास्त्रिष्टुभः । विशेषो वक्ष्यते - त्वं सोमेति ॥ हे सोम! त्वं प्रचिकितः प्रकर्षेण ज्ञातः । निष्ठायां छान्दस्मं द्विर्वचनम्, यङ्लुकि वा अभ्यासविकाराभावः, ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । ‘चिक’ इति वा धात्वन्तरं द्रष्टव्यम् । मनीषा मनीषावद्भिः । यद्वा - विशिष्टया मनीषया व्यभिचाराभावात् । ‘सुपां सुलुक्’ इति विभक्तेराकारः । किंच – त्वं रजिष्ठं ऋजुतरं पन्थां पन्थानम् । ऋजुशब्दादिष्ठनि ‘विभाषर्जोश्छन्दसि’ इति रेफः । यद्वा - रजः उदकं अतिशयेन तद्वान् रजिष्ठः । रजश्शब्दादिष्ठन् ‘विन्मतोर्लुक्’, ‘टेः’ इति टिलोपः । ईदृशं पन्थानं अनुनेषि अनुक्रमेण प्रापयसि । नयतोर्लिटि शपो लुक् । किञ्च - हे इन्दो! सोम! तव प्रणीती प्रणीत्या परिचरणेन पुरस्कारेण वा । ‘सुपां सुलुक्’ इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । अस्माकं पितरः पूर्वेषु देवेषु रत्नं रमणीयं हविरन्नमभजन्त धीराः धीमन्तः । मत्वर्थीयो रप्रत्ययः ॥
विश्वास-प्रस्तुतिः
त्वया॒ हि न॑ᳶ पि॒तर॑स्सोम॒ पूर्वे॒ त्वँ सो॑म पि॒तृभि॑स्सव्ँविदा॒नः ।
बर्हि॑षदᳶ पितर॒ आऽहम्पि॒तॄन् ।
उप॑हूताᳶ पि॒तरोऽग्नि॑ष्वात्ताᳶ पितरः ।
मूलम्
त्वया॒ हि न॑ᳶ पि॒तर॑स्सोम॒ पूर्वे॒ त्वँ सो॑म पि॒तृभि॑स्सव्ँविदा॒नः ।
बर्हि॑षदᳶ पितर॒ आऽहम्पि॒तॄन् ।
उप॑हूताᳶ पि॒तरोऽग्नि॑ष्वात्ताᳶ पितरः ।
सायण-टीका
‘पितृभ्यो बर्हिषद्भ्यो धानाः'17 इत्यस्मिन्कर्मणि ‘बर्हिषदः पितर ऊत्यर्वाक्'18 ‘आऽहं पितृन्सुविदत्रान्'18 इत्येते पुरोनुवाक्ये ।
‘उपहताः पितरः'18 इत्येषा याज्या ।
-
{ मन्त्रः} त्वया॒ हि न॑ᳶ पि॒तर॑स्सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुᳶ प॑वमान॒ धीराः॑ ।
व॒न्वन्नवा॑तᳶ परि॒धीँ रपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भव [65] नः॒ ।- { टीका} 3त्वया हीति ॥ हे सोम नः अस्माकं पूर्वे पितरः त्वया खलु हेतुना त्वत्प्रसादेन कर्माणि ज्योतिष्टोमदीनि पितृयज्ञादीनि वा चक्रुः कृतवन्तः । धीराः । गतम् । हे पवमान शोधक तस्मात्कारणात् अस्माकमपि त्वं वन्वन् अस्माकं संभजन् अवातः वातरहितः स्वयमेव ज्वलन् । यद्वा - अकार उपमायां अयं वायुसदृशः, दीर्घकारित्वं साडृश्यं । परिधीन् परितो धारयितॄन् आत्मनः प्रतिबन्धॄन् अपोर्णु अपानुद प्रतिबन्धकापनोदेन शीघ्रमागच्छेति । रुत्वानुनासिकावुक्तौ । वीरेभिः विक्रान्तैरश्वैः शीघ्रमागच्छेति । ततश्चागत्य नः अस्माकं मघवा धनवान् भव । अस्मभ्यं धनं दातुं हस्ते गृहाण । यद्वा - हविषा धनेन तद्वान् भव । ‘छन्दसीवनिपौ’ इति मत्वर्थीयो वनिप्रत्ययः । ‘द्व्यचोतस्तिङः’ इति भवशब्दस्य संहितायां दीर्घः ॥
-
{ मन्त्रः} त्वँ सो॑म पि॒तृभि॑स्सव्ँविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।- { टीका} 4त्वं सोमेति ॥ हे सोम! त्वं पितृभिः पूर्वैरास्माकीनैः संविदानः ऐकमत्यं गतः इत्थं वयमस्मै कुर्म इति द्यावापृथिव्यौ अन्वाततन्थ अनुक्रमेण दीप्त्या । अततेः ‘बभूथाततन्थ’ इति निपात्यते । हे इन्दो! तस्मै तादृशाय ते तुभ्यं हविषा विधेम परिचरेम तदर्थां आततदीप्तिर्भव । प्रयोजनं च ब्रूमः । वयं रयीणां धनानां पतयः स्याम भूयास्मेति हविषा विधेम त्वाम्, त्वं च द्यावापृथिवी दीप्त्या आततन्थ पितृभिश्च संविदानो भव इति । ‘समोगमृच्छि’ इति विदेरात्मनेपदम् ॥
-
{मन्त्रः} बर्हि॑षदᳶ पितर ऊ॒त्य॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॒स्मभ्य॑म् [66] शय्ँ योर॑र॒पो द॑धात । -
{टीका} 6आमन्त्र्यन्ते - हे बर्हिषदः पितरः ऊती ऊत्या गमनेन अर्वाक अस्मान् प्रत्यभिमुखा भूत्वा । ‘ऊतियूति’ इत्यादिना उदात्तः क्तिन्निपातितः, ‘सुपां सुलुक्’ इति तृतीयायाः पूर्वसवर्णः, ‘उदात्तस्वरितयोर्यणः’ इति ततःपरस्याकारस्य संहितायां स्वरितत्वम् । इमानि हव्यानि हवींषि । उभयत्र ‘शेश्छन्दसि’ इति लोपः । युष्मदर्थं चकृम कुर्मो वयम् । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । तानि यूयं जुषध्वं सेवध्वम् । तिङः परत्वात् न निहन्यते । तदर्थं ते च यूयं आगत आगच्छत । लोटि ‘बहुलं छन्दसि’ इति शपो लुक् । अवसा प्रीत्या शन्तमेन सुखतमेन मनुष्यादिप्रीतेः अथ अनन्तरमागत्य हवींषि च सेवित्वा अस्मभ्यं शंयोश्च अरपः अपापः उभयलोकाविरुद्धं दधात दत्त आपत्तापशमनं रोगाणां नाशनं यावनं भयानां पृथक्करणमागामिनो निरोधः । यौतेरसुनि गुणे अवादेशाभावश्छान्दसः ॥
-
{ मन्त्रः} आहम्पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तञ्च वि॒क्रम॑णञ्च॒ विष्णोः॑ ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ।- {टीका} 7आहमिति ॥ सुविदत्रान् शोभनवेदनान् सुष्ठु वदन्तीति सुविदत्राः । विदेः कर्तृप्रत्ययः, कृदुत्तपदप्रकृतिस्वरत्वम् । अहं तानावित्सि आभिमुख्येन लब्धवानस्मि । विन्दतेर्लुङि ‘लिङ्सिचावात्मनेपदेषु’ इति कित्वम् । किञ्च - विष्णोर्यज्ञात्मनो नपातं च विक्रमणं च आवित्सीत्येव तेषामेव प्रसादान्नपातनमभ्रेषः कर्माङ्गानाम् । ण्यन्तात्क्विपि नञ्समासे ‘नभ्राण्नपात्’ इति नलोपाभावो निपात्यते । विविधं सङ्क्रममणं विक्रमणं विश्लिष्टकर्मनिष्पत्तिः । विशिष्टफलप्राप्तिहेतुत्वं वा कर्मणः । कस्मादेवमुच्यते इत्याह - ये बर्हिषदः पितरः स्वधया अन्नेन सह सुतस्य सोमस्यान्नं सोमं च भजन्त अभजन्त यज्वान इति यावत् । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । ते पितरः इह अस्मिन् कर्मणि पित्वः पिन्वन्ति आगमिष्ठाः । ‘सुपां सुलुक्’ इति सप्तम्याः स्वादेशः । अतिशयेन गन्तारः । ‘तुश्छन्दसि’ इत्यागन्तृशब्दादिष्ठन्प्रत्ययः, ‘तुरिष्ठेमेयस्सु’ इति लोपः ॥
-
{मन्त्रः} उप॑हूताᳶ पि॒तरो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् । -
{टीका} 8उपहूताः ये पितरः अस्मिन् कर्मणि अस्माभिरुपहूताः सोम्यासः सोमार्हाः । ‘सोममर्हति’ इति यप्रत्ययः । बर्हिष्येषु यागसंबन्धिषु । भवे साधौ वा यः । सन्निधिषु निधीयन्त इति निधयः हवींषि । ‘उपसर्गे घोः किः’ तेषु निमित्तेषु सप्तमी । प्रियेषु इष्टतमेषु ये आहूताः आगमन्तु आगच्छन्तु । ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति छत्वाभावः । अतः इह कर्मणि अस्मत्प्रयुक्तास्स्तुतीः श्रुवन्तु शृण्वन्तु । ‘बहुलं छन्दसि’ इति शपो लुक् । अधिब्रुवन्तु तेऽस्मान् पक्षपातेन वा अस्मान् आधिक्येन ब्रुवन्तु साधुकृतमेभिरिति । अवन्तु चास्मान्पितरस्ते ॥
-
{मन्त्रः} अग्नि॑ष्वात्ताᳶ पितर॒ एह ग॑च्छत॒ सद॑स्सदस्सदत सुप्रणीतयः ।
अ॒त्ता ह॒वीँषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिँ सर्व॑वीरन्दधातन ।- {टीका} 5अग्निष्वात्ता इति जगती ॥ हे अग्निष्वात्ताः अग्निष्वेव हवन्ते ये हविषां भोक्तारः आस्वादनिबद्धभावाः । आमन्त्रिताद्युदात्तत्वम् । हे पितरः! इह कर्मणि आगच्छत हे सुप्रणीतयः सुखपरिचरणाः सदस्सदः आत्मीयमात्मीयं सदनं सदत सीदत । सीदतिः प्राप्तिकर्माऽयमिदानीम् । यद्वा - ‘सुपां सुलुक्’ इति सप्तम्या लुक् । सदस्सदः सदसिसदसि सीदत । विकरणव्यत्ययेन शः । ततश्चात्ताश्नीत हवींषि पितरो बर्हिषदः । ब्राह्मणं च, ‘ये वै यज्वानः । ते पितरो बर्हिषदः ।’ इति ॥
विश्वास-प्रस्तुतिः
अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे ।
नरा॒शँसे॑ सोमपी॒थय्ँय आ॒शुः ।
ते नो॒ अर्व॑न्तस्सु॒हवा॑ भवन्तु ।
शन्नो॑ भवन्तु द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
मूलम्
अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे ।
नरा॒शँसे॑ सोमपी॒थय्ँय आ॒शुः ।
ते नो॒ अर्व॑न्तस्सु॒हवा॑ भवन्तु ।
शन्नो॑ भवन्तु द्वि॒पदे॒ शञ्चतु॑ष्पदे ।
सायण-टीका
‘पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम्'17 इत्यत्र ‘अग्निष्वात्ताः पितरस्सोम्यासः'18 इत्येषा पुरोनुवाक्या ।
ता एताः ‘त्वं सोम प्रचिकितः'18 इत्याद्यास्सप्त संहितायां ‘उशन्तस्त्वा’ इत्यनुवाके व्याख्याताः ॥
सायण-टीका
11अथ द्वितीयां पुरोनुवाक्यामाह - अग्निष्वात्ता अग्निष्वात्त नामकाः पितरः पितृविशेषाः । ते च चातुर्मास्यगतपितृयज्ञब्राह्यणे स्पष्टमभिहिताः - ‘ये वा अयज्वानो गृहमेधिनः । ते पितरोऽग्निष्वात्ताः’ इति । मनुष्यजन्मन्यग्निष्टोमादियागमकृत्वा स्मार्तकर्मनिष्ठाः सन्तो मृत्वा च पितृत्वं गताः तानग्रिष्वात्तानृतुमत ऋतुरूपेण यज्ञकालेन युक्तान् हवाहमे आह्वयामः । ये पितरो नराशंसे नरैः शंसनीय यज्ञे सोमादिरूपेण सोमपीथं सोमपानमाशुः प्राप्तवन्तः ते पितरो नोऽस्माकं सुहवाः सुखेनाह्वातुं शक्या अर्वन्तः शीघ्रगतिमन्तो भवन्तु । नोऽस्माकं द्विपदे मनुष्याय शं सुखकरा भवन्तु । चतुष्पदे पशवे च शं भवन्तु ॥
विश्वास-प्रस्तुतिः
ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः ॥75॥
अँ॒हो॒मुच॑ᳶ पि॒तर॑स्सो॒म्यासः॑ ।
परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः ।
अधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ।
मूलम्
ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः ॥75॥
अँ॒हो॒मुच॑ᳶ पि॒तर॑स्सो॒म्यासः॑ ।
परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः ।
अधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ।
सायण-टीका
12अथ विकल्पितामन्यां द्वितीयां पुरोनूवाक्यामाह - अग्निष्वात्ताः पूर्वोक्तलक्षणाः पितरो ये सन्ति ये च यागं कृत्वा पितृलोकं प्राप्ता अनग्निष्वात्ताः पितरः ते सर्वेऽप्यंहोमुचः पापान्मोचयितारः सोम्यासः सोमपानार्हाः परे कृतयागा अवरे यागरहिताः द्विधा अप्यमृतासः मनुष्यवच्छीघ्रमरणरहिताः ते भवन्तः पितरोऽधिब्रुवन्तु देवानां समीपे यजमानमधिकं ब्रुवन्तु । यजमानानस्मानवन्तु ॥
विश्वास-प्रस्तुतिः
वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णाᳵ कर॒म्भम् ।
उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च।
अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभि॑स्सव्ँविदा॒नाः ।
इन्द्र॑वन्तो ह॒विरि॒दञ्जु॑षन्ताम् ।
मूलम्
वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णाᳵ कर॒म्भम् ।
उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च।
अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभि॑स्सव्ँविदा॒नाः ।
इन्द्र॑वन्तो ह॒विरि॒दञ्जु॑षन्ताम् ।
सायण-टीका
13अथ तत्रैव याज्यामाह - अग्निष्वात्तनामकाः पितरो मदीयमिदं हविर्जुषन्ताम् । कीदृशा अग्निष्वात्ताः? वान्यायै मृतवत्साया धेनोर्दुग्धे प्रक्षिप्तं करम्भं यवपिष्टरूपं मन्थं जुषाणाः । तेषु मध्ये ये परे उत्कृष्टाः ये चावरे निकृष्टाः ते सर्वेऽप्युदीराणा अस्मिन्कर्मणि उत्कर्षेण प्राप्ता ऋतुभिर्यज्ञकालाभिमानिदेवैः सह संविदाना ऐकमत्यं गताः इन्द्रवन्तः परमैश्वर्ययुक्तेन पितृराजेन यमेन संयुक्ताः ॥
विश्वास-प्रस्तुतिः
यद॑ग्ने कव्यवाहन॒ त्वम॑ग्न ईडि॒तो जा॑तवेदः ।
मात॑ली क॒व्यैः ।
मूलम्
यद॑ग्ने कव्यवाहन॒ त्वम॑ग्न ईडि॒तो जा॑तवेदः ।
मात॑ली क॒व्यैः ।
सायण-टीका
14-16अत्र शाखान्तरानुसारेण हविरन्तरं सूत्रकार उदाजहार- ‘अग्नये कव्यवाहनाय यमाय वा मन्थम्’ इति । तत्र द्वयोः पुरोनुवाक्ययोरेकस्या याज्यायाश्च प्रतीकानि दर्शयति - एतास्तिस्रः ‘उशन्तस्त्वा हवामहे’ इत्यनुवाके संहितायां व्याख्याताः ॥
-
यद॑ग्ने [68] क॒व्य॒वा॒ह॒न॒ पि॒तॄन्यक्ष्यृ॑ता॒वृधः॑ ।
प्र च॑ ह॒व्यानि॑ वक्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ । -
टीका 12यदिति अनुष्टुप् ॥ हे अग्ने कव्यवाहन हविषो वाहक यद्यस्मात्पितॄन् ऋतावृधः ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितॄन् यक्षि यजसि । बहुलं छन्दसि इति शपो लुक् । तस्मात्त्वमेव हव्यानि प्रवक्ष्यसि प्रवहसि देवेभ्यश्च पितृभ्यश्च । आकारस्समुच्चये । तस्मादेवं महानुभावं त्वामेव वयं यजाम इति ॥
-
मन्त्रः त्वम॑ग्न ईडि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा ।
प्रादाः॑ पि॒तृभ्य॑स्स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वन्दे॑व॒ प्रय॑ता ह॒वीँषि॑ ।- टीका 13त्वमिति ॥ हे अग्ने जातवेदः जातानां वेदितः प्रजावेदितः त्वं ईडितः स्तुतः अवाट् हव्यानि । वहेश्छान्दसो लुङ् । ततश्च तानि सुरभीणि कृत्वा पितृभ्यः प्रादाः प्रदेहि स्वधया अन्नेन सहैव । ततस्ते पितरः तानि प्रयतानि शुद्धानि हवींषि अक्षन् अदन्तु । अदेश्छान्दसो ‘लुङ्सनोर्घसॢ’ इति घस्लादेशः, ‘मन्त्रे घस’ इति च्लेर्लुक्, ‘घसिभसोर्हलि च’ इत्युपधालोपः । देव त्वमपि तानि हवींषि अद्धि भक्षय सततमस्मानुपकारिणः कुर्विति भावः ॥
-
मन्त्रः मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒र्ऋक्व॑भिर्वावृधा॒नः ।
याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति । [69] -
टीका 14वावृधान इति ॥ प्रत्येकं कव्यादिभिस्संपद्यते । मातलिना तद्वानिन्द्रो मातलिः । छान्दस इनिर्व्रीह्यादिवद्द्रष्टव्यः । स कव्यैः कव्यवाहिभिः पितृभिः सह वावृधानः वर्धमानः । शपः श्लुः, ताच्छीलिकश्चानश् । यमः पितृराजः सोऽङ्गिरोभिः पितृविशेषैः सह वावृधानः । बृहस्पतिः ऋक्वभिः मन्त्रवद्भिः स्तुतिमद्भिर्वा पितृविशेषैः सह वावृधानः । ‘छन्दसीवनिपौ’ इति वनिप्प्रत्ययः, अयस्मयादित्वेन पदत्वात्कुत्वं, भत्वाज्जश्त्वाभावः । यांश्च पितॄन् देवाः वावृधुः वर्धयन्ति । व्यतयेन परस्मैपदम्, तुजादित्वादभ्यासस्य दीर्घत्वम् । ये च पितरो देवान् वावृधुरिति । ये च तत्रान्ये एके देवाः पितॄणां वर्धयितारः स्वाहाकारेण मदन्ति मोदन्ताम् । अथान्ये एके पितरः स्वधया स्वधाकारेण मदन्तीत्येव । माद्यतेर्व्यत्ययेन शः ॥
विश्वास-प्रस्तुतिः
ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः ।
हो॒त्रा॒वृध॒स्स्तोम॑तष्टासो अ॒र्कैः ।
आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् ।
स॒त्यैᳵ क॒व्यैᳶ पि॒तृभि॑र्घर्म॒सद्भिः॑ ।
मूलम्
ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः ।
हो॒त्रा॒वृध॒स्स्तोम॑तष्टासो अ॒र्कैः ।
आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् ।
स॒त्यैᳵ क॒व्यैᳶ पि॒तृभि॑र्घर्म॒सद्भिः॑ ।
सायण-टीका
17अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह - ये पितरो देवत्रा देवेषु मध्ये जेहमानाः प्रथमानाः होत्रावृधः होमकर्तॄन्वर्धयन्तः स्तोमतष्टासः स्तोत्ररूपैर्मन्त्रैः संस्कृतास्सन्तः अर्कैरर्चनीयैर्हविर्भिः तातृपुः तृप्तिं गताः हे अग्ने! तैः पितृभिः सार्धमर्वाङायहि अस्मदभिमुखं आगच्छ । कीदृशैः पितृभिः? सुविदत्रेभिः सम्यगभिज्ञैः सत्यैः सत्यवादिभिः कव्यैः कव्याख्येन पितॄणामन्नेन युक्तैः घर्मसद्भिः घर्मे दीप्यमानेऽस्मिन्कर्मणि निवसद्विः ॥
विश्वास-प्रस्तुतिः
ह॒व्य॒वाह॑म॒जर॑म्पुरुप्रि॒यम् ।
अ॒ग्निङ्घृ॒तेन॑ ह॒विषा॑ सप॒र्यन् ।
उपा॑सदङ्कव्य॒वाह॑म्पितृ॒णाम् ।
स न॑ᳶ प्र॒जाव्ँ वी॒रव॑तीँ॒ समृ॑ण्वतु ॥76॥
मूलम्
ह॒व्य॒वाह॑म॒जर॑म्पुरुप्रि॒यम् ।
अ॒ग्निङ्घृ॒तेन॑ ह॒विषा॑ सप॒र्यन् ।
उपा॑सदङ्कव्य॒वाह॑म्पितृ॒णाम् ।
स न॑ᳶ प्र॒जाव्ँ वी॒रव॑तीँ॒ समृ॑ण्वतु ॥76॥
सायण-टीका
18अथ तत्रैव याज्यामाह - अहं स्विष्टकृदाख्यमिममग्निं उपासदं उपसन्नोऽस्मि । किं कुर्वन्? घृतेन हविषा सपर्यन् पूजयन् । कीदृशमग्निं? हव्यवाहं देवार्थं हव्यस्य वोढारं अजरं जरारहितं पुरुप्रियं पुरुषाणां बहूनां यजमानानां प्रियं पितॄणामर्थे कव्यवाहं कव्याख्यस्य हविषो वोढारम् । स तादृशोऽग्निः नोऽस्माकं वीरवतीं वीरैर्भृत्यैर्युक्तां प्रजां पुत्रपौत्रादिरूपां समृण्वतु सम्यक्प्रापयतु ॥
अथ विनियोगसंग्रहः-
पितृयज्ञे सामिधेनी ह्युशन्तस्त्वेति वर्णिता ।
नस्त्वं सोम इत्याज्यभागयोर्द्वे पुरोरुचौ ॥
पितृमत्सोमयागे तु त्वं सोम प्रेत्युभे मते ।
पुरोनुवाक्ये याज्या तु त्वं सोमेत्यादिका मता ॥
बर्हिषः पितृयागे तु वर्हिष्यादित्रयं तथा ।
अग्निष्वेति चतस्रस्स्युरग्निष्वात्तयजौ तथा ॥
यदग्ने कव्यवाहेति कव्यवाहयजौ त्रयम् ।
येता द्वे स्विष्टकृद्यागे मन्त्रा अष्टादशेरिताः ॥
इति श्रमित्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयेतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके षोडशोऽनुवाकः ॥