१५ सूक्तवाकप्रैषः

विश्वास-प्रस्तुतिः

अ॒ग्निम॒द्य होता॑रमवृणीत ।

मूलम्

अ॒ग्निम॒द्य होता॑रमवृणीत ।

सायण-टीका

(SB) 1चतुर्दशे प्रधानपशुत्रयार्था अनूयाजप्रैषा उक्ताः । अथ पञ्चदशे सूक्तवाकप्रैषोऽभिधीयते - अद्यास्मितकर्मणि अयं यजमानः अग्निरूपं दैवं होतारं होमनिष्पादकं पुरुषं अवृणीत वृतवान् ।

मूलम्

अ॒यँ सु॑तासु॒ती यज॑मानः ।
पच॑न्प॒क्तीः ।
पच॑न्पुरो॒डाशा॑न् ।
गृ॒ह्णन्ग्रहा॑न् ।
ब॒ध्नन्न॒श्विभ्या॒ञ्छागँ॒ सर॑स्वत्या॒ इन्द्रा॑य ।
ब॒ध्नन्त्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्या॑म् ।
ब॒ध्नन्निन्द्रा॑यर्ष॒भम॒श्विभ्याँ॒ सर॑स्वत्यै ।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् ।

विश्वास-प्रस्तुतिः

अ॒यँ सु॑तासु॒ती यज॑मानः पच॑न्प॒क्तीः पच॑न्पुरो॒डाशा॑न् गृ॒ह्णन्ग्रहा॑न् ब॒ध्नन्न॒श्विभ्या॒ञ्छागँ॒ सर॑स्वत्या॒ इन्द्रा॑य ब॒ध्नन्त्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्या॑म् ब॒ध्नन्निन्द्रा॑यर्ष॒भम॒श्विभ्याँ॒ सर॑स्वत्यै सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् ।

मूलम्

अ॒यँ सु॑तासु॒ती यज॑मानः पच॑न्प॒क्तीः पच॑न्पुरो॒डाशा॑न् गृ॒ह्णन्ग्रहा॑न् ब॒ध्नन्न॒श्विभ्या॒ञ्छागँ॒ सर॑स्वत्या॒ इन्द्रा॑य ब॒ध्नन्त्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्या॑म् ब॒ध्नन्निन्द्रा॑यर्ष॒भम॒श्विभ्याँ॒ सर॑स्वत्यै सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् ।

सायण-टीका

कीदृशो यजमानः? सुतासुती, सुतमभिषुतं सोमसुरादि, असुतमभिषवरहितं पयःप्रभृति तदुभयमस्यास्तीति सुतासुती । किं कुर्वन्? पक्तीः पक्तव्यानि द्रव्याणि पचन् पक्वानि कुर्वन् तथा पुरोडाशान् ऐन्द्रसावित्रादीन् पचन्पक्तान्कुर्वन् ग्रहानाश्विनादीन् गृह्णन् पात्रेषु स्वीकुर्वन् योऽयं छागः तं सरस्वतीन्द्रयुक्ताभ्यामश्विभ्यां सर्वदेवार्थं यूपे बध्नन् तथा यो मेषः तं इन्द्राश्वयुक्तायै मुख्यायै सरस्वत्यै बध्नन् तथा यो वृषभः तमश्वसरस्वतीयुक्ताय मूख्यायेन्द्राय बध्नन् अद्यास्मिन्दिने वनस्पतिर्देवो यूपात्मकः सूपस्था अभवत् सुष्ठु स्थिरावस्थानयुक्तोऽभवत् ।

विश्वास-प्रस्तुतिः

अ॒श्विभ्या॒ञ्छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य +++(परिचरति)+++॥73॥

मूलम्

अ॒श्विभ्या॒ञ्छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य +++(परिचरति)+++॥73॥

सायण-टीका

सरस्वतीन्द्रयुक्ताभ्यां मुख्याभ्यामश्विभ्यां छागेन पशुना यजमानः परिचरति ।

विश्वास-प्रस्तुतिः

सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्या॑म् +++(परिचरति)+++।

मूलम्

सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्या॑म् +++(परिचरति)+++।

सायण-टीका

इन्द्राश्वियुक्तायै मुख्यायै सरस्वत्यै मेषेण पशुना परिचरति ।

विश्वास-प्रस्तुतिः

इन्द्रा॑यर्ष॒भेणा॒श्विभ्याँ॒ सर॑स्वत्यै +++(परिचरति)+++।

मूलम्

इन्द्रा॑यर्ष॒भेणा॒श्विभ्याँ॒ सर॑स्वत्यै +++(परिचरति)+++।

सायण-टीका

अश्विसरस्वतीयुक्तायेन्द्राय वृषभेण पशुना परिचरति ।

मूलम्

अक्षँ॒ स्तान्मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीषुः ।

विश्वास-प्रस्तुतिः

अक्षँ॒ स्तान् ।

मूलम्

अक्षँ॒ स्तान् ।

सायण-टीका

तान्पशूनिन्द्रादयो देवा अक्षन् अशितवन्तः ।

विश्वास-प्रस्तुतिः

मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीषुः ।

मूलम्

मे॑द॒स्तᳶ प्रति॑पच॒ताग्र॑भीषुः ।

सायण-टीका

मेदस्तः मेदांसि पचता पक्वानि हवींषि प्रत्यग्रभीषुः प्रतिगृहीतवन्तः ।

विश्वास-प्रस्तुतिः

अवी॑वृधन्त॒ ग्रहैः॑ ।

मूलम्

अवी॑वृधन्त॒ ग्रहैः॑ ।

सायण-टीका

ग्रहैरनुष्ठितैः अवीवृधन्त वर्धित्वन्तः ।

मूलम्

अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा ।
सोमा॑न्त्सु॒राम्णः॑ ।

विश्वास-प्रस्तुतिः

अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा सोमा॑न्त्सु॒राम्णः॑ ।

मूलम्

अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्र॑स्सु॒त्रामा॑ वृत्र॒हा सोमा॑न्त्सु॒राम्णः॑ ।

सायण-टीका

अश्विनौ देवौ सोमान् सुराम्णः सुरासदृशानि सोमद्रव्याणि अपातां पीतवन्तौ ।
सरस्वती च पीतवती ।
सुत्रामा वृत्रहेन्द्रश्च पीतवान् ।

विश्वास-प्रस्तुतिः

उपो॑ उक्थाम॒दाश्श्रौ॒द्विमदा॑ अदन् ।

मूलम्

उपो॑ उक्थाम॒दाश्श्रौ॒द्विमदा॑ अदन् ।

सायण-टीका

उपो समीपे उक्थामदाः शस्त्रवद्धर्षहेतुमन्त्रान् श्रौदश्रौषुः ।
विमदाः विशेषेण हर्षयुक्ता अदन् भक्षितवन्तः ।

विश्वास-प्रस्तुतिः

अवी॑वृधन्ताङ्गू॒षैः ।

मूलम्

अवी॑वृधन्ताङ्गू॒षैः ।

सायण-टीका

आङ्गूषैरङ्गविशेषैः अवीवृधन्त सम्यग्वर्धितवन्तः ।

मूलम्

त्वाम॒द्यर्ष॑ आर्षेयर्षीणान्नपादवृणीत ।

अ॒यँ सु॑तासु॒ती यज॑मानः ।
ब॒हुभ्य॒ आ सङ्ग॑तेभ्यः ।
ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ ।

विश्वास-प्रस्तुतिः

अ॒यँ सु॑तासु॒ती यज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ ।

मूलम्

अ॒यँ सु॑तासु॒ती यज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ ।

सायण-टीका

अद्यास्मिन्कर्मणि हे ऋषे! अतीन्द्रियार्थदर्शिन्? हे होतः! त्वामयं यजमानोऽवृणीत वृतवान् । आर्षेय! हे ऋषिकुलोत्पन्न । ऋषीणां नपात्! हे ऋषिनप्तः? गोत्रप्रवर्तकमृषिं प्रति चतुर्थ! इत्यर्थः । एतदुभयमप्यृषिविशेषणम् । कीदृशो यजमानः? सुतासुती अभिषुतानभिषुतद्रव्यद्वयवान् ।
किमर्थं वृतवानिति तदुच्शते - आसंगतेभ्यो बहुभ्य आगत्यास्मिन्कर्मणि संबद्धानां बहूनां देवानामर्थे । केनाभिप्रायेण वृतवानिति सोऽभिप्राय उच्यते - एष होता मे वसु वारि पुरोडाशरूपं वसु पयस्सुरारूपं वारि च देवेष्वायक्ष्यते समन्ताद्यागं करिष्यतीति ।

विश्वास-प्रस्तुतिः

ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ ।
तान्य॑स्मा॒ आ च॒ शास्व॑ ।

मूलम्

ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ ।
तान्य॑स्मा॒ आ च॒ शास्व॑ ।

सायण-टीका

ता या देवदानानि यानि तानि देवेभ्यो दत्तानि हवींषि देवा अदुः ऋत्विजो दत्तवन्तः तानि सर्वाणि हविष्फलानि अस्मै यजमानाय आशास्व च सिध्यन्त्वित्येवमाशिषं च कुरु ।

विश्वास-प्रस्तुतिः

आ च॑ गुरस्व ।

मूलम्

आ च॑ गुरस्व ।

सायण-टीका

आगुरस्व च तत्सिद्ध्यर्थमुद्यमं च कुरु ।

विश्वास-प्रस्तुतिः

इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः ।
सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ॥74 ॥

मूलम्

इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः ।
सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ॥74 ॥

सायण-टीका

हे होतः! इषितो मयाऽभिलषितः प्रेषितश्चासि । भद्रवाच्याय कल्याणवचनाय प्रेषितो मानुषो होता त्वं सूक्तस्य वचनं वाको यस्य देवस्य सोऽयं देवः सूक्तवाकः तस्मै सूक्तवाकदेवाय सूक्ता ब्रूहि ‘इदं द्यावापृथिवी’ इत्वेतदनुवाकोक्ताति शोभनानि वचनानि कथय ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके पञ्चदशोऽनुवाकः ॥