विश्वास-प्रस्तुतिः
दे॒वम्ब॒र्हिस्स॑रस्वती ।
सु॒दे॒वमिन्द्रे॑ अ॒श्विना॑ ।
तेजो॒ न चक्षु॑र॒क्ष्योः ।
ब॒र्हिषा॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
मूलम्
दे॒वम्ब॒र्हिस्स॑रस्वती ।
सु॒दे॒वमिन्द्रे॑ अ॒श्विना॑ ।
तेजो॒ न चक्षु॑र॒क्ष्योः ।
ब॒र्हिषा॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
सायण-टीका
(SB) 1त्रयोदशे वपापूरोडाशहविषा याज्यानुवाक्या उक्ताः । अथ चतुर्दशेऽनुयाजानां मैत्रावरुणप्रैषा उच्यन्ते । तत्र प्रथममन्त्रमाह - बर्हिश्शब्दवाच्यं प्रथमानुयाजदेवतास्वरूपं, तच्च देवं द्योतमानं सुदेवं शोभना देवा यस्य सर्वदेवप्रियमित्यर्थः । तादृशं यद्बर्हिः, या च सरस्वती, यौ चाश्विनौ देवौ ते सर्वेऽपि अक्ष्योः अक्षिगोलकयोः तेजश्चक्षुर्न तेजोरूपं चक्षुरिन्द्रियं यथा स्थापयन्ति तथा बर्हिषा बर्हिर्देवतामुखेन इन्द्रे इन्द्रियं दधुः स्थापितवन्तः । वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वीर्द्वारो॑ अ॒श्विना॑ ।
भि॒षजेन्द्रे॒ सर॑स्वती ।
प्रा॒णन्न वी॒र्य॑न्न॒सि ।
द्वारो॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥67॥
मूलम्
दे॒वीर्द्वारो॑ अ॒श्विना॑ ।
भि॒षजेन्द्रे॒ सर॑स्वती ।
प्रा॒णन्न वी॒र्य॑न्न॒सि ।
द्वारो॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥67॥
सायण-टीका
2द्वितीयमन्त्रमाह - द्वार्शब्दवाच्या द्वितीयानुयाजदेवताः ताः देवीः द्योतमाना अश्विनौ भिषजौ चिकित्सकौ सरस्वती च इत्येते देवाः नसि नासिकायां वीर्यं वीर्यहेतुं प्राणं न प्राणमिव यथा प्राणवायुं नासिकायां स्थापयन्ति तथा द्वारः द्वार्देवता इतरैस्सहिताः इन्द्रे इन्द्रियं दधुः ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वी उ॒षासा॑व॒श्विना॑ ।
भि॒षजेन्द्रे॒ सर॑स्वती ।
बल॒न्न वाच॑मा॒स्ये॑ ।
उ॒षाभ्या॑न्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
मूलम्
दे॒वी उ॒षासा॑व॒श्विना॑ ।
भि॒षजेन्द्रे॒ सर॑स्वती ।
बल॒न्न वाच॑मा॒स्ये॑ ।
उ॒षाभ्या॑न्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
सायण-टीका
3तृतीयमन्त्रमाह - उषश्शब्दवाच्ये तृतीयानुयाजदेवते । देवी द्योतनात्मिके उभे भिषजावश्विनौ सरस्वती च आस्ये मुखे वाचं वागिन्द्रियं बलं न बलमिव यथा मुखे वागिन्द्रियसामर्थ्यं स्थापितवन्तः तथैव सर्वे देवा उषाम्यां उषादेवतामुखेन इन्द्रे इन्द्रियं दधुः ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वी जोष्ट्री॑ अ॒श्विना॑ ।
सु॒त्रामेन्द्रे॒ सर॑स्वती ।
श्रोत्र॒न्न कर्ण॑यो॒र्यशः॑ ।
जोष्ट्री॑भ्यान्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥68॥
मूलम्
दे॒वी जोष्ट्री॑ अ॒श्विना॑ ।
सु॒त्रामेन्द्रे॒ सर॑स्वती ।
श्रोत्र॒न्न कर्ण॑यो॒र्यशः॑ ।
जोष्ट्री॑भ्यान्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥68॥
सायण-टीका
4चतुर्थमन्त्रमाह - जोष्ट्रीशब्दवाच्ये चतुर्थानुयाजदेवते । ते च देवी देव्यौ द्योतनात्मिके उभे अश्विनौ द्वौ सुत्रामाख्य इन्द्रः सरस्वती च इत्येता देवताः कर्णयोः कर्णगोलकयोः यशः यशःकारणं श्रोत्रं न श्रोत्रेन्द्रियमिव यथा श्रोत्रेन्द्रियं कर्णगोलकयोः स्थापयन्ति तथा जोष्ट्रीभ्यां जोर्ष्ट्रीदेवतामुखेन तदिन्द्रे इन्द्रियं दधुः ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॑ ।
पय॒सेन्द्रँ॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वत ।
शु॒क्रन्न ज्योति॒स्स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
मूलम्
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॑ ।
पय॒सेन्द्रँ॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वत ।
शु॒क्रन्न ज्योति॒स्स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
सायण-टीका
5पञ्चममन्त्रमाह - ऊर्जाहुतिशब्दवाच्ये पञ्चमानुयाजदेवते । देवी द्योतनात्मिके दुघे अभीष्टफलस्य दोग्ध्र्यौ सुदुधे सुष्ठु दोग्धुं शक्ये तथाविधे उभे देव्यौ सरस्वती भिषजावश्विनौ च इत्येते यूयं पयसा हविषा इन्द्रमवत रक्षत । आहुतिदेव्यौ स्तनयोरुभयोः शुक्रं शुद्धं ज्योतिर्न ज्योतिरिव यथा स्त्रीस्तनयोर्ज्योतीरूपं क्षीरं स्थापयन्ति तद्वदिन्द्रियं धत्तः ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वा दे॒वाना॑म्भि॒षजा॑ ।
होता॑रा॒विन्द्र॑म॒श्विना॑ ।
व॒ष॒ट्का॒रैस्सर॑स्वती ।
त्विषि॒न्न हृद॑ये म॒तिम् ।
होतृ॑भ्यान्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥69॥
मूलम्
दे॒वा दे॒वाना॑म्भि॒षजा॑ ।
होता॑रा॒विन्द्र॑म॒श्विना॑ ।
व॒ष॒ट्का॒रैस्सर॑स्वती ।
त्विषि॒न्न हृद॑ये म॒तिम् ।
होतृ॑भ्यान्दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥69॥
सायण-टीका
8षष्ठमन्त्रमाह - होतृशब्दवाच्यौ षष्ठानुयाजदेवौ । देवा द्योतनात्मकौ यौ विद्येते, यौ च देवानां भिषजावश्विनौ, या च सरस्वती वषट्कारदेवैः सहिता ते सर्वेऽपि यूयमिन्द्रमवतेति शेषः । पुनरपि ते सर्वै हृदये हृदयकमले मतिं बुद्धिरूपां त्विषिं न दीप्तिमिव यथा बुद्धिरूपां दीप्तिं हृदये स्थापयन्ति तथा होतृभ्यां होतृदेवमुखेन इन्द्रे इन्द्रियं दधुः ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः ।
सर॑स्वत्य॒श्विना॒ भार॒तीडा॑ ।
शूष॒न्न मध्ये॒ नाभ्या॑म् ।
इन्द्रा॑य दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
मूलम्
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः ।
सर॑स्वत्य॒श्विना॒ भार॒तीडा॑ ।
शूष॒न्न मध्ये॒ नाभ्या॑म् ।
इन्द्रा॑य दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
सायण-टीका
7सप्तममन्त्रमाह - सरस्वती भारती इडा इत्येतास्तिस्रः सप्तमानुयाजदवेताः । ताश्च परस्परं कदाचिदप्यवियुक्ता इति वक्तुं पुनस्तिस्रो देवीरित्युक्तम् । अथवा एकैकस्या देवताया मूर्तित्रयविवक्षया तदुक्तिः । ता एता देवताः सरस्वत्यश्चिनौ च इत्येते सर्वे शरीरस्य मध्ये नाभ्यां शूषं न बलमिव यथा बलं स्थापयन्ति तथेन्द्रार्थं इन्द्रियं दधुः ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒व इन्द्रो॒ नरा॒शँसः॑ ।
त्रि॒व॒रू॒थस्सर॑स्वत्या॒ऽश्विभ्या॑मीयते॒ रथः॑ ।
रेतो॒ न रू॒पम॒मृत॑ञ्ज॒नित्र॑म् ।
इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥70॥
मूलम्
दे॒व इन्द्रो॒ नरा॒शँसः॑ ।
त्रि॒व॒रू॒थस्सर॑स्वत्या॒ऽश्विभ्या॑मीयते॒ रथः॑ ।
रेतो॒ न रू॒पम॒मृत॑ञ्ज॒नित्र॑म् ।
इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥70॥
सायण-टीका
8अष्टममन्त्रमाह - नराशंसाख्योऽष्टमानुयाजदेवः । स च देवो द्योतनात्मक इन्द्रः परमैश्वर्ययुक्तः त्रिवरूथः सेनात्रययुक्तः रथः रथयुक्तः । स च सरस्वत्याऽश्विभ्यां च सह ईयते व्याप्रियते, रूपं रूपसंपादकं अमृतं सुखकारणं जनित्रं प्रजोत्पादकं रेतो न रेत इव यथा रेतः स्वस्थाने प्रापयन्ति तथेन्द्राय इन्द्रार्थं अयं त्वष्टा नराशंसाख्यो देव इन्द्रियाणि दधत् संपादयतु ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒व इन्द्रो॒ वन॒स्पतिः॑ ।
हिर॑ण्यपर्णो अ॒श्विभ्या॑म् ।
सर॑स्वत्यास्सुपिप्प॒लः ।
इन्द्रा॑य पच्यते॒ मधु॑ ।
ओजो॒ न जू॒तिमृ॑ष॒भो न भाम॑म् ।
वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
मूलम्
दे॒व इन्द्रो॒ वन॒स्पतिः॑ ।
हिर॑ण्यपर्णो अ॒श्विभ्या॑म् ।
सर॑स्वत्यास्सुपिप्प॒लः ।
इन्द्रा॑य पच्यते॒ मधु॑ ।
ओजो॒ न जू॒तिमृ॑ष॒भो न भाम॑म् ।
वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
सायण-टीका
9नवममन्त्रमाह - नवमानुयाजदेवो वनस्पतिशब्दवाच्यः । स च देवो द्योतनात्मक इन्द्र इन्द्रेण सहितः हिरण्यपर्णः सुवर्णपत्रः अश्विभ्यां देवाभ्यां च युक्तः सरस्वत्याश्च संबन्धी सुपिप्पलः शोभनफलोपेत इन्द्रार्थमस्मिन्यज्ञे मधु मधुरं हविः पच्यते । ओजो न जूतिं यथा शरीरमध्ये बलं शक्तिवेगमुत्पादयति, ऋषभो न भामं यथा लोके कश्चिदृषभो दृप्तः क्रोधमुत्पादयति तद्वदयं वनस्पतिः नः अस्मदर्थं इन्द्रियाणि दधत् संपादयतु ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वम्ब॒र्हिर्वारि॑तीनाम् ।
अ॒ध्व॒रे स्ती॒र्णम॒श्विभ्या॑म् ।
ऊर्ण॑म्रदा॒स्सर॑स्वत्याः ॥71॥
स्यो॒नमि॑न्द्र ते॒ सदः॑ ।
ई॒शायै॑ म॒न्युँ राजा॑नम्ब॒र्हिषा॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
मूलम्
दे॒वम्ब॒र्हिर्वारि॑तीनाम् ।
अ॒ध्व॒रे स्ती॒र्णम॒श्विभ्या॑म् ।
ऊर्ण॑म्रदा॒स्सर॑स्वत्याः ॥71॥
स्यो॒नमि॑न्द्र ते॒ सदः॑ ।
ई॒शायै॑ म॒न्युँ राजा॑नम्ब॒र्हिषा॑ दधुरिन्द्रि॒यम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
सायण-टीका
10दशममन्त्रमाह - दशमानुयाजदेवस्वरूपं बर्हिर्नामकं, तच्च देवं द्योतनात्मकं वारितीनां जलप्राप्तीनां संबन्धि । यत्र भूमिर्जलेन सिच्यते तत्र बर्हिर्जायते । तच्चाश्विभ्यां अध्वरे यागे स्तीर्णं प्रसारितं ऊर्णम्रदाः कम्बलवन्मृदु सरस्वत्याः संबन्धि । हे इन्द्र! तादृशं बर्हिः ते तव स्योनं सुखकरं सदः उपनिवेशनस्थानं ईशायै जगदीश्वररूपेन्द्रदेवतायै मन्युं वैरिविषयं क्रोधं राजानं शरीरदीप्तिं इन्द्रियं चक्षुरादिपाटवं च बर्हिषा बर्हिर्देवतामुखेन दधुः सरस्वत्यादयः संपादितवत्यः ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
विश्वास-प्रस्तुतिः
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
दे॒वान् य॑क्षद्यथाय॒थम् ।
होता॑रा॒विन्द्र॑म॒श्विना॑ ।
वा॒चा वाचँ॒ सर॑स्वतीम् ।
अ॒ग्निँ सोमँ॑ स्विष्ट॒कृत् ।
स्वि॑ष्ट॒ इन्द्र॑स्सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् ।
इ॒ष्टो दे॒वो वन॒स्पतिः॑ ।
स्वि॑ष्टा दे॒वा आ॑ज्य॒पाः ।
इ॒ष्टो अ॒ग्निर॒ग्निना॑ ।
होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् ।
यशो॒ न दध॑दिन्द्रि॒यम् ।
ऊर्ज॒मप॑चितिँ स्व॒धाम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥72॥
मूलम्
दे॒वो अ॒ग्निस्स्वि॑ष्ट॒कृत् ।
दे॒वान् य॑क्षद्यथाय॒थम् ।
होता॑रा॒विन्द्र॑म॒श्विना॑ ।
वा॒चा वाचँ॒ सर॑स्वतीम् ।
अ॒ग्निँ सोमँ॑ स्विष्ट॒कृत् ।
स्वि॑ष्ट॒ इन्द्र॑स्सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् ।
इ॒ष्टो दे॒वो वन॒स्पतिः॑ ।
स्वि॑ष्टा दे॒वा आ॑ज्य॒पाः ।
इ॒ष्टो अ॒ग्निर॒ग्निना॑ ।
होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् ।
यशो॒ न दध॑दिन्द्रि॒यम् ।
ऊर्ज॒मप॑चितिँ स्व॒धाम् ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥72॥
सायण-टीका
11एकादशमन्त्रमाह - एकादशानुयाजदेवः स्विष्टकृच्छब्दवाच्योऽग्निः । सोऽयं देवः द्योतनात्मकः अन्यान्देवान्यथायथं यक्षत् यद्यस्य योग्यं तं तेन पूजितवान् । कं कं पूजितवानिति तदुच्यते - होतारौ दैव्यमानुषरूपौ देवौ स्वयं देहं धृत्वा वाचा मन्त्रेणेन्द्रं देवम्, अश्विनौ द्वौ देवौ वाचं सरस्वतीं वाग्रूपां सरस्वत्याख्यां देवतां पूजितवान् । तथा स्विष्टकृदयं अग्निं सोमं च उभावाज्यभागदेवौ पूजितवान् । सुत्रामा इन्द्रः स्विष्टः सुष्ठु पूजितः । सविता च स्विष्टः । भिषग्रूपो वरुणोऽपि स्विष्टः । तथा यूपदेवो वनस्पतिरिष्टः । आज्यपाः प्रयाजानुयाजदेवाः स्विष्टाः । दैव्यो होता योऽयमग्निः सोऽयमनेनाग्निनेष्टः । स्विष्टकृदाख्योऽयमग्निः होत्रे होमकर्त्रे यजमानाय यशो न यश इव इन्द्रियं दधत् संपादयति । तथोर्जं क्षीरादिरसं संपादयति । तथाऽपचितिं पूजां संपादयति । तथा स्वधां अन्नं च संपादयति ॥
- वसुधेयस्य द्रव्याधारकस्य देवस्य वसुवने धनदाननिमित्तं ते बर्हिरादयो देवाः वियन्तु आज्यं पिबन्तु । तदर्थं हे होतः! यज याज्यां पठ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके चतुर्दशोऽनुवाकः ॥