विश्वास-प्रस्तुतिः
यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
मूलम्
यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
सायण-टीका
(SB) 1पञ्चमेऽभिषेक उक्तः । षष्ठेऽवभृथ उच्यते । कल्पः - ‘यद्देवा देवहेडनमित्यवभृथे पञ्चाहुतीर्जुहोति’ इति । तत्र प्रथमामृचमाह - देवासः द्योतनात्मका हे देवाः! देवहेडनं देवविषयमनादररूपं यत्पापं वयं सभृत्यपुत्राः चकृम कृतवन्तः । अंहसः अभिभवनस्वभावात् विश्वत्मात्सर्वस्मात् तस्मादेनसः पापात् अग्रिर्मा मां मुञ्चतु मुक्तं करोतु ॥
विश्वास-प्रस्तुतिः
यदि॒ दिवा॒ यदि॒ नक्त॑म् ।
एनाँ॑सि चकृ॒मा व॒यम् ।
वा॒युर्मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
मूलम्
यदि॒ दिवा॒ यदि॒ नक्त॑म् ।
एनाँ॑सि चकृ॒मा व॒यम् ।
वा॒युर्मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
सायण-टीका
2द्वितीयामाह - कालविशेषे कृतात्पाप्मनो वायुर्मोचकोऽस्तु ॥
विश्वास-प्रस्तुतिः
यदि॒ जाग्र॒द्यदि॒ स्वप्ने॑ ।
एनाँ॑सि चकृ॒मा व॒यम् ॥28॥
सूर्यो॑ मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
मूलम्
यदि॒ जाग्र॒द्यदि॒ स्वप्ने॑ ।
एनाँ॑सि चकृ॒मा व॒यम् ॥28॥
सूर्यो॑ मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
सायण-टीका
3तृतीयामाह - अवस्थाविशेषे कृतात्पाप्मनः सूर्यो मोचकोऽस्तु ॥
विश्वास-प्रस्तुतिः
यदि॒ जाग्र॒द्यदि॒ स्वप्ने॑ ।
एनाँ॑सि चकृ॒मा व॒यम् ॥28॥
सूर्यो॑ मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
यदेक॒स्याधि॒ धर्म॑णि ।
तस्या॑व॒यज॑नमसि ।
मूलम्
यदि॒ जाग्र॒द्यदि॒ स्वप्ने॑ ।
एनाँ॑सि चकृ॒मा व॒यम् ॥28॥
सूर्यो॑ मा॒ तस्मा॒देन॑सः ।
विश्वा॑न्मुञ्च॒त्वँह॑सः ।
यदेक॒स्याधि॒ धर्म॑णि ।
तस्या॑व॒यज॑नमसि ।
सायण-टीका
4चतुर्थीमाह - अर्यः स्वामी वैश्यो वा । अरण्यादिदेशविशेषे चक्षुरादीन्द्रियविशेषे शूद्गादिपुरुषविशेषे च यदेनो वयं चकृम यदप्येकस्य अन्यपुरुषस्य धर्मणि अग्निहोत्रादिधर्मकार्ये अधिकं पापं चकृम तस्य सर्वस्य पापस्य हे आहुतिरूप! त्वं अवयजनं विनाशकमसि ॥
विश्वास-प्रस्तुतिः
यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे ।
ततो॑ वरुण नो मुञ्च ॥29॥
मूलम्
यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे ।
ततो॑ वरुण नो मुञ्च ॥29॥
सायण-टीका
5पञ्चमीमाह - हे वरुण! या आपः सन्ति याश्चाध्निया गावः एतद्द्वयं भूम्यादेरुपलक्षणम् । तेषु सर्वेषु विषयेषु इति अनेन प्रकारेण शपामहे सत्यत्वेन अनृतत्वेन वा शपथं कुर्मः । यत्पापमस्ति हे वरुण! ततः शपथकृतात्पापात् नोऽस्मान् मुञ्च मुक्तान्कुरु ॥
विश्वास-प्रस्तुतिः
अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयाट् ।
अव॒ मर्त्यै॒र्मर्त्य॑कृतम् ।
उ॒रोरा नो॑ देव रि॒षस्पा॑हि ।
मूलम्
अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयाट् ।
अव॒ मर्त्यै॒र्मर्त्य॑कृतम् ।
उ॒रोरा नो॑ देव रि॒षस्पा॑हि ।
सायण-टीका
6कल्पः - ‘अवभृथ निचङ्कुणेत्यवभृथं यजमानोऽभिमन्त्र्य’ इति । हे अवभृथ! कर्माभिमानिन्वरुण! निचङ्कण! राक्षसभर्त्सनार्थं नितरां ध्वनिकारिन्! निचेरुरसि अस्मद्रक्षणार्थं निगूढत्वेन चरणशीलोऽसि । हे निचङ्कुण! अस्माभिर्देवेषु कृतं एनः अपराधं तैर्देवैस्सह त्वं अवायाट् विनाशय । मर्त्येषु ऋत्विक्षु कृतं तैर्मर्त्यैस्सह तदवायाट् विनाशय । हे देव! उरो अधिकात् रिषः देवमर्त्यकृतात् हिंसनात् नः अस्मान् आ समन्तात्पाहि ॥
विश्वास-प्रस्तुतिः
सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु ।
दु॒र्मि॒त्रास्तस्मै॑ भूयासुः ।
यो॑ऽस्मान्द्वेष्टि॑ ।
यञ्च॑ व॒यन्द्वि॒ष्मः ।
मूलम्
सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु ।
दु॒र्मि॒त्रास्तस्मै॑ भूयासुः ।
यो॑ऽस्मान्द्वेष्टि॑ ।
यञ्च॑ व॒यन्द्वि॒ष्मः ।
सायण-टीका
7कल्पः - ‘सुमित्रा न आपो द्रुपदादिवेन्मुमुचान इत्याप्लुत्य’ इति । तत्र प्रथममन्त्रमाह - या एता अब्देवताः याश्चौषधिदेवताः तास्सर्वाः नोऽस्मान्प्रति सुमित्रा अत्यन्तमनुकूलाः सन्तु । योऽस्मानुदासीनानपि द्वेष्टि यं चान्यमुदासीनमपि वयं द्विष्मः तस्मै द्विविधाय तादृशषुरुषाय ता आप ओषधयश्च दुर्मित्राः प्रतिकूलाः सन्तु ॥
विश्वास-प्रस्तुतिः
द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः ।
स्वि॒न्नस्स्ना॒त्वी मला॑दिव ॥30॥
पू॒तम्प॒वित्रे॑णे॒वाज्य॑म् ।
आप॑श्शुन्धन्तु॒ मैन॑सः ।
मूलम्
द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः ।
स्वि॒न्नस्स्ना॒त्वी मला॑दिव ॥30॥
पू॒तम्प॒वित्रे॑णे॒वाज्य॑म् ।
आप॑श्शुन्धन्तु॒ मैन॑सः ।
सायण-टीका
8द्वितीयमन्त्रमाह - राजानो हि अपराधिनस्तस्करस्य पादं सच्छिद्रे काष्ठे कीलयन्ति तत् द्रुपदमित्युच्यते । तस्मान्मुमुचान इव एतद्बन्धनान्मुक्तः पुरुषश्चौर्याभियोगं परित्यज्य शुद्ध इत्येव व्यवह्रियते । यथा स्विन्नः पुरुषः स्नात्वी स्नानं कृत्वा मलान्मुमुचानः शुद्ध इत्येव व्यवह्रियते । यथा च कर्मण्याज्यं उत्पवनपवित्रेण पूतं भवति तथेमा आपो मामेनसः पापात् शुन्धन्तु शुद्धं कुर्वन्तु ॥
विश्वास-प्रस्तुतिः
उद्व॒यन्तम॑स॒स्परि॑ ।
पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॑म् ।
अग॑न्म॒ ज्योति॑रुत्त॒मम् ।
मूलम्
उद्व॒यन्तम॑स॒स्परि॑ ।
पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॑म् ।
अग॑न्म॒ ज्योति॑रुत्त॒मम् ।
सायण-टीका
9कल्पः - ‘उद्वयं तमसस्परीत्यादित्यमुपस्थाय’ इति । तमसस्परि अन्धकारस्योपरि वर्तमानं उत्तरं ज्योतिः उत्कृष्टं प्रकाशं उत्पश्यन्तः उत्कर्षेण वीक्षमाणा वयं देवत्रा देवेषु मध्ये देवं द्योतमानं सूर्यं सूर्यस्वरूपं उत्तमं ज्योतिः अगन्म प्राप्ताः स्मः ॥
विश्वास-प्रस्तुतिः
प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑ ।
प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ।
एधो॑ऽस्येधिषी॒महि॑ ।
मूलम्
प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑ ।
प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ।
एधो॑ऽस्येधिषी॒महि॑ ।
सायण-टीका
10कल्पः - ‘प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यस्यति’ इति । योऽयं वरुणस्य पाशः जलमध्यवर्ती सोऽस्माभिः बहिर्निर्गच्छद्भिः प्रतियुतः परित्यक्तः । तथा वरुणस्य पाशः प्रत्यस्तः विनाशितः ॥
विश्वास-प्रस्तुतिः
स॒मिद॑सि ॥31॥
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
मूलम्
स॒मिद॑सि ॥31॥
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
सायण-टीका
11-13कल्पः - ‘पशुवत्समिध उपस्थानं च’ इति । पशौ त्वेवमूऽक्तम् - ‘एधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते’ इति । तत्र समिदाधानमन्त्रात् त्रीनाह - हे समित्! त्वमेधोऽसि अभिवृद्धिहेतुरसि । अतस्त्वामाधाय वयमेधिषीमहि वृद्धिं प्राप्नुम । हे द्वितीयसमित्! त्वं समिन्धनसाधनमसि । हे तृतीयसमित्! त्वं तेजोहेतुरसि । अतो मयि तेजो धेहि संपादय ॥
विश्वास-प्रस्तुतिः
अ॒पो अन्व॑चारिषम् ।
रसे॑न॒ सम॑सृक्ष्महि ।
पय॑स्वाँ अग्न॒ आग॑मम् ।
तम्मा॒ सँसृ॑ज॒ वर्च॑सा ।
प्र॒जया॑ च॒ धने॑न च ।
मूलम्
अ॒पो अन्व॑चारिषम् ।
रसे॑न॒ सम॑सृक्ष्महि ।
पय॑स्वाँ अग्न॒ आग॑मम् ।
तम्मा॒ सँसृ॑ज॒ वर्च॑सा ।
प्र॒जया॑ च॒ धने॑न च ।
सायण-टीका
14’उपस्थानमन्त्रमाह - अहमेता अपः अनुसृत्याचारिषं कर्मानुष्ठितवानस्मि । रसेन जलगतेन सारेण समसृक्ष्महि संसृष्टा अभूम । हे अग्ने! पयस्वान् जलसारयुक्तोऽहमागमं त्वत्समीपे समागतोऽस्मि । तमेतादृशं मां वर्चसा बलेन च प्रजया धनेन च संसृन संयोजय ॥
विश्वास-प्रस्तुतिः
स॒माव॑वर्ति पृथि॒वी ।
समु॒षाः ।
समु॒ सूर्यः॑ ।
समु॒ विश्व॑मि॒दञ्जग॑त् ।
वै॒श्वा॒न॒रज्यो॑तिर्भूयासम् ।
वि॒भुङ्काम॒व्व्ँय॑श्ञवै ।
मूलम्
स॒माव॑वर्ति पृथि॒वी ।
समु॒षाः ।
समु॒ सूर्यः॑ ।
समु॒ विश्व॑मि॒दञ्जग॑त् ।
वै॒श्वा॒न॒रज्यो॑तिर्भूयासम् ।
वि॒भुङ्काम॒व्व्ँय॑श्ञवै ।
सायण-टीका
13कल्पः - ‘समाववर्तीत्युपस्थाय’ इति । येयं पृथिवी सा समाववर्ति सम्यगावृत्ता मया सह समागता । एवमुषःकालः, सूर्यः, सर्वमिदं जगच्च समाववर्ति । हे वैश्वानर! अहं ज्योतिस्स्वरूपो भूयासम् । त्वत्प्रसादाद्विभुं कामं व्याप्तं फलं व्यश्नवै प्राप्नवानि ॥
विश्वास-प्रस्तुतिः
भूस्स्वाहा॑ ॥32॥
मूलम्
भूस्स्वाहा॑ ॥32॥
सायण-टीका
16कल्पः - ‘भूस्स्वाहेत्याहुतिं हुत्वा’ इति । येयं भूः पृथिवी सा स्वाहा त्वयि स्वाहुता ॥
अत्र विनियोगसंग्रहः-
यद्दवाः पञ्चभिर्हुत्वाऽवभृथेत्यनुमन्त्रयेत् ।
सुमित्रा द्रुपदा द्वाभ्यां स्नात्वोद्वेत्युपतिष्ठते ॥
प्रतीत्यापः परित्याज्या एधोस्त्रिर्जुहुयात्त्रिभिः ।
अपस्समेत्युपस्थानं भूस्स्वाहेति जुहोति हि ।
अत्र मन्त्राष्षोडशोक्ता अध्वर्योः कृत्यमीरितम् ।
इति तैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके षष्ठोऽनुवाकः ॥