विश्वास-प्रस्तुतिः
सीसे॑न॒ तन्त्र॒म्मन॑सा मनी॒षिणः॑ ।
ऊ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति ।
अ॒श्विना॑ य॒ज्ञँ स॑वि॒ता सर॑स्वती ।
इन्द्र॑स्य रू॒पव्ँवरु॑णो भिष॒ज्यन् ।
मूलम्
सीसे॑न॒ तन्त्र॒म्मन॑सा मनी॒षिणः॑ ।
ऊ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति ।
अ॒श्विना॑ य॒ज्ञँ स॑वि॒ता सर॑स्वती ।
इन्द्र॑स्य रू॒पव्ँवरु॑णो भिष॒ज्यन् ।
सायण-टीका
(SB) 1तृतीये ग्रहहोमोऽभिहितः । चतुर्थ उपहोमा उच्यन्ते । कल्पः - ‘मनोताकाले पृथक्पात्रेषु पशूनां यूषाणि निदधाति पुरस्तात्स्विष्टकृतः शृङ्गशफैरुपहोमान् जुहोत्यष्टावष्टावेकैकस्य कुष्ठिकशफाः । आश्विनस्य यूषेण कुष्ठिकान् शफं च पूरयित्वा सीसेन तन्त्रमित्यष्टर्चेन प्रतिमन्त्रं द्वाभ्यां द्वाभ्यां कुष्ठिकशफाभ्यां जुहोतीत्युत्तमायाः शृङ्गे अनुषजति हुत्वा स्वेष्वभिषेचनपात्रेषु संपातानवनीयाहवनीये कुष्ठिकशफान्प्रविध्यन्त्येवमुत्तरेणाष्टर्चेन सारस्वतस्य सर्वेणानुवाकैनेन्द्रस्य’ इति । अत्र कुष्ठिकशब्देन शफसमीपस्थः क्षुद्ररूपशफोऽभिधीयते । एकैकशफमेकैकमुपशफं च यूषेण पक्वमांसरसेन पूरयित्वैकैकामाहुतिं जुहुयात् । एतैश्च मन्त्रैर्यजमानेन प्रायणीयो यज्ञावयवो निष्पाद्यो भविष्यन्निन्द्रदेहो निरूप्यते । तत्र प्रथमामृचमाह - मनीषिणो बुद्धिमन्त ऊहापोहकुशलाः कवयो विद्वांसः शास्त्राभिज्ञा ऋत्विजः स्वमनसा प्रयोगं सर्वं विचार्य सीसद्रव्यक्रीतेन व्रीह्यङ्कुरादिना तन्त्रं सौत्रामणियज्ञविस्तारं ऊर्णासूत्रेणेव वयन्ति निष्पादयन्ति । यथा लोके केचिदविपालका ऊर्णासूत्रेण कम्बलं वयन्ति । एवमेतेऽप्यृत्विजः सीसक्रीतद्रव्यादिना यज्ञाख्यं दीर्घतन्तुरूपं वयन्ति । अश्विनासरस्वत्याद्या देवता इन्द्रस्य स्वरूपभूतमिमं यज्ञमोषधिसदृशैः पश्वङ्गैः भिषज्यन् चिकित्सन्ते ॥
विश्वास-प्रस्तुतिः
तद॑स्य रू॒पम॒मृतँ॒ शची॑भिः ।
ति॒स्रोऽद॑धुर्दे॒वता॑स्सँररा॒णाः ।
लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भिः ।
त्वग॑स्य माँ॒सम॑भव॒न्न ला॒जाः ।
मूलम्
तद॑स्य रू॒पम॒मृतँ॒ शची॑भिः ।
ति॒स्रोऽद॑धुर्दे॒वता॑स्सँररा॒णाः ।
लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भिः ।
त्वग॑स्य माँ॒सम॑भव॒न्न ला॒जाः ।
सायण-टीका
2द्वितीयामाह - द्वावश्विनौ एका सरस्वती इत्येतास्तिस्रो देवताः शचीभिः स्वकीयशक्तिभिः अस्येन्द्रस्य तत् यज्ञात्मकं रूपं अमृतं विनाशरहितं यथा भवति तथा दधुः संपादयामासुः । कीदृश्यो देवताः? संरराणाः संभूय परस्परं रममाणाः । तोक्मशब्देनाङ्कुरिता व्रीहय उच्यन्ते । तदङ्कुररूपं बालतृणं शष्पशब्देनोच्यते । नकार उपमार्थः । तोक्मभिः शष्पैर्बहुधा लोमानीव निष्पादितवन्तः । अङ्कुरप्ररोहधारभूता बीजविशेषा लाजशब्देनोच्यन्ते । ते च लाजा अस्य यज्ञरूपस्येन्द्रस्य त्वगिव मांसमिवाभवत् ॥
विश्वास-प्रस्तुतिः
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी ।
सर॑स्वती वयति॒ पेशो॒ अन्त॑रः ॥14॥
अस्थि॑ म॒ज्जान॒म्मास॑रैः ।
का॒रो॒त॒रेण॒ दध॑तो॒ गवा॑न्त्व॒चि ।
मूलम्
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी ।
सर॑स्वती वयति॒ पेशो॒ अन्त॑रः ॥14॥
अस्थि॑ म॒ज्जान॒म्मास॑रैः ।
का॒रो॒त॒रेण॒ दध॑तो॒ गवा॑न्त्व॒चि ।
सायण-टीका
3तृतीयामाह - रुद्रस्येव वर्तनिर्मार्गो ययोरश्विनोस्तौ रुद्रवर्तनी । यथा रुद्रः क्रूरो देवो हिंसितुं समर्थ एवमेतावश्विनौ व्याधिं नाशयितुं समर्थावित्यर्थः । तादृशावश्विनौ तत्र यज्ञे भिषजौ चिकित्सकौ । या तु सरस्वती अन्तरः शरीरमध्ये पेशो वयति रूपं निष्पादयति । मासरशब्देन यवनिष्पन्नाः सूक्ष्मसक्तवो दधिमिश्रा दर्भैः परिवेष्टिता उच्यन्ते । कारोतरशब्देनावटस्थानीयस्तत्सदृशो वेणुदलनिर्मितश्चर्मणा सर्वतः परिवेष्टितः सुराश्रपणार्थभाण्डाधारः पदार्थविशेष उच्यते । गवां त्वच्यवस्थितेन कारोतरेण मासरैश्च मज्जानमस्थि च दधतः दधाति सरस्वती संपादयतीत्यर्थः ॥
विश्वास-प्रस्तुतिः
सर॑स्वती॒ मन॑सा पेश॒लव्ँवसु॑ ।
नास॑त्याभ्याव्ँवयति दर्श॒तव्ँवपुः॑ ।
रस॑म्परि॒स्रुता॒ न रोहि॑तम् ।
न॒ग्नहु॒र्धीर॒स्तस॑र॒न्न वेम॑ ।
मूलम्
सर॑स्वती॒ मन॑सा पेश॒लव्ँवसु॑ ।
नास॑त्याभ्याव्ँवयति दर्श॒तव्ँवपुः॑ ।
रस॑म्परि॒स्रुता॒ न रोहि॑तम् ।
न॒ग्नहु॒र्धीर॒स्तस॑र॒न्न वेम॑ ।
सायण-टीका
4चतुर्थीमाह - इयं सरस्वती नासत्याभ्यां अश्विदेवताभ्यां सहिता वपुर्वयति शरीरं मनसा निष्पादयति । कीदृशं वपुः? पेशलं वसु देवतात्मनो निवासयोग्यं दर्शतं दर्शनीयं दृष्टिप्रियमित्यर्थः । परिस्रुता न परिस्रुतेव धारया स्रवत् सुराद्रव्यं परिस्रुदित्युच्यते । तया परिस्रुतेव शरीरस्थं रसं जलं रोहितं रक्तं वयति संपादयति स्रवन् स एव रक्तस्थानीय इत्यर्थः । नग्नहुशब्देन यवानां स्थूलचूर्णानि संस्रावेणाभिषिक्तानि कथ्यन्ते । सोऽयं नग्नहुरवयवान्तरस्थानीय इत्यर्थः । धीर इत्यादिदृष्टान्तः - लोके धीरो बुद्धिमान् कुविन्दः तसरं न नववस्त्रमिव । वेमशब्देन वस्त्रनिर्माणकाले प्रहारदण्डोऽभिधीयते । यया कुविन्दः प्रहारदण्डेन वस्त्रं निष्पादयति तद्वदित्यर्थः ॥
विश्वास-प्रस्तुतिः
पय॑सा शु॒क्रम॒मृत॑ञ्ज॒नित्र॑म् ।
सुर॑या॒ मूत्रा॑ज्जनयन्ति॒ रेतः॑ ।
अपाम॑तिन्दुर्म॒तिम्बाध॑मानाः ।
ऊव॑ध्यव्ँ॒वातँ॑ स॒बुव॒न्तदा॒रात् ॥15॥
मूलम्
पय॑सा शु॒क्रम॒मृत॑ञ्ज॒नित्र॑म् ।
सुर॑या॒ मूत्रा॑ज्जनयन्ति॒ रेतः॑ ।
अपाम॑तिन्दुर्म॒तिम्बाध॑मानाः ।
ऊव॑ध्यव्ँ॒वातँ॑ स॒बुव॒न्तदा॒रात् ॥15॥
सायण-टीका
5पञ्चमीमाह - यदेतदत्र पयोहव्यं यच्च सुराद्वव्यं तेन द्रव्यद्वयेन मूत्रात् मूत्रद्वारात् सकाशात् निर्गमनयोग्यं रेतो देवता जनयन्ति । कीदृशं रेतः? शुक्रं दीप्तिमच्छ्वेतवर्णं अमृतं विनाशरहितं अत एव जनित्रं अपत्योत्पादकम् । या देवता रेतो जनयन्ति ताः कीदृश्यः? अमतिं दुर्मतिं चापबाधमानाः । अमतिः कर्तव्यविषयज्ञानाभावः, दुर्मतिर्विपरीतज्ञानम् । किंच - ता देवताः तत्तस्मिन् संपादयितव्ये शरीरे आरात्समीपे उदरमध्ये ऊवध्यं जनयन्ति । अर्धं जीर्णमन्नं अपरिपक्वं पुरीषं ऊवध्यशब्दवाच्यम् । पयस्सुराभ्यामेव तज्जनयन्ति । तथा सबुवं वातं जनयन्ति । वातः प्राणवायुः । बुवशब्दः श्वासकालीनं शब्दमनुकरोति । तेन शब्देन सहितमित्यर्थः ॥
विश्वास-प्रस्तुतिः
इन्द्र॑स्सु॒त्रामा॒ हृद॑येन स॒त्यम् ।
पु॒रो॒डाशे॑न सवि॒ता ज॑जान ।
यकृ॑त्क्लो॒मानव्ँ॒वरु॑णो भिष॒ज्यन् ।
मत॑स्ने वाय॒व्यै॑र्न मि॑नाति पि॒त्तम् ।
मूलम्
इन्द्र॑स्सु॒त्रामा॒ हृद॑येन स॒त्यम् ।
पु॒रो॒डाशे॑न सवि॒ता ज॑जान ।
यकृ॑त्क्लो॒मानव्ँ॒वरु॑णो भिष॒ज्यन् ।
मत॑स्ने वाय॒व्यै॑र्न मि॑नाति पि॒त्तम् ।
सायण-टीका
6षष्ठीमाह - शोभनं यथा भवति तथा त्रायत इति सुत्रामा । तादृश इन्द्रः पशोर्हृदयेन सत्यं यथार्थज्ञानशक्तिं जजान । सविता च पुरोडाशेन यकृत् जजान । वरुणश्च पुरोडाशेन क्लोमानं भिषज्यन् वर्तते । यकृत्क्लोमशब्दाभ्यां हृदयस्य पार्श्वद्वयवर्तिनौ मांसखण्डावुच्येते । यकृत्क्लोम्नोः समीपवर्तिनी द्वे मांसे मतस्ने । वायव्यैर्न वायव्यैरिव वायव्यानि ग्रहपात्राणि तैर्मतस्ने इव पित्तमिव मिनाति अवयवजातं संपादयति ॥
विश्वास-प्रस्तुतिः
आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना ।
गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
श्ये॒नस्य॒ पत्र॒न्न प्ली॒हा शची॑भिः ।
आ॒स॒न्दी नाभि॑रु॒दर॒न्न मा॒ता ।
मूलम्
आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना ।
गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
श्ये॒नस्य॒ पत्र॒न्न प्ली॒हा शची॑भिः ।
आ॒स॒न्दी नाभि॑रु॒दर॒न्न मा॒ता ।
सायण-टीका
7सप्तमीमाह - मधु मधुरं क्षीरादिरसं पिन्वमाना प्रीणयन्ती धारयन्तीत्यर्थः । तादृशी स्थाली या वर्तते सेयं आन्त्राणि आन्त्रस्थानीयानि । अन्यानि पिष्टादिद्रव्यस्थापनार्थानि पात्राणि तानि गुदा गुदस्थानीयानि । स्थाल्याः पात्राणां च दृष्टान्तः - सुदुघा न धेनुः शोभनं क्षीरं दोग्धीति सुदुघा तादृशी धेनुरिव स्थाल्यादिकं वर्तते । प्लीहशब्दो मांसविशेषवाची । स च मांसविशेषः श्येनाख्यस्य पक्षिणः पत्रं न पक्ष इव । तादृशः स मांसविशेषः शचीभिः स्वव्यवहारशक्तिभिस्सह पात्रैस्संपादित इति शेषः । येयमभिषेकार्थाऽऽसन्दी सेयं नाभिस्थानीया । या तु माता सा भूम्यात्मिका वेदिः सेयमुदरं न, उदरमिव ॥
विश्वास-प्रस्तुतिः
आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना ।
गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
श्ये॒नस्य॒ पत्र॒न्न प्ली॒हा शची॑भिः ।
आ॒स॒न्दी नाभि॑रु॒दर॒न्न मा॒ता ।
मूलम्
आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना ।
गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
श्ये॒नस्य॒ पत्र॒न्न प्ली॒हा शची॑भिः ।
आ॒स॒न्दी नाभि॑रु॒दर॒न्न मा॒ता ।
सायण-टीका
8अष्टमीमाह - उलूकपक्षिसदृशो मांसविशेषो वनिष्ठुः । योऽयमत्र द्रवद्रव्यस्थापनार्थः कुम्भः स वनिष्ठुस्थानीयः । स च शचीभिः स्वशक्तिभिर्जनिता उत्पादयिता । यस्मिन्वनिष्ठौ अग्रे पुरोभागे योन्यामन्तः यो गर्भो वर्तते । अत्र सुरावनयनार्थं शतच्छिद्रयुक्तः कुम्भो योऽस्ति सोऽयं व्यक्तः स्पष्टः । बहुच्छिद्रोपेतत्वाच्छतधारः । सुरास्रवणयुक्तत्वादुत्सः । तादृशः कुम्भः प्लाशीः नासिकाछिद्रस्थानीयः । येयं द्रवद्रव्यधारणार्था कुम्भी तां कुम्भीं पितृभ्यः पित्रर्थं स्वधा दुहे न अमृतं दोग्धीव । अध्वर्युरिति शेषः ॥
विश्वास-प्रस्तुतिः
मुखँ॒ सद॑स्य॒ शिर॒ इत्सदे॑न ।
जि॒ह्वा प॒वित्र॑म॒श्विना॒ सँ सर॑स्वती ।
चप्प॒न्न पा॒युर्भि॒षग॑स्य॒ वालः॑ ।
व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ।
मूलम्
मुखँ॒ सद॑स्य॒ शिर॒ इत्सदे॑न ।
जि॒ह्वा प॒वित्र॑म॒श्विना॒ सँ सर॑स्वती ।
चप्प॒न्न पा॒युर्भि॒षग॑स्य॒ वालः॑ ।
व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ।
सायण-टीका
9नवमीमाह - सीदत्यत्रेति सदः देवयजनस्थानं तेन सदेन अस्य निरूप्यमाणशरीरस्य सन्मुखं समीचीनं मुखं शिर इत् शिरश्च संपन्नमिति शेषः । पवित्रं द्रव्यशोधनार्थं यद्वस्त्रं तज्जिह्वा । एतत्सर्वमश्विनौ सरस्वती च तिस्रः संपादितवत्यः । चप्पं पिष्टपात्रं तत् पायुर्न अपानस्थानमिव वर्तते । योऽयं वालः द्रव्यशोधनार्थः सोऽयमस्य शरीरस्य भिषक्, चिकित्सकस्थानीयः । तेन हि व्याधिस्थानीयो द्रव्यदोषोऽपनीयते । योऽयं पशोः शेपः सोऽयं वस्तिर्न मूत्रस्थानमिव । हरसा वह्निज्वालारूपेण तेजसा तरस्वी निरूप्यमाणो देहो वेगवानिव लक्ष्यते ॥
विश्वास-प्रस्तुतिः
अ॒श्विभ्या॒ञ्चक्षु॑र॒मृत॒ङ्ग्रहा॑भ्याम् ।
छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ ।
पक्ष्मा॑णि गो॒धूमै॒ᳵ क्व॑लैरु॒तानि॑ ।
पेशो॒ न शु॒क्लमसि॑तव्ँवसाते ॥17॥
मूलम्
अ॒श्विभ्या॒ञ्चक्षु॑र॒मृत॒ङ्ग्रहा॑भ्याम् ।
छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ ।
पक्ष्मा॑णि गो॒धूमै॒ᳵ क्व॑लैरु॒तानि॑ ।
पेशो॒ न शु॒क्लमसि॑तव्ँवसाते ॥17॥
सायण-टीका
10दशमीमाह - अश्विभ्यां ग्रहाभ्यां अश्विनोस्संबन्धिनौ यौ ग्रहावयवौ ताभ्यां अमृतं विनाशरहितं चक्षुः संपादितम् । शृतेन पक्वेन हविस्स्वरूपेण छागेन चक्षुर्गतं तेजः संपादितम् । सक्तुनिष्पादनार्थं ये गोधूमाः ये च क्वलाः बदरफलविशेषाः तैरुभयैः परस्परं उतानि संबद्धानि पक्ष्माणि रोमाणि संपाद्यन्ते । पेशो न रूपमिव यत्पशौ दृश्यते तच्चक्षुर्गतशुक्लं असितं च शुक्लमण्डलं कृष्णमण्डलं च तदुभयं वसाते अश्विनौ देवौ पक्ष्मभिराच्छादयतः ॥
विश्वास-प्रस्तुतिः
अवि॒र्न मे॒षो न॒सि वी॒र्या॑य ।
प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा॑भ्याम् ।
सर॑स्व॒त्युप॒वाकै॑र्व्या॒नम् ।
नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ।
मूलम्
अवि॒र्न मे॒षो न॒सि वी॒र्या॑य ।
प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा॑भ्याम् ।
सर॑स्व॒त्युप॒वाकै॑र्व्या॒नम् ।
नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ।
सायण-टीका
11एकादशीमाह - अविर्न अविरिव वर्तमानो यः सारस्वतो मेषः सोऽयं नसि नासिकायां वीर्याय श्वासप्रवृत्तिसामर्थ्याय प्रवर्तते । इयं च नासिका प्राणाख्यस्य वायोः अमृतः कदाचिदपि विनाशरहितः पन्थाः गमनागमनहेतुः ग्रहाभ्यां पयस्सुराभ्यां निष्पादितः । तथेयं सरस्वती उपवाकैः हरितयवसक्तुभिः व्यानवायुं जनयति । नस्यानि नासिकायां भवानि बर्हिः बर्हींषि लोमानि बदरैः सक्तुनिष्पादनाय संपादितैः बदरफलैः जजान संपादयामास ॥
विश्वास-प्रस्तुतिः
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य ।
कर्णा॑भ्याँ॒ श्रोत्र॑म॒मृत॒ङ्ग्रहा॑भ्याम् ।
यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि ।
क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घम्मुखा॑त् ।
मूलम्
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य ।
कर्णा॑भ्याँ॒ श्रोत्र॑म॒मृत॒ङ्ग्रहा॑भ्याम् ।
यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि ।
क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घम्मुखा॑त् ।
सायण-टीका
12द्वादशीमाह - सोऽयमृषभ इन्द्रस्य रूपं इन्द्रदेवताकत्वेन तत्स्वरूपसदृशः सोऽयमस्य शरीरस्य बलार्थं संपाद्यते । पशुसंबन्धिभ्यां कर्णाभ्यां पयस्सुरारूपग्रहाभ्यां चामृतं श्रोत्रं बाधिर्यरहितं श्रोत्रेन्द्रियं संपाद्यते । भुवि यवा न भूमावुत्पन्ना यवा इव बर्हिः वेद्यामासादितानि बर्हिषि केसराणि प्रवृद्धतमानि लोमानि । सरघाः मधुमक्षिकाः ताभिः संपादितं सारघं मधु तद्रूपं कर्कन्धु जज्ञे । कर्कन्धुशब्देनातिस्थूलबदरफलपिष्टमुच्यते । तच्च मधुसदृशं मुखाज्जज्ञे यज्ञप्रारम्भे समुत्पन्नमित्यर्थः ॥
विश्वास-प्रस्तुतिः
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑ ।
मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒मम् ॥18॥
केशा॒ न शी॒र्षन् यश॑से श्रि॒यै शिखा॑ ।
सिँ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ ।
मूलम्
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑ ।
मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒मम् ॥18॥
केशा॒ न शी॒र्षन् यश॑से श्रि॒यै शिखा॑ ।
सिँ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ ।
सायण-टीका
13त्रयोदशीमाह - ‘प्रकृतिभूतायां सौत्रामण्यां त्रयाणां लोमानि’ इति वाक्येन वृकव्याघ्रसिंहानां लोमानि विहितानि । तान्यत्र चोदकप्राप्तानि ग्रहत्रये प्रक्षिप्यन्ते । तत्र यद्वृकस्य लोम तत् आत्मन् संपाद्यमानशरीरे उपस्थे न गुह्यप्रदेश इव वर्तते । यत्तु व्याघ्रलोम तत् मुखे वर्तमानानि श्मश्रूणीव । यत्तु सिंहस्य लोम तच्छिरसि केशा इव । केशनिष्पन्ना च शिखा यशसे श्रियै च संपद्यते । अनुष्ठानकाले सशिखत्वेन यशः । लोके व्यवहारे रमणीयत्वेन श्रीः । या तु लोमगता त्विषिः दीप्तिः सा तु संपाद्यस्य शरीरस्येन्द्रियस्थानीया ॥
विश्वास-प्रस्तुतिः
अङ्गा॑न्या॒त्मन्भि॒षजा॒ तद॒श्विना॑ ।
आ॒त्मान॒मङ्गै॒स्सम॑धा॒त्सर॑स्वती ।
इन्द्र॑स्य रू॒पँ श॒तमा॑न॒मायुः॑ ।
च॒न्द्रेण॒ ज्योति॑र॒मृत॒न्दधा॑ना ।
मूलम्
अङ्गा॑न्या॒त्मन्भि॒षजा॒ तद॒श्विना॑ ।
आ॒त्मान॒मङ्गै॒स्सम॑धा॒त्सर॑स्वती ।
इन्द्र॑स्य रू॒पँ श॒तमा॑न॒मायुः॑ ।
च॒न्द्रेण॒ ज्योति॑र॒मृत॒न्दधा॑ना ।
सायण-टीका
14चतुर्दशीमाह - तत् तदानीं यागावसरे भिषजा चिकित्सकौ अश्विनौ आत्मन् संपाद्ये शरीरे अङ्गानि हस्तपादादीनि संपादितवन्तौ । सरस्वती च तैरङ्गैः आत्मानं संपूर्णदेहं समधात् सम्यगकार्षीत् । कीदृशी सरस्वती? इन्द्रस्य वर्तमानस्य यद्रूपं तद्दधाना संपादयन्ती । तथा शतमानं शतसंवत्सरप्रमाणं आयुः संपादयन्ती । तथा चन्द्रेण आह्लादकरूपेण अमृतं ज्योतिः अनश्वरं तेजः संपादयन्ती ॥
विश्वास-प्रस्तुतिः
सर॑स्वती॒ योन्या॒ङ्गर्भ॑म॒न्तः ।
अ॒श्विभ्या॒म्पत्नी॒ सुकृ॑तम्बिभर्ति ।
अ॒पाँ रसे॑न॒ वरु॑णो॒ न साम्ना॑ ।
इन्द्रँ॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑ ।
मूलम्
सर॑स्वती॒ योन्या॒ङ्गर्भ॑म॒न्तः ।
अ॒श्विभ्या॒म्पत्नी॒ सुकृ॑तम्बिभर्ति ।
अ॒पाँ रसे॑न॒ वरु॑णो॒ न साम्ना॑ ।
इन्द्रँ॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑ ।
सायण-टीका
15पञ्चदशीमाह - अश्विभ्यां देवाभ्यां सुकृतं सुष्ठु संपादितं उत्पादनीयशरीररूपं गर्भं पत्नी पालयित्री सरस्वती योन्यां गर्भाशये अन्तर्मध्ये बिभर्ति पोषयति । अपां रसेन सारभूतेन साम्ना परस्परं साम्येन पयस्सुराग्रहेणाप्सु वरुणो न राजा यथा जलमध्ये वरुणो राजा तस्यामब्देवतायां पुत्रं जनयति तथेमं यजमानं इन्द्रं इन्द्रसमानशरीरं श्रियै संपदनुभवार्थं अयमनुष्ठीयमानो यागो जनयन्वर्तते ॥
विश्वास-प्रस्तुतिः
तेज॑ᳶ पशू॒नाँ ह॒विरि॑न्द्रि॒याव॑त् ।
प॒रि॒स्रुता॒ पय॑सा सार॒घम्मधु॑ ।
अ॒श्विभ्या॑न्दु॒ग्धम्भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म् ।
अ॒मृत॒स्सोम॒ इन्दुः॑ ॥19॥
मूलम्
तेज॑ᳶ पशू॒नाँ ह॒विरि॑न्द्रि॒याव॑त् ।
प॒रि॒स्रुता॒ पय॑सा सार॒घम्मधु॑ ।
अ॒श्विभ्या॑न्दु॒ग्धम्भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म् ।
अ॒मृत॒स्सोम॒ इन्दुः॑ ॥19॥
सायण-टीका
16षोडशीमाह - पशूनां तेजः सारभूतं हविः भिषजा चिकित्सकाभ्यामश्विभ्यां दुग्धं संपादितमित्यर्थः । केन द्रव्येण? परिस्रुता पयसा परितः स्रवतीति परिस्रुत् सुरा तया क्षीरेण च संपादितं हविः । कीदृशं हविः? इन्द्रियावत् इन्द्रियाभिवृद्धिकरं सारघं मधु सरघाभिः संपादितेन मधुना सदृशं यथा अश्विभ्यां हविः संपादितं तथा सरस्वत्या तत्फलभूतो यजमानस्य इन्द्रसदृशः संपादितः । केन साधनेन? सतासताभ्यां अभिषवसदृशव्यापारेण संपादिता सुरा सुता । तादृक्प्रयासरहितक्षीरमसुतं ताभ्यां देहः संपादितः । कीदृशो देहः? अमृतः देवलोके समुत्पन्नत्वान्मरणरहितः सोमः सौम्यः दृष्टिप्रियः इन्द्रः चन्द्रवदाह्लादकरः परमैश्वर्ययुक्तो वा । एवमेतैः षोडशभिर्मन्त्रैर्यजमानस्य भाविदेहसूचनपरैरुपहोमः कर्तव्यः ॥
इति तैत्तिरयिब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके चतुर्थोऽनुवाकः ॥