विश्वास-प्रस्तुतिः
सुरा॑वन्तम्बर्हि॒षदँ॑ सु॒वीर॑म् ।
य॒ज्ञँ हि॑न्वन्ति महि॒षा नमो॑भिः ।
दधा॑ना॒स्सोम॑न्दि॒वि दे॒वता॑सु ।
मदे॒मेन्द्रय्ँ॒यज॑मानास्स्व॒र्काः ।
मूलम्
सुरा॑वन्तम्बर्हि॒षदँ॑ सु॒वीर॑म् ।
य॒ज्ञँ हि॑न्वन्ति महि॒षा नमो॑भिः ।
दधा॑ना॒स्सोम॑न्दि॒वि दे॒वता॑सु ।
मदे॒मेन्द्रय्ँ॒यज॑मानास्स्व॒र्काः ।
सायण-टीका
(SB) 1द्वितीये ग्रहोपस्थानमुक्तम् । तृतीये ग्रहहोमोऽभिधीयते । कल्पः - ‘सुरावन्तमिति पयोग्रहाञ्जुहोति’ इति ॥ महिषाः महनीयाः पूजनीया यजमाना नमोभिः नमस्कारोपेतैर्मन्त्रैः यज्ञमिमं सौत्रामण्याख्यं हिन्वन्ति प्रीणयन्ति सम्यगनुतिष्ठन्तीत्यर्थः । कीदृशं यज्ञं? सुरावन्तं सुराद्रव्योपेतं बर्हिषदं बर्हिषि दर्भे आसाद्यमानेन हविषा युक्तं सुवीरं शोभनापत्यप्रदम् । दिवि द्युलोके देवतासु सोमं दधानाः संपादयन्तो वयं यजमानाः स्वर्काः शोभनेनार्चनेन युक्ता इन्द्रं मदेम हृष्टं करवाम ॥
विश्वास-प्रस्तुतिः
यस्ते॒ रस॒स्सम्भृ॑त॒ ओष॑धीषु ।
सोम॑स्य॒ शुष्म॒स्सुर॑या सु॒तस्य॑ ।
तेन॑ जिन्व॒ यज॑मान॒म्मदे॑न ।
सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ।
मूलम्
यस्ते॒ रस॒स्सम्भृ॑त॒ ओष॑धीषु ।
सोम॑स्य॒ शुष्म॒स्सुर॑या सु॒तस्य॑ ।
तेन॑ जिन्व॒ यज॑मान॒म्मदे॑न ।
सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ।
सायण-टीका
2कल्पः - ‘यस्ते रसस्संभृत इति सुराग्रहान्’ इति । जुहोतीत्यनुवर्तते । हे सुरे! योऽयं ते रस ओषधीषु व्रीह्यादिषु संभृतः संपादितः सुतस्याभिषुतस्य सोमस्य शुष्मः वलप्रदो रसः सुरया संयोजितः तेन मदेन तदीयेन हर्षेण यजमानं जिन्व प्रीणय । तथा सरस्वत्यादिदेवांश्च प्रीणय ॥
विश्वास-प्रस्तुतिः
यम॒श्विना॒ नमु॑चेरासु॒रादधि॑ ।
सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑ ॥9॥
इ॒मन्तँ शु॒क्रम्मधु॑मन्त॒मिन्दु॑म् ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
मूलम्
यम॒श्विना॒ नमु॑चेरासु॒रादधि॑ ।
सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑ ॥9॥
इ॒मन्तँ शु॒क्रम्मधु॑मन्त॒मिन्दु॑म् ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
सायण-टीका
3कल्पः - ‘यमश्विना नमुचेत्याश्विनमध्वर्युर्भक्षयति’ इति । अश्विनौ देवौ यं रसं नमुचिनाम्नोऽसुरात् अध्याहृतवन्तौ । सरस्वती च इन्द्रियार्थं असनोत् प्रादात् । तमिमं सोमं राजानं इह कर्मणि भक्षयामि । कीदृशं सोमं? शुक्रं शुद्धं मधुमन्तं माधुर्योपेतं इन्दुं आह्लादकं परमैश्वर्यप्रदं वा ॥
विश्वास-प्रस्तुतिः
यदत्र॑ रि॒प्तँ र॒सिन॑स्सु॒तस्य॑ ।
यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
मूलम्
यदत्र॑ रि॒प्तँ र॒सिन॑स्सु॒तस्य॑ ।
यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हन्तद॑स्य॒ मन॑सा शि॒वेन॑ ।
सोमँ॒ राजा॑नमि॒ह भ॑क्षयामि ।
सायण-टीका
4कल्पः - ‘यदत्र रिप्तमिति सारस्वतं प्रतिप्रस्थाताऽऽग्नीध्रश्च’ इति । भक्षयत इति शेषः । रसिनो रसयुक्तस्य सुतस्याभिषुतस्य सोमात्मकस्य पयसो यदवशिष्टं पात्रे रिप्तं लिप्तं यच्चेन्द्रः स्वकीयाभिः शचीभिः शक्तिभिः सहापिबत् । अस्य सोमात्मकस्य पयसः तदवशिष्टं रसरूपं सोमराजत्वेन भाव्यमानं इह कर्मणि शिवेन मनसाऽहं भक्षयामि ॥
सायणोक्त-विनियोगः
5कल्पः - ‘दक्षिणेनाहवनीयं पयश्शेषं पितृपितामहमपितामहेभ्यो ददाति पितृभ्य इति’ इति ।
पि॒तृभ्य॑स् स्वधा॒विभ्य॑स् ...{Loading}...
विश्वास-प्रस्तुतिः
पि॒तृभ्य॑स् स्वधा॒विभ्य॑स् स्व॒धा नमः॑ ।
पि॒ता॒म॒हेभ्य॑स् स्वधा॒विभ्य॑स् स्व॒धा नमः॑ ।
प्रपि॑तामहेभ्यस् स्वधा॒विभ्य॑स् स्व॒धा नमः॑ ।
मूलम्
पि॒तृभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ ।
पि॒ता॒म॒हेभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ ।
प्रपि॑तामहेभ्यस्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ ।
सायण-टीका
स्वधाकारस्तृप्तिहेतुरेषामस्तीति ते स्वधाविनः तादृशेभ्यः पितृभ्यः स्वधा पयश्शेषोऽयं समर्पितः तथा तेभ्यो नमस्कारोऽस्तु एवं पितामहप्रपितामहयोर्योजनीयम् ।
विश्वास-प्रस्तुतिः
अक्ष॑न्पि॒तरः॑ ॥10॥
अमी॑मदन्त पि॒तरः॑ ।
अती॑तृपन्त पि॒तरः॑ ।
अमी॑मृजन्त पि॒तरः॑ ।
पित॑र॒श्शुन्ध॑ध्वम् ।
मूलम्
अक्ष॑न्पि॒तरः॑ ॥10॥
अमी॑मदन्त पि॒तरः॑ ।
अती॑तृपन्त पि॒तरः॑ ।
अमी॑मृजन्त पि॒तरः॑ ।
पित॑र॒श्शुन्ध॑ध्वम् ।
सायण-टीका
एते पितरोऽक्षन् भुक्तवन्तः । भुक्त्वा चास्मानमीमदन्त संतुष्टान् कुर्वन्तः । अतीतृपन्त तृप्तियुक्तान् कुर्वन्तः । अमीमृजन्त शोधितवन्तः । हे पितरः! यूयमपि शुन्धध्वं शुद्धा भवत ॥
विश्वास-प्रस्तुतिः
पु॒नन्तु॑ मा पि॒तर॑स्सो॒म्यासः॑ ।
पु॒नन्तु॑ मा पिताम॒हाः ।
पु॒नन्तु॒ प्रपि॑तामहाः ।
प॒वित्रे॑ण श॒तायु॑षा ।
पु॒नन्तु॑ मा पिताम॒हाः ।
पु॒नन्तु॒ प्रपि॑तामहाः ॥11॥
मूलम्
पु॒नन्तु॑ मा पि॒तर॑स्सो॒म्यासः॑ ।
पु॒नन्तु॑ मा पिताम॒हाः ।
पु॒नन्तु॒ प्रपि॑तामहाः ।
प॒वित्रे॑ण श॒तायु॑षा ।
पु॒नन्तु॑ मा पिताम॒हाः ।
पु॒नन्तु॒ प्रपि॑तामहाः ॥11॥
सायण-टीका
6कल्पः -‘पुनन्तु मा पितरस्सोम्यास इत्युपतिष्ठते’ इति । तत्रोपस्थानसाधनभूतामु दशस्वृक्षु प्रथमामृचमाह - सोम्यासः अनुग्राहकत्वेन सौम्याः पितरः! पवित्रेण शुद्धेन शतसंख्याकेनायुषा मां पुनन्तु शोधयन्तु । एवं पितामहप्रपितामहाश्च ॥
विश्वास-प्रस्तुतिः
प॒वित्रे॑ण श॒तायु॑षा ।
विश्व॒मायु॒र्व्य॑श्ञवै ।
मूलम्
प॒वित्रे॑ण श॒तायु॑षा ।
विश्व॒मायु॒र्व्य॑श्ञवै ।
सायण-टीका
7अथ द्वितीयामाह - पूर्वमन्त्रोक्तानामपि पुनःकथनमादरार्थम् । एतेषां प्रसादेनाहं सर्वमप्यायुः प्राप्नवानि ॥
विश्वास-प्रस्तुतिः
अग्न॒ आयूँ॑षि पव॒सेऽग्ने॒ पव॑स्व ।
पव॑मान॒स्सुव॒र्जन॑ᳶ पु॒नन्तु॑ मा देवज॒नाः ।
जात॑वेदᳶ प॒वित्र॑व॒द्यत्ते॑ प॒वित्र॑म॒र्चिषि॑ ।
उ॒भाभ्या॑न्देव सवितर्वैश्वदे॒वी पु॑न॒ती ।
-
अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒मिष॑ञ्च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥-
[ टीका] 8-15अथ तृतीयादीनामष्टानामृचां प्रतीकानि दर्शयति - अत्राद्यमृग्द्वयं तु ‘त्वमग्ने रुद्रः’ इत्यनुवाके व्याख्यातम् ।
-
[ टीका] ‘देवा वा इन्द्रियं वीर्यं व्यभजन्त ततो यदत्यशिष्यत’ इत्यादि ब्राह्मणम् , ‘अप्यग्निष्टोमे ग्रहीतव्याः’ इत्यादि च । हे अग्ने आयूंषि पवस्व ऊर्जं रसं इषमन्नं च नः अस्मभ्यमासुव आनय दुच्छुनां दौर्गत्यं चास्माकमारे दूरे बाधस्वेति ॥
-
[ टीका] 9-10गार्हपत्यमुपतिष्ठते - अग्न आयूंषीति गायत्रीभ्याम् ॥ व्याख्याते चैते ‘त्वमग्ने रुद्रः’ इत्यत्र । हे अग्ने आयूंषि अन्नानि जीवनानि वा अस्मदीयानि त्वं खलु पवसे शोधय । यथा वर्धन्ते न क्षीयन्ते तथा कुर्विति भावः । नोस्माकमन्नमदनीयं भक्ष्यभोज्यादिकं ऊर्जं क्षीराज्यादिकं रसं चानुजानीह्याभिमुख्येन प्रेरय उत्पादय, सर्वदा देहीति भावः । दुच्छुनां दौर्गत्यादिसर्वोपद्रवान् दूरे नीत्वा बाधस्व विनाशय ।
-
[ टीका] ‘अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ज्योगामयावी’ इत्यस्ति त्रिहविष्कोष्टिः । तत्राग्नये पवमानायेत्यस्य पुरोनुवाक्या - अग्न आयूंषीति गायत्री ॥ हे अग्ने आयूंषि जीवनान्यन्नानि वास्मदीयानि त्वं खलु पवसे शोधयसि, यथा वर्धन्ते, यथा वा न क्षीयन्ते । अत ऊर्जं रसं क्षीरादिकमिषमन्नं चास्मभ्यमासुव आभिमुख्येन सुव प्रेरय उत्पादयेत्यर्थः । आरे दूरे नीत्वा बाधस्व बाधय नाशय दुच्छुनामुपद्रवं ज्योगामयावित्वलक्षणम् । ‘उत यदीतासुर्भवति जीवत्येव’ `इति ब्राह्मणम् ॥]
-
-
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य॑म् ।
दध॒त्पोषँ॑ र॒यिम्मयि॑ ॥-
[ टीका] 24 तत्रैव याज्या - अग्ने पवस्वेति गायत्री ॥ हे अग्ने स त्वं पवस्व स्वपाः शोभनकर्मा । ‘सोर्मनसी अलोमोषसी’ इत्युत्तरपदाद्युदात्तत्वम् । अस्मे अस्मभ्यम् । ‘सुपां सुलुक्’ इति शेआदेशः । वर्चः बलं, सुवीर्यं शोभनवीर्ययुक्तं पवस्व शोधय वर्धय । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । अग्ने इत्यस्याविद्यमानत्वात् पवस्वेति न निहन्यते । किं कुर्वन्नित्याह - पोषं पुण्ष्टिं रयिं धनं च मयि दधत् धारयन् स्थापयन् वर्चो मे धेहीति । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । ‘यदग्नये पवमानाय निर्वपति पुनात्येवैनम्’ `इति ब्राह्मणम् ॥
-
[ टीका] हे अग्ने शोभनकर्मा त्वमसि अस्मान् शोभनानुष्ठानान् कुरु । अस्मदर्थं शोभनं वीर्यं तेजो दीप्तिं च बलं वा शोधय प्रापय । पोषं वृद्धियुक्तं रयिं धनं च मयि दधत् स्थापयन्निति ॥
-
अवशिष्टं षट्कं ‘पवमानस्सुवर्जनः’ इत्यनुवाके व्याख्यातम् ॥
-
मन्त्रः पव॑मान॒स् सुव॒र्जनः॑ ।
प॒वित्रे॑ण॒ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा । -
[ टीका] ‘अनारभ्याधीतानां प्रकृतिगामित्वम्’इति न्यायात् दर्शपूर्णमासयोश्चाविनियोगात् ज्योतिष्ठेम एकाहानां प्रकृतौ एकविंशत्या दर्भपुञ्जीलैः पाव्यमानो यजमानो जपति, अन्यत्र च स्मार्ते स्नानादौ मार्जनार्थोऽयमनुवाकः । सोमः काण्डऋषिः ॥
1 प्रथमा - पवमान इति गायत्री ॥ पवमानः शोधनकुशलः सुवर्जनः स्वर्गवास्येव यो जनः समस्तमेव स्वरिति स्वर्गवासी जन उच्यते । [स्वर्गवासिनमभिघत्ते] ‘मञ्चाः क्रोशन्ति’इतिवत् ।
विचर्षणिः विशिष्टज्ञानः सर्वस्य सुकृतदुष्कृतप्रत्यवेक्षणकुशलः यः सर्वस्य साधु पोता पविता पवित्रेण पावनेन दर्शनानुध्यानादिना पुनातु शोधयतु ॥ -
मन्त्रः पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । -
[ टीका] 2 द्वितीया - गायत्री ॥ पुनन्तु मा देवजनाः देवा एव ये जनाः पुनन्तु च मां मनवः स्वायंभुवादयः धिया प्रज्ञया कर्मणा वा बुद्धिविशेषैः कर्मविशेषैर्वा । मां पुनन्तु । विश्वे च आयवः मनुष्या मां पुनन्तु ॥
-
मन्त्रः जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि मा ।
शू॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒ क्रतूँ॒ रनु॑ ॥46॥- [ टीका] 3 तृतीया - अनुष्टुप् ॥ हे जातवेदः! जातानां वेदितः! पवित्रवत् पवित्रार्हं यथा पवित्राणि शोधयितुमर्हन्ति । ‘तदर्हम्’इति वतिः । तदनुरूपं मां पुनाहि पुनीहि । ईत्वाभावश्छान्दसः । पवित्रेण दर्शनादिना पुनीहि हे देव! देवनशील! शुक्रेण निर्मलेन तेजसा दीद्यत् दीप्यमानस्त्वम् । दीद्यतेः दीप्तिकर्मणः शतरि ‘अ य स्तानामादिः’इत्याद्युदात्तत्वम्, छान्दसमेवाभ्यस्तत्वम्, कृतद्विर्वचनोऽयं द्रष्टव्यः । हे अग्ने! त्वं दीद्यत् [केन कान् दीद्यत्] इत्याह - क्रतून् आस्माकीनानि कर्माणि प्रज्ञाभेदान्वा अनु लक्षीकृत्य । ‘दीर्घादटि’इति रुत्वम् । क्रत्वा क्रतुना प्रज्ञया कर्मविशेषेण वा दीद्यत् त्वं मां पुनीहीति । ‘जसादिषु वा वचनम्’इति नाभावाभावः ॥
-
मन्त्रः यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑ ।
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।- [ टीका] 4 अथ चतुर्थी - यत्त इति गायत्री ॥ हे अग्ने! यत् ते तव अर्चिषि अन्तरा ज्वालासु मध्ये विततं ब्रह्म परिबृढं पवित्ररूपं तेन आत्मानं पुनीमहे । यद्वा - यज्ज्वालासु पवित्रं रूपं तेन ब्रह्म वयं पुनीमहे आस्माकीनं ब्रह्मवर्चसं ऋगादिकं वा ब्रह्मआत्मानं वा पुनीमहे ॥
-
मन्त्रः उ॒भाभ्या॑न् देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।- [ टीका] 5 अथ पञ्चमी - उभाभ्यामिति गायत्री ॥ हे देव! सवितः! सर्वस्य प्रेरक! यश्च सवः अनुज्ञा प्रेरणं वा ताभ्यां इदं ब्रह्म पुनीमहे । गतम् ॥
-
मन्त्रः वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑त् ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तस् सध॒माद्ये॑षु ।
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥- [ टीका] 6 अथ षष्ठी - वैश्वदेवीति त्रिष्टुप् ॥ वैश्वदेवी विश्वेषां देवानां सम्बन्धिनी सा देवी पुनती शोधयन्ती अस्मानागात् आगच्छतु । यस्यै यस्या देव्याः बह्वीः बह्व्यः अनेकाः तनुवः शरीराणि शच्यादिनाम्न्यः वीतपृष्ठाः कान्तस्तुतयः तया देव्या मदन्तः मोदमानाः । व्यत्ययेन शप् । सधमाद्येषु सह माद्यन्ति येषु सवनेषु । अधिकरणे ण्यति व्यत्ययेनोत्तरपदाद्युदात्वम् । यद्वा - ण्यन्तात् ‘अचो यत्"सधमाधस्थयोः’इति सधादेशः । तेषु तेषु स्थानेषु मोदमाना वयं रवीणां धनानां पतयः स्वामिनः स्याम ॥

ये स॑मा॒नास्सम॑नसः ।
पि॒तरो॑ यम॒राज्ये॑ ।
तेषाल्ँ॑ लो॒कस्स्व॒धा नमः॑ ।
य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥12॥
मूलम्
ये स॑मा॒नास्सम॑नसः ।
पि॒तरो॑ यम॒राज्ये॑ ।
तेषाल्ँ॑ लो॒कस्स्व॒धा नमः॑ ।
य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥12॥
सायण-टीका
16कल्पः - ‘अथाहुतीर्जुहुतो ये समाना इत्यध्वर्युर्ये सजाता इति प्रतिप्रस्थाता’ इति । यमराज्ये यमलोके वर्तमानाः पितरो मया समानस्वभावाः संगतमनस्काश्च ये सन्ति तेषां पितॄणां लोको ममास्त्विति शेषः । तेभ्यः पितृभ्यः स्वधा हविश्शेषो दत्तो नमस्कारश्च कृतः । अयं मदीयो यज्ञो देवेषु कल्पतां तृप्तिप्रदो भवतु ॥
विश्वास-प्रस्तुतिः
ये स॑जा॒तास्सम॑नसः ।
जी॒वा जी॒वेषु॑ माम॒काः ।
तेषाँ॒ श्रीर्मयि॑ कल्पताम् ।
अ॒स्मिल्ँ लो॒के श॒तँ समाः॑ ।
मूलम्
ये स॑जा॒तास्सम॑नसः ।
जी॒वा जी॒वेषु॑ माम॒काः ।
तेषाँ॒ श्रीर्मयि॑ कल्पताम् ।
अ॒स्मिल्ँ लो॒के श॒तँ समाः॑ ।
सायण-टीका
17अथ द्वितीयामाह - जीवेषु वर्तमानेषु मध्ये मामका मदीया ये जीवाः सजाता भ्रात्रादिरूपेण मया सहोत्पन्नाः संगतमनस्का मयि प्रीतियुक्ताः तेषां सर्वेषां श्रीः धनादिसंपत् मयि कल्पतां तिष्ठतु मदधीना भवत्वित्यर्थः । अस्मिन् लोके मम समाः शतसंख्याकाः सन्तु ॥
विश्वास-प्रस्तुतिः
द्वे स्रु॒ती अ॑शृणवम्पितृ॒णाम् ।
अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
याभ्या॑मि॒दव्ँ विश्व॒मेज॒त्समे॑ति ।
यद॑न्त॒रा पि॒तर॑म्मा॒तर॑ञ्च ।
मूलम्
द्वे स्रु॒ती अ॑शृणवम्पितृ॒णाम् ।
अ॒हन्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
याभ्या॑मि॒दव्ँ विश्व॒मेज॒त्समे॑ति ।
यद॑न्त॒रा पि॒तर॑म्मा॒तर॑ञ्च ।
सायण-टीका
18अथ ‘द्वे स्रुती’ इत्यादिमन्त्रो वल्मीकवपायां सुरावपनार्थः । स च पूर्वकाण्डे ‘युवं सुरामम्’ इत्यनुवाके राजसूयान्तर्गतसौत्रामण्यर्थमाम्नातः । इह तु कौकिल्यर्थमाम्नायते । मरणशीलानां श्रोतमार्गवर्तिनां कर्मानुष्ठायिनामुपासकानां च दक्षिणमार्ग उत्तरमार्गश्चेति द्वे स्रुती द्वौ मार्गौ वेदमुखादहं श्रुतवानस्मि । तत्रैकः पितॄणां संबन्धी तल्लोकप्राप्तिहेतुत्वात् । अन्यश्च देवानां संबन्धी ब्रह्मलोकप्राप्तिहेतुत्वात् । एतौ चोभौ मार्गौ छान्दोग्यबृहदारण्यकयोः स्पष्टमाम्नातो - ‘ते धूममभिसंभवन्ति । धूमाद्रात्रिम्’ इति दक्षिणमार्गः । ‘तेऽर्चिषमभिसंभवन्ति, अर्चिषोऽहः’ इत्यादिरुत्तरमार्गः । एजत् कम्पमानं परलोकगतियुक्तमिदं विश्वं प्राणिजातं याभ्यां मार्गाभ्यां तत्तल्लोकं सम्यक्प्राप्नोति । यन्मार्गद्वयं पितरं मातरं चान्तरा द्यावापृथिव्योर्मध्ये वर्तते तादृशमार्गद्वयमहमशृणवमित्यन्वयः ॥
विश्वास-प्रस्तुतिः
इ॒दँ ह॒विᳶ प्र॒जन॑नम्मे अस्तु ।
दश॑वीरँ स॒र्वग॑णँ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्रजा॒सनि॑ ।
प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ ।
मूलम्
इ॒दँ ह॒विᳶ प्र॒जन॑नम्मे अस्तु ।
दश॑वीरँ स॒र्वग॑णँ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्रजा॒सनि॑ ।
प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ ।
सायण-टीका
19कल्पः - ‘इदं हविरित्यैन्द्रं ब्रह्मा यजमानश्च’ इति । हविश्शेषं भक्षयत इति शेषः । इदं भक्ष्यमाणं हविर्मे स्वस्तयेऽस्तु मम क्षेमाय भवतु । कीदृशं हविः? प्रजननं प्रजोत्पादकं दशवीरं दशसंख्याकैः कर्मशूरैः पुत्रैर्युक्तं तथा बन्धुभृत्यादिभिर्बहुभिर्गणैर्युक्तं सर्वगणम् । जीवात्मानमस्मिन् शरीरे चिरकालावस्थायिनं सनोति ददातीत्यात्मसनि, प्रजासनि पशुसनि प्रजां पशून्ददातीति प्रजासनि पशुसनि, अभयसनि भीतिराहित्यं परलोकान्ददातीति ।
विश्वास-प्रस्तुतिः
अ॒ग्निᳶ प्र॒जाम्ब॑हु॒लाम्मे॑ करोतु ।
मूलम्
अ॒ग्निᳶ प्र॒जाम्ब॑हु॒लाम्मे॑ करोतु ।
सायण-टीका
अयमग्निर्मदीयां प्रजां बहुलां करोतु । देवाः! अन्नादीनस्मासु संपादयत ।
विश्वास-प्रस्तुतिः
अन्न॒म्पयो॒ रेतो॑ अ॒स्मासु॑ धत्त ।
मूलम्
अन्न॒म्पयो॒ रेतो॑ अ॒स्मासु॑ धत्त ।
सायण-टीका
तथा धनपुष्ट्यन्नरसानस्मासु धारयत ।
विश्वास-प्रस्तुतिः
रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒त्स्वाहा॑ ॥13॥
मूलम्
रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒त्स्वाहा॑ ॥13॥
सायण-टीका
इदं हविरस्मदुदरे स्वाहा हुतमस्तु ॥
अत्र विनियोगसंग्रहः-
सुरा यस्ते क्रमात्कार्या द्वाभ्यां क्षीरसुराहुतिः ।
यमश्विनेत्याश्विनाख्यमध्वर्युर्भक्षयेत्तथा ॥ १ ॥
सारस्वतं प्रतिप्रस्थाताऽऽग्नीध्रश्च यदित्यतः ।
पितृभ्य इत्यादिकेन पयश्शेषं ददाति हि ॥ २ ॥
देश आहवनीयस्य दक्षिणेऽथोपतिष्ठते ।
पुनन्तु मेत्यादिकानां मन्त्राणां दशकेन हि ॥ ३ ॥
अध्वर्योश्च प्रतिप्रस्थातुर्ये स द्वयमाहुतौ ।
सुराशेषं तु वल्मीके नयति द्वे स्रुती इति ॥ ४ ॥
इदं भक्षयतो ब्रह्मस्वामिनौ ग्रहमैन्द्रकम् ।
अनुवाके तृतीयेऽस्मिन्मन्त्रा एकोनविंशतिः ॥ ५ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके तृतीयोऽनुवाकः ॥