०२ ग्रहोपस्थानम्

विश्वास-प्रस्तुतिः

सोमो॒ राजा॒ऽमृतँ॑ सु॒तः ।
ऋ॒जी॒षेणा॑जहान्मृ॒त्युम् ।

ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
विपानँ॑ शु॒क्रमन्ध॑सः ।
इन्द्र॑स्येन्द्रि॒यम् ।
इ॒दम्पयो॒ऽमृत॒म्मधु॑ ।

मूलम्

सोमो॒ राजा॒ऽमृतँ॑ सु॒तः ।
ऋ॒जी॒षेणा॑जहान्मृ॒त्युम् ।

ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
विपानँ॑ शु॒क्रमन्ध॑सः ।
इन्द्र॑स्येन्द्रि॒यम् ।
इ॒दम्पयो॒ऽमृत॒म्मधु॑ ।

सायण-टीका

(SB) 1प्रथमे ग्रहा उक्ताः । द्वितीये तदुपस्थानमुच्यते । तत्र प्रथमामृचमाह - अयमभिषुतः सोमो राजा स्वयममृतं पीयूषसमानः यथा पीयूषं पिबतोऽपमृत्युर्नास्त्येवं सोमपस्यापि नापमृत्युरित्यर्थः। तत्रायं हेतुः - ऋजीषेण ईदृक्स्थानीयेन नीरसेन मृत्युमजहात् । ऋजीषे ह्यपमृत्युमजहात् । ऋजीषमपमृत्युप्रापकं रसनिस्सरणेन तस्य परित्यागादपमृत्युहेतुः परित्यक्तः । अतोऽयं ऋतेन यज्ञनिष्पादनेन इन्द्रियं इन्द्रियवृद्धिहेतुः तदेतत्सत्यं शपथं करोमीत्यर्थः । अन्धसोऽन्नरसादपि विपानं विशेषेण पानयोग्यं सोमरसरूपममृतम् । अतः शुक्रं शुद्धं योयमिन्द्रस्तस्यापीन्द्रियवृद्धिकारणमिदम् । किंच - इदं द्रव्यं मधु पयो मधुरं क्षीररूपमत एवामृतरूपम् ॥

विश्वास-प्रस्तुतिः

सोम॑म॒द्भ्यो व्य॑पिबत् ।
छन्द॑सा हँ॒सश्शु॑चि॒षत् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।

मूलम्

सोम॑म॒द्भ्यो व्य॑पिबत् ।
छन्द॑सा हँ॒सश्शु॑चि॒षत् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।

सायण-टीका

2अथ द्वितीयामाह - शुचौ शुद्धप्रदेशे स्वर्गे सीदतीति शुचिषत् हंसः सर्वप्राणिहृदि स्थितो जीवात्मा तद्रूपधारीन्द्रः छन्दसा स्वेच्छया तमिमं सोममद्भ्यः सकाशाद्विभज्यापिबत् । ऋतेन यज्ञद्वारेणेन्द्रियवृद्धिहेतुस्सोमः तदेतत्सत्यम् । तत्र दृष्टान्तः - यथा लोके क्रुङ् क्रौञ्चपक्षी आङ्गिरसः सर्वाङ्गसंबन्धिसारयुक्तः पुष्टशरीर इत्यर्थः । तादृशो धिया स्वबुद्ध्या क्षीरमद्भ्यो विविच्यापिबत् । क्षीरपात्रे स्वमुखे प्रक्षिप्ते सति मुखगताम्लरससंपर्कात्क्षीरांशो जलांशश्चोभौ विविच्येते । तत्र जलभागं परित्यज्य क्षीरभागमेव पिबति । तद्वदयमिन्द्रोपि सोमरसं जलभागाद्विविच्य पिबति । अतो यज्ञद्वारेणेन्द्रियवृद्धिहेतुस्सोमः तदेतत्सत्यम् ।

विश्वास-प्रस्तुतिः

अ॒द्भ्यः क्षी॒रव्व्ँय॑पिबत् ॥6॥
क्रुङ्ङा॑ङ्गिर॒सो धि॒या ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
अन्ना॑त्परि॒स्रुतो॒ रस॑म् ।

मूलम्

अ॒द्भ्यः क्षी॒रव्व्ँय॑पिबत् ॥6॥
क्रुङ्ङा॑ङ्गिर॒सो धि॒या ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
अन्ना॑त्परि॒स्रुतो॒ रस॑म् ।

सायण-टीका

तत्रैवान्यो दृष्टान्त उच्यते - यथा क्षत्रं क्षत्रियजातिः ब्रह्मणा प्रौढेन क्षीराज्यादिना योगात् परितः स्रवतीति परिस्रुदन्नं तस्मादन्नात्संपन्नं रसं पिबति । राजादयो हि भोजनकाले प्रभूते क्षीरे वा व्रीह्याद्यन्नं प्रक्षिप्य तदन्नरसोपेतं क्षीरादिकं पिबति । एवमिन्द्रोऽयमपि सारभूतं रसं पिवति । ऋतेनेति पूर्ववत् ॥

  • +++(अतोऽयं ऋतेन यज्ञनिष्पादनेन इन्द्रियं इन्द्रियवृद्धिहेतुः तदेतत्सत्यं शपथं करोमीत्यर्थः । अन्धसोऽन्नरसादपि विपानं विशेषेण पानयोग्यं सोमरसरूपममृतम् । अतः शुक्रं शुद्धं योयमिन्द्रस्तस्यापीन्द्रियवृद्धिकारणमिदम् । किंच - इदं द्रव्यं मधु पयो मधुरं क्षीररूपमत एवामृतरूपम् ॥)+++
विश्वास-प्रस्तुतिः

योनि॑म्प्रवि॒शदि॑न्द्रि॒यम् ।
गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः ।
उल्ब॑ञ्जहाति॒ जन्म॑ना ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥7॥

मूलम्

योनि॑म्प्रवि॒शदि॑न्द्रि॒यम् ।
गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः ।
उल्ब॑ञ्जहाति॒ जन्म॑ना ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥7॥

सायण-टीका

3अथ तृतीयामाह - यथा लोके स्त्रीयोनिं प्रविशत् पुरुषस्येन्द्रियं रेतो मूत्रं च विभज्य परित्यजति । मूत्रस्य बहिस्त्यागः । रेतसो गर्भाशये त्यागः । तद्रेतःपरिणामो जरायुणा वेष्टितो गर्भो भूत्वा स्वकीयेन जन्मना तदावरणरूपमुल्बं जहाति । एवमिन्द्रोऽप्यसारं परित्यज्यैकस्मिन्नपि पात्रे सारमेव स्वीकरोति । ऋतेनेति पूर्ववत् ।

  • +++(अतोऽयं ऋतेन यज्ञनिष्पादनेन इन्द्रियं इन्द्रियवृद्धिहेतुः तदेतत्सत्यं शपथं करोमीत्यर्थः । अन्धसोऽन्नरसादपि विपानं विशेषेण पानयोग्यं सोमरसरूपममृतम् । अतः शुक्रं शुद्धं योयमिन्द्रस्तस्यापीन्द्रियवृद्धिकारणमिदम् । किंच - इदं द्रव्यं मधु पयो मधुरं क्षीररूपमत एवामृतरूपम् ॥)+++
विश्वास-प्रस्तुतिः

वेदे॑न रू॒पे व्य॑करोत् ।
स॒ता॒स॒ती प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।

मूलम्

वेदे॑न रू॒पे व्य॑करोत् ।
स॒ता॒स॒ती प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।

सायण-टीका

यथा प्रजापतिरेकरूपेण वेदेन पर्यालोच्य सतासती पृथिव्यादिसद्रूपं शशविषाणाद्यसद्रूपं च विभज्याकरोत् । तथाऽयमिन्द्रः -सारासारविभागं कृतवान् । ऋतेनेति पूर्ववत् ॥

  • +++(अतोऽयं ऋतेन यज्ञनिष्पादनेन इन्द्रियं इन्द्रियवृद्धिहेतुः तदेतत्सत्यं शपथं करोमीत्यर्थः । अन्धसोऽन्नरसादपि विपानं विशेषेण पानयोग्यं सोमरसरूपममृतम् । अतः शुक्रं शुद्धं योयमिन्द्रस्तस्यापीन्द्रियवृद्धिकारणमिदम् । किंच - इदं द्रव्यं मधु पयो मधुरं क्षीररूपमत एवामृतरूपम् ॥)+++
विश्वास-प्रस्तुतिः

सोमे॑न॒ सोमौ॒ व्य॑पिबत् ।
सु॒ता॒सु॒तौ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
दृ॒ष्ट्वा रू॒पे व्याक॑रोत् ।
स॒त्या॒नृ॒ते प्र॒जाप॑तिः ।
अश्र॑द्धा॒मनृ॒तेऽद॑धात् ।
श्र॒द्धाँ स॒त्ये प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।

मूलम्

सोमे॑न॒ सोमौ॒ व्य॑पिबत् ।
सु॒ता॒सु॒तौ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
दृ॒ष्ट्वा रू॒पे व्याक॑रोत् ।
स॒त्या॒नृ॒ते प्र॒जाप॑तिः ।
अश्र॑द्धा॒मनृ॒तेऽद॑धात् ।
श्र॒द्धाँ स॒त्ये प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।

सायण-टीका

4अथ चतुर्थीमाह - प्रजापतिरेकरूपेण सोमद्रव्येण युक्तो रसात्मकोऽयं सोमोऽभिषुतो वल्लयात्मकोऽयं सोमो नाभिषुत इति विभज्य तत्र रसात्मकमेवापिवत् । अत्र प्रजापतिशब्देन प्रजापालकत्वादिन्द्रो विवक्षितः । तत्र विभागे दृष्टान्त उच्यते - यथा प्रजापतिः सत्यवदनमनृतवदनं चेत्येवं वचनस्य द्वे रूपे विशेषेण सृष्टवान् । ततोऽनृते प्रजानामश्रद्धामविश्वासं स्थापितवान् । सत्यवचने तु स प्रजापतिर्विश्वासं स्थापितवान् । एवमयमिन्द्रोऽप्यभिषुतमेव पिबति ॥

+++(अतोऽयं ऋतेन यज्ञनिष्पादनेन इन्द्रियं इन्द्रियवृद्धिहेतुः तदेतत्सत्यं शपथं करोमीत्यर्थः । )+++

विश्वास-प्रस्तुतिः

दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस॑म् ।
शु॒क्रेण॑ शु॒क्रव्व्यँ॑पिबत् ।
पय॒स्सोम॑म्प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
विपानँ॑ शु॒क्रमन्ध॑सः ।
इन्द्र॑स्येन्द्रि॒यम् ।
इ॒दम्पयो॒ऽमृत॒म्मधु॑ ॥8॥

मूलम्

दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस॑म् ।
शु॒क्रेण॑ शु॒क्रव्व्यँ॑पिबत् ।
पय॒स्सोम॑म्प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ।
विपानँ॑ शु॒क्रमन्ध॑सः ।
इन्द्र॑स्येन्द्रि॒यम् ।
इ॒दम्पयो॒ऽमृत॒म्मधु॑ ॥8॥

सायण-टीका

5अथ पञ्चमीमाह - प्रजानां पालकोऽयमिन्द्रः परिस्रुत आलवालस्य परितः श्रयणं कुर्वतो द्रव्यस्य रसं दृष्ट्वा तत्र शुक्रेण शुद्धेन द्रव्यान्तरेण सहितं शुद्धद्रव्यान्तरं पयः सोमं च विशेषेणापिबत् । ऋतेनेत्यादिकं प्रथममन्त्रवद्व्याख्येयम् ।

  • +++(अतोऽयं ऋतेन यज्ञनिष्पादनेन इन्द्रियं इन्द्रियवृद्धिहेतुः तदेतत्सत्यं शपथं करोमीत्यर्थः । अन्धसोऽन्नरसादपि विपानं विशेषेण पानयोग्यं सोमरसरूपममृतम् । अतः शुक्रं शुद्धं योयमिन्द्रस्तस्यापीन्द्रियवृद्धिकारणमिदम् । किंच - इदं द्रव्यं मधु पयो मधुरं क्षीररूपमत एवामृतरूपम् ॥)+++

तैरेतैः पञ्चभिर्मन्त्रैरुपस्थानं कुर्यात् ॥

इति तैतिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके द्वितीयोऽनुवाकः ॥