०१ ग्रहाः

सौत्रामणिः कौकिली हौत्रं च

(SB) अथ द्वितीयाष्टके षष्ठप्रपाठकारम्भः ॥

विश्वास-प्रस्तुतिः

स्वा॒द्वीन्त्वा॑ स्वा॒दुना॑ ।
ती॒व्रान्ती॒व्रेण॑ ।
अ॒मृता॑म॒मृते॑न ।
मधु॑मती॒म्मधु॑मता ।
सृ॒जामि॒ सँ सोमे॑न ।
सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व ।
सर॑स्वत्यै पच्यस्व ।
इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।
परी॒तो षि॑ञ्चता सु॒तम् ।

मूलम्

स्वा॒द्वीन्त्वा॑ स्वा॒दुना॑ ।
ती॒व्रान्ती॒व्रेण॑ ।
अ॒मृता॑म॒मृते॑न ।
मधु॑मती॒म्मधु॑मता ।
सृ॒जामि॒ सँ सोमे॑न ।
सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व ।
सर॑स्वत्यै पच्यस्व ।
इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।
परी॒तो षि॑ञ्चता सु॒तम् ।

सायण-टीका

यस्य निश्श्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

उपहोमार्थमन्त्राणां पञ्चमे शेष इरितः ।
षष्ठे प्रपाठके सौत्रामणिः कौकिल्युदीर्यते ॥ २ ॥

1तत्र प्रथमानुवाके ग्रहा उच्यन्ते । कल्पः - ‘सुरायास्संधानकाले तोक्मैर्मासरेण नग्नहुना च सुरां संसृज्य’ इति । अङ्कुरिता व्रीहयवस्तोक्माः । ईषत्तप्तानां यवानां चूर्णं द्विविधं सूक्ष्मं स्थूलं च । तत्र सूक्ष्मं चूर्णं दध्ना तक्रेण वा मिश्रितं दर्भैः प्रच्छन्नं मासरमित्युच्यते । स्थूलं चूर्णं तु मन्थेन मिश्रितं दर्भैः प्रच्छन्नं नग्नहुरित्युच्यते । तैस्तोक्ममासरनग्नहुभिः सुरायाः संसर्जनार्थं स्वाद्वीं त्वेति मन्त्रः - हे सुरे! स्वाद्वीं त्वा स्वादुना सोमेन संसृजामि । अत्र सोमशब्देन पूर्वोक्तं तोक्ममासरनग्नहुशब्दाभिधेयद्रव्यत्रयमुपलक्ष्यते । सोमस्यौषधिराजत्वेन तदुपलक्षणं कर्तुं शक्यम् । कीदृशीं त्वां? तीव्रां उग्रगन्धां अमृतां अमृतवदाप्यायनकरीम् । अत एव बलविर्दादीनाप्याययितुं पाययन्ति । मधुमतीं माधुर्येणोपेताम् । कीदृशेन सोमेन? तीव्रेण वमनाद्युपयुक्तौषधित्वेन सोमस्य तीव्रत्वम् । अमृतेन ‘अपाम सोमममृता अभूम’ इति श्रुतेरमृतत्वप्रापकेण । मधुमता माधुर्ययुक्तेन । एवंविधसोमरूपतया भावितैस्तोक्मादिभिर्युक्तत्वात्त्वं सोमोऽसि । तस्माद्देवतात्रयार्थं त्वं पच्यस्व सुत्राम्णे सुष्ठु रक्षकाय ॥

विश्वास-प्रस्तुतिः

सोमो॒ य उ॑त्त॒मँ ह॒विः ॥1॥
द॒ध॒न्वा यो नर्यो॑ अ॒प्स्व॑न्तरा ।
सु॒षाव॒ सोम॒मद्रि॑भिः ।

मूलम्

सोमो॒ य उ॑त्त॒मँ ह॒विः ॥1॥
द॒ध॒न्वा यो नर्यो॑ अ॒प्स्व॑न्तरा ।
सु॒षाव॒ सोम॒मद्रि॑भिः ।

सायण-टीका

2कल्पः - ‘सक्तूनां तृतीयेन परिकीर्य परीतो षिञ्चता सुतमित्येकस्या गोर्दुग्धेन परिषिच्य’ इति । श्यामाकसक्तूंस्त्रेधा वि भज्य तृतीयांशं सुरायामुपरि विकीर्य तदुपरि दुग्धपरिषेचनार्थोऽयं मन्त्रः - यः सोमलतात्मकः तदेवेदमुत्तमं हविः तदत्र सुतमभिषुतं इतः अस्मात्क्षीरात् परितः सिक्तमभूत् । यः सोमः नर्यो नराणां यजमानानां हितस्सन् अप्स्वन्तरा द्रवद्रवेषु मध्ये आ समन्तात् दधन्वा स्वादुत्वं धारयति, तं सोमं अद्रिभिः उपांशुसवनप्रभृतिभिः पाषाणैः सुषाव यजमानोऽभिषुतवान् ॥

विश्वास-प्रस्तुतिः

पु॒नातु॑ ते परि॒स्रुत॑म् ।
सोमँ॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑ ।

वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण ।
प्राङ्क्सोमो॒ अति॑द्रुतः ।
इन्द्र॑स्य॒ युज्य॒स्सखा॑ ।

मूलम्

पु॒नातु॑ ते परि॒स्रुत॑म् ।
सोमँ॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑ ।

वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण ।
प्राङ्क्सोमो॒ अति॑द्रुतः ।
इन्द्र॑स्य॒ युज्य॒स्सखा॑ ।

सायण-टीका

3यदुक्तं सूत्रकारेण - ‘आज्यमुत्पूय पय उत्पुनाति प्राङ्सोमो अतिद्रुत इति सोमवामिनः, प्रत्यङ्सोमो अतिद्रुत इति सोमातिपवितस्य’ इति । तत्र सोमवामिनो मन्त्रमाह - हे इन्द्र! ते त्वदर्थं सूर्यस्य दुहिता पयः पावयन्ती सूर्यस्य संबन्धिनी दुहितृस्थानीया दीप्तिः स्रुतं द्रवीभूतं सोमं सोमत्वेन भावितं पयोद्रव्यं वारेण वालजन्येन पवित्रेण पुनातु शोधयतु । क्रीदृशेन वारेण? शश्वता शाश्वतेन दृढेन तना विस्तीर्णेन तादृशेनानेन पवित्रेण पूतः सोमः पयोरूपो वायुवच्छीघ्रगामी भूत्वा प्राङ् ऊर्ध्वं निर्गतः । कीदृशः सोमः? इन्द्रस्य युज्यो योग्यः सखा। तादृशोऽयं सोमः शुद्धो भवत्वित्यर्थः । यः पूर्वं सोमयागं कृत्वा वान्तिं कृतवांस्तस्येदानीं सौत्रामण्यां पयश्शोधनार्थोऽयं मन्त्रः ॥

विश्वास-प्रस्तुतिः
  • {पु॒नातु॑ ते परि॒स्रुत॑म् ।सोमँ॒ सूर्य॑स्य दुहि॒ता ।
    वारे॑ण॒ शश्व॑ता॒ तना॑ ।}

वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण ।
प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः ॥2॥ इन्द्र॑स्य॒ युज्य॒स्सखा॑ ।

मूलम्
  • {पु॒नातु॑ ते परि॒स्रुत॑म् ।सोमँ॒ सूर्य॑स्य दुहि॒ता ।
    वारे॑ण॒ शश्व॑ता॒ तना॑ ।}

वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण ।
प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः ॥2॥ इन्द्र॑स्य॒ युज्य॒स्सखा॑ ।

सायण-टीका

4यस्य तु पुरा सोमो जीर्णः सोऽयं सोमातिपवितः । यद्वा - यस्य सोमोऽधोद्वारेण निर्गतः सोऽयं सोमातिपवितः तस्य पयश्शोधनार्थं मन्त्रमाह - अत्र ‘पुनातु ते परिस्रुतम्’ इति पूर्वभागोऽनुषज्यते । प्रत्यङ् अतिद्रुतः अधोनिर्गतः । अन्यत्पूर्ववद्य्वाख्येयम् ॥

विश्वास-प्रस्तुतिः

ब्रह्म॑ क्ष॒त्रम्प॑वते॒ तेज॑ इन्द्रि॒यम् ।
सुर॑या॒ सोम॑स्सु॒त आसु॑तो॒ मदा॑य ।
शु॒क्रेण॑ देव दे॒वता॑ᳶ पिपृग्धि ।
रसे॒नान्नय्ँ॒यज॑मानाय धेहि ।

मूलम्

ब्रह्म॑ क्ष॒त्रम्प॑वते॒ तेज॑ इन्द्रि॒यम् ।
सुर॑या॒ सोम॑स्सु॒त आसु॑तो॒ मदा॑य ।
शु॒क्रेण॑ देव दे॒वता॑ᳶ पिपृग्धि ।
रसे॒नान्नय्ँ॒यज॑मानाय धेहि ।

सायण-टीका

5कल्पः - ‘ब्रह्म क्षत्रं पवत इति सुरां प्रतिप्रस्थाता’ इति । पुनातीत्यनुवर्तते । ब्राह्मणजातिः क्षत्रियजातिश्च तेजःकारणमिन्द्रियवृद्धिकारणं चेदं द्रव्यं पवते पुनाति । अनया सुरया सह सोमः सुत उत्पादितः । मदाय देवानां मदार्थं आसुतः सर्वतोऽभिषुतश्च । हे सोमदेव! तव शुक्रेण निर्मलेन रसेन देवताः पिपृग्धि संपृक्ताः कुरु । यजमानाय चान्नं संपादय ॥

विश्वास-प्रस्तुतिः

कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चित् ।
यथा॒ दान्त्य॑नुपू॒र्वव्ँवि॒यूय॑ ।
इ॒हेहै॑षाङ्कृणुत॒ भोज॑नानि ।
ये ब॒र्हिषो॒ नमो॑वृक्ति॒न्न ज॒ग्मुः ।

मूलम्

कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चित् ।
यथा॒ दान्त्य॑नुपू॒र्वव्ँवि॒यूय॑ ।
इ॒हेहै॑षाङ्कृणुत॒ भोज॑नानि ।
ये ब॒र्हिषो॒ नमो॑वृक्ति॒न्न ज॒ग्मुः ।

सायण-टीका

6कल्पः - “अध्वर्युः पयोग्रहान्गृह्णाति कुविदङ्गेति सर्वेषामेका पुरोरुक्, एका पुरोनुवाक्या, एकः प्रैषः, एका याज्या, ‘उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्नामि’ इति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्य ‘एष ते योनिस्तेजसे त्वा’ इति सादयित्वा ‘उपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्नामि’ इति गृहीत्वा गोधूमसक्तुभिः श्रीत्वा पवित्रेण परिमृज्य ‘एष ते योनिर्वीर्याय त्वा’ इति सादयित्वा ‘उपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामि’ इति गृहीत्वोपवाकसक्तुभिः श्रीत्वा पवित्रेण परिमृज्य ‘एष ते योनिर्बलाय त्वा’ इति सादयित्वा” इति । तत्र पुरोरुचमाह - अङ्गशब्दः प्रियसंबोधनवाचकः । हे प्रियाः! अश्विसरस्वतिसुत्रामेन्द्राः! ये यज्वानो बर्हिषो यागस्य नमोवृक्तिं नमस्कारविनाशनं न जग्मुः न प्रापुः । किंतु अत्यन्तश्रद्धालवोऽनुतिष्ठन्ति तेषामेषा यजतां हविर्विषयाणि भोजनानि इहेह कृणुत । ग्रहणपात्राणामनेकत्वाद्वीप्सा । तत्रोपमानमुच्यते - कुविच्छब्दो बह्वर्थवाची । चिच्छब्दस्समुच्चये । यथा लोके यवमन्तो यवादिधान्योपेताः कृषिकाः कुवित् यवं चित् बहुलं यवं अन्यानि च गोधूमप्रियङ्ग्वादिधान्यानि अनुपूर्वं तत्तत्परिपाकानुक्रमेण वियूय विधूम विशेषेण इदं पक्वमिदमपक्वमिति पृथक्कृत्य दान्ति लुनन्ति तथा यूयमपि नमस्कारादिरहितो नास्तिकोऽयं यज्वा श्रद्धालुरयं यज्वेति विविच्य श्रद्धालोर्हवींषि भुङ्ग्ध्वम् ॥

मूलम्

उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्या॑न्त्वा॒ जुष्ट॑ङ्गृह्णामि ॥3॥
सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ ।

विश्वास-प्रस्तुतिः

उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्या॑न्त्वा॒ जुष्ट॑ङ्गृह्णामि॒ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ ।

मूलम्

उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्या॑न्त्वा॒ जुष्ट॑ङ्गृह्णामि॒ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ ।

सायण-टीका

7-9अथ ग्रहणमन्त्रानाह - उपयामशब्दः पृथिवीकार्यदारुपात्रवाची । ‘इयं वा उपयामः’ इति श्रुतेः । पयोरूपद्रव्यविशेष! त्वमुपयामेन गृहीतोऽसि अश्विदेवार्थं त्वामिह पात्रे गृह्णामि । सरस्वतीमन्त्रे पूर्वोत्तरभागावनुषञ्जनीयौ । तथा सुत्राममन्त्रेऽपि ॥

मूलम्

ए॒ष ते॒ योनि॒स्तेज॑से त्वा ।
वी॒र्या॑य त्वा॒ बला॑य त्वा ।

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॑य त्वा॒ बला॑य त्वा ।

मूलम्

ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॑य त्वा॒ बला॑य त्वा ।

सायण-टीका

10-12अथ सादनमन्त्रानाह - हे आश्विनग्रह! एष खरप्रदेशः ते तव स्थानम् । अस्मिन् स्थाने तेजस्सिद्ध्यर्थं त्वां सादयामीति शेषः । वीर्यबलमन्त्रयोरप्येष ते योनिरित्यनुवर्तते । हे सारस्वतग्रह! वीर्यवृद्धये त्वामिह सादयामि । हे सुत्रामग्रह! ब्लवृद्धये त्वामिह सादयामि ॥

विश्वास-प्रस्तुतिः

तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
वी॒र्य॑मसि वी॒र्य॑म्मयि॑ धेहि ।
बल॑मसि॒ बल॒म्मयि॑ धेहि ।

मूलम्

तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
वी॒र्य॑मसि वी॒र्य॑म्मयि॑ धेहि ।
बल॑मसि॒ बल॒म्मयि॑ धेहि ।

सायण-टीका

13-15कल्पः - ‘उत्तरैर्यथालिङ्गमुपतिष्ठते’ इति । ग्रहत्रयं क्रमेण संबोध्य योजनीयम् ॥

विश्वास-प्रस्तुतिः

नाना॒ हि वा॑न्दे॒वहि॑तँ॒ सद॑ᳵ कृ॒तम् ।
मा सँसृ॑क्षाथाम्पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः ।
मा मा॑ हिँसी॒स्स्वाय्ँयोनि॑मावि॒शन्न् ॥4॥

मूलम्

नाना॒ हि वा॑न्दे॒वहि॑तँ॒ सद॑ᳵ कृ॒तम् ।
मा सँसृ॑क्षाथाम्पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः ।
मा मा॑ हिँसी॒स्स्वाय्ँयोनि॑मावि॒शन्न् ॥4॥

सायण-टीका

16कल्पः - “सुरायां वाल आनीयमानायां धारायाः प्रतिप्रस्थाता सुराग्रहान्गृह्णाति ‘नाना हि वां देवहितं सदः कृतम्’ इति सर्वेषामेका पुरोरुगेका पुरोनुवाक्यैकः प्रैष एका याज्योपयामगृहीतोऽस्याश्विनं तेजोऽश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्मोदाय त्वेति सादयत्युपयामगृहीतोऽसि सारस्वतं वीर्यं सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिरानन्दाय त्वेति सादयत्युपयामगृहीतोऽस्यैन्द्रं बलमिन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्महसे त्वेति सादयति” इति । तत्र पुरोरुचमाह - हे सुरे! हे सोम! वां युवायोः नाना पृथग्भूतं सदः स्थानं देवेभ्यो हितं कृतं संपादितं तस्मात्तौ युवां मा संसृक्षाथां परमे व्योमन् उत्कृष्टे मदीयरक्षणे निमित्तभूते सति परस्परसंसृष्टौ मा भूतम् । हे गृह्यमाणद्रव्यविशेष! त्वं शुष्मिणी बलवती सुराऽसि । एष तु सोमः शान्तात्मा ततश्च युवयोः संसर्गो न युज्यते । हे सोम! स्वां योनिं मृदूदररूपं स्वस्थानमाविशन् मां सोमस्य पातारं मा हिंसीः ॥

मूलम्

उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नन्तेजः॑ ।
सा॒र॒स्व॒तव्ँवी॒र्य॑म् ।
ऐ॒न्द्रम्बल॑म् ।

विश्वास-प्रस्तुतिः

उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नन्तेज॑स् सारस्व॒तव्ँवी॒र्य॑म् ऐ॒न्द्रम्बल॑म् ।

मूलम्

उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नन्तेज॑स् सारस्व॒तव्ँवी॒र्य॑म् ऐ॒न्द्रम्बल॑म् ।

सायण-टीका

17-19अथ ग्रहणमन्त्रानाह - हे द्रव्यविशेष! त्वदीयरक्षणे निमित्तभूते सति परस्परसंसृष्टौ मा भूतम् । हे गृह्यमाणद्रव्य! उपयामेन गृहीतोऽसि । तदिदं तव स्वरूपमश्विसंबन्धि तेजः । अतोऽश्विम्यां त्वा जुष्टं गृह्णामीति शेषः । एवं सारस्वतमन्त्रः ऐन्द्रमन्त्रश्च सूत्रोक्तक्रमेणानुषङ्गशेषपूरणाभ्यां योजनीयः ॥

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनि॒र्मोदा॑य त्वा ।
आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा ।
ओजो॒ऽस्योजो॒ मयि॑ धेहि ।

मूलम्

ए॒ष ते॒ योनि॒र्मोदा॑य त्वा ।
आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा ।
ओजो॒ऽस्योजो॒ मयि॑ धेहि ।

सायण-टीका

20-22अथ सादनमन्त्रानाह - सूत्रोक्तक्रमेण ग्रहत्रयं सादने योजनीयम् ॥

विश्वास-प्रस्तुतिः

म॒न्युर॑सि म॒न्युम्मयि॑ धेहि ।
महो॑ऽसि॒ महो॒ मयि॑ धेहि ।
सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ।

मूलम्

म॒न्युर॑सि म॒न्युम्मयि॑ धेहि ।
महो॑ऽसि॒ महो॒ मयि॑ धेहि ।
सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ।

सायण-टीका

23-26कल्पः - षण्णामनुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते, उत्तरेण चानुवाकेन’ इति । तत्रानुवाकशेषे चत्वारि यजूंष्याह - ओजो बलं, मन्युर्दीप्तिः, महः पूजा, सहोऽभिभवितृत्वम् । हे द्रव्यविशेष! त्वमुक्तैर्गुणैर्युक्तोसि अतो मय्यपि तान्गुणान् संपादय ॥

विश्वास-प्रस्तुतिः

या व्या॒घ्रव्ँविषू॑चिका ।
उ॒भौ वृक॑ञ्च॒ रक्ष॑ति ।
श्ये॒नम्प॑त॒त्रिणँ॑ सिँ॒हम् ।
सेमम्पा॒त्वँह॑सः ।

मूलम्

या व्या॒घ्रव्ँविषू॑चिका ।
उ॒भौ वृक॑ञ्च॒ रक्ष॑ति ।
श्ये॒नम्प॑त॒त्रिणँ॑ सिँ॒हम् ।
सेमम्पा॒त्वँह॑सः ।

सायण-टीका

27अथैकामृचमाह - मुक्तान्नजरणविरोधिव्याधिविशेषा विषूचिका । तादृशी या व्याघ्रं वृकं चोभौ रक्षति । वृकोऽरण्यश्वा । व्याघ्रवृकयोर्दीपनपाटवात्कदाचिदप्यजरणदोषो नास्ति । तथा सा विषूचिका श्येनाख्यं पक्षिणं सिंहं च रक्षति । तयोरपि नास्ति सा व्याधिः । सा व्याघ्रादिरक्षिका विषूचिका इमं यजमानं अंहसः पापफलाद्व्याधेः पातु ॥

विश्वास-प्रस्तुतिः

स॒म्पृच॑स्स्थ॒ सम्मा॑ भ॒द्रेण॑ पृङ्क्त ।
वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ॥5॥

मूलम्

स॒म्पृच॑स्स्थ॒ सम्मा॑ भ॒द्रेण॑ पृङ्क्त ।
वि॒पृच॑स्स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ॥5॥

सायण-टीका

28-29अथ यजुर्द्वयमाह - हे इन्द्रपात्रस्थद्रव्यविशेषाः! यूयं द्रवत्वेन स्वभावतः संपर्कशीलाः स्थ, अतो मां भद्रेण श्रेयसा संयोजयत । इह तु पृथक्पात्रे धृतत्वाद्विपृचो वियुक्तरूपाः स्थ । अतो मां पाप्मना विष्टङ्क वियोज्यत ॥

अत्र विनियोगसंग्रहः - स्वाद्वीं तोक्मादिभिर्योज्यं सुरा क्षीरं पुनेत्यतः ।
ऋचां त्रयादुत्पुनीयात्सुरां ब्रह्मेति शोधयेत् ॥ १ ॥

कुवित्पुरोरुचं ब्रूयादुपयामादिभिस्त्रिभिः ।
पयः पात्रत्रये ग्राह्यमेषा सादयते त्रिभिः ॥ २ ॥

तेजस्त्रिभिरुपस्थेयं नानेत्येतां पुरोरुचम् ।
सुराग्रहे पठेन्मन्त्रैरुपयामादिभिस्त्रिभिः ॥ ३ ॥

सुरां गृह्णात्यथैषाद्यैर्मन्त्रैस्संसादयेत्त्रिभिः ।
ओजोऽसीत्यादिभिः सप्तमन्त्रैस्तानुपतिष्ठते ।
प्रथमे ह्यनुवाकेऽस्मिन्नेकोनत्रिंशदीरिताः ॥४ ॥

इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके प्रथमोऽनुवाकः ॥