इन्द्रस्तुतिः
01 स ईम्पाहि ...{Loading}...
स ई॑म् पाहि॒ य ऋ॑जी॒षी+++(=निष्पीडीत-रस-सोम-वल्लि-मान्)+++ तरु॑त्रः+++(=तारकः)+++ ।
यश् शिप्र॑+++(=हनु)+++-वान् वृष॒भो+++(=वर्षको)+++ यो म॑ती॒नाम् ।
यो गो॑त्र॒भिद् व॑ज्र॒भृद् यो ह॑रि॒+++(=अश्व)+++-ष्ठाः ।
स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒+++(=नाशय)+++ +++(शत्रु)+++वाजा॑न्+++(=अन्नानि)+++ ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
स ई॑म्पाहि॒ य ऋ॑जी॒षी तरु॑त्रः ।
यश्शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् ।
यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः ।
स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ।
विश्वास-टिप्पनी
अयं मन्त्रो माध्यंदिनसवने प्रस्थितयाज्यास्व् अन्तर्भावनीयः ॥
सायणटीका
(SB) 1अष्टमेऽनुवाके प्रथमामृचमाह - हे इन्द्र! यस्त्वमृजीषी ॥ निष्पीडितरसः सोमवल्लीभाग ऋजीषम्, तद्वानृजीषी ॥ अत एव ब्राह्मणमाम्नायते - ‘तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति’ इति ॥ तरुत्रः दुःखेभ्यस्तारकः तादृशः स त्वं ईं पाहि इमं सवनं पालय ॥ यस्त्वं शिप्रवान् शोभनहनुयुक्तः यश्च त्वं मतीनामस्मद्बुद्धीनां वृषभो वर्षयिता सन्मार्गबुद्धिप्रद इत्यर्थः ॥ यश्च त्वं गोत्रभित् पर्वतानां भेत्ता वज्रभृत् वज्रस्य धारकः यश्च हरिष्ठाः हरिनामकयोरश्वयोः स्थाता ॥ हे इन्द्र! स त्वं चित्रान्वाजान् विचित्राणि शत्रूणामन्नानि अभितृन्धि अभितो विनाशय ॥ अयं मन्त्रो माध्यंदिनसवने प्रस्थितयाज्यास्वन्तर्भावनीयः ॥॥
+++(अयं मन्त्रो माध्यंदिनसवने प्रस्थितयाज्यास्व् अन्तर्भावनीयः ॥)+++
02 आ ते ...{Loading}...
आ ते॒ शुष्मो॑+++(=बलम्)+++ वृष॒भ ए॑तु प॒श्चात् ।
ओत्त॒राद्+++(तः)+++ अ॑ध॒राग्+++(तः)+++ आ पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भि-समे॑त्व् अ॒र्वाङ् ।
इन्द्र॑ द्यु॒म्नँ+++(=धनं)+++ सुव॑र्वद् धेह्य् अ॒स्मे ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् ।
ओत्त॒राद॑ध॒रागा पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भिसमे॑त्व॒र्वाङ् ।
इन्द्र॑ द्यु॒म्नँ सुव॑र्वद्धेह्य॒स्मे ।
सायणटीका
2द्वितीयामाह - हे इन्द्र! वृषभ! श्रेष्ठ! ते तव शुष्मः बलं पश्चात् अस्मत्तः पश्चिमभागे आ एतु आगच्छतु ॥ तथैवोत्तरात् उत्तरभागेऽप्यागच्छतु ॥ अधराक् अधरभागेऽप्यागच्चछतु ॥ पुरस्तात् पूर्वभागेऽप्यागच्छतु ॥ विश्वतः सर्वेषु प्रदेशेषु अभि अस्मानभिलक्ष्य अर्वाङ् समीपवर्ति आसमेतु सम्यगागच्छतु ॥ हे इन्द्र! सुवर्वत् स्वर्गयुक्तं द्युम्नं धनं अस्मे धेहि अस्मासु संपादय ॥॥
03 प्रोष्वस्मै पुरोरथम् ...{Loading}...
प्रोष्व्+++(=प्रसुष्ठु)+++ अ॑स्मै पुरो-र॒थम् +++(यथा तथा)+++ ।
इन्द्रा॑य शू॒षम्+++(=बलं [यथा तथा])+++ अ॑र्चत ॥34॥
अ॒भीके॑ +++(वैरिणि)+++ चिद् उ लोक॒कृत् ।
+++(वैरिभिः)+++ स॒ङ्गे स॒मत्सु॑+++(=सङ्ग्रामेषु)+++ वृत्र॒हा ।
अ॒स्माक॑म् बोधि+++(=बुध्यतां)+++ चोदि॒ता ।
नभ॑न्ताम्+++(=हिंसन्ताम्)+++ अन्य॒केषा॑म् ।
ज्या॒का+++(=कु-ज्या)+++ अधि॒ धन्व॑सु ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
प्रोष्व॑स्मै पुरोर॒थम् ।
इन्द्रा॑य शू॒षम॑र्चत ॥34॥
अ॒भीके॑ चिदु लोक॒कृत् ।
स॒ङ्गे स॒मत्सु॑ वृत्र॒हा ।
अ॒स्माक॑म्बोधि चोदि॒ता ।
नभ॑न्तामन्य॒केषा॑म् ।
ज्या॒का अधि॒ धन्व॑सु ।
सायणटीका
3तृतीयामाह - अस्मा इन्द्राय अस्येन्द्रस्य पुरोरथं रथस्य पुरोभागे शूषं बलं प्रोष्वर्चत प्रकर्षेण सुष्ठु पूजयत ॥ कथं बलस्य पूजेत्युच्यते - अयमिन्द्रः वृत्रहा वैरिघाती समत्सु सङ्ग्रामेषु सङ्गे योद्धृभिर्वैरिभटैः सङ्गे सति संयोगे सति अभीकेचित् हन्तुं कामयमानेऽपि वैरिणि लोककृत् स्थितिं करोत्येव न तु पलायते ॥ इत्थं बलस्य पूजा ॥ तथा पूजित इन्द्रोऽस्माकं इतरव्यावृत्तये चोदिता प्रेरयिता सन् बोधि बुध्यतां सावधानो भवतु ॥ अन्यकेषां कुत्सितानां वैरिणां धन्वसु अधिश्रित्य वर्तमाना ज्याकाः कुत्सितज्या नभन्तां हिंसन्तां त्रुट्यन्त्वित्यर्थः ॥ एतच्चोभयं कस्मिंश्चिदैन्द्रे कर्मणि विनियोज्यम् ॥॥
04 इन्द्रव्ँवयं शुनासीरम् ...{Loading}...
इन्द्रव्ँ॑ व॒यँ शु॑ना॒-सीर॑म्+++(=वायु-सूर्य-सहितम् / सतीक्ष्ण-हलम्)+++ ।
अ॒स्मिन् य॒ज्ञे ह॑वामहे ।
आ वाजै॒र्+++(=अन्नैः [सह])+++ उप॑ नो गमत् ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
इन्द्रव्ँ॑व॒यँ शु॑ना॒सीर॑म् ।
अ॒स्मिन् य॒ज्ञे ह॑वामहे ।
आ वाजै॒रुप॑ नो गमत् ।
सायणटीका
4चतुर्थीमाह - शुनः वायुः सीर आदित्यः ताभ्यां युक्तमिन्द्रमस्मिन्यज्ञे वयमाह्वयामः ॥ स चेन्द्रः वाजैरन्नैस्सह नोऽस्मान्प्रति उपागमत् उपागच्छतु ॥॥
05 इन्द्राय शुनासीराय ...{Loading}...
इन्द्रा॑य॒ शुना॒-सीरा॑य+++(= सतीक्ष्ण-हलाय)+++ ।
स्रु॒चा जु॑हुत नो ह॒विः ॥35॥
जु॒षता॒म् प्रति॒ मेधि॑रः+++(=मेधावी)+++ ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
इन्द्रा॑य॒ शुना॒सीरा॑य ।
स्रु॒चा जु॑हुत नो ह॒विः ॥35॥
जु॒षता॒म्प्रति॒ मेधि॑रः ।
प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै ।
सायणटीका
5पञ्चमीमाह - शुनासीराय वाय्वादित्ययुक्तायेन्द्राय स्रुचा जुह्वानोऽस्मदीयं हविः हे ऋत्विजः! जुहुत ॥ मेधिरः मेधावानिन्द्रः प्रतिजुषतां प्रातिस्विकं तद्धविः सेवताम् ॥॥
06 हर्यश्वाय भरता ...{Loading}...
प्र ह॒व्यानि॑ घृ॒तव॑न्त्य् अस्मै ।
हर्य्-अ॑श्वाय भरता स॒जोषाः॑ ।
इन्द्र॒ऽर्तुभि॒र् ब्रह्म॑णा वावृधा॒नः ।
शु॒ना॒सी॒री+++(= सतीक्ष्ण-हलः)+++ ह॒विर् इ॒दञ् जु॑षस्व ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
हर्य॑श्वाय भरता स॒जोषाः॑ ।
इन्द्र॒र्तुभि॒र्ब्रह्म॑णा वावृधा॒नः ।
शु॒ना॒सी॒री ह॒विरि॒दञ्जु॑षस्व ।
सायणटीका
6षष्ठीमाह - हर्यश्वाय हरितनामकाभ्यामश्वाभ्यां युक्ताय अस्मा इन्द्राय घृतवन्ति हव्यानि हे ऋत्वियः! प्रभरत प्रकर्षेण संपादयत ॥ हे इन्द्र! त्वं सजोषाः वसन्ताद्यृतुदेवताभिः समानप्रीतिस्सन् ब्रह्मणा मन्त्रेण वावृधानः वर्धमानः शुनासीरी वाय्वादित्ययुक्तः इदं हविर्जुषस्व ॥ अत्रापस्तम्वः - ‘इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालम्’ इत्यस्मिन्कर्मणि मन्त्रद्वयं विनियुक्तवान् ‘इन्द्राय शुनासीराय’ इत्यारभ्य ‘हविरिदं जुषस्वेति याज्यानुवाक्ये’ इत्यन्तेन वाक्येन ॥ यस्त्वेताभ्यां पूर्वो मन्त्रः ‘इन्द्रं वयम्’ इत्यादिः सोऽयं पुरोनुवाक्यया विकल्प्यते ॥॥
07 वयस्सुपर्णा ...{Loading}...
वय॑स् सुप॒र्णा उप॑सेदु॒र् इन्द्र॑म् ।
प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः+++(=नाथमानाः)+++ ।
अप॑ ध्वा॒न्तम् ऊ॑र्णु॒हि+++(=सारय)+++ पू॒र्धि+++(=पूरय)+++ चक्षुः॑ ।
मु॒मु॒ग्ध्य्+++(=मोचय)+++ अ॑स्मान् नि॒धये॑ऽव ब॒द्धान् ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्र॑म् ।
प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षुः॑ ।
मु॒मु॒ग्ध्य॑स्मान्नि॒धये॑ऽव ब॒द्धान् ।
सायणटीका
7सप्तमीमाह - केचिदृषयः इन्द्रमुपसेदुः कार्यप्राप्त्यर्थमुपासते ॥ कीदृशा ऋषयः? अवयः पक्षिमूर्तिधारिणः अत एव सुपर्णाः शोभनपक्षोपेताः ॥ प्रियमेधाः - अधीतस्य ग्रन्थस्य धारणशक्तिर्मेधा तस्यां प्रीतियुक्ताः नाधमानाः किंचित्कार्यं याचमानाः ॥ स एव याच्ञाप्रकारः स्पष्टीक्रियते - हे इन्द्र! ध्वान्तं अज्ञानलक्षणमन्धकारं अपोर्णुहि अपसारय ॥ चक्षुः ज्ञानलक्षणां दृष्टिं पूर्धि पूरय ॥ निधयेव शृङ्खलयेव अज्ञानेन बद्धानस्मान् मुमुग्धि तस्मादज्ञानबन्धान्मोचय ॥ अस्य मन्त्रस्य सोमक्रयादूर्ध्वमंसाच्छादकवस्त्रापनयने विनियोगमापस्तम्ब आह - “अत्र यजमानोऽपोर्णुते ‘वयस्सुपर्णाः’ इति” ॥॥
08 बृहदिन्द्राय गायत ...{Loading}...
बृ॒हद् +++(साम)+++ इन्द्रा॑य गायत ॥36॥
मरु॑तो वृत्र॒हन्त॑मम् ।
येन॒ ज्योति॒र् अज॑नयन्न् ऋता॒वृधः॑+++(=यज्ञवर्धकाः)+++ ।
दे॒वन् दे॒वाय॒ जागृ॑वि +++(ज्योतिः)+++।
+++(ऋत्विजो हि पृष्ठस्तोत्रे बृहत्साम गायन्ति ॥ अस्य च मन्त्रस्य क्वचित्सोमविकृतौ विनियोगो द्रष्टव्यः ॥)+++
सर्वाष्टीकाः ...{Loading}...
मूलम्
बृ॒हदिन्द्रा॑य गायत ॥36॥
मरु॑तो वृत्र॒हन्त॑मम् ।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधः॑ ।
दे॒वन्दे॒वाय॒ जागृ॑वि ।
सायणटीका
8अष्टमीमाह - हे मरुतः! वृत्रहन्तमं अतिशयेन वैरिवधकारि बृहत् साम इन्द्राय इन्द्रार्थं गायत ॥ ऋतावृधः यज्ञवर्धकाः ऋत्विजः देवाय इन्द्रार्थं देवं दीप्यमानं जागृवि जागरणस्याप्रमत्तत्वस्य साधनं ज्योतिः ज्ञानरूपं प्रकाशं येन बृहत्साम्नाऽजनयन् उत्पादितवन्तः ॥ तेन बृहता साम्ना गायतेत्यन्वयः ॥ ऋत्विजो हि पृष्ठस्तोत्रे बृहत्साम गायन्ति ॥ अस्य च मन्त्रस्य क्वचित्सोमविकृतौ विनियोगो द्रष्टव्यः ॥॥
प्रकीर्णम्
09 कामिहैकाᳵ क ...{Loading}...
का मि॒हैका॒ᳵ+++(=नीहाराः →तिमिरः)+++ क इ॒मे प॑त॒ङ्गाः +++(केशोण्ड्रकानि)+++ ।
मा॒न्था॒लाᳵ+++(=मन्थनोद्भवा)+++ कुलि॒ परि॑ मा पतन्ति ।
अना॑वृतैना॒न् प्रध॑मन्तु दे॒वाः ।
सौप॑र्ण॒ञ् चक्षु॑स् त॒नुवा॑ विदेय ।+++(4)+++
सर्वाष्टीकाः ...{Loading}...
मूलम्
कामि॒हैका॒ᳵ क इ॒मे प॑त॒ङ्गाः ।
मा॒न्था॒लाᳵ कुलि॒परि॑मापतन्ति ।
अना॑वृतैना॒न्प्रध॑मन्तु दे॒वाः ।
सौप॑र्ण॒ञ्चक्षु॑स्त॒नुवा॑ विदेय ।
सायणटीका
9नवमीमाह - मिहिकाशब्दो नीहारवाचकस्सन् दृष्टेरावरकं रोगविशेषमुपलक्षयति ॥ मिहिका एव मिहैकाः ॥ पतङ्गशब्दः शलभ वाची सन् नेत्ररश्मिजन्यानि केशोण्ड्रकान्याकाशे भासमानान्युपलक्षयति ॥ तानि चौष्ण्यरोगे सति बहूनि भासन्ते ॥ तदुभयं किंशब्दाभ्यामाक्षिप्यते ॥ काः मिहैकाः? इमे पतङ्गाश्च के? ॥ तदुभयोपद्रवो मम नास्तीत्यर्थः ॥ मन्थशब्देन दधिमन्थनमुच्यते ॥ तत्संबन्धिनस्तक्रबिन्दवो मान्थाः तद्वदालान्ति आगच्छन्तीति मान्थालाः केशोण्ड्रकविशेषाः ॥ कुलं समूहः तद्रूपतामापन्नाः कुलिशब्देनोच्यन्ते ॥ ते च संघशो मा मां परिपतन्ति ॥ देवाः अनावृता केशोण्ड्रादिकृतनेत्रावरणापगमेन एनान् केशोण्ड्रादिकान् रोगदोषान् प्रधमन्तु प्रकर्षेण मुखोत्थितवायुमात्रेण विनाशयन्तु ॥ ततोऽहं तनुवा सहितः सौपर्णं चक्षुर्विदेय ॥ सुपर्णः पक्षी यथा दूरस्थं पश्यति तथा दूरदशर्नक्षमं चक्षुष्पाटवं लभेयम् ॥ सोऽयं मन्त्रो नेत्ररोगपरिहाराय प्रयोक्तव्यः ॥॥
०२ एवा वन्दस्व ...{Loading}...
एव᳓+आ᳓ वन्दस्व व᳓रुणम् बृह᳓न्तम् ।
नमस्य᳓+ आ᳓ धी᳓रम् अमृ᳓तस्य गोपा᳓म् ।
स᳓ नश् श᳓र्म त्रि-व᳓रूथव्ँ+++(=वर्म)+++ वि᳓यँसत्+++(=वियमयतु)+++ ॥37॥
यूय᳓म् पात स्वस्ति᳓भिस् स᳓दा नः ।
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - नाभाकः काण्वः अर्चनाना वा
- छन्दः - त्रिष्टुप्
Thomson & Solcum
एवा᳓ वन्दस्व व᳓रुणम् बृह᳓न्तं
नमस्या᳓ धी᳓रम् अमृ᳓तस्य गोपा᳓म्
स᳓ नः श᳓र्म त्रिव᳓रूथं वि᳓ यंसत्
पातं᳓ नो द्यावापृथिवी उप᳓स्थे
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
br̥hántam ← br̥hánt- (nominal stem)
{case:ACC, gender:M, number:SG}
evá ← evá (invariable)
vandasva ← √vandⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}
váruṇam ← váruṇa- (nominal stem)
{case:ACC, gender:M, number:SG}
amŕ̥tasya ← amŕ̥ta- (nominal stem)
{case:GEN, gender:N, number:SG}
dhī́ram ← dhī́ra- (nominal stem)
{case:NOM, gender:M, number:SG}
gopā́m ← gopā́- (nominal stem)
{case:ACC, gender:M, number:SG}
namasyá ← √namasy- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
śárma ← śárman- (nominal stem)
{case:ACC, gender:N, number:SG}
trivárūtham ← trivárūtha- (nominal stem)
{case:NOM, gender:N, number:SG}
ví ← ví (invariable)
yaṁsat ← √yam- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
dyāvāpr̥thivī ← dyā́vāpr̥thivī́- (nominal stem)
{case:VOC, gender:F, number:DU}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pātám ← √pā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
upásthe ← upástha- (nominal stem)
{case:LOC, gender:M, number:SG}
पद-पाठः
ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् ।
सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । पा॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥
Hellwig Grammar
- evā ← eva
- [adverb]
- “indeed; merely; thus; even; surely; same; eva [word]; successively; immediately; in truth.”
- vandasva ← vand
- [verb], singular, Present imperative
- “worship; laud.”
- varuṇam ← varuṇa
- [noun], accusative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- bṛhantaṃ ← bṛhantam ← bṛhat
- [noun], accusative, singular, masculine
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- namasyā ← namasya ← namasy
- [verb], singular, Present imperative
- “worship; respect.”
- dhīram ← dhīra
- [noun], accusative, singular, masculine
- “expert; wise; intelligent; versed; adept.”
- amṛtasya ← amṛta
- [noun], genitive, singular, neuter
- “amṛta; immortality; vatsanābha; ambrosia; mercury; medicine; vighasa; calcium hydroxide.”
- gopām ← gopā
- [noun], accusative, singular, masculine
- “herder; defender.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- śarma ← śarman
- [noun], accusative, singular, neuter
- “protection; protective covering; refuge; joy.”
- trivarūthaṃ ← tri
- [noun]
- “three; tri/tisṛ [word].”
- trivarūthaṃ ← varūtham ← varūtha
- [noun], accusative, singular, neuter
- “defense; protective covering.”
- vi
- [adverb]
- “apart; away; away.”
- yaṃsat ← yam
- [verb], singular, Aorist conj./subj.
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- pātaṃ ← pātam ← pā
- [verb], dual, Present imperative
- “protect; govern.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- dyāvāpṛthivī
- [noun], vocative, dual, feminine
- “heaven and earth; dyāvāpṛthivī [word].”
- upasthe ← upastha
- [noun], locative, singular, neuter
- “genitalia; lap; sexual desire; anus.”
सायण-भाष्यम्
हे स्तोतः बृहन्तं महान्तं वरुणम् एव एवं वन्दस्व स्तुहि । अमृतस्य गोपां गोपायितारं धीरं प्राज्ञं वरुणं नमस्य नमस्कुरु च । सः वरुणः नः अस्मभ्यं त्रिवरूथं त्रिस्थानं शर्म गृहं वि यंसत् प्रयच्छतु । उपस्थे उपस्थाने वर्तमानान् नः अस्मान् द्यावापृथिवी द्यावापृथिव्यौ पातं रक्षतम् ॥
Wilson
English translation:
“Glorify then the mighty Varuṇa; reverence the wise guardian of the ambrosia; may he bestow upon usa thrice sheltering habitation; may heaven and earth preserve us abiding in their proximity.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Thrice-shelteringhabitation: trivarūtha (RV. 6.46.9) = sheltering from cold, heat and rain; here, tristhānam
Jamison Brereton
Extol lofty Varuṇa thus: offer reverence to the insightful herdsman of the immortal.
He will extend to us shelter providing threefold defense. Protect us in your lap, o Heaven and Earth.
Griffith
So humbly worship Varuna the Mighty revere the wise Guard of World Immortal.
May he vouchsafe us triply-barred protection. O Earth and Heaven, within your lap preserve us.
Geldner
So lobpreiset denn den hohen Varuna, mache dem weisen Hüter der Unsterblichkeit eine Verbeugung! Er breite über uns seinen dreifach schützenden Schirm aus. Behütet uns, Himmel und Erde, in eurem Schoße!
Grassmann
So preise hoch nun Varuna, den grossen, bet’ an den weisen Hort des Götterreiches, Er reiche Schutz, der dreifach uns beschirmet; o Erd’ und Himmel hegt in eurem Schooss uns.
Elizarenkova
Прославляй так Варуну могучего,
Поклоняйся мудрому пастырю бессмертия!
Пусть дарует он нам защиту с тройным укрытием!
Сохраните нас, о Небо и Земля, в (своем) лоне!
अधिमन्त्रम् (VC)
- वरुणः
- नाभाकः काण्वः
- त्रिष्टुप्
- धैवतः
शिव शंकर शर्मा - पदार्थः
पदार्थान्वयभाषाः - (अधिक्षितः) सर्वोपरि निवास करते हुए और सबके ऊपर अधिकार रखते हुए (यस्य) जिस परमदेव के (श्वेता) श्वेत और दिव्य (विचक्षणा) तेज (तिस्रः+भूमीः) तीनों भूमियों में और (उत्तराणि) अत्युत्तम (त्रिः) तीनों भुवनों में (पप्रतुः) पूर्ण हैं और जिस वरुण का (सदः) यह जगद्रूप भवन (ध्रुवम्) निश्चल और अविनश्वर है। (सः) वही देव (सप्तानाम्) सर्पणशील जङ्गम और स्थावर पदार्थमात्र का (इरज्यति) स्वामी है, अतः हे मनुष्यों ! उसी की पूजा करो ॥९॥
शिव शंकर शर्मा - भावार्थः
भावार्थभाषाः - इस ऋचा द्वारा परमात्मा की महती शक्ति दिखलाते हैं। जीवात्मा की दृष्टि में ये तीन लोक हैं, परन्तु लोक-लोकान्तर की कोई संख्या नहीं है। आनन्तर यह सृष्टि है। परमात्मा उनसे भी ऊपर रहता हुआ सबमें है, यह इसकी आश्चर्य्यलीला है। हे मनुष्यों ! विचारदृष्टि से इसकी विभूतियाँ देखो और तुम क्या हो, सो भी विचारो ॥९॥
शिव शंकर शर्मा - पदार्थः
पदार्थान्वयभाषाः - अधिक्षितः=सर्वोपरि निवसतः सर्वं च शासतश्च। यस्य वरुणस्य। श्वेता=श्वेतानि=श्वेतवर्णदिव्यानि। विचक्षणाः= तेजांसि। तिस्रो भूमीः। पुनः। उत्तराणि=उ=वराणि= उत्तमानि। त्रिः=त्रीणि भुवनानि। पप्रतुः=प्रथयन्ति= व्याप्नुवन्ति। यस्य च वरुणस्य। सदः=जगदात्मकं स्थानम्। ध्रुवम्=निश्चलमविनश्वरमस्ति। सः। सप्तानां=सर्पणशीलानां गतिमतामगतिमताञ्च सर्वेषां भुवनानां भूतानाञ्च। इरज्यति=ईष्टे स्वामी वर्तते। सिद्धमन्यत् ॥९॥
+++(अस्य मन्त्रस्य ब्रह्मण उत्सङ्गे सोमासादने विनियोगम् आपस्तम्ब आह - ‘एवावन्दस्वेत्युपस्थे ब्रह्मा राजानं कुरुते’ इति ॥)+++
+++(प्रवर्ग्यस्याभिषवेऽन्तर्भावनीयः ॥)+++
11 नाके सुपर्णमुप ...{Loading}...
नाके॑ सुप॒र्णम् उप॒ यत् पत॑न्तम् ।
हृ॒दा वेन॑न्तो+++(=कामयमानाः)+++ अ॒भ्यच॑क्षत त्वा +++(सूर्य!)+++ ।
हिर॑ण्य-पक्षव्ँ॒ वरु॑णस्य दू॒तम् +++(शतभिषज आगमनात्)+++ ।
य॒मस्य॒ योनौ॑ +++(भरण्यां)+++ शकु॒नम् भु॑र॒ण्युम्+++(=भरणशीलं)+++ ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तम् ।
हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्यपक्षव्ँ॒वरु॑णस्य दू॒तम् ।
य॒मस्य॒ योनौ॑ शकु॒नम्भु॑र॒ण्युम् ।
सायणटीका
11एकादशीमाह - हे प्रवर्ग्यस्वामिन्! त्वामृत्विजो हृदा स्वकीयेन मनसा वेनन्तः कामयमानाः यद्यदा अभ्यचक्षत अभितः प्रख्यापितवन्तः तदा त्वं तुष्टो भवेति शेषः ॥ कीदृशं त्वां? नाके सुवर्गे उपपतन्तं समीपं प्रतिगच्छन्तम् ॥ अत एव सुपर्णं शोभनपक्षोपेतं हिरण्यपक्षं सुवर्णमयपक्षोपेतं वरुणस्य दूतं वरुणेन प्रेर्यमाणं यमस्य योनौ स्थानविशेषे भुरण्युं भरणशीलं रोगसंपादकमित्यर्थः ॥ शकुनं पक्ष्याकारम् ॥ अयं मन्त्रः प्रवर्ग्यस्याभिषवेऽन्तर्भावनीयः ॥॥
आपः
०४ शं नो ...{Loading}...
शं᳓ नो देवी᳓रभि᳓ष्टय
आ᳓पो भवन्तु पीत᳓ये ।
शं᳓ यो᳓र्+++(=[अ]मिश्रणाय)+++ अभि᳓ स्रवन्तु नः ॥ ०४॥
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - आपः
- ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
- छन्दः - गायत्री
Thomson & Solcum
शं᳓ नो देवी᳓र् अभि᳓ष्टय
आ᳓पो भवन्तु पीत᳓ये
शं᳓ यो᳓र् अभि᳓ स्रवन्तु नः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
Morph
abhíṣṭaye ← abhíṣṭi- (nominal stem)
{case:DAT, gender:F, number:SG}
devī́ḥ ← devī́- (nominal stem)
{case:NOM, gender:F, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śám ← śám (invariable)
ā́paḥ ← áp- (nominal stem)
{case:NOM, gender:F, number:PL}
bhavantu ← √bhū- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
pītáye ← pītí- (nominal stem)
{case:DAT, gender:F, number:SG}
abhí ← abhí (invariable)
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śám ← śám (invariable)
sravantu ← √sru- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
yós ← yós (invariable)
पद-पाठः
शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ ।
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥
Hellwig Grammar
- śaṃ ← śam
- [noun], nominative, singular, neuter
- “luck; well-being; fortune.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- devīr ← devīḥ ← devī
- [noun], nominative, plural, feminine
- “Parvati; queen; goddess; Devi.”
- abhiṣṭaya ← abhiṣṭaye ← abhiṣṭi
- [noun], dative, singular, feminine
- “prevalence; protection.”
- āpo ← āpaḥ ← ap
- [noun], nominative, plural, neuter
- “water; body of water; water; ap [word]; juice; jala.”
- bhavantu ← bhū
- [verb], plural, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- pītaye ← pīti
- [noun], dative, singular, feminine
- “drinking; haritāla.”
- śaṃ ← śam
- [noun], accusative, singular, neuter
- “luck; well-being; fortune.”
- yor ← yoḥ ← yos
- [noun], accusative, singular
- “fortune.”
- abhi
- [adverb]
- “towards; on.”
- sravantu ← sru
- [verb], plural, Present imperative
- “discharge; issue; run; filter; discharge; liquefy; ejaculate; fail; disappear; leak; fester.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
सायण-भाष्यम्
नः अस्माकं पापापनोदद्वारेण शं सुखं भवन्तु देवीः देव्यः आपः। अभिष्टये अस्मद्यज्ञाय भवन्तु । यज्ञाङ्गभावाय च भवन्त्वित्यर्थः । पीतये पानाय च भवन्तु । तथा शम् उत्पन्नानां रोगाणां शमनं योः यावनमनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अपि च नः अस्माकम् अभि उपरि स्रवन्तु शुद्ध्यर्थं सिञ्चन्तु ॥
Wilson
English translation:
“May the divine water be propitious to our worship, (may they be good) for our drinking; may they flowround us, and be our health and safety.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
This and previous three ṛcas are repeated at the daily ablutions of thebrāhmaṇas
Jamison Brereton
Let the goddesses, the Waters, be luck for us to prevail, for us to drink. Let them flow to us for luck and life.
Griffith
The Waters. be to us for drink, Goddesses for our aid and bliss:
Let them stream to us health and strength.
Geldner
Die Göttinnen sollen uns zu recht naher Hilfe, die Gewässer zum Trunke sein; Wohl und Heil sollen sie uns zuströmen.
Grassmann
Zur Hülfe seien heilvoll uns die Himmelswasser und zum Trunk, Von ihnen ström’ uns Segen zu.
Elizarenkova
На счастье пусть будут нам богини (и) в помощь,
Воды (пусть будут нам) для питья!
Счастье и благо пусть струят они нам!
अधिमन्त्रम् (VC)
- आपः
- त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
- गायत्री
- षड्जः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (देवीः-आपः) दिव्यगुणवाले दृश्यमान स्नानयोग्य तथा पानयोग्य शरीर के अन्दर व्यापने योग्य जल (नः) हमारी (अभिष्टये) स्नानक्रिया के लिए और (पीतये) पानक्रिया के लिए (शं भवन्तु) कल्याणकारी होवें। वे जल (शंयोः-अभिस्रवन्तु) वर्तमान रोगों का शमन और भावी रोगों के भयों का पृथक्करण करें-उन्हें बाहर भीतर दोनों ओर से रिसावें-बहावें ॥४॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - जल का स्नान और पान करने से शरीर में वर्तमान रोगों का शमन और भावी रोगभयों का पृथक्करण हो जाता है तथा दोनों ही प्रकार स्नान और पान सुख-शान्ति को प्राप्त कराते हैं। इसी प्रकार आपजनों केसङ्गसे बाहरी पापसंस्पर्श का अभाव और भीतरी पापताप की उपशान्ति होती है। अध्यात्म से आपः-व्यापक परमात्मा के जगत् में प्रत्यक्षीकरण और अन्तरात्मा में साक्षात् अनुभव से सच्चा सुख और शान्ति की प्राप्ति होती है-अमृत की वर्षा होती है ॥४॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (देवीः-आपः) दिव्यगुणवत्यो दृश्यमानाः-स्नानार्हाः पानार्हा आपः (नः) अस्माकं (अभिष्टये) स्नानक्रियायै ‘अभिपूर्वात्ष्टै वेष्टने [भ्वादिः]ततः किः प्रत्ययः’। (पीतये) पानक्रियायै (शं भवन्तु) कल्याणरूपाः कल्याणकारिण्यो भवन्तु,ताः आपः (शंयोः) रोगाणां शमनं भयानां यावनं पृथक्करणं“शमनं च रोगाणां यावनं च भयानाम्” निरु० ४।२१ अभितः-उभयतः स्रावयन्तु वाहयन्तु ॥४॥
०५ ईशाना वार्याणां ...{Loading}...
ई᳓शाना वा᳓र्याणां+++(=वारिप्रभवानां)+++
क्ष᳓यन्तीश्+++(=निवासयित्रीः)+++ चर्षणीना᳓म्+++(=चलनशीलानाम्)+++ ।
अपो᳓ याचामि भेषज᳓म् ॥ ०५॥
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - आपः
- ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
- छन्दः - वर्धमाना
Thomson & Solcum
ई᳓शाना वा᳓रियाणां᳐
क्ष᳓यन्तीश् चर्षणीना᳐᳓म्
अपो᳓ याचामि भेषज᳓म्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
Morph
ī́śānāḥ ← √īś- (root)
{case:ACC, gender:F, number:PL, voice:MED}
vā́ryāṇām ← vā́rya- (nominal stem)
{case:GEN, gender:N, number:PL}
carṣaṇīnā́m ← carṣaṇí- (nominal stem)
{case:GEN, gender:F, number:PL}
kṣáyantīḥ ← √kṣā- 2 (root)
{case:ACC, gender:F, number:PL, tense:PRS, voice:ACT}
apáḥ ← áp- (nominal stem)
{case:ACC, gender:F, number:PL}
bheṣajám ← bheṣajá- (nominal stem)
{case:NOM, gender:N, number:SG}
yācāmi ← √yāc- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
ईशा॑नाः । वार्या॑णाम् । क्षय॑न्तीः । च॒र्ष॒णी॒नाम् ।
अ॒पः । या॒चा॒मि॒ । भे॒ष॒जम् ॥
Hellwig Grammar
- īśānā ← īśānāḥ ← īś
- [verb noun], accusative, plural
- “govern; command; master; dominate; can; reign; control; own.”
- vāryāṇāṃ ← vāryāṇām ← vārya
- [noun], genitive, plural, masculine
- “precious; valuable.”
- kṣayantīś ← kṣayantīḥ ← kṣi
- [verb noun], accusative, plural
- “govern; inhabit; dwell; stay; predominate; bide; own.”
- carṣaṇīnām ← carṣaṇi
- [noun], genitive, plural, feminine
- “people.”
- apo ← apaḥ ← ap
- [noun], accusative, plural, neuter
- “water; body of water; water; ap [word]; juice; jala.”
- yācāmi ← yāc
- [verb], singular, Present indikative
- “beg; ask; offer; ask.”
- bheṣajam ← bheṣaja
- [noun], accusative, singular, neuter
- “drug; medicine; herb; bheṣaja [word]; remedy; reagent.”
सायण-भाष्यम्
वार्याणां वारिप्रभवानां व्रीहियवादीनां यद्वा वरणीयानां धनानाम् ईशानाः ईश्वराः चर्षणीनां मनुष्याणां क्षयन्तीः निवासयित्रीः अपः उदकानि भेषजम् । सुखनामैतत् । पापापनोदनं सुखं याचामि अहं प्रार्थये ॥
Wilson
English translation:
“Waters, sovereigns of precious (treasures), granters of habitations to men, I solicit of you medicine (formy infirmities).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Precious: vāryāṇām = vāriprabhavānām vrīhiyavādinām, the products of the water,rice, barley etc.;
Bheṣajam = happiness driving away sin
Jamison Brereton
Those who are mistresses of things of value, ruling over the settled domains,
the Waters do I beseech for a healing remedy.
Griffith
1 beg the Floods to give us balm, these Queens who rule o’er precious things,
And have supreme control of men.
Geldner
Sie, die über die wünschenswerten Dinge verfügen, die über die Menschenvölker schalten, die Gewässer bitte ich um ihr Heilmittel.
Grassmann
Die herrschen über schönes Gut, gebieten über alles Volk, Sie fleh’ um Arzenei ich an.
Elizarenkova
Распоряжающиеся желанными благами,
Повелевающие народами
Воды прошу я об (их) целебном средстве.
अधिमन्त्रम् (VC)
- आपः
- त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
- वर्धमाना गायत्री
- षड्जः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (वार्याणाम्-ईशानाः) वरणीय गुणों के स्वामीरूपों-(चर्षणीनां क्षयन्तीः) मनुष्यादियों में निवास करानेवाले (अपः) जलों को (भेषजं याचामि) सुखकारक ओषध के रूप में चाहता हूँ-यथोचित प्रयोग करना चाहता हूँ ॥५॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - जलों के सेवन करने से शरीर में उत्तम गुण प्राप्त होते हैं, मानो वे संसार में निवास कराने व दीर्घ जीवन के हेतु हैं। जल सुखकारक औषध है, इसका सेवन करना ही चाहिए। इसी प्रकार आप्त जनों के सङ्ग से उत्तम गुणों की प्राप्ति और मानवसमाज में अच्छा स्थान मिलता है। सचमुच उनका सङ्ग आत्मिक औषध है ॥५॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (वार्याणाम्-ईशानाः) वरणीयानां गुणानां स्वामिनीः (चर्षणीनां क्षयन्तीः) मनुष्यादीनां निवासयित्रीः (अपः) ता अपः (भेषजं याचामि) सुखकरमौषधं प्रयोक्तुमिच्छामि ॥५॥
०६ अप्सु मे ...{Loading}...
अप्सु᳓ मे सो᳓मो अब्रवीद्
अन्त᳓र् वि᳓श्वानि भेषजा᳓ +++(इति)+++ ।
अग्निं᳓ च विश्व᳓-शम्भुवम् +++(वर्तमानम् अपि)+++ ॥ ०६॥
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - आपः
- ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
- छन्दः - गायत्री
Thomson & Solcum
अप्सु᳓ मे सो᳓मो अब्रवीद्
अन्त᳓र् वि᳓श्वानि भेषजा᳓
अग्निं᳓ च विश्व᳓शम्भुवम्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; repeated line
popular;; repeated line
popular;; repeated line
Morph
abravīt ← √brū- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
apsú ← áp- (nominal stem)
{case:LOC, gender:F, number:PL}
me ← ahám (pronoun)
{case:DAT, number:SG}
sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}
antár ← antár (invariable)
bheṣajā́ ← bheṣajá- (nominal stem)
{case:NOM, gender:N, number:PL}
víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}
agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}
ca ← ca (invariable)
viśváśambhuvam ← viśváśambhū- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् ॥
Hellwig Grammar
- apsu ← ap
- [noun], locative, plural, neuter
- “water; body of water; water; ap [word]; juice; jala.”
- me ← mad
- [noun], dative, singular
- “I; mine.”
- somo ← somaḥ ← soma
- [noun], nominative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- abravīd ← abravīt ← brū
- [verb], singular, Imperfect
- “say; tell; describe; speak; state; answer; call; explain; address; proclaim; talk; talk; choose.”
- antar
- [adverb]
- “inside; in; antar [word]; midmost; between; among.”
- viśvāni ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- bheṣajā ← bheṣaja
- [noun], accusative, plural, neuter
- “drug; medicine; herb; bheṣaja [word]; remedy; reagent.”
- agniṃ ← agnim ← agni
- [noun], accusative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- viśvaśambhuvam ← viśva
- [noun]
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvaśambhuvam ← śambhuvam ← śambhu
- [noun], accusative, singular, masculine
- “kind; benevolent.”
सायण-भाष्यम्
Sayana bhashya empty
Wilson
English translation:
“Soma has declared to me; all medicaments, as well as Agni, the benefactor of the universe, are in thewaters.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
This and the following ṛcas of the sūkta are repetitions from RV.1. 23, 20-23; in maṇḍala 1, Somaspeaks to Kaṇva; in this present maṇḍala, Soma speaks to Āmbarīṣa Sindhudvīpa, a rājā
Jamison Brereton
“Within the waters,” Soma said to me, “are all healing remedies
and Agni who is weal to all.”
Griffith
Within the Waters-Soma thus hath told me-dwell all balms that heal,
And Agni, he who blesseth all.
Geldner
In den Gewässern, so belehrte mich Soma, sind alle Arzeneien, und der allen ersprießliche Agni.
Grassmann
Im Wasser, sagte Soma mir, ist alle Arzenei vereint Und Agni, der das All erquickt.
Elizarenkova
В водах – мне сказал Сома –
Все целебные средства
И Агни всеблагой.
अधिमन्त्रम् (VC)
- आपः
- त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
- गायत्री
- षड्जः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (सोमः) उत्पादक परमात्मा (मे) मेरे लिये (अब्रवीत्) कहता है-उपदेश देता है, कि (अप्सु-अन्तः) जलों के अन्दर (विश्वानि भेषजा) सारे औषध हैं (विश्वशंभुवम्-अग्निं च) सर्वकल्याण करनेवाले अग्नि को भी कहता है-उपदिष्ट करता है ॥६॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - जलों में सर्वरोगों को दूर करनेवाले गुण हैं, विविध रीति से सेवन करने से-स्नान, पान, स्पर्श, मार्जन, आचमन आदि द्वारा वे प्राप्त होते हैं। जलों के अन्दर अग्नि भी है, वह स्वास्थ्य का संरक्षण करती है। वह जलों में स्वतः प्रविष्ट है, विद्युद्रूप से बाहर प्रकट होती है। इसी प्रकार आप्त जन, लोगों के आन्तरिक दोषों को दूर करते हैं और उनमें गुणों का आधान करते हैं ॥६॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (सोमः) उत्पादकः परमात्मा (मे) मह्यम् (अब्रवीत्) उपदिशति (अप्सु-अन्तः) अपामभ्यन्तरे (विश्वानि भेषजा) सर्वाण्यप्यौषधानि सन्ति (विश्वशंभुवम्-अग्निं च) सर्वकल्याणस्य भावयितारं साधकमग्निं च ‘अब्रवीत्’ ब्रवीति ॥६॥
15 यदप्सु ते ...{Loading}...
यद् अ॒प्सु ते॑ सरस्वति ।
गोष्व् अश्वे॑षु॒ यन् मधु॑ +++(→क्षीरं)+++ ।
तेन॑ मे वाजिनी-वति+++(→तरङ्गिणीवति)+++ ।
मुख॑म् अङ्ग्धि+++(=अक्तं कुरु)+++ सरस्वति ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
यद॒प्सु ते॑ सरस्वति ।
गोष्वश्वे॑षु॒ यन्मधु॑ ।
तेन॑ मे वाजिनीवति ।
मुख॑मङ्ग्धि सरस्वति ।
सायणटीका
15पञ्चदशीमाह - हे सरस्वति! नदीरूपे! ते त्वदीयास्वप्सु यन्मधु माधुर्यं विद्यते तथा गोष्वश्वेषु मधुरं क्षीरं समीचीनं वहनसामर्थ्यं च यद्विद्यते हे वाजिनीवति! अन्नसमृद्धियुक्ते! सरस्वति! तेन सर्वेण मे मुखमङ्ग्धि वक्त्रमलंकृतं कुरु ॥॥
16 या सरस्वती ...{Loading}...
या सर॑स्वती वैशम्+++(←विश्)+++-भ॒ल्या+++(=भरणक्षमा)+++, तस्या॑म् मे रास्व । तस्या॑स् ते भक्षीय । तस्या॑स् ते भूयिष्ठ॒-भाजो॑ भूयास्म ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
या सर॑स्वती वैशम्भ॒ल्या ॥39॥
तस्या॑म्मे रास्व ।
तस्या॑स्ते भक्षीय ।
तस्या॑स्ते भूयिष्ठ॒भाजो॑ भूयास्म ।
सायणटीका
16षेडशीमाह - विशां प्रजानां भरणं पोषणं विशम्भलं तत्कर्तुं क्षमा वैशम्भल्या तादृशी या सरस्वती तस्यां सरस्वत्यां नदीरूपायां मे रास्व हे सरस्वति! देवते! मह्यं भोगं देहि ॥ तस्याः सरस्वत्याः ते तव भक्षीय रसमनुभवामि ॥ तस्यास्ते भूयिष्ठभाजः अतिप्रभूततररससेविनो भूयास्म ॥
एतस्य मन्त्रद्वयस्य दार्शिके यजमाने विनियोगमापस्तम्व आह - ‘यदप्सु त इत्युपक्रम्य भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे’ इत्यन्तेन वाक्येन ॥
+++( एतस्य मन्त्रद्वयस्य दार्शिके यजमाने विनियोगमापस्तम्ब आह - ‘यदप्सु त इत्युपक्रम्य भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे’ इत्यन्तेन वाक्येन ॥)+++
अग्निः
17 अहन्त्वदस्मि मदसि ...{Loading}...
अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् ।
ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने ।
पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
अ॒हन्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् ।
ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने ।
पु॒त्रᳶ पि॒त्रे लो॑क॒कृज्जा॑तवेदः ।
सायणटीका
17सप्तदशीमाह - हे अग्ने! अहं त्वदस्मि त्वत्तः सकाशाद्यजमानोऽस्मि त्वमप्येतद्रूपं मदसि मत्तः सकाशादेतदाहवनीयरूपं प्राप्तोसि ॥ मया ह्याधीयमानस्य तव आहवनीयत्वम् ॥ अतः कारणात् त्वं मम योनिः कारणमसि ॥ अहं च तव योनिः कारणमस्मि ॥ हे अग्ने! ममैव सन् त्वं मदीय एव भूत्वा हव्यानि वह ॥ हे जातवेदः! सर्वजगदभिज्ञ! यथा लोके पुत्रः पित्रे लोककृत् स्थानसंपादको भवति अतो यथा मया तव स्थानं संपादितं तथा त्वयाऽपि भम पुण्यलोकः संपादनीया ॥ एतस्य मन्त्रस्य फलचमसे विनियोगमापस्तम्ब आह - ‘अहं त्वदस्मि मदसीत्यङ्गारे हुत्वा तस्मै भक्षं प्रयच्छेत्’ इति ॥॥
18 इहैव सन्तत्र ...{Loading}...
इ॒हैव सन्तत्र॒ सन्त॑न्त्वाऽग्ने ।
प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि ।
ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ॥40॥
ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
इ॒हैव सन्तत्र॒ सन्त॑न्त्वाऽग्ने ।
प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि ।
ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ॥40॥
ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे ।
सायणटीका
18अष्टादशीमाह - हे अग्ने! अहमिहैव दूरदेशे स्थितः सन् तत्राहवनीयायतने सन्तं वर्तमानं त्वां मदीयेन प्राणेन मनसा वाचा बिभर्मि धारयामि ॥ तिरः व्यवहितो भूत्वा सन्तं वर्तमानं मा मां प्रति आयुः मा प्रहासीत् मा परित्यजतु ॥ वैश्वानरेण सर्वपुरुषहितेन ज्योतिषा युक्तं त्वामुपतिष्ठे भजामि ॥ अयं मन्त्रः क्वचिदग्न्युपस्थाने विनियोक्तव्यः ॥॥
19 अयन्ते योनिर् ...{Loading}...
अ॒यन् ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः ।
तञ् जा॒नन्न् अ॑ग्न॒ आ रो॑ह +++(→ सीदेति शाकले)+++ ।
अथा॑ नो वर्धया र॒यिम् ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
अ॒यन्ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः ।
तञ्जा॒नन्न॑ग्न॒ आरो॑ह ।
अथा॑ नो वर्धया र॒यिम् ।
Keith
This is thy due place of birth,
Whence born thou didst shine;
Mount it, O Agni, knowing it,
And make our wealth increase.
सायणटीका
19एकोनविंशीमाह - हे अग्ने! अयं अरणिरूपः काष्ठविशेषः ते तव ऋत्वियः योनिः ऋतुकालसंबन्ध्युत्पत्तिस्थानम् ॥ यतो योनेर्जातस्त्वं अरोचथाः दीप्तोऽसि ॥ हे अग्ने! जानन् स्वकीयत्वेनावगच्छन् तं योनिं अरणिरूपमारोह ॥ अथानन्तरं नोऽस्माकं रयिं धनं वर्धय समृद्धं कुरु ॥ एतस्य मन्त्रस्य विनियोगो ब्राह्मणेनाम्नातः - अयं ते योनिर्ऋत्विय इत्यरण्योस्समारोहयति’ इति ॥
भट्टभास्कर-टीका
हे अग्ने अयं ते तव योनिः कारणं गार्हपत्य उच्यते नात्रारणिः । ऋत्वियः ऋतुः प्राप्तोस्येति । ‘छन्दसि घस्’ इति घस् । ऋतावृताविज्यत इत्यर्थः । यतस्त्वं जातोऽरोचथाः दीप्यसे । छान्दसो लङ् । तं योनिं जानन् त्वं ममायं योनिरित्यवगच्छन् आरोह । आश्रय मा कदाचिदपि मुचः । अथ नोस्माकं रयिं धनं वर्धय । सांहितिकं दीर्घत्वं छान्दसं । ‘निपातस्य च’ इत्यथशब्दस्य ॥
अयं ते योनिरिति। हेऽग्नेऽयमिष्टाकारूपः पदार्थस्ते तव योनिरुत्पत्तिहेतुः, ऋत्विय ऋतुकालीनस्त्रीपुरुषसंगमतुल्य इति। यतो योनेरिष्टकारूपाज्जात उत्पन्नसत्व-मरोचथा दीप्तिमानसि, तं तथाविधं योनिमिष्टकारूपं जानन्नवगच्छन्सन्नारोह प्राप्नुहि । अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।
एषा च ‘उप प्रयन्तः’ इत्यत्र व्याख्याता । हे अग्ने! अयं ते तव ऋत्वियः ऋतुप्रायप्राप्तो योनिः कारणं यतो जातः त्वं अरोचथाः तं जानन् आत्माधिकारं विद्वान् आरोह अथ आरुह्य च नः अस्माकं रयिं वर्धय इति ॥
अयं ते योनिरिति। हेऽग्ने योऽयमिष्टकाचितिरूपप्रदेशस्ते तव योनिः स्थानं, यतो यस्या इष्टकाचितेर्जात उत्पन्नस्त्वमरोचथा दीप्तो भवति, तं योनिं जानन्स्वकीयत्वेनावगच्छन्नारोह। अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।
20 या ते ...{Loading}...
या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान॑म् ।
अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ ।
य॒ज्ञो भू॒त्वा य॒ज्ञमासी॑द॒ स्वाय्ँयोनि॑म् ।
जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑ ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान॑म् ।
अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ ।
य॒ज्ञो भू॒त्वा य॒ज्ञमासी॑द॒ स्वाय्ँयोनि॑म् ।
जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑ ।
सायणटीका
20विंशीमाह - हे अग्ने! ते तव यज्ञिया तनूः यज्ञयोग्या या तनूः तया तन्वा सह इहि आगच्छ ॥ आगत्य चात्मानमारोह ॥ त्वं मदीय आत्मा सन् मच्छरीरमारोह ॥ किं कुर्वन्? अस्मे अस्माकं नर्या नरस्य योग्यानि वसूनि धनानि पुरूणि बहूनि अच्छा अभिमुखानि कृण्वन् त्वं यज्ञस्वरूपो भूत्वा यज्ञं यज्ञनिर्वाहकं मद्देहं स्वां योनिं स्वकीयं स्थानमासीद प्राप्नुहि ॥ हे जातवेदः! भुवः सकाशादाभिमुख्येन जायमानः सक्षयः निवासस्थानसहित एह्यागच्छ ॥ एतस्यापि मन्त्रस्य विनियोगो ब्राह्मणे दर्शितः - ‘या ते अग्रे यज्ञिया तनूस्तयेह्यारोहेत्यात्मन्समारोहयते’ इति ॥॥
21 उपावरोह जातवेदᳶ ...{Loading}...
उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स् त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑ह नᳶ प्रजा॒नन् ।
आयु॑ᳶ प्र॒जाँ र॒यिम् अ॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स्त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँव॑ह नᳶ प्रजा॒नन् ।
आयु॑ᳶ प्र॒जाँ र॒यिम॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।
सायणटीका
21एकविंशीमाह - हे जातवेदः! पुनरपि त्वमुपावरोह अरण्योः सकाशात्भूमाववतर ॥ अवतीर्य च प्रजानन् अस्य देवस्येदं हविरिति प्रकर्षेण जानन् नः अस्मदीयं हव्यं देवेभ्यो वह प्रापय आयुरादिकमस्मासु संपादय ॥ अजस्रः निरन्तरं वर्तमानस्त्वं नः दुरोणे अस्मदीये गृहे दीदिहि दीप्यस्व ॥ एतस्य विनियोगमापस्तम्ब आह - ‘उपावरोह जातवेद इति निवर्तमानमभिमन्त्रयते’ इति ॥॥
22 तमिन्द्रञ्जोहवीमि ...{Loading}...
तमिन्द्र॑ञ्जोहवीमि म॒घवा॑नमु॒ग्रम् ।
स॒त्रा दधा॑न॒मप्र॑तिष्कुतँ॒ शवाँ॑सि ।
मँहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ऽव॒वर्त॑त् ।
रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
तमिन्द्र॑ञ्जोहवीमि म॒घवा॑नमु॒ग्रम् ।
स॒त्रा दधा॑न॒मप्र॑तिष्कुतँ॒ शवाँ॑सि ।
मँहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ऽव॒वर्त॑त् ।
रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ।
सायणटीका
22द्वाविंशीमाह - तं प्रसिद्धमिन्द्रं जोहवीमि आह्वयामि ॥ कीदृशमिन्द्रं? मघवानं धनवन्तं उग्रं शत्रुषु तीव्रं शवांसि सर्वाणि बलानि सत्रादधानं सहधारयन्तं अप्रतिष्कुतं कुतोऽपि प्रतिपक्षरहितम् ॥ ईदृश इन्द्रः मंहिष्ठः अतिशयेन पूज्यः यज्ञियः यज्ञयोग्यश्च सन् गीर्भिः अस्मदीयाभिः स्तुतिभिः आववर्तत् पुनःपुनःरावर्तमानस्सन् वज्री वज्रयुक्तो विश्वा सुपथा सर्वान् सुमार्गान् नः राये अस्माकं धनलाभाय कृणोतु करोतु ॥ अयं मन्त्रः ऐन्द्रे कर्मणि द्रष्टव्यः ॥॥
23 त्रिकद्रुकेषु महिषो ...{Loading}...
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरन्तुवि॒शुष्म॑स्तृ॒पत् ।
सोम॑मपिब॒द्विष्णु॑ना सु॒तय्ँयथाऽव॑शत् ।
स ई॑म्ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम् ॥42॥
सैनँ॑ सश्चद्दे॒वन्दे॒वस्स॒त्यमिन्दुँ॑ स॒त्य इन्द्रः॑ ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरन्तुवि॒शुष्म॑स्तृ॒पत् ।
सोम॑मपिब॒द्विष्णु॑ना सु॒तय्ँयथाऽव॑शत् ।
स ई॑म्ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम् ॥42॥
सैनँ॑ सश्चद्दे॒वन्दे॒वस्स॒त्यमिन्दुँ॑ स॒त्य इन्द्रः॑ ।
सायणटीका
23त्रयोविंशीमाह - ‘ज्योतिर्गौरायुरिति त्रिकद्रुकः’ इत्यापस्तम्बेनाभिधानाज्ज्योतिरादयस्त्रयः सोमयागास्त्रिकद्रुकशब्दवाच्याः ॥ तेषु योगेष्विन्द्रः विष्णुना सहितः सोममपिवत् ॥ कीदृश इन्द्रः? महिषः गुणैश्वर्यादिभिर्महान् तुविशुष्मः प्रभूतबलः तृपत् तृप्तिं गतः ॥ कीदृशं सोमं? यवाशिरं यवसक्तुमिश्रितं सुतमभिषुतम् ॥ स चेन्द्रः तं सोमं यथावशत् यथावदकामयत सम्यक्कामितवानित्यर्थः ॥ स च सोमः महि कर्म कर्तवे महत्कर्म कर्तुं ईममाद इममिन्द्रं हर्षयामास ॥ स चेन्द्र एनं सोमं सश्चत् पीतवान् ॥ कीदृशं सोमं? महां स्वादुत्वेन महान्तं उरुं प्रभूतं देवं दीप्यमानं सत्यमवितथमवश्यफलप्रदं इन्दुं आह्लादहेतुम् ॥ कीदृश इन्द्वः? देवो दीप्यमानः सत्यः अवितथस्वरूपः केनाप्यबाध्य इत्यर्थः ॥॥
24 विदद्यती सरमा ...{Loading}...
वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः॑ ।
महि॒ पाथ॑ᳶ पू॒र्व्यँ स॒द्ध्रिय॑क्कः ।
अग्र॑न्नयत्सु॒पद्यक्ष॑राणाम् ।
अच्छा॒ रव॑म्प्रथ॒मा जा॑न॒तीगा॑त् ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः॑ ।
महि॒ पाथ॑ᳶ पू॒र्व्यँ स॒द्ध्रिय॑क्कः ।
अग्र॑न्नयत्सु॒पद्यक्ष॑राणाम् ।
अच्छा॒ रव॑म्प्रथ॒मा जा॑न॒तीगा॑त् ।
सायणटीका
24चतुर्विंशीमाह - सरमा काचित् शुनी श्वमूर्तिधारिणी देवता भूमावन्नसंपादनार्थं आयती इन्द्रेण प्रेषिता अद्रेर्यती मेरोः सकाशाद्भूमिं गच्छन्ती रुग्णं अन्नाभावेन क्षुधाग्रस्तं जनं विदत् अलभत ॥ ततो महि पाथः महज्जलं कः अकरोत् ॥ कीदृशं? पूर्व्यं पूर्वमुत्पन्नमन्नस्य कारणं सहाञ्चतीति सध्रियक् सर्वक्षेत्रसंचारीत्यर्थः ॥ सुष्ठु पद्यते गच्छतीति सुपदी सा शुनी अग्रं नयत् तज्जलं पुरतो नीतवती ॥ तत्र पुरोदेशे अक्षराणां क्षरो विनाशो हिंसा तदयोग्यानां गवां रवं शब्दं जानती अच्छा तदाभिमुख्येन प्रथमा मुख्या सती गात् जगाम जलोत्पादनेनान्नं संपाद्य गोरसं संपादयितुं गतवतीत्यर्थः ॥॥
25 विदद्गव्यं सरमा ...{Loading}...
वि॒दद्गव्यँ॑ स॒रमा॑ दृ॒ढमू॒र्वम् ।
येना॒नुक॒म्मानु॑षी॒ भोज॑ते॒ विट् ।
आ ये विश्वा॑स्स्वप॒त्यानि॑ च॒क्रुः ।
कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
वि॒दद्गव्यँ॑ स॒रमा॑ दृ॒ढमू॒र्वम् ।
येना॒नुक॒म्मानु॑षी॒ भोज॑ते॒ विट् ।
आ ये विश्वा॑स्स्वप॒त्यानि॑ च॒क्रुः ।
कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
सायणटीका
25पञ्चविंशीमाह - सरमा शुनी गव्यं गोयूथं विदत् अलभत ॥ कीदृशं? दृढं कदाचिदप्यनपायिनं ऊर्वं अतिप्रभूतम् ॥ मानुषी विट् विश्वमनुष्यरूपा प्रजा येन गोयूथेन भोजते क्षीरादिकं भुङ्क्ते ॥ नुकमित्येतदव्ययं सर्वथेत्यस्मिन्नर्थे वर्तते ॥ अमृतत्वाय स्वर्गरूपाय कमर्फलाय गातुं मार्गं कृण्वानासः कुर्वाणा ये यजमाना विश्वा सर्वाणि स्वपत्यानि कर्माण्याचक्रुः सर्वतः कृतवन्तः ॥ तथाविधयजमानरूपा प्रजा येन गव्येन भुङ्क्ते तं गोयूथं अलभतेति पूर्वत्रान्वयः ॥॥
26 त्वन्नृभिर्नृपते देवहूतौ ...{Loading}...
त्वन्नृभि॑र्नृपते दे॒वहू॑तौ ॥43॥
भूरी॑णि वृ॒त्वा ह॑र्यश्व हँसि ।
त्वन्निद॑स्यु॒ञ्चुमु॑रिम् ।
धुनि॒ञ्चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
त्वन्नृभि॑र्नृपते दे॒वहू॑तौ ॥43॥
भूरी॑णि वृ॒त्वा ह॑र्यश्व हँसि ।
त्वन्निद॑स्यु॒ञ्चुमु॑रिम् ।
धुनि॒ञ्चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ।
सायणटीका
26षड्विंशीमाह - हे हर्यश्व! हरिनामकाभ्यामश्वाभ्यामुपेत ॥ इन्द्र! हे नृपते! मनुष्याणां पालक! नृभिर्मनुष्यैः यजमानर्त्विग्भिः देवहूतौ देवार्थमाह्वाने कृते सति त्वं भूरीणि बहूनि वृत्वा वृत्राणि शत्रुजातानि हंसि मारयसि ॥ किंच - त्वं निदस्युप्रभृतीन् त्रीन् रक्षोविशेषान् सुहन्तु सुष्ठु हननसाधनेन वज्रेण दभीतये दम्भनाय हिंसार्थं अस्वापयः सुप्तान्मूर्छितानकरोः ॥॥
27 एवा पाहि ...{Loading}...
ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा ।
श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः ।
आ॒विस्सुर्य॑ङ्कृणु॒हि पी॒पिही॒षः ।
ज॒हि शत्रूँ॑ र॒भि गा इ॑न्द्र तृन्धि ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा ।
श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः ।
आ॒विस्सुर्य॑ङ्कृणु॒हि पी॒पिही॒षः ।
ज॒हि शत्रूँ॑ र॒भि गा इ॑न्द्र तृन्धि ।
सायणटीका
27सप्तविंशीमाह - हे इन्द्र! प्रत्नथा पुरातनः पूर्वकल्पावस्थितः इन्द्रः यथा सोमं पिबति एवा पाहि एवमेव त्वमपि सोमं पिब ॥ स च सोमः त्वां मन्दतु हर्षयतु ॥ ब्रह्म अस्माभिः प्रयुज्यमानं मन्त्रं श्रुधि शृणु ॥ उत अपिच गीर्भिः अस्मदीयाभिः स्तुतिभिः वावृधस्व अतिशयेन वर्धस्व ॥ सूर्यमाविष्कृणुहि आच्छादकस्य स्वर्भानुसंज्ञकस्यासुरस्य विनाशेन प्रकटीकुरु ॥ इषः अन्नानि पीपिहि पालय ॥ शत्रून् जहि मारय ॥ गा अभिलक्ष्य तृन्धि विरोधिनो व्याघ्रतस्करादीन्विनाशय ॥ ‘तमिन्द्रं जोहवीमि’ इत्यादिमन्त्रषट्कमैन्द्रे कमेणि द्रष्टव्यम् ॥ त्रिकद्रुकेष्विति मन्त्रस्तु षोडशिशस्त्रेऽप्यन्तर्भावनीयः ॥॥
28 अग्ने बाधस्व ...{Loading}...
अग्ने॒ बाध॑स्व॒ वि मृधो॑ नुदस्व ।
अपामी॑वा॒ अप॒ रक्षाँ॑सि सेध ।
अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नः॑ ॥44॥
अ॒पाम्भू॒मान॒मुप॑ नस्सृजे॒ह ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
अग्ने॒ बाध॑स्व॒ वि मृधो॑ नुदस्व ।
अपामी॑वा॒ अप॒ रक्षाँ॑सि सेध ।
अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नः॑ ॥44॥
अ॒पाम्भू॒मान॒मुप॑ नस्सृजे॒ह ।
सायणटीका
28अष्टाविंशीमाह - हे अग्ने! मृधः शत्रून् विशेषेण बाधस्व ॥ अमीवाः रोगान् अपनुदस्व ॥ रक्षांसि अपसेध अपगमय ॥ अस्मात् दृश्यमानात् समुद्रात् बृहतः समुद्रवदतिप्रौढात् दिवः द्युलोकात् नः अस्मदर्थं अपां भूमानं वृष्टिजलस्य बाहुल्यं सृज उत्पादय ॥ किंच - नः अस्मानपि इह कर्मणि उपसृन संयोजय ॥॥
29 यज्ञ प्रतितिष्ठ ...{Loading}...
यज्ञ॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा॑ ।
वसू॑नि पुरु॒धा वि॑शन्तु ।
दी॒र्घमायु॒र्यज॑मानाय कृ॒ण्वन् ।
अधा॒मृते॑न जरि॒तार॑मङ्ग्धि ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
यज्ञ॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा॑ ।
वसू॑नि पुरु॒धा वि॑शन्तु ।
दी॒र्घमायु॒र्यज॑मानाय कृ॒ण्वन् ।
अधा॒मृते॑न जरि॒तार॑मङ्ग्धि ।
सायणटीका
29एकोनत्रिंशीमाह - हे यज्ञ! यागनिष्पादक! वह्ने! सुमतौ भक्तियुक्तायां अस्मदीयायां बुद्धौ प्रतितिष्ठ प्रतिष्ठितो भव ॥ किं कुर्वन्? यजमानार्थं दीर्घमायुः कुर्वन्, तादृशं त्वा त्वां पुरुधा बहुविधानि वसूनि धनानि आविशन्तु सर्वतः प्रविशन्तु ॥ अथ अनन्तरं जरितारं जरां प्राप्स्यन्तं यजमानं अमृतेन अङ्ग्धि नाशरहितेन स्वर्गलोकेन संयोजय ॥ एतयोर्मन्त्रयोरुत्तरवेद्यामग्निप्रतिष्ठापने विनियोगमापस्तम्ब आह - ‘अग्रे बाधस्व’ इत्यारभ्य ‘संभारेषु प्रतिष्ठाप्य’ इत्यन्तेन वाक्येन ॥॥
30 इन्द्रश्शुनावद्वितनोति ...{Loading}...
इन्द्र॑श्शु॒नाव॒द्वित॑नोति॒ सीर॑म् ।
सव्ँ॒व॒त्स॒रस्य॑ प्रति॒माण॑मे॒तत् ।
अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठ॑म् ।
सव्ँ॒व॒त्स॒रँ शु॒नव॒त्सीर॑मे॒तत् ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
इन्द्र॑श्शु॒नाव॒द्वित॑नोति॒ सीर॑म् ।
सव्ँ॒व॒त्स॒रस्य॑ प्रति॒माण॑मे॒तत् ।
अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठ॑म् ।
सव्ँ॒व॒त्स॒रँ शु॒नव॒त्सीर॑मे॒तत् ।
सायणटीका
30त्रिंशीमाह - अयमिन्द्रः शुनावत् सीरं वायुसहितमादित्यं वितनोति विस्तारयति ॥ एतत् आदित्यस्य विस्ताररूपं संवत्सरस्य प्रतिमाणं प्रतिनिधिरूपम् ॥ आदित्यगमनावृत्त्या हि संवत्सरो निष्पाद्यते ॥ तदित् तदानीमेव अर्कस्य आदित्यस्य ज्योतिः ज्येष्ठं अतिप्रशस्तं प्रवृद्धं च आस ॥ एतज्ज्योतिः संवत्सरनिष्पादकत्वात्संवत्सरस्वरूपम् ॥ शुनवत् वायुसंयुक्तं सीरमादित्यमण्डलरूपमित्येवं तस्य ज्येष्ठत्वम् ॥॥
31 इन्द्रस्य राधᳶ ...{Loading}...
इन्द्र॑स्य॒ राध॒ᳶ प्रय॑तम्पु॒रु त्मना॑ ।
तद॑र्करू॒पव्ँवि॒मिमा॑नमेति ।
द्वाद॑शारे॒ प्रति॑तिष्ठ॒तीद्वृषा॑ ।
सर्वाष्टीकाः ...{Loading}...
मूलम्
इन्द्र॑स्य॒ राध॒ᳶ प्रय॑तम्पु॒रु त्मना॑ ।
तद॑र्करू॒पव्ँवि॒मिमा॑नमेति ।
द्वाद॑शारे॒ प्रति॑तिष्ठ॒तीद्वृषा॑ ।
सायणटीका
31एकत्रिंशीमाह - इन्द्रस्य राध सर्वकर्मसाधकं यत्सामर्थ्यं तत्पुरु प्रभूतं आत्मना प्रयतं स्वेनैव संपादितं तत्सामर्थ्यमर्कस्वरूपं सूर्यस्वरूपं भूत्वा विमिमानमेति सर्वैः प्राणिभिर्विशेषेण प्रमीयमाणं सत् एति गच्छति संचरतीत्यर्थः ॥ सोऽयमादित्यरूपो वृषा कामाभिवर्षकः इन्द्रः द्वादशारे द्वादशमासरूपैः अरैर्युक्ते संवत्सरचक्रे प्रतितिष्ठतीत् प्रतिष्ठित एव वर्तते ॥॥
32 अश्वायन्तो गव्यन्तो ...{Loading}...
अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः ।
हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ ।
आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् ।
व॒यमि॑न्द्र त्वा शु॒नँ हु॑वेम ॥45॥
सर्वाष्टीकाः ...{Loading}...
मूलम्
अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः ।
हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ ।
आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् ।
व॒यमि॑न्द्र त्वा शु॒नँ हु॑वेम ॥45॥
सायणटीका
32द्वात्रिंशीमाह - हे इन्द्र! वयं अश्वायन्तः अश्वमात्मन इच्छन्तः गव्यन्तः गामात्मन इच्छन्त वाजयन्तः वाजमन्नमात्मन इच्छन्तः त्वां उपगन्त वा उ उपगन्तुमेव हवामहे आह्वयामः ॥ नवायां नूतनायां सुमतौ शोभनायां भक्तियुक्तायां अस्मद्बुद्धौ त्वामाभूषन्तः सर्वतः प्रशंसन्तो वयं हे इन्द्र! त्वा शुनं त्वद्रूपं वायुं तदुपलक्षितमादित्यं च हुवेम आह्वयामः ॥ तदेतन्मन्त्रत्रयं शुनासीरगुणकेन्द्रदेवताके कर्मणि द्रष्टव्यम् ॥॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ॥
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥॥
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैतिरीयब्राह्मणभाष्ये द्वितीयाष्टके पञ्चमप्रपाठके अष्टमोऽनुवाकः ॥
पञ्चमप्रपाठकः समाप्तः ॥