01 वसूनान्त्वाऽधीतेन ...{Loading}...
वसू॑ना॒न्त्वाऽधी॑तेन ।
रु॒द्राणा॑मू॒र्म्या ।
आ॒दि॒त्याना॒न्तेज॑सा ।
विश्वे॑षान्दे॒वाना॒ङ्क्रतु॑ना ।
म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा॑ ।
01 वसूनान्त्वाऽधीतेन ...{Loading}...
मूलम्
वसू॑ना॒न्त्वाऽधी॑तेन ।
रु॒द्राणा॑मू॒र्म्या ।
आ॒दि॒त्याना॒न्तेज॑सा ।
विश्वे॑षान्दे॒वाना॒ङ्क्रतु॑ना ।
म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा॑ ।
सायणटीका
(SB) 1सप्तमानुवाके प्रथमामृचमाह - हे अग्ने! त्वां जुहोमि ॥ कीदृशं त्वां? वसूनामष्टानां संबन्धि यदधीतं मन्त्रजातं तेन सहितम् ॥ रुद्राणामेकादशानां संबन्धिनी येयमूर्मिरुत्कर्षस्तेन सहितम् ॥ आदित्यानां द्वादशानां संबन्धि यत्तेजस्तेन सहितम् ॥ विश्वेषां देवानां संबन्धी यः क्रतुः संकल्पः कर्मानुष्ठानं वा तेन सहितम् ॥ मरुतां संबन्धो योऽयमेमा गतिविशेषस्तेन सहितम् ॥ एतस्य मन्त्रस्य सावित्रचयने विनियोगमापस्तम्ब आह - ‘अपरं चतुर्गृहीतं वसूनां त्वाऽधीतेन’ इति ॥ जूहोतीत्यनुवर्तते ॥॥
02 अभिभूतिरहमागमम् ...{Loading}...
अ॒भिभू॑तिर॒हमाग॑मम् ।
इन्द्र॑सखा स्वा॒युधः॑ ।
आस्वाशा॑सु दु॒ष्षहः॑ ।
02 अभिभूतिरहमागमम् ...{Loading}...
मूलम्
अ॒भिभू॑तिर॒हमाग॑मम् ।
इन्द्र॑सखा स्वा॒युधः॑ ।
आस्वाशा॑सु दु॒ष्षहः॑ ।
सायणटीका
2द्वितीयामाह - हे अग्ने! अहमागमं त्वत्समीपे समागतोऽस्मि ॥ त्वमप्याशासु दिक्ष्वभिभूतिः वैरितिरस्कारक्षम आस्व उपविश ॥ इन्द्रसखा इन्द्रस्य प्रियः स्वायुधः शोभनैरायुधैरुपेतः दुष्षहः केनापि तिरस्कर्तुमशक्यः ॥ अयं मन्त्रः कस्मिंश्चिदाग्रयणे कर्मण्युपहोमार्थः ॥॥
03 इदव्ँवर्चो अग्निना ...{Loading}...
इ॒दव्ँवर्चो॑ अ॒ग्निना॑ द॒त्तमागा॑त् ।
यशो॒ भर्ग॒स्सह॒ ओजो॒ बल॑ञ्च ॥30॥
दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय ।
प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य ।
03 इदव्ँवर्चो अग्निना ...{Loading}...
मूलम्
इ॒दव्ँवर्चो॑ अ॒ग्निना॑ द॒त्तमागा॑त् ।
यशो॒ भर्ग॒स्सह॒ ओजो॒ बल॑ञ्च ॥30॥
दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय ।
प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य ।
सायणटीका
3तृतीयामाह - अग्निना दत्तं यदिदं वर्चःप्रभृतिगुणजातं तदि- दमागात् यजमानं प्रत्यागतम् ॥ वर्चः शरीरकान्तिः यशः कीर्तिः भर्गः रश्मिरूपं तेज: सहोऽभिभवसामर्थ्यं ओजः बलहेतुरष्टमोधातुः बलं शरीरशक्तिः ॥ शतशारदाय शतसंख्याकसंवत्सरोपेताय दीर्घायुत्वाय दीर्घकालवर्त्यायुष्याय महते वीर्यायाधिकसामर्थ्याय च प्रतिगृभ्णामि अग्नेरनुग्रहं स्वीकरोमि ॥ अस्य मन्त्रस्य हारियोजनादूर्ध्वभाविनि यज्ञपुच्छे विनियोगो द्रष्टव्यः ॥॥
04 आयुरसि विश्वायुरसि ...{Loading}...
आयु॑रसि वि॒श्वायु॑रसि ।
स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि ।
सर्व॑म्म॒ आयु॑र्भूयात् ।
सर्व॒मायु॑र्गेषम् ।
04 आयुरसि विश्वायुरसि ...{Loading}...
मूलम्
आयु॑रसि वि॒श्वायु॑रसि ।
स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि ।
सर्व॑म्म॒ आयु॑र्भूयात् ।
सर्व॒मायु॑र्गेषम् ।
सायणटीका
4उक्तास्त्रयो मन्त्रा ऋगात्मकाः ॥ चतुर्थमन्त्रमारभ्य यजुरात्मकाः ॥ तत्रैतं चतुर्थमन्त्रमाह - हे प्रवर्ताख्य! कर्णाभरण! त्वमायुरसि आयुषः स्वरूपमसि ॥ विश्वायुरसि विश्वस्य जगतः आयुस्स्वरूपमसि॥ सर्वायुरसि विशेषतः सर्वेषां पुरुषाणामायुस्स्वरूपमसि ॥ सर्वमायुरसि यच्छतसंवत्सरपरिमितमायुस्तत्सर्वं त्वमसि ॥ त्वत्प्रसादात्सर्वं संपूर्णमायुर्मे भूयान् ॥ अतोऽहं सर्वं संपूर्णमायुर्गेषं गम्यासम् ॥ अस्य मन्त्रस्यायुष्कामेष्टौ कर्णाभरणधारणे विनियोगमापस्तम्ब आह - ‘तद्यजमान आचम्य प्रतिगृह्य प्रदक्षिणं दक्षिणे कर्णे आबध्नात्यायुरसि विश्वायुरसि’ इति ॥॥
05 भूर्भुवस्सुवः ...{Loading}...
भूर्भुव॒स्सुवः॑ ।
05 भूर्भुवस्सुवः ...{Loading}...
मूलम्
भूर्भुव॒स्सुवः॑ ।
सायणटीका
5पञ्चमं यनुराह - पृथिव्यन्तरिक्षद्युलोका अनुगृह्णन्त्विति शेषः ॥॥
06 अग्निर्धर्मेणान्नादः ...{Loading}...
अ॒ग्निर्धर्मे॑णान्ना॒दः ।
मृ॒त्युर्धर्मे॒णान्न॑पतिः ।
ब्रह्म॑ क्ष॒त्रँ स्वाहा॑ ॥31॥
06 अग्निर्धर्मेणान्नादः ...{Loading}...
मूलम्
अ॒ग्निर्धर्मे॑णान्ना॒दः ।
मृ॒त्युर्धर्मे॒णान्न॑पतिः ।
ब्रह्म॑ क्ष॒त्रँ स्वाहा॑ ॥31॥
सायणटीका
6षष्ठ यजुराह - योऽयमग्निः सोऽयं स्वकीयेन धर्मेणान्नादो भवति ॥ अन्नभक्षकत्वं जाठराग्नौ प्रसिद्धम् ॥ योऽयं मृत्युर्देवः सोऽयं स्वकीयेन धर्मेणान्नपतिरन्नस्य पालकः ॥ यावन्मृत्युः प्राणिनं न मारयति तावदयमन्नं भुङ्क्ते तदिदमन्नपालकत्वम् ॥ ब्रह्म ब्राह्मणजातिः क्षत्रं क्षत्रियजातिः तान्येतान्यग्निमृत्युब्रह्मक्षत्राण्युद्दिश्य स्वाहा हुतमिदमस्तु ॥॥
07 प्रजापतिᳶ प्रणेता ...{Loading}...
प्र॒जाप॑तिᳶ प्रणे॒ता ।
बृह॒स्पति॑ᳶ पुरए॒ता ।
य॒मᳶ पन्थाः॑ ।
च॒न्द्रमाः॑ पुनर॒सुस्स्वाहा॑ ।
07 प्रजापतिᳶ प्रणेता ...{Loading}...
मूलम्
प्र॒जाप॑तिᳶ प्रणे॒ता ।
बृह॒स्पति॑ᳶ पुरए॒ता ।
य॒मᳶ पन्थाः॑ ।
च॒न्द्रमाः॑ पुनर॒सुस्स्वाहा॑ ।
सायणटीका
7सप्तमं यजुराह - योऽयं प्रजापतिः सोऽयं प्रणेता प्रेरकः ॥ योऽयं बृहस्पतिः सोऽयं पुरएता पुरतो गन्ता ॥ योऽयं यमः सोऽयं पन्थाः मार्गपालकः ॥ यस्तु चन्द्रमाः सोऽयं पुनरसुः पुनःपुनर्जायमानः प्राणरूपः ॥ तानेतान्प्रजापत्यादीनुद्दिश्य स्वाहा हुतमिदमस्तु ॥ भूर्भुवस्सुवरित्यादिमन्त्रत्रयस्य विनियोगः सूत्रान्तरेषु मृग्यताम् ॥॥
08 मूलम् अग्निरन्नादोऽन्नपतिः ...{Loading}...
अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः ।
अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
08 मूलम् अग्निरन्नादोऽन्नपतिः ...{Loading}...
अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः ।
अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
09 अग्निरन्नादोऽन्नपतिर् ...{Loading}...
अ॒ग्निर॑न्ना॒दोऽन्न॑पतिर् अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
09 अग्निरन्नादोऽन्नपतिर् ...{Loading}...
मूलम्
अ॒ग्निर॑न्ना॒दोऽन्न॑पतिर् अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सायणटीका
8अष्टमं यजुराह - योऽयमग्निः सोऽयमन्नादो जाठराग्निरूपेणान्नस्य भक्षकः ॥ अन्नपतिः बाह्याग्निरूपेणान्नस्य पाचकत्वात्पालकः॥ सोऽयमग्निरस्मिन्यज्ञे यजमानाय भक्षणयोग्यमन्नं ददातु ॥ तस्मै अग्नये स्वाहा हुतमिदमस्तु ॥॥
10 मूलम् सोमो राजा ...{Loading}...
सोमो॒ राजा॒ राज॑पतिः ।
रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
10 मूलम् सोमो राजा ...{Loading}...
सोमो॒ राजा॒ राज॑पतिः ।
रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
11 सोमो राजा ...{Loading}...
सोमो॒ राजा॒ राज॑पती रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
11 सोमो राजा ...{Loading}...
मूलम्
सोमो॒ राजा॒ राज॑पती रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सायणटीका
9नवमं यजुराह - यः सोमः सोऽयं ब्राह्मणानां राजा ॥ ‘सोमोऽस्माकं ब्राह्मणानाँ राजा’ इति मन्त्रान्तरान् ॥ स चान्येषां राज्ञां पालकत्वाद्राजपतिः ॥ शेषं पूर्ववत् ॥॥
12 मूलम् वरुणस्सम्राट्त्सम्राट्पतिः ...{Loading}...
वरु॑णस्स॒म्राट्त्स॒म्राट्प॑तिः ।
साम्रा॑ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ॥32॥
12 मूलम् वरुणस्सम्राट्त्सम्राट्पतिः ...{Loading}...
वरु॑णस्स॒म्राट्त्स॒म्राट्प॑तिः ।
साम्रा॑ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ॥32॥
13 वरुणस्सम्राट्त्सम्राट्पतिस् ...{Loading}...
वरु॑णस्स॒म्राट्त्स॒म्राट्प॑ति॒स् साम्रा॑ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ॥32॥
13 वरुणस्सम्राट्त्सम्राट्पतिस् ...{Loading}...
मूलम्
वरु॑णस्स॒म्राट्त्स॒म्राट्प॑ति॒स् साम्रा॑ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ॥32॥
सायणटीका
10दशमं यजुराह - योऽयं वरुणः सोऽयं समीचीनो राजा भूत्वा सर्वेषामन्येषां साम्राज्यानां पालकः ॥॥
14 मूलम् मित्रः ...{Loading}...
मि॒त्रः क्ष॒त्रङ्क्ष॒त्रप॑तिः ।
क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
14 मूलम् मित्रः ...{Loading}...
मि॒त्रः क्ष॒त्रङ्क्ष॒त्रप॑तिः ।
क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
15 मित्रः ...{Loading}...
मि॒त्रः क्ष॒त्रङ्क्ष॒त्रप॑तिᳵ क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
15 मित्रः ...{Loading}...
मूलम्
मि॒त्रः क्ष॒त्रङ्क्ष॒त्रप॑तिᳵ क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सायणटीका
11एकादशं यजुराह - मित्रो देवः स्वयं क्षत्रियजातिर्भूत्वा सर्वेषामन्येषां क्षत्रियाणां पालकः ॥ स च क्षत्रं क्षत्रियधर्मं ददातु ॥॥
16 मूलम् इन्द्रो बलम्बलपतिः ...{Loading}...
इन्द्रो॒ बल॒म्बल॑पतिः ।
बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
16 मूलम् इन्द्रो बलम्बलपतिः ...{Loading}...
इन्द्रो॒ बल॒म्बल॑पतिः ।
बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
17 इन्द्रो बलम्बलपतिर् ...{Loading}...
इन्द्रो॒ बल॒म्बल॑पति॒र् बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
17 इन्द्रो बलम्बलपतिर् ...{Loading}...
मूलम्
इन्द्रो॒ बल॒म्बल॑पति॒र् बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सायणटीका
12द्वादशं यजुराह - अयमिन्द्रः स्वयं बलं प्राप्य परकीयस्य बलस्य पालको भवति ॥॥
18 मूलम् बृहस्पतिर्ब्रह्म ...{Loading}...
बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पतिः ।
ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
18 मूलम् बृहस्पतिर्ब्रह्म ...{Loading}...
बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पतिः ।
ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
19 बृहस्पतिर्ब्रह्म ...{Loading}...
बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पति॒र् ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
19 बृहस्पतिर्ब्रह्म ...{Loading}...
मूलम्
बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पति॒र् ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सायणटीका
13त्रयोदशं यजुराह - बृहस्पतिः स्वयं देवानां मध्ये ब्राह्मणजातियुक्तः ॥ ‘ब्रह्म वै देवानां बृहस्पतिः’ इति श्रुत्यन्तरात् ॥ सोऽयमितरब्राह्मणजातेः पालको ब्राह्मणधर्मं ददातु ॥॥
20 मूलम् सविता राष्ट्रम् ...{Loading}...
स॒वि॒ता रा॒ष्ट्रँ रा॒ष्ट्रप॑तिः ।
रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
20 मूलम् सविता राष्ट्रम् ...{Loading}...
स॒वि॒ता रा॒ष्ट्रँ रा॒ष्ट्रप॑तिः ।
रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
21 सविता राष्ट्रम् ...{Loading}...
स॒वि॒ता रा॒ष्ट्रँ रा॒ष्ट्रप॑ती रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
21 सविता राष्ट्रम् ...{Loading}...
मूलम्
स॒वि॒ता रा॒ष्ट्रँ रा॒ष्ट्रप॑ती रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सायणटीका
14चतुर्दशं यजुराह - सविता स्वयं राष्ट्रं प्राप्य अन्यदीयस्य राष्ट्रस्य पालको भवति ॥॥
22 मूलम् पूषा विशाव्ँविट्पतिः ...{Loading}...
पू॒षा वि॒शाव्ँविट्प॑तिः ।
विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
22 मूलम् पूषा विशाव्ँविट्पतिः ...{Loading}...
पू॒षा वि॒शाव्ँविट्प॑तिः ।
विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
23 पूषा विशाव्ँविट्पतिर् ...{Loading}...
पू॒षा वि॒शाव्ँविट्प॑ति॒र् विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
23 पूषा विशाव्ँविट्पतिर् ...{Loading}...
मूलम्
पू॒षा वि॒शाव्ँविट्प॑ति॒र् विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सायणटीका
15पञ्चदशं यजुराह - पूषा स्वयं देवानां विशां स्वामी भूत्वा मनुष्याणामपि विशां पालको भवति ॥॥
24 मूलम् सरस्वती पुष्टिᳶ ...{Loading}...
सर॑स्वती॒ पुष्टि॒ᳶ पुष्टि॑पत्नी ।
पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
24 मूलम् सरस्वती पुष्टिᳶ ...{Loading}...
सर॑स्वती॒ पुष्टि॒ᳶ पुष्टि॑पत्नी ।
पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
25 सरस्वती पुष्टिᳶ ...{Loading}...
सर॑स्वती॒ पुष्टि॒ᳶ पुष्टि॑पत्नी॒ पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
25 सरस्वती पुष्टिᳶ ...{Loading}...
मूलम्
सर॑स्वती॒ पुष्टि॒ᳶ पुष्टि॑पत्नी॒ पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ ।
सायणटीका
16षोडश मनुराह - सरस्वती स्वयं पुष्टियुक्ता सती परकीयाया अपि पुष्टेः पालयित्री भवति ॥॥
26 मूलम् त्वष्टा ...{Loading}...
त्वष्टा॑ पशू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पप॑तिः ।
रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा॑ ॥33॥
26 मूलम् त्वष्टा ...{Loading}...
त्वष्टा॑ पशू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पप॑तिः ।
रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा॑ ॥33॥
27 त्वष्टा ...{Loading}...
त्वष्टा॑ पशू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पप॑ती रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा॑ ॥33॥
27 त्वष्टा ...{Loading}...
मूलम्
त्वष्टा॑ पशू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पप॑ती रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा॑ ॥33॥
सायणटीका
17सप्तदशं यजुराह - मिथुनानां स्त्रीपुरुषरूपाणां पशूनां रूपस्य कर्ता त्वष्टा सर्वेषां रूपाणां पालकः ॥ अतोऽस्मिन्यज्ञे यजमानाय समीचीनरूपेण युक्तान्पशून्ददातु ॥ तस्मै त्वष्ट्रे स्वाहा हुतमिदमस्तु ॥ ‘अग्निरन्नादः’ इत्यादयो दश मन्त्रा मित्रविन्दाख्यायामिष्टावुपहोमार्थाः ॥॥
इति तैत्तिरीयब्राह्मणभाष्ये पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥