+०६, उपहोमशेषः

01 वार्त्रहत्याय शवसे ...{Loading}...

वार्त्र॑हत्याय॒ शव॑से ।
पृ॒त॒ना॒साह्या॑य च ।
इन्द्र॒ त्वा व॑र्तयामसि ।

01 वार्त्रहत्याय शवसे ...{Loading}...

मूलम्

वार्त्र॑हत्याय॒ शव॑से ।
पृ॒त॒ना॒साह्या॑य च ।
इन्द्र॒ त्वा व॑र्तयामसि ।

सायणटीका

(SB) 1षष्ठानुवाके प्रथमामृचमाह - हे इन्द्र! वार्त्रहत्याय शत्रुवधाय शवसे अस्मदीयाय बलाय पृतनासाह्याय वैरिसेनाभिभवाय च त्वामावर्तयामसि पुनःपुनर्भजामहे ॥॥

02 सुब्रह्माणव्ँवीरवन्तम्बृहन्तम् ...{Loading}...

सु॒ब्रह्मा॑णव्ँवी॒रव॑न्तम्बृ॒हन्त॑म् ।
उ॒रुङ्ग॑भी॒रम्पृ॒थुबु॑ध्नमिन्द्र ।
श्रु॒तर्षि॑मु॒ग्रम॑भिमाति॒षाह॑म् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँवृष॑णँ र॒यिन्दाः॑ ।

02 सुब्रह्माणव्ँवीरवन्तम्बृहन्तम् ...{Loading}...

मूलम्

सु॒ब्रह्मा॑णव्ँवी॒रव॑न्तम्बृ॒हन्त॑म् ।
उ॒रुङ्ग॑भी॒रम्पृ॒थुबु॑ध्नमिन्द्र ।
श्रु॒तर्षि॑मु॒ग्रम॑भिमाति॒षाह॑म् ।
अ॒स्मभ्य॑ञ्चि॒त्रव्ँवृष॑णँ र॒यिन्दाः॑ ।

सायणटीका

2द्वितीयामाह - हे इन्द्र! अस्मभ्यं रयिं दाः धनं देहि, वयं तु त्वां भजाम इत्यध्याहारः ॥ कीदृशं त्वां? सुब्रह्माणं शोभनब्राह्मणोपेतं ऋत्विग्भिस्स्तुत्यमित्यर्थः ॥ वीरवन्तं वीरैः पुत्रैर्भृत्यैश्चोपेतम् ॥ बृहन्तमैश्वर्येण महान्तं उरुं गभीरं अत्यन्तं गभीरं अतिप्रबुद्धमित्यर्थः ॥ पृथुबुध्नं विस्तीर्णमूलं प्रजापतिसृष्टमित्यर्थः ॥ ‘प्रजापतिरिन्द्रमसृजत’ इति श्रुतेः ॥ श्रुतर्षिं ऋषिषु मन्त्रेष्वैन्द्रसूक्तादिषु श्रूयमाणं उग्रं वैरिषु क्रोधिनं अभिमातिषाहं पाप्मनो विनाशकम् ॥ कीदृशं रयिं? चित्रं मणिमुक्तादिरूपेण बहुविधं वृषणं कामाभिवर्षणक्षमम् ॥ एतच्चोभयमैन्द्रे कर्मणि द्रष्टव्यम् ॥॥

03 क्षेत्रियै त्वा ...{Loading}...

क्षे॒त्रि॒यै त्वा॒ निर्ऋ॑त्यै त्वा ।
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गस॒म्ब्रह्म॑णे त्वा करोमि ॥25॥
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।

03 क्षेत्रियै त्वा ...{Loading}...

मूलम्

क्षे॒त्रि॒यै त्वा॒ निर्ऋ॑त्यै त्वा ।
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गस॒म्ब्रह्म॑णे त्वा करोमि ॥25॥
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।

सायणटीका

3तृतीयामाह - एतस्य मन्त्रजातस्य जातकर्मविषयत्वात्कुमारेऽत्र संबोध्यते ॥ हे कुमार! त्वां क्षेत्रीनामिकाया रक्षोजातेः द्रुहः द्रोहात् मुञ्चामि मुक्तं करोमि ॥ बालोपद्रवकारिणी काचिद्रक्षोजातिः क्षेत्री ॥ तथाऽन्या रक्षोजातिर्निर्ऋतिः तस्या अपि द्रोहात्त्वां मुञ्चामि ॥ तथा वरुणस्य पाशो रोगविशेषः तस्मादपि त्वां मुञ्चामि ॥ ब्रह्म परिबृढाय जातकर्मादिसंस्काराय त्वामनागसं दोषरहितं करोमि ते त्वदर्थं इमे द्यावापृयिव्यावुभे अपि शिवे शान्ते भवेताम् ॥॥

04 शन्ते ...{Loading}...

शन्ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु ।
शन्द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम॒न्तरि॑क्षँ स॒ह वाते॑न ते ।
शन्ते॒ चत॑स्रᳶ प्र॒दिशो॑ भवन्तु ।

04 शन्ते ...{Loading}...

मूलम्

शन्ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु ।
शन्द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम॒न्तरि॑क्षँ स॒ह वाते॑न ते ।
शन्ते॒ चत॑स्रᳶ प्र॒दिशो॑ भवन्तु ।

सायणटीका

4चतुर्थीमाह - हे कुमार! त्वदर्थमयमग्निः अद्भिः सह शं सुखहेतुरस्तु ॥ द्यावापृथिव्यौ चौषधीभिः सह शं सुखहेतू स्ताम् ॥ अन्तरिक्षं च वातेन सह ते शमस्तु ॥ प्राच्याद्याः प्रकृष्टदिशश्चतस्रोऽपि ते शं भवन्तु ॥॥

05 या दैवीश्चतस्रᳶ ...{Loading}...

या दैवी॒श्चत॑स्रᳶ प्र॒दिशः॑ ।
वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे ।
तासा॑न्त्वा ज॒रस॒ आद॑ध प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिम्परा॒चैः ।

05 या दैवीश्चतस्रᳶ ...{Loading}...

मूलम्

या दैवी॒श्चत॑स्रᳶ प्र॒दिशः॑ ।
वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे ।
तासा॑न्त्वा ज॒रस॒ आद॑ध प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिम्परा॒चैः ।

सायणटीका

5पञ्चमीमाह - वातपत्नीः वायोः पालयित्रीः देवी देवतारूपाः याश्चतस्रः प्रदिशोऽभिलक्ष्य सूर्यो विचष्टे विशेषेण ख्यापयति तासां दिशां जरसे जरार्थं त्वामादधामि स्थापयामि ॥ यावद्दिशो न जीर्यन्ति तावत्त्वां जीवयामीत्यर्थः ॥ योऽयं यक्ष्मो व्याधिः स पराचैः त्वत्तः पराङ्मुखो भूत्वा निऋक्ततिं रक्षोजातिं प्रैतु प्राप्नोतु ॥

06 अमोचि ...{Loading}...

अमो॑चि॒ यक्ष्मा॑द्दुरि॒तादव॑र्त्यै ॥26॥
द्रु॒हᳶ पाशा॒न्निर्ऋ॑त्यै॒ चोद॑मोचि ।
अहा॒ अव॑र्ति॒मवि॑दत्स्यो॒नम् ।
अप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।

06 अमोचि ...{Loading}...

मूलम्

अमो॑चि॒ यक्ष्मा॑द्दुरि॒तादव॑र्त्यै ॥26॥
द्रु॒हᳶ पाशा॒न्निर्ऋ॑त्यै॒ चोद॑मोचि ।
अहा॒ अव॑र्ति॒मवि॑दत्स्यो॒नम् ।
अप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।

सायणटीका

6षष्टीमाह - अयं कुमारो यक्ष्मात् व्याधेः दुरितादिहेतोः पापात् अवर्त्यै वर्तिर्वर्तनं जीवनहेतुः संपत् तद्विपरीतं दारिद्र्यमवर्तिः तस्या अप्यमोचि मुक्तोऽभूत् ॥ तथा निऋऋत्यै राक्षसजातेः द्रुहः द्रोहरूपात्पाशाच्चायं कुमार उदमोचि उत्कर्षेण मुक्तोऽभूत् ॥ अवर्तिं दारिद्र्यं अहाः अहासीः परित्यक्तवान् ॥ स्योनं सुखं अविदत् लब्धवान् ॥ भद्रे कल्याणे सुकृतस्य लोके पुण्यकर्मणः फलभूते स्थाने अप्यभूत् अवस्थितवान् ॥॥

07 सूर्यमृतन्तमसो ग्राह्या ...{Loading}...

सूर्य॑मृ॒तन्तम॑सो॒ ग्राह्या॒ यत् ।
दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः ।
ए॒वम॒हमि॒मङ्क्षे॑त्रि॒याज्जा॑मिशँ॒सात् ।
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।

07 सूर्यमृतन्तमसो ग्राह्या ...{Loading}...

मूलम्

सूर्य॑मृ॒तन्तम॑सो॒ ग्राह्या॒ यत् ।
दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः ।
ए॒वम॒हमि॒मङ्क्षे॑त्रि॒याज्जा॑मिशँ॒सात् ।
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।

सायणटीका

7सप्तमीमाह - तमोविद्धस्य सूर्यस्य प्रतीकारं देवाश्चकुः ॥ तथा च ब्राह्मणम् - ‘सुवर्भानुरासुरस्सूर्यं तमसाऽविध्यत्तर्स्में देवाः प्रायश्चित्तिमैच्छन्’ इति ॥ सोऽयं वृतान्तोऽत्र दृष्टान्तत्वेनाभिधीयते ॥ यत् यथा देवा ऋतमन्धकारप्राप्तं सूर्यं ग्राह्या ग्राहकात् आवरकात् तमसः अमुञ्चन्मुक्तमकुर्वन् ॥ तथा तद्धेतोरेनसः पापात् व्यसृजन् वियोजितवन्तः ॥ एवमहं जनकः इमं कुमारं वरुणस्य पाशात् मुञ्चामि मुक्तं करोमि ॥ कीदृशात्पाशात्? क्षेत्रियात् क्षेत्रं गर्भस्थानं तत्रोत्पन्नात् जामिशंसात् आलस्यप्रख्यापकात् द्रुहः बाधकात् ॥ क्षेत्रियै त्वेत्यादिमन्त्राणां जातकर्मणि विनियोगं बोधायन आह - ‘अथैनं स्नापयति क्षेत्रियै त्वा निऋऋत्यै त्वा’ इति ॥॥

08 बृहस्पते युवमिन्द्रश्च ...{Loading}...

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ ।
दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तँ र॒यिँ स्तु॑व॒ते की॒रये॑चित् ॥27॥
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।

08 बृहस्पते युवमिन्द्रश्च ...{Loading}...

मूलम्

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ ।
दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तँ र॒यिँ स्तु॑व॒ते की॒रये॑चित् ॥27॥
यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।

सायणटीका

8अष्टमीमाह - हे बृहस्पते! त्वमिन्द्रश्चेत्येतौ युवां दिव्यस्य वस्वः दिवि भवस्य वसुनः धनस्य ईशाथे स्वामिनौ भवथः ॥ उत अपिच पार्थिवस्य पृथिव्यां भवस्य धनस्येशाथे ॥ स्तुवते स्तोत्रं कुर्वते कीरयेचित् कर्त्रे यागं बृहस्पतिसवाख्यं कुर्वते रयिं धनं संपादयतम् ॥ हे इन्द्राबृहस्पती! सपरिवारा यूयं नोऽस्मान् स्वस्तिभिः क्षेमैः सदा पात रक्षत ॥ एतस्य मन्त्रस्य बृहस्पतिसवयागे यजमानाभिषेके विनियोगमापस्तम्ब आह -‘आज्येन माध्यंदिने सवने कृष्णाजिन आसीनमभिषिञ्चति शुक्रामन्थिनौ वा संस्रावेण बृहस्पते युवम्’ इति ॥॥

09 देवायुधमिन्द्रमा ...{Loading}...

दे॒वा॒युध॒मिन्द्र॒मा जोहु॑वानाः ।
वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः ।
येन॑ ह॒ता दी॒र्घमध्वा॑न॒माय॑न् ।
अ॒न॒न्तमर्थ॒मनि॑वर्त्स्यमानाः ।

09 देवायुधमिन्द्रमा ...{Loading}...

मूलम्

दे॒वा॒युध॒मिन्द्र॒मा जोहु॑वानाः ।
वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः ।
येन॑ ह॒ता दी॒र्घमध्वा॑न॒माय॑न् ।
अ॒न॒न्तमर्थ॒मनि॑वर्त्स्यमानाः ।

सायणटीका

9नवमीमाह - येनेन्द्रेण हता वृत्रादयो दीर्घमध्वानं आयन् मरणं प्राप्ता इत्यर्थः ॥ तमिन्द्रमभिलक्ष्य ये यजमाना रक्षमाणाः प्रतीक्षां कुर्वन्त आजोहुवानाः सर्वत आह्नानं कुर्वन्तो वर्तन्ते ॥ कीदृशमिन्द्रं? देवायुधं योद्धारं विश्वावृधं विश्वस्य वर्धयितारं ते यजमाना इन्द्रसेविनः अनिवर्त्स्यमाना इतः परं मनुष्यलोके’ पुनरावृत्तिरहितास्सन्तः अनन्तं विनाशरहितं अर्थं सर्वैरर्थनीयं प्रार्थनीयं लोकं आयन् प्राप्ताः ॥ सोऽयं मन्त्र ऐन्द्रे कर्मणि द्रष्टव्यः ॥॥

10 यत्ते सुजाते ...{Loading}...

यत्ते॑ सुजाते हि॒मव॑त्सु भेष॒जम् ।
म॒यो॒भूश्शन्त॑मा॒ यद्धृ॒दोसि॑ ।
ततो॑ नो देहि सीबले ।

10 यत्ते सुजाते ...{Loading}...

मूलम्

यत्ते॑ सुजाते हि॒मव॑त्सु भेष॒जम् ।
म॒यो॒भूश्शन्त॑मा॒ यद्धृ॒दोसि॑ ।
ततो॑ नो देहि सीबले ।

सायणटीका

10दशमीमाह - सीबलाशब्दः कांचिदोषधिं वल्लीरूपामाचष्टे ॥ सा च हिमवत्सानुषूत्पद्यते ॥ हिमवत्सु पर्वतविशेषेषु सुजाते सुष्ठूत्पन्ने हे ओषधे! ते त्वदीयं यद्भेषजं रोगविनाशमौषधमस्ति ॥ यत् यतस्त्वं हृदो हृदयस्य शंतमा सर्वोपद्रवशमनहेतुः मयोभूः सुखस्य भावयित्री चासि ॥ हे सीबले! एतत्संज्ञके ओषधे! ततस्तादृश्यास्त्वत्सकाशात्तदौषधं नो देहि ॥॥

11 अदो गिरिभ्यो ...{Loading}...

अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि ।
सँ॒शोभ॑माना क॒न्ये॑व शुभ्रे ॥28॥
तान्त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति ।
सा न॑स्सीबले र॒यिमाभा॑जये॒ह ।

11 अदो गिरिभ्यो ...{Loading}...

मूलम्

अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि ।
सँ॒शोभ॑माना क॒न्ये॑व शुभ्रे ॥28॥
तान्त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति ।
सा न॑स्सीबले र॒यिमाभा॑जये॒ह ।

सायणटीका

11एकादशीमाह - हे ओषधे! यद्यदा त्वं गिरिभ्यः पर्वतेभ्यः सकाशात् अदः प्रत्यक्षं यथा भवति तथा अधिप्रधावसि अधिकं वल्लीरूपा सर्वतः प्रसरसि ॥ तत्र दृष्टान्तः - संशोभमाना कन्येव यथा सर्वैराभरणैः सम्यक् शोभमाना कन्या स्वयंवरार्थमागतानां वराणां पुरतः संचरति तद्वत् ॥ हे शुभ्रे! निर्मले! ओषधिदेवते! तां त्वा तादृशीं शुभ्रां त्वां मुद्गला मुद्गलगोत्रोत्पन्ना महर्षयो हविषा वर्धयन्ति ॥ हे सीबलाख्ये ओषधिदेवते! सा त्वं इह कर्मणि अस्मभ्यं रयिमाभाजय धनं संपादय ॥ रोगनिवर्तकमौषधमेवात्र धनम् ॥ एते उभे ऋचावेतदोषधिदेवताके शाखान्तरगते कर्मणि याज्यानुवाक्ये ॥॥

12 पूर्वन्देवा ...{Loading}...

पूर्व॑न्देवा॒ अप॑रेणानु॒पश्य॒ञ्जन्म॑भिः ।
जन्मा॒न्यव॑रै॒ᳶ परा॑णि ।
वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् ।
अ॒हँ हि॒त्वा शरी॑रञ्ज॒रस॑ᳶ प॒रस्ता॑त् ।

12 पूर्वन्देवा ...{Loading}...

मूलम्

पूर्व॑न्देवा॒ अप॑रेणानु॒पश्य॒ञ्जन्म॑भिः ।
जन्मा॒न्यव॑रै॒ᳶ परा॑णि ।
वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् ।
अ॒हँ हि॒त्वा शरी॑रञ्ज॒रस॑ᳶ प॒रस्ता॑त् ।

सायणटीका

12द्वादशीमाह - हे देवाः! अहमपरेण अधमेनानेन जन्मना पूर्वं जन्मानुपश्यन्निदानीं वर्ते ॥ तथैवावरैः निकृष्टैर्मनुष्यजन्मभिः पराण्युत्कृष्टानि देवजन्मानि वेदानि लभेय ॥ इदानींतनजन्मनि प्रयत्नमन्तरेण स्वतः प्रवृत्तां वेदशास्त्रादिवासनां दृष्ट्वा पूर्वमप्येतादृशजन्म संपन्नमिति निश्चीयते ॥ अत एव अभिज्ञा आहुः - ‘प्रपेदिरे प्राक्तनजन्मविद्याः’ इति ॥ सोऽयं दृष्टान्तः - यथा पूर्वजन्मनि वासितमिहजन्मनि फलितमेवमत्राप्यनुष्ठितमुत्तरत्र फलिष्यतीति जानामि ॥ अतोऽनुवित्त्याख्याया देवतायाः प्रसादादहं हे देवाः! जरसः परस्तात् स्वशरीरं हित्वा लोकान्तरेऽयमीदृशो देवोऽस्मीति मां वेदानि ज्ञातुं शक्नुयाम् ॥॥

13 प्राणापानौ ...{Loading}...

प्रा॒णा॒पा॒नौ चक्षु॒श्श्रोत्र॑म् ।
वाच॒म्मन॑सि॒ सम्भृ॑ताम् ।
हि॒त्वा शरी॑रञ्ज॒रस॑ᳶ प॒रस्ता॑त् ।
आ भूति॒म्भूतिव्ँ॑व॒यम॑श्ञवामहै ।

13 प्राणापानौ ...{Loading}...

मूलम्

प्रा॒णा॒पा॒नौ चक्षु॒श्श्रोत्र॑म् ।
वाच॒म्मन॑सि॒ सम्भृ॑ताम् ।
हि॒त्वा शरी॑रञ्ज॒रस॑ᳶ प॒रस्ता॑त् ।
आ भूति॒म्भूतिव्ँ॑व॒यम॑श्ञवामहै ।

सायणटीका

13त्रयोदशीमाह - यावेतौ प्राणापानावुच्छ्वासनिश्वासरूपौ वायू ॥ यदपि चक्षुः श्रोत्रमित्यादिकं ज्ञानेन्द्रियम् ॥ याऽपि मनसि संभृता संबद्धा वाक् ॥ ‘यद्धि मनसा ध्यायति तद्वाचा वदति’ इति श्रूतेर्वाचो मनसि संबद्धत्वम् ॥ इयं च वाक्कर्मेन्द्रियाणां सर्वेषामुपलक्षणम् ॥ तदिदं प्राणापानादिकं सर्वं गृहीत्वा वयं जरसः परस्तात् शरीरं हित्वा भूतिंभूतिं तत्तल्लोकस्थितं तत्तदैश्वर्यं आ समन्तात् अश्नवामहै प्राप्नवाम ॥ एते ऋचौ दिवश्श्येनीष्विष्टिषु ‘अनुवित्त्यै चरुम्’ इत्यत्र याज्यानुवाक्ये ॥ अत एव तत्र प्रतीकद्वयमाम्नातम् - ‘पूर्वं देवा अपरेण प्राणापानौ’ इति ॥॥

14 इमा एव ...{Loading}...

इ॒मा ए॒व ता उ॒षसो॒ याᳶ प्र॑थ॒मा व्यौच्छ॑न् ।
ता दे॒व्य॑ᳵ कुर्वते॒ पञ्च॑रू॒पा ।
शश्व॑ती॒र्नाव॑पृज्यन्ति ।
न ग॑म॒न्त्यन्त॑म् ॥29॥

14 इमा एव ...{Loading}...

मूलम्

इ॒मा ए॒व ता उ॒षसो॒ याᳶ प्र॑थ॒मा व्यौच्छ॑न् ।
ता दे॒व्य॑ᳵ कुर्वते॒ पञ्च॑रू॒पा ।
शश्व॑ती॒र्नाव॑पृज्यन्ति ।
न ग॑म॒न्त्यन्त॑म् ॥29॥

सायणटीका

14चतुर्दशीमाह - या उषसः प्रथमाः प्रथमभाविन्यः सृष्ट्यादौ वर्तमाना व्यौच्छन् व्युष्टिं प्रभातमकुर्वन् ॥ ता इमा उषस इदानीं प्रतिदिनं वर्तमाना एव ॥ ताश्चोषसो देव्यः पञ्चसंख्याकानि रूपाणि कुर्वते वमन्तादीनि तत्तल्लिङ्गानि कुर्वते ॥ शश्वतीः निरन्तरं वर्तमानास्ता उषसः नावपृज्यन्ति कदाचिदपि न समाप्यन्ते ॥ तदेव स्पष्टीक्रियते - अन्तमवसानं न गमन्ति न प्राप्नुवन्ति ॥ सोऽयं मन्त्र उषोदेवताके कर्मणि द्रष्टव्यः ॥॥

इति तैत्तिरीयब्राह्मणभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥