01 यज्ञो रायो ...{Loading}...
य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् ।
य॒ज्ञस्स॒स्याना॑मु॒त सु॑क्षिती॒नाम् ।
य॒ज्ञ इ॒ष्टᳶ पू॒र्वचि॑त्तिन्दधातु ।
य॒ज्ञो ब्र॑ह्म॒ण्वाँ अप्ये॑तु दे॒वान् ।
01 यज्ञो रायो ...{Loading}...
मूलम्
य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् ।
य॒ज्ञस्स॒स्याना॑मु॒त सु॑क्षिती॒नाम् ।
य॒ज्ञ इ॒ष्टᳶ पू॒र्वचि॑त्तिन्दधातु ।
य॒ज्ञो ब्र॑ह्म॒ण्वाँ अप्ये॑तु दे॒वान् ।
सायणटीका
(SB) 1अथ पञ्चमानुवाके प्रथमामृचमाह - यज्ञो यज्ञस्वामी यो देवः स रायो धनस्य मणिमुक्तादिरूपस्य ईशे स्वामी भवति ॥ तथा यज्ञो वसूनां निवासहेतूनां गृहाणामीशे स्वामी भवति ॥ तथाऽयं यज्ञः सस्यानां व्रीह्माद्योषधीनां स्वामी ॥ उत अपि च सुक्षितीनां शोभनभूमीनामीशे स्वामी ॥ इष्टो यज्ञः पूर्वचित्तिं दधातु पूर्वचित्तिं स्वर्गं दधातु ॥ तथाऽन्यत्राम्नातम् - ‘द्यौरसीत्पूर्वचित्तिः’ इति ॥ ब्रह्म वेदः, ब्राह्मण्वान् मन्त्रयुक्तो यज्ञो देवानप्येतु देवान्प्राप्नोतु ॥॥
02 अयय्ँ यज्ञो ...{Loading}...
अ॒यय्ँ य॒ज्ञो व॑र्धता॒ङ्गोभि॒रश्वैः॑ ।
इ॒यव्ँ वेदि॑स्स्वप॒त्या सु॒वीरा॑ ।
इ॒दम्ब॒र्हिरति॑ ब॒र्हीँष्य॒न्या ।
इ॒मय्ँ य॒ज्ञव्ँ विश्वे॑ अवन्तु दे॒वाः ।
02 अयय्ँ यज्ञो ...{Loading}...
मूलम्
अ॒यय्ँ य॒ज्ञो व॑र्धता॒ङ्गोभि॒रश्वैः॑ ।
इ॒यव्ँ वेदि॑स्स्वप॒त्या सु॒वीरा॑ ।
इ॒दम्ब॒र्हिरति॑ ब॒र्हीँष्य॒न्या ।
इ॒मय्ँ य॒ज्ञव्ँ विश्वे॑ अवन्तु दे॒वाः ।
सायणटीका
2द्वितीयामाह - अयमस्माभिरनुष्ठीयमानो यज्ञो गोभिरश्वैश्च सह वर्धतां वृद्धिं प्राप्नोतु ॥ इयं वेदिः यज्ञसंबन्धिनी स्वपत्या शोभनपुत्रप्रदा सुवीरा शोभनभृत्यप्रदा चास्तु ॥ इदं च वेद्यामास्तीर्णं बर्हिः अन्या बर्हींषि इतरयजमानसंबन्धीनि बर्हिषि अतिक्रामतु ॥ इमं चास्मदीयं यज्ञं विश्वे देवा अवन्तु रक्षन्तु ॥ एते ऋचौ दिवश्श्येनीनामिकास्विष्टिषु ‘यज्ञाय चरुम्’ इत्यस्य याज्यानुवाक्ये ॥॥
03 भग एव ...{Loading}...
भग॑ ए॒व भग॑वाँ अस्तु देवाः ।
तेन॑ व॒यम्भग॑वन्तस्स्याम ॥18॥
तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि ।
स नो॑ भग पुरए॒ता भ॑वे॒ह ।
03 भग एव ...{Loading}...
मूलम्
भग॑ ए॒व भग॑वाँ अस्तु देवाः ।
तेन॑ व॒यम्भग॑वन्तस्स्याम ॥18॥
तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि ।
स नो॑ भग पुरए॒ता भ॑वे॒ह ।
सायणटीका
3तृतीयामाह - हे देवाः! यो भगाख्यो देवः स एव भगवान् सौभाग्यवानस्तु ॥ तेन देवेन वयं सर्वे भगवन्तः सौभाग्ययुक्ताः स्याम ॥ हे भग! तादृशं त्वां सर्व इति सर्व एव जोहवीमि आह्वयामीत्यर्थः ॥ हे भग! देव! इह कर्मणि नोऽस्माकं पुरएता पुरतो गन्ता भव ॥॥
04 भग प्रणेतर्भग ...{Loading}...
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः ।
भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः॑ ।
भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम ।
04 भग प्रणेतर्भग ...{Loading}...
मूलम्
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः ।
भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः॑ ।
भग॒ प्र नृभि॑र्नृ॒वन्त॑स्स्याम ।
सायणटीका
4चतुर्थीमाह - हे प्रणेतः! प्रकर्षेण नेतुं कुशल! हे भग! देव अस्मान्कर्मणि प्रणयेति शेषः ॥ हे सत्यराधः! सत्यधन! भगदेव! अस्मभ्यं धनं देहीति शेषः ॥ हे भग! नोऽस्मभ्यमिमां धियं ददत् कर्मानुष्ठानबुद्धिं प्रयच्छत् उदव उत्कर्षेण रक्ष ॥ हे भग! देव! नोऽस्मान् गोभिरश्वैः प्रजनय तद्युक्तान्कुर्वित्यर्थः ॥ हे भग! त्वत्प्रसादाद्वयं नृभिः पुरुषैर्नृवन्तः पुरुषवन्तः स्याम ॥ एतद्द्वयं ‘भगाय चरुं वावातायै गृहे’ इत्यस्मिन्कर्मणि द्रष्टव्यम् ॥॥
05 शश्वतीस्समा उपयन्ति ...{Loading}...
शश्व॑ती॒स्समा॒ उप॑यन्ति लो॒काः ।
शश्व॑ती॒स्समा॒ उप॑य॒न्त्यापः॑ ।
इ॒ष्टम्पू॒र्तँ शश्व॑तीनाँ॒ समा॑नाँ शाश्व॒तेन॑ ।
ह॒विषे॒ष्ट्वाऽन॒न्तल्ँ लो॒कम्पर॒मारु॑रोह ॥19॥
05 शश्वतीस्समा उपयन्ति ...{Loading}...
मूलम्
शश्व॑ती॒स्समा॒ उप॑यन्ति लो॒काः ।
शश्व॑ती॒स्समा॒ उप॑य॒न्त्यापः॑ ।
इ॒ष्टम्पू॒र्तँ शश्व॑तीनाँ॒ समा॑नाँ शाश्व॒तेन॑ ।
ह॒विषे॒ष्ट्वाऽन॒न्तल्ँ लो॒कम्पर॒मारु॑रोह ॥19॥
सायणटीका
5पञ्चमीमाह - लोकाः सर्वे प्राणिनः शश्वतीः शाश्वतीः समा निरन्तरवर्तिनः संवत्सरान् उपयन्ति प्राप्नुवन्ति ॥ एकस्मिन् संवत्सरेऽतीतेऽपि पुनरन्यं संवत्सरं प्राप्नुवन्ति ॥ तथैवापः शाश्वतीः समा उपयन्ति निरन्तरं प्रवहन्ति ॥ यथैतावुभौ दृष्टान्तौ तथा शाश्वतीनां समानां निरन्तरवर्तिनां संवत्सराणां संबन्धि इष्टं पूर्तं श्रौतं स्मार्तं च कर्म प्रवर्ततां कर्मानुष्ठानमनवच्छिन्नमस्त्वित्यर्थः ॥ तेन शाश्वतेन निरन्तरानुष्ठितेन हविषा देवमिष्ट्वा अनन्तं विनाशरहितं परमुत्कृष्टं लोकमारुरोह पुरुष आरोहति ॥ कृष्यादिफलवच्छ्रौतस्मार्तकर्मफलं सहसा न विनश्यति किंतु चिरमनुभवितव्यमित्यर्थः ॥ अस्यामृचि देवताभिव्यक्त्यभावात् ‘अनिरुक्तः प्रजापतिः’ इत्यनुसारेण प्राजापत्ये कर्मण्येषा द्रष्टव्या ॥॥
06 इयमेव सा ...{Loading}...
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त् ।
सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी ।
06 इयमेव सा ...{Loading}...
मूलम्
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त् ।
सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी ।
सायणटीका
6षष्ठीमाह - या सृष्ट्युपक्रमे प्रथमा उषा व्यौच्छत् व्युष्टाऽऽसीत् इयमेव सा इदानीमस्मान्प्रति सूर्योदयात्पूर्वकालरूपेण प्रादुर्भवति सैव रूपाणि पुनःपुनरावर्तत इत्यर्थः ॥ सा देव्येकैव सती पञ्च रूपाणि पञ्चर्तूस्तूल्लिङ्गानि पञ्च वा कुरुते ॥॥
07 द्वे स्वसारौ ...{Loading}...
द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत् ।
स॒ना॒तनव्ँ॒वित॑तँ॒ षण्म॑यूखम् ।
अवा॒न्याँस्तन्तू॑न्कि॒रतो॑ ध॒त्तो अ॒न्यान् ।
नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्त॑म् ।
07 द्वे स्वसारौ ...{Loading}...
मूलम्
द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत् ।
स॒ना॒तनव्ँ॒वित॑तँ॒ षण्म॑यूखम् ।
अवा॒न्याँस्तन्तू॑न्कि॒रतो॑ ध॒त्तो अ॒न्यान् ।
नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्त॑म् ।
सायणटीका
7सप्तमीमाह - अहश्च रात्रिश्चैते द्वे देवते स्वसारौ परस्परभगिन्यौ ते एतत्संवत्सरात्मकं तन्त्रं तन्तुनिष्पन्नं वस्त्रं वयतः ॥ यथा कुविन्दस्तन्तुभिर्वस्त्रं वयति निष्पादयत्येवमेते संवत्सरं निष्पादयत इत्यर्थः ॥ तच्च संवत्सरात्मकं वस्त्रं कीदृशं? सनातनमनादिकालसिद्धम् ॥ न हि संवत्सरप्रवाहस्यास्माभिर्दृश्यभान आदिः कश्चिदस्ति ॥ अत एव विततं वस्त्रगतदीर्घतन्तुवद्वीस्तीर्णं ॥ षण्मयूखं षट्संख्याका ऋतवो मयूखाः शङ्कुस्थानीया यस्य तादृशं, कुविन्देन हि तन्तु प्रसरणाय शङ्कवो निखन्यन्ते तद्वदृतव इत्यर्थः ॥ कुविन्दो हि वस्त्रनिर्माणकाले काश्चिद्दीर्घतन्तूनधः कृत्वा मध्ये तिर्यक्तन्तून्धारयति एवमेते अप्यहोरात्रदेवते अन्यान् कांश्चिदहर्विशेषान् तन्तून् अस्तमयकालेषु अवकिरतः अधोगतान्कुरुतः, अन्यांश्च रात्रिरूपांस्तन्तूनस्तमयादूर्ध्वं धत्तो धारयतः ॥ एते अहोरात्रदेवते कदाचिदपि नावपृज्याते ॥ तस्यैव व्याख्यानं - अन्तं न गमाते संवत्सरात्मकवस्त्रनिर्माणस्य समाप्तिं न गच्छतः, निरन्तरं संवत्सरपरम्परां निष्पादयत इत्यर्थः ॥ एतच्च मन्त्रद्वयं क्रमादुषोदेवताकेऽहोरात्रदेवताके च कर्मविशेषे द्रष्टव्यम् ॥॥
08 आ वो ...{Loading}...
आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य ।
वृष्टिय्ँ॒ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।
अ॒यय्ँ यो अ॒ग्निर्म॑रुत॒स्समि॑द्धः ।
ए॒तञ्जु॑षध्वङ्कवयो युवानः ॥20॥
08 आ वो ...{Loading}...
मूलम्
आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य ।
वृष्टिय्ँ॒ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।
अ॒यय्ँ यो अ॒ग्निर्म॑रुत॒स्समि॑द्धः ।
ए॒तञ्जु॑षध्वङ्कवयो युवानः ॥20॥
सायणटीका
8अष्टमीमाह - हे मरुतः! ये विश्वे सर्वे मेधा दृष्टिं जुनन्ति जवेन त्वरया प्रेरयन्ति वो युष्मत्संबन्धिन उदवाहास उदकवाहिनो मेघा अद्यास्मिन्कर्मण्यायन्त्वागच्छन्तु ॥ कवयः! सर्वज्ञाः युवानः! नित्यतरुणाः! मरुतः! यूयं योऽग्निरिह समिद्धस्तमेतं जुषध्वं वृष्ट्यर्थं सेवध्वम् ॥ ‘अग्निर्वा इतो वृष्टिमुदीरयति मरुतस्सृष्टान्न यन्ति’ इति ब्राह्मणम् ॥॥
09 धारावरा मरुतो ...{Loading}...
धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः ।
मृ॒गा न भी॒मास्त॑वि॒षेभि॑रू॒र्मिभिः॑ ।
अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑ ।
भ्रुमि॒न्धम॑न्त॒ उप॒ गा अ॑वृण्वत ।
09 धारावरा मरुतो ...{Loading}...
मूलम्
धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः ।
मृ॒गा न भी॒मास्त॑वि॒षेभि॑रू॒र्मिभिः॑ ।
अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑ ।
भ्रुमि॒न्धम॑न्त॒ उप॒ गा अ॑वृण्वत ।
सायणटीका
9नवमीमह - एते मरुतो गा गोवद्दुहाना वृष्टीः उपावृण्वत समीपे वृतवन्तः, वृष्टिं संपादितवन्त इत्यर्थः ॥ कीदृशा मरुतः? वृष्टिधारया भूमिं वृण्वन्ति व्याप्नुवन्तीति धारावराः, धृष्णु धर्षणक्षमं ओजो बलं येषा ते धृष्णुवोजमः ॥ अत एव मृगा न सिंहव्याघ्रादिमृगा इव तविषेभिः बलवद्भिः ऊर्मिभिः गमनैः भीमा भयंकरा अग्नयो न शुशुचाना अग्नय इव दीप्यमाना ऋजीषिण ऋजीषोपलक्षितसोमपानयुक्ता भ्रुमिं भ्राम्यतीति भ्रुमिः मेघः तं धमन्तश्चालयन्तः ॥ एतच्चोभयं मारुते कर्मणि द्रष्टव्यम् ॥॥
10 वि चक्रमे ...{Loading}...
वि च॑क्रमे॒ त्रिर्दे॒वः ।
10 वि चक्रमे ...{Loading}...
मूलम्
वि च॑क्रमे॒ त्रिर्दे॒वः ।
सायणटीका
10-11दशम्या एकादश्याश्च प्रतीके दर्शयति - विचक्रम इत्येका त्रिर्देव इत्यपरा, एते ‘जुष्टी नरः’ इत्यत्र व्याख्याते ॥ एतच्चोभयं वैष्णवे कर्मणि द्रष्टव्यम् ॥॥
-
विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् ।
क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः ।
उ॒रु॒क्षि॒तिँ सु॒जनि॑मा चकार ।- 2अथ द्वादशीमाह - एष विष्णुः पृथिवीमेतां पृथिव्युपलक्षितमिदं लोकत्रयं विचक्रमे विशेषेण पादैराक्रान्तवान् । किं कुर्वन्, मनुषे मनुष्याणां क्षेत्राय निवासार्थं दशस्यन् प्रदातुमिच्छन् । अस्य विष्णोः कीरयो जनासः कीर्तिपरा जनाः ध्रुवासः स्थिरा भवन्ति । स विष्णुः पुनः सुजनिमा शोभनेन वामनरूपेण जन्मना युक्त उरुक्षितिं प्राणिनां निवासाय विस्तीर्णं स्थानं चकार ॥
-
त्रिर्दे॒वᳶ पृ॑थि॒वीमे॒ष ए॒ताम् ।
विच॑क्रमे श॒तर्च॑सम्महि॒त्वा ।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् ।
त्वे॒षँ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥25॥- टीका 13अथ त्रयोदशीमाह - एष विष्णुर्देवः शतर्चसं शतविधगतियुक्तामेतां पृथिवीं पृथिव्युपलक्षितलोकत्रयं महित्वा स्वमहिम्ना त्रिविचक्रमे त्रिवारं पादेनाक्रान्तवान् । तवसस्तवीयान् महतो महीयान् विष्णुः प्रास्तु प्रकृष्टो भवतु । स्थविरस्यात्यन्तं प्रवृद्धस्यास्य विष्णोर्नाम त्रिविक्रमादिरूपं त्वेषं हि प्रदीप्तं प्रसिद्धमित्यर्थः । उक्तानां मन्त्राणां ‘वैष्णवं वामनमालभेत’ इत्येतस्य पशोः सूक्ते प्रतीकान्याम्नातानि, ‘प्र तद्विष्णुः, विचक्रमे त्रिर्देवः’ इति । ‘नु मर्तः’ इति मन्त्रस्तु ‘प्र तद्विष्णुः’ इत्यनेन सह विकल्प्यते ॥
11 आ ...{Loading}...
आ वे॒धस॒न्नील॑पृष्ठम्बृ॒हन्त॑म् ।
बृह॒स्पतिँ॒ सद॑ने सादयध्वम् ।
सा॒दद्यो॑नि॒न्दम॒ आ दी॑दि॒वाँस॑म् ।
हिर॑ण्यवर्णमरु॒षँ स॑पेम ।
11 आ ...{Loading}...
मूलम्
आ वे॒धस॒न्नील॑पृष्ठम्बृ॒हन्त॑म् ।
बृह॒स्पतिँ॒ सद॑ने सादयध्वम् ।
सा॒दद्यो॑नि॒न्दम॒ आ दी॑दि॒वाँस॑म् ।
हिर॑ण्यवर्णमरु॒षँ स॑पेम ।
सायणटीका
12द्वादशीमाह - हे ऋत्विग्यजमानाः! बृहस्पतिं देव सदने यज्ञस्थाने सादयध्यम् ॥ कीदृशम्? आवेधसं सर्वतः स्रष्टारं नीलपृष्ठं पृष्ठभागे नीलं बृहन्तं गुणैर्महान्तं सादद्योनिं योनौ स्वर्गस्थाने यजमानान् सादयन्तं दमे गृहे आदीदिवांसं सर्वतो दीप्यमानं हिरण्यवर्णं स्वर्णसमानकान्तिं अरुषं रोषरहितं तादृशं बृहस्पतिं सपेम संबध्नीमः ॥॥
12 स हि ...{Loading}...
स हि शुचि॑श्श॒तप॑त्र॒स्स शु॒न्ध्यूः ॥21॥
हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः ।
बृह॒स्पति॒स्स स्वा॑वे॒श ऋ॒ष्वाः ।
पू॒रू सखि॑भ्य आसु॒तिङ्क॑रिष्ठः ।
12 स हि ...{Loading}...
मूलम्
स हि शुचि॑श्श॒तप॑त्र॒स्स शु॒न्ध्यूः ॥21॥
हिर॑ण्यवाशीरिषि॒रस्सु॑व॒र्षाः ।
बृह॒स्पति॒स्स स्वा॑वे॒श ऋ॒ष्वाः ।
पू॒रू सखि॑भ्य आसु॒तिङ्क॑रिष्ठः ।
सायणटीका
13त्रयोदशीमाह - स हि प्रसिद्धो बृहस्पतिः शुचिः शुद्धः ॥ शतपत्रः शतसंख्याकवाहनोपेतः ॥ स बृहस्पतिः शुन्ध्यूः अन्ये- षामपि शोधको हिरण्यवाशीः हिरण्यस्य वाशो वाक्यं शतम- स्मै देहि सहस्रमस्मै देहीत्यादिरूपं तेन वाक्येनोपेतः ॥ इषिरः सर्वैरेषणीयः ॥ सुवर्षाः स्वर्गप्रदः ॥ स बृहस्पतिः स्वावेशः सुष्ट्वा वेष्टुं समाश्रयितुं शक्यः ॥ ऋष्वा ऋषिरतीन्द्रियद्रष्टा ॥ तादृशो बृहस्पतिः सखिभ्यः सखिसदृशेभ्यो यजमानेम्यः पूरू प्रभूतं आसुतिमन्नं करिष्ठोऽतिशयेन कर्ता ॥ एतच्च मन्त्रद्वयं - ‘श्वेतां बार्हस्पत्याम्’ इत्यस्य पशोः सूक्ते द्रष्टव्यम् ॥ तथा च प्रतीकद्वयमाम्नातम् - ‘आवेधसँ स हिं शुचिः’ इति ॥॥
13 पूषँ स्तव ...{Loading}...
पूषँ॒ स्तव॑ व्र॒ते व॒यम् ।
न रि॑ष्येम क॒दाच॒न ।
स्तो॒तार॑स्त इ॒ह स्म॑सि ।
13 पूषँ स्तव ...{Loading}...
मूलम्
पूषँ॒ स्तव॑ व्र॒ते व॒यम् ।
न रि॑ष्येम क॒दाच॒न ।
स्तो॒तार॑स्त इ॒ह स्म॑सि ।
सायणटीका
14चतुर्दशीमाह - हे पूषन्! तव व्रते त्वदीये कर्मणि कदाचन न रिष्येम मा विनश्येम ॥ इह कर्मणि ते तव स्तोतारः स्मसि भवामः ॥॥
14 यास्ते पूषन्ना ...{Loading}...
यास्ते॑ पूष॒न्ना वो॑ अ॒न्तस्स॑मु॒द्रे ।
हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
याभि॑र्यासि दू॒त्याँ सूर्य॑स्य ।
कामे॑न कृ॒तश्रव॑ इ॒च्छमा॑नः ॥22॥
14 यास्ते पूषन्ना ...{Loading}...
मूलम्
यास्ते॑ पूष॒न्ना वो॑ अ॒न्तस्स॑मु॒द्रे ।
हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
याभि॑र्यासि दू॒त्याँ सूर्य॑स्य ।
कामे॑न कृ॒तश्रव॑ इ॒च्छमा॑नः ॥22॥
सायणटीका
15पञ्चदशीमाह - हे पूषन्समुद्रे समुद्रवद्विस्तीर्णेऽन्तरिक्षे अन्तः मध्ये हिरण्ययीः सुवर्णवर्णाः ते तव संबन्धिन्यो नावो नौसमाना दीप्तयो याश्चरन्ति ॥ याभिश्च रश्मिभिस्त्वं सूर्यस्य दूत्यां यासि दूतत्वं प्राप्नोषि ॥ सूर्यो हि स्वर्भानुसंज्ञकेनासुरेण तमसाऽऽवृतस्सन् दुःखितायाः सूर्यायाः समीपे पूषणं रश्मियुक्तं दूतत्वेन प्रेषितवान् ॥ तदिदमाख्यानं शाखान्तरे द्रष्टव्यम् ॥ तथा च सूक्तेऽप्याम्नायते - ‘तं देवासो अददुस्सूर्यायै’ इति ॥ स त्वं ताभिर्दीप्तिभिर्युक्तस्तत् श्रव इच्छमानः कीर्तिमाकांक्षन् कामेन कृतः स्वेच्छयैव दूतकर्मणि प्रेरितः ॥ एतदुभयं पौष्णे कर्मणि द्रष्टव्यम् ॥ सूक्तेऽप्येकस्य प्रतीकमाम्नातम् - ‘यास्ते पूषन्नावो अन्तः'24 इति ॥॥
15 अरण्यान्यरण्यान्यसौ ...{Loading}...
अर॑ण्या॒न्यर॑ण्यान्य॒सौ ।
या प्रेव॒ नश्य॑सि ।
क॒था ग्राम॒न्न पृ॑च्छसि ।
न त्वा॒भीरि॑व विन्दती ३ ।
15 अरण्यान्यरण्यान्यसौ ...{Loading}...
मूलम्
अर॑ण्या॒न्यर॑ण्यान्य॒सौ ।
या प्रेव॒ नश्य॑सि ।
क॒था ग्राम॒न्न पृ॑च्छसि ।
न त्वा॒भीरि॑व विन्दती ३ ।
सायणटीका
16षोडशीमाह - अरण्यानीशब्देन महारण्यमुच्यते ॥ द्विरुक्तिरादरार्था ॥ हे अरण्यानि! या त्वं प्रणश्यसीव जनरहितत्वान्नष्टेव प्रतीयसे ॥ असौ त्वं कथा कथं ग्रामं न पृच्छसि ॥ सर्वो हि जनो मार्गे गच्छन् स्वनिवासाय ग्रामः कुत्रेत्येवं पृच्छति त्वं तु तथा न पृच्छसि ॥ तथा ग्रामाद्बहिष्ठं पुरुषं रात्रौ भीः प्रविशति त्वां तु भीर्न विन्दती३ इव न लभत एव ॥ प्लुतिर्विस्मयार्था ॥ तदेवमरण्यदेवता स्तूयते ॥॥
16 वृषारवाय वदते ...{Loading}...
वृ॒षा॒र॒वाय॒ वद॑ते ।
यदु॒पाव॑तिचिच्चि॒कः ।
आ॒घा॒टीभि॑रिव धा॒वय॑न् ।
16 वृषारवाय वदते ...{Loading}...
मूलम्
वृ॒षा॒र॒वाय॒ वद॑ते ।
यदु॒पाव॑तिचिच्चि॒कः ।
आ॒घा॒टीभि॑रिव धा॒वय॑न् ।
सायणटीका
17सप्तदशीमाह - वृष्टिकाले रवः शब्दविशेषो यस्य पक्षिविशेषस्य सोऽयं वृषारवः ॥ स हि निर्जनाया अरण्यान्या उपरि निर्गत्य निरन्तरं चिदित्यादिशब्दं वदति तथा वदते तृषारवाय पक्षिणे प्रत्युत्तरवादी चिच्चिकाख्योऽन्यः पक्षी यत् यदा उपावति समीपमागत्य तदीयमभिवदनं प्रत्युत्तरदानेन परिपालयति ॥ एकस्मिन् पक्षिणि चिच्चिशब्दं कुर्वति सति अन्येऽपि तज्जातीया पक्षिणस्तदानीमेव चिच्चिशब्दान्कुर्वते ॥ तदानीमियमरण्यानिर्महीयते पूज्यते ॥ तत्र दृष्टान्तः - आघाटीभिः काण्डवीणादिभिर्धारयन्निव शोधयन्निव - यथा गानकाले गायकः पुरुषः स्वरविशेषान्वीवीणादिभिः शोधयति तादृशकुशलैर्गायकैः सेव्यमानो राजा यथा लोके पूज्यते, एवमुक्तिप्रत्युक्तिरूपचिञ्चिशब्दसहस्राणि कुर्वद्भिः सूक्ष्मैः पक्षिविशेषैर्युक्तेयमरण्यानिः शोभत इत्यर्थः ॥॥
17 अरण्यानिर्महीयते ...{Loading}...
अ॒र॒ण्या॒निर्म॑हीयते ।
उ॒त गाव॑ इवादन् ।
उ॒तो वेश्मे॑व दृश्यते ॥23॥
उ॒तो अ॑रण्या॒निस्सा॒यम् ।
श॒क॒टीरि॑व सर्जति ।
17 अरण्यानिर्महीयते ...{Loading}...
मूलम्
अ॒र॒ण्या॒निर्म॑हीयते ।
उ॒त गाव॑ इवादन् ।
उ॒तो वेश्मे॑व दृश्यते ॥23॥
उ॒तो अ॑रण्या॒निस्सा॒यम् ।
श॒क॒टीरि॑व सर्जति ।
सायणटीका
18अष्टादशीमाह - उत अपिच गाव इव यथा ग्रामे गावो गृहेषु वसन्ति तथाऽरण्ये गवयाद्या मृगविशेषा आदन् तृणानि भक्षयन्तो वर्तन्ते ॥ उतो अपिच लतागुल्मादिकं तत्र तत्र वेश्मेव गृह इव दृश्यते ॥ उतो अपिच इयमरण्यानिः सायंकाले वृक्षान्तरालेषु तमसा छन्नेषु शकटी सर्जतीव लक्ष्यते ॥ यथा कृषिकाः सायंकाले धान्यविशेषेः शकटानि पूरयित्वा स्वगृहे समागच्छन्ति एवमत्राप्यहनि वृक्षाग्रेषु दृश्यमानानि फलानि रात्रौ न दृश्यन्ते ॥ तथा सति सर्वाणि फलानि लूत्वा शकटे पूरयित्वा गृहेषु नीतानीति मुग्धानां बालानां प्रतिभासो भवति सोऽयं प्रतिभासोऽत्रारण्यवर्णनार्थमुच्यते ॥॥
18 गामङ्गैष आह्वयति ...{Loading}...
गाम॒ङ्गैष॒ आह्व॑यति ।
दार्व॒ङ्गैष॒ उपा॑वधीत् ।
वस॑न्नरण्या॒न्याँ सा॒यम् ।
अक्रु॑क्ष॒दिति॑ मन्यते ।
18 गामङ्गैष आह्वयति ...{Loading}...
मूलम्
गाम॒ङ्गैष॒ आह्व॑यति ।
दार्व॒ङ्गैष॒ उपा॑वधीत् ।
वस॑न्नरण्या॒न्याँ सा॒यम् ।
अक्रु॑क्ष॒दिति॑ मन्यते ।
सायणटीका
19एकोनविंशीमाह - अपिच अरण्यान्यामहनि गाश्चारयन् गोपालोऽङ्गशब्देन प्रियसंबोधनवाचिना गामाह्वयति ॥ यस्मिन्नाह्वानार्थे शब्दे गवां संकेतः कॢप्तस्तादृशस्य शब्दस्योपलक्षकोऽयमङ्गशब्दः ॥ गोपालस्य शब्दं श्रुत्वा यतःकुतश्चिदपि गावः समागच्छन्त्येव तदिदमाश्चर्यम् ॥ अपिच विचित्रस्य प्रासादस्य निर्माता यस्तक्षा स एष स्वापेक्षितं दारु काष्टमरण्यान्यामुपावधीत् छिनत्तीत्यर्थः ॥ यस्य यादृशं काष्ठमपेक्षितं तस्य तादृशमस्तीत्यपरमिदमाश्चर्यम् ॥ तस्याश्चर्यस्य द्योतकोऽयमङ्गशब्दः ॥ अङ्ग हन्तेत्यर्थः ॥ अपिच दीर्घयात्रासु मार्गे गच्छन्नरण्यान्यां सायंकाले यः पुमान्वसति सोऽयं महतो वृक्षस्याधस्ताद्वसम् बहून्बहून्पक्षिशब्दान् श्रुत्वा सेयमरण्यानी आक्रोशतीति मन्यते तदिदमन्यदाश्चर्यम् ॥॥
19 न वा ...{Loading}...
न वा अ॑रण्या॒निर्ह॑न्ति ।
अ॒न्यश्चेन्नाभि॒गच्छ॑ति ।
स्वा॒दोᳶ फल॑स्य ज॒ग्ध्वा ।
यत्र॒ काम॒न्निप॑द्यते ।
19 न वा ...{Loading}...
मूलम्
न वा अ॑रण्या॒निर्ह॑न्ति ।
अ॒न्यश्चेन्नाभि॒गच्छ॑ति ।
स्वा॒दोᳶ फल॑स्य ज॒ग्ध्वा ।
यत्र॒ काम॒न्निप॑द्यते ।
सायणटीका
20विंशीमाह - ये पुरुषास्तपश्चरितुमरण्यान्यां निवसन्ति तान्प्रत्यन्यो व्याघ्रादिर्नाभिगच्छति चेत् तदानीमियमरण्यानिर्न वै हन्ति सर्वथा न मारयति ॥ अयमर्थः - अरण्यप्रयुक्तः कश्चिदपि बाधो नास्ति ॥ व्याघ्रादिप्रयुक्तसूपायेन परिहर्तुं शक्यत इति ॥ यस्यामरण्यान्यां स्वादोः फलस्य जग्ध्वा स्वादु फलं भक्षयित्वा कामं निपद्यते स्वेच्छया निवसितुं शक्यते ॥ न खलु तत्रान्नसंपादनाय प्रयासोऽस्ति नापि निवासस्थानसंकोचः तादृशीयमरण्यानीति गुणस्तुतिः ॥॥
20 आञ्जनगन्धीं सुरभीम् ...{Loading}...
आञ्ज॑नगन्धीँ सुर॒भीम् ।
ब॒ह्व॒न्नामकृ॑षीवलाम् ।
प्राहम्मृ॒गाणा॑म्मा॒तर॑म् ।
अ॒र॒ण्या॒नीम॑शँसिषम् ॥ 24॥
20 आञ्जनगन्धीं सुरभीम् ...{Loading}...
मूलम्
आञ्ज॑नगन्धीँ सुर॒भीम् ।
ब॒ह्व॒न्नामकृ॑षीवलाम् ।
प्राहम्मृ॒गाणा॑म्मा॒तर॑म् ।
अ॒र॒ण्या॒नीम॑शँसिषम् ॥ 24॥
सायणटीका
21एकविंशीमाह - अहमनुष्ठाता इमामरण्यानीं प्राशंसिषं शंसनं कृतवानस्मि ॥ कीदृशम्? आञ्जनगन्धीमञ्जनेषु कर्पूरादिसुगन्धिद्रव्यप्रक्षेपेण यादृशं गन्धं संपादयन्ति तादृशगन्धोपेताम् ॥ विचित्रैः पुष्पैः फलैश्चानुकूलो गन्धः समुत्पाद्यते ॥ अत एव सुरभीं सुगन्धीम् ॥ चम्पकपुष्पादिजन्यो हि सुगन्धी वर्तते ॥ भक्षितुं योग्यानां फलविशेषाणामनेकत्वाद्बह्वन्नाम् ॥ तादृशानां वृक्षाणां स्वतएवोत्पन्नत्वेन कृषेरनपेक्षणादकृषीवलाम् ॥ तत्रोत्पन्नानां मृगाणां पालकत्वान्मातृसदृशीम् ॥ तदेतदरण्यानीत्यादिकमन्त्रषट्कमरण्यवासिभिस्तपस्विभिः स्वरक्षार्थं देवतां प्रार्थयितुं जपितव्यम् ॥॥
इति तैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके पञ्चमप्रपाठके पञ्चमोऽनुवाकः ॥