+०४, उपहोमशेषः

01 आ नो ...{Loading}...

आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्त॑म् ।
नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।
उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे ।
तमापृ॑णा वसुपते॒ वसू॑नाम् ।

01 आ नो ...{Loading}...

मूलम्

आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्त॑म् ।
नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।
उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे ।
तमापृ॑णा वसुपते॒ वसू॑नाम् ।

सायणटीका

(SB) 1चतुर्थानुवाके प्रथमामृचमाह - हे इन्द्र! द्युमन्तं दीप्यमानं भगं धनादिसौभाग्यं नोऽस्मभ्यमाभर संपादय ॥ ते तव देष्णस्य दानस्य प्ररेके अतिशये सति अतिरिक्तं धनं यागार्थं तुभ्यं निधीमहि ॥ उर्व इव बाडबाग्निरिवास्माकं कामः पप्रथे प्रथितोभूत् ॥ वसूनां वसुपते! बहुधनस्वामिन्! तं काममापृण सर्वतः पूरय ॥॥

02 इमङ्कामम्मन्दया ...{Loading}...

इ॒मङ्काम॑म्मन्दया॒ गोभि॒रश्वैः॑ ।
च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यव्ँ॒विप्राः॑ ।
इन्द्रा॑य॒ वाह॑ᳵ कुशि॒कासो॑ अक्रन् ।

02 इमङ्कामम्मन्दया ...{Loading}...

मूलम्

इ॒मङ्काम॑म्मन्दया॒ गोभि॒रश्वैः॑ ।
च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यव्ँ॒विप्राः॑ ।
इन्द्रा॑य॒ वाह॑ᳵ कुशि॒कासो॑ अक्रन् ।

सायणटीका

2अथ द्वितीयामाह - हे इन्द्र! इममस्माकं कामं गोभिरश्वैः त्वया दत्तैः मन्दय हर्षहेतुं कुरु ॥ चन्द्रवता हिरण्यवता राधसा रत्नादिधनेन च कामं पप्रथः प्रथय ॥ सुवर्यवः स्वर्गमिच्छन्तो विप्रा ये मेधाविनः कुशिकासः कुशिकास्तु विश्वामित्रस्य पुत्रा मतिभिः स्तोत्रैः तुभ्यमिन्द्राय वाहोऽक्रन् वाहमकुर्वन् तदीया स्तुतिरेव त्वदागमनहेतुत्वाद्वाहनमित्यर्थः ॥ एतच्चोभयमैन्द्रे कर्मणि द्रष्टव्यम् ॥॥

03 इन्द्रस्य नु ...{Loading}...

इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् ।
यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥12॥
अह॒न्नहि॒मन्व॒पस्त॑तर्द ।
प्रव॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ।

03 इन्द्रस्य नु ...{Loading}...

मूलम्

इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् ।
यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥12॥
अह॒न्नहि॒मन्व॒पस्त॑तर्द ।
प्रव॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ।

सायणटीका

3अथ तृतीयामाह - वज्री वज्रहस्त इन्द्रः प्रथमानि यानि वीर्याणि शौर्याणि चकार, इन्द्रस्य संबन्धीनि तानि वीर्याणि नु क्षिप्रं प्रवोचं प्रवक्ष्यामि ॥ प्रथमं तावत् अहिं वृत्राख्यमसुरमहन् हतवात् ॥ अनु तदनन्तरं अपस्ततर्द मेघस्थितं नलं मेघभेदेन पृथिव्यां व्यापितवान् ॥ अथ पर्वतानां वक्षणा पक्षान् प्राभिनत् प्रकर्षेण भिन्नवान् ॥॥

04 अहन्नहिम्पर्वते ...{Loading}...

अह॒न्नहि॒म्पर्व॑ते शिश्रिया॒णम् ।
त्वष्टा॑ऽस्मै॒ वज्रँ॑ स्व॒र्य॑न्ततक्ष ।
वा॒श्रा इ॑व धे॒नव॒स्स्यन्द॑मानाः ।
अञ्ज॑स्समु॒द्रमव॑ जग्मु॒रापः॑ ।

04 अहन्नहिम्पर्वते ...{Loading}...

मूलम्

अह॒न्नहि॒म्पर्व॑ते शिश्रिया॒णम् ।
त्वष्टा॑ऽस्मै॒ वज्रँ॑ स्व॒र्य॑न्ततक्ष ।
वा॒श्रा इ॑व धे॒नव॒स्स्यन्द॑मानाः ।
अञ्ज॑स्समु॒द्रमव॑ जग्मु॒रापः॑ ।

सायणटीका

4अथ चतुर्थीमाह - पर्वते पर्वतसमाने मेघे शिश्रियाणं आश्रितमहिं जलनिरोधकमहिनामानमसुरं अहन् हतवान् ॥ त्वष्टा देवोऽस्मा इन्द्राय स्वर्यं स्वर्गाय हितं वज्रं ततक्ष तीक्ष्णीकृतवान् ॥ ततो वज्रेण वृष्टिनिरोधके शत्रौ हते सति स्यन्दमाना आपः समुद्रं समुद्रसमानं भूप्रदेशं अञ्जः समञ्जसं यथा भवति तथा अवजग्मुः प्राप्ताः ॥ अपां दृष्टान्तः - वाश्रा धेनव इव यथा वत्समाकारयितुं शब्दं कुर्वत्यो धेनवो दुहन्ति तद्वत् ॥॥

05 वृषायमाणोऽवृणीत सोमम् ...{Loading}...

वृ॒षा॒यमा॑णोऽवृणीत॒ सोम॑म् ।
त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ ।
आ साय॑कम्म॒घवा॑ दत्त॒ वज्र॑म् ।
अह॑न्नेनम्प्रथम॒जा मही॑नाम् ॥13॥

05 वृषायमाणोऽवृणीत सोमम् ...{Loading}...

मूलम्

वृ॒षा॒यमा॑णोऽवृणीत॒ सोम॑म् ।
त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ ।
आ साय॑कम्म॒घवा॑ दत्त॒ वज्र॑म् ।
अह॑न्नेनम्प्रथम॒जा मही॑नाम् ॥13॥

सायणटीका

5अथ पञ्चमीमाह - वृषायमाणो घासं जिघत्सुर्वृषभ इव बलवान् देवानां पानार्थमिन्द्रः सोममवृणीत ॥ ततः त्रिकद्रुकेषु ‘ज्योतिर्गौरायुः’ इत्येतेषु त्रिकद्रुकनामकेषु यज्ञेषु सुतस्य अभिषुतस्य सोमस्य रसं अयमिन्द्रोऽपिबत् ॥ तथा मघवा इन्द्रः सायकं बाणवत्तीक्ष्णं वज्रमादत्त स्वीकृतवान् ॥ आदाय च अहीनामसुराणां मध्ये प्रथमजां प्रथमोत्पन्नमेनं वृत्रमहन् हतवान् ॥॥

06 यदिन्द्राहन्प्रथमजा ...{Loading}...

यदिन्द्राह॑न्प्रथम॒जा मही॑नाम् ।
आन्मा॒यिना॒ममि॑ना॒ᳶ प्रोत मा॒याः ।
आत्सूर्य॑ञ्ज॒नय॒न्द्यामु॒षास॑म् ।
ता॒दीक्ना॒ शत्रू॒न्न किला॑विवित्से ।

06 यदिन्द्राहन्प्रथमजा ...{Loading}...

मूलम्

यदिन्द्राह॑न्प्रथम॒जा मही॑नाम् ।
आन्मा॒यिना॒ममि॑ना॒ᳶ प्रोत मा॒याः ।
आत्सूर्य॑ञ्ज॒नय॒न्द्यामु॒षास॑म् ।
ता॒दीक्ना॒ शत्रू॒न्न किला॑विवित्से ।

सायणटीका

6अथ षष्ठीमाह - हे इन्द्र! यद्यदा त्वमहीनां प्रथमजां हतवानसि आत् अनन्तरं मायिनां मायायुक्तानामसुराणां माया उत सर्वा अपि मायाः प्रामिनाः प्रकर्षेण शितवानसि ॥ आत अनन्तरं सूर्यं जनयन् स्वर्भानुसंज्ञकेनासुरेण प्रयुक्ते तमसि मग्नं सूर्यं प्रादुर्भावयन्, तथोषासं द्यां जनयन् उषःकालं दीप्तं कुर्वन्वर्तसे ॥ तादीक्ना तादृशान् शत्रून् कदाचिदपि त्वं नाविवित्से किल सर्वथा न लभसे ॥॥

07 अहन्वृत्रव्ँ ...{Loading}...

अह॑न्वृ॒त्रव्ँ वृ॑त्र॒तर॒व्व्ँयँस॑म् ।
इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ ।
स्कन्धाँ॑सीव॒ कुलि॑शेना॒विवृ॑क्णा ।
अहि॑श्शयत उप॒पृक्पृ॑थि॒व्याम् ।

07 अहन्वृत्रव्ँ ...{Loading}...

मूलम्

अह॑न्वृ॒त्रव्ँ वृ॑त्र॒तर॒व्व्ँयँस॑म् ।
इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ ।
स्कन्धाँ॑सीव॒ कुलि॑शेना॒विवृ॑क्णा ।
अहि॑श्शयत उप॒पृक्पृ॑थि॒व्याम् ।

सायणटीका

7अथ सप्तमीमहि -अयमिन्द्रो महता प्रौढेन वधेन वधसाधनभूतेनानेन वज्रेण वृत्रमहन् वृत्रनामकमसुरं हतवान् ॥ कीदृशं वृत्रं? वृत्रतरं अतिशयेन लोकत्रयावारकम् ॥ ‘स इमान्लोकानवृणोत्" इति ब्राह्मणम् ॥ व्यंसं छेदनेनांसरहितम् ॥ ततोऽयमहिर्वृत्राख्यासुर इन्द्रेण हतस्सन् पृथिव्यां उपपृक् उपसंपृक्तः पतितोऽशयिष्ट ॥ तत्र दृष्टान्तः - कुलिशेन कुठारेण विवृक्णा विशेषतश्छिन्नानि स्कन्धांसीव वृक्षस्य स्कन्धा यथा भूमौ निपतन्ति तद्वत् ॥॥

08 अयोध्येव दुर्मद ...{Loading}...

अ॒यो॒ध्येव दु॒र्मद॒ आ हि जु॒ह्वे ।
म॒हा॒वी॒रन्तु॑विबा॒धमृ॑जी॒षम् ॥14॥
नाता॑रीरस्य॒ समृ॑तिव्ँव॒धाना॑म् ।
सँ रु॒जानाः॑ पिपिष॒ इन्द्र॑शत्रुः ।

08 अयोध्येव दुर्मद ...{Loading}...

मूलम्

अ॒यो॒ध्येव दु॒र्मद॒ आ हि जु॒ह्वे ।
म॒हा॒वी॒रन्तु॑विबा॒धमृ॑जी॒षम् ॥14॥
नाता॑रीरस्य॒ समृ॑तिव्ँव॒धाना॑म् ।
सँ रु॒जानाः॑ पिपिष॒ इन्द्र॑शत्रुः ।

सायणटीका

8अथाष्टमीमाह - दुर्मदो मदान्धो वृत्र इन्द्रमाजुह्वे हि युद्धार्थमाहुतवान्किल ॥ तत्र दृष्टान्तः - अयोध्येव यथा लोके योद्धुमशक्तो वृथैव वाचा युद्धार्थं गर्जनं करोति तद्वत् ॥ कीदृशभिन्द्रं? महावीरं शूरेषु मध्येऽत्यन्तमेव शूरम् ॥ विबाधं बाधरहितम् ॥ ऋजीषं सोमसंबन्धिनम् ॥ ऋजीषस्यापि भक्षकत्वादृजीषरूपम् ॥ तादृशस्यैवेन्द्रस्य शत्रुर्वृत्र अस्येन्द्रस्य वधानां समृतिं संगमं नातारीः न प्राप्तवान् इन्द्रं हन्तुं न शक्त इत्यर्थः ॥ प्रत्युत रुजानाः भङ्गं प्राप्नुवतीः स्वकीया एव सेनाः संपिपिषे सम्यक्पिष्टवान् वज्रेण हतो भूमौ पतन् सन् समीपवर्तिनः सर्वान् शूरांश्चूर्णीकृतवानित्यर्थः ॥ ‘इन्द्रस्य नु वीर्याणि’ इत्यारभ्य षण्मन्त्रा निष्केवल्यशस्त्रेऽन्तर्भावनीयाः ॥॥

09 विश्वो विहाया ...{Loading}...

विश्वो॒ विहा॑या अर॒तिः ।

वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे ।

त॒रणि॒र्न शि॑श्रथत् ।

श्र॒व॒स्य॑या॒ न शि॑श्रथत् ।

दे॒व॒त्रा ह॒व्यमूहि॑षे ।

विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वति ।

अ॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥15॥

09 विश्वो विहाया ...{Loading}...

मूलम्

विश्वो॒ विहा॑या अर॒तिः ।

वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे ।

त॒रणि॒र्न शि॑श्रथत् ।

श्र॒व॒स्य॑या॒ न शि॑श्रथत् ।

दे॒व॒त्रा ह॒व्यमूहि॑षे ।

विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वति ।

अ॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥15॥

सायणटीका

9अथ नवमीमाह - अयमग्निः विश्वो विश्वात्मको विहाया विशिष्टगतियुक्तः अरतिः उपरतिरहितः ॥ हविवहनाय पुनःपुनरागमने नास्त्यस्योपरतिः ॥ वसुः निवासहेतुः तादृशोऽयमग्निर्ब्राह्मणस्य दक्षिणे हस्ते धृत आसीत् ॥ अत एव तत्र होम आम्नातः - ब्राह्मणस्य दक्षिणे हस्ते होतव्यम्’ इति ॥

तरणिः दुःखेभ्यस्तारयिता न शिश्रथत् शिथिलो न भवति ॥

तत्र हेतुः - श्रवस्यया हविर्लक्षणान्नेच्छया न शिश्रथत् पुनःपुनरभिवृद्ध एवाभून्न तु शिथिलः ॥

विश्वस्मा इत् सर्वस्मै जगत एव सर्वजगद्रक्षणार्थं इषुध्यस ईश्वरो भवसि ॥ इषुध ऐश्वर्य इति धातुः ॥

देवत्रा सर्वेषु देवेषु हव्यमूहिषे अस्मदीयं हव्यं वहसि ॥ विश्वस्मा इत्सुकृते सर्वस्मा अपि पुण्यकृते तदर्थं वारमृण्वति वार्यन्ते प्रवेशार्थिनः प्राणिनो यत्र तत्सुवर्गस्य द्वारं वारमित्युच्यते, तदपावृणोति ॥

तदेव स्पष्टीक्रियते - अयमग्निः द्वारा स्वर्गद्वारं व्यृण्वति विवृतं करोति ॥ अत्यष्टित्वादियमष्टपदी ॥॥

10 उदुज्जिहानो अभि ...{Loading}...

उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रय॑न् ।
प्र॒पृ॒ञ्चन्विश्वा॒ भुव॑नानि पू॒र्वथा॑ ।
आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः ।
काम॑न्नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः ।

10 उदुज्जिहानो अभि ...{Loading}...

मूलम्

उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रय॑न् ।
प्र॒पृ॒ञ्चन्विश्वा॒ भुव॑नानि पू॒र्वथा॑ ।
आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः ।
काम॑न्नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः ।

सायणटीका

10अथ दशमीमाह - हे अग्ने! दिग्भ्यः सकाशात् नः अस्मदीयं कामं अभीष्टमर्थं अभिहर्य संपादय ॥ किं कुर्वन्? उदुज्जिहानः अत्यन्तमूर्ध्वमुद्गच्छन् काममभीष्टमर्थमभिमतं ईरयन् प्रेरयन् ॥ विश्वा भुवनानि पूर्वथा यथापूर्वं केतुना स्वकीयेन धूमेन प्रपृञ्चन् प्रकर्षेण संयोजयन् ॥ कीदृशोऽग्रिः? सुषमिद्धः अत्यन्तदीप्तः यजिष्ठोऽतिशयेन यष्टा ॥॥

11 जुषाणो हव्यममृतेषु ...{Loading}...

जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑ ।
आ नो॑ र॒यिम्ब॑हु॒लाङ्गोम॑ती॒मिष॑म् ।
निधे॑हि॒ यक्ष॑द॒मृते॑षु॒ भूष॑न् ।
अश्वि॑ना य॒ज्ञमाग॑तम् ।

11 जुषाणो हव्यममृतेषु ...{Loading}...

मूलम्

जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑ ।
आ नो॑ र॒यिम्ब॑हु॒लाङ्गोम॑ती॒मिष॑म् ।
निधे॑हि॒ यक्ष॑द॒मृते॑षु॒ भूष॑न् ।
अश्वि॑ना य॒ज्ञमाग॑तम् ।

सायणटीका

11अथैकादशीमाह - हे अग्ने! हव्यं जुषाणोऽस्मदीयं हविः सेवमानस्त्वं अमृतेषु देवेषु दूढ्यो यागरहितात्षुरुषात् आनीय नोऽस्माकं रयिं घनं बहुलामतिप्रभूतां गोमतीं गोभिर्युक्तां इषमन्नं निधेहि नितरां संपादय ॥ यो दुर्बुद्धिः पुमान् देवेषु भक्तिं न करोति तदीयं धनमाहृत्यास्मभ्यं देहीत्यर्थः ॥ यस्तु यजमानोऽमृतेषु देवेषु मध्ये भूषन् स्वात्मानमलंकृर्नन् देवत्वमात्मन इच्छन्नित्यर्थः ॥ स यजमानः त्वद्दत्तेन धनादिना यक्षत् यागं करिष्यति ॥ तदेतन्मन्त्रत्रयमाग्नेये कर्मणि द्रष्टव्यम् ॥॥

12 अश्विना यज्ञमागतम् ...{Loading}...

अश्वि॑ना य॒ज्ञमाग॑तम् ।
दा॒शुष॒ᳶ पुरु॑दँससा ।
पू॒षा र॑क्षतु नो र॒यिम् ॥16॥

12 अश्विना यज्ञमागतम् ...{Loading}...

मूलम्

अश्वि॑ना य॒ज्ञमाग॑तम् ।
दा॒शुष॒ᳶ पुरु॑दँससा ।
पू॒षा र॑क्षतु नो र॒यिम् ॥16॥

सायणटीका

12अथ द्वादशीमाह - हे अश्विनौ! युवां पुरुदंससा भूरिकर्माणौ सन्तौ दाशुषो हविर्दत्तवतां यजमानस्य यज्ञमागतं आगच्छतम् ॥ पूषा च नोऽस्मदर्थं रयिं रक्षतु ॥॥

13 इमय्ँ यज्ञमश्विना ...{Loading}...

इ॒मय्ँ य॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता ।
इ॒मौ र॒यिय्ँयज॑मानाय धत्तम् ।
इ॒मौ प॒शून्र॑क्षताव्ँ वि॒श्वतो॑ नः ।
पू॒षा न॑ᳶ पातु॒ सद॒मप्र॑यच्छन् ।

13 इमय्ँ यज्ञमश्विना ...{Loading}...

मूलम्

इ॒मय्ँ य॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता ।
इ॒मौ र॒यिय्ँयज॑मानाय धत्तम् ।
इ॒मौ प॒शून्र॑क्षताव्ँ वि॒श्वतो॑ नः ।
पू॒षा न॑ᳶ पातु॒ सद॒मप्र॑यच्छन् ।

सायणटीका

13अथ त्रयोदशीमाह - हे अश्विनौ! इममस्मदीयं यज्ञं वर्धयन्ता वृद्धिं प्रापयन्ताविमौ युवां यजमानाय रयिं धनं धत्तं संपादयतम् ॥ इमौ युवां नः अस्मदीयान् पशून् विश्वतः रक्षतां सर्वतो भयान् पालयतम् ॥ अयं पूषा अप्रयुच्छन् प्रमादमकुर्वन् नोऽस्मदीयं सदं सदः स्थानं पातु ॥ एतच्चोभयम् - ‘अश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निर्वपति’ इत्यस्य याज्यानुवाक्ये ॥॥

14 प्रते महे ...{Loading}...

प्रते॑ म॒हे स॑रस्वति ।
सुभ॑गे॒ वाजि॑नीवति ।
स॒त्य॒वाचे॑ भरे म॒तिम् ।
इ॒दन्नो॑ ह॒व्यङ्घृ॒तव॑त्सरस्वति ।

14 प्रते महे ...{Loading}...

मूलम्

प्रते॑ म॒हे स॑रस्वति ।
सुभ॑गे॒ वाजि॑नीवति ।
स॒त्य॒वाचे॑ भरे म॒तिम् ।
इ॒दन्नो॑ ह॒व्यङ्घृ॒तव॑त्सरस्वति ।

सायणटीका

14अथ चतुर्दशीमाह - हे सुभगे! सौभाग्ययुक्ते! हे वाजिनीवति! अन्नयुक्ते! हे महे! महति! हे सरस्वति! सत्यवाचे अनृतवाक्यरहितायै ते तुभ्यं मतिं मदीयां स्तुतिं प्रभरे संपादयामि ॥॥

15 सत्यवाचे प्रभरेमा ...{Loading}...

स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीँषि॑ ।
इ॒मानि॑ ते दुरि॒ता सौभ॑गानि ।
तेभि॑र्व॒यँ सु॒भगा॑सस्स्याम ॥17॥

15 सत्यवाचे प्रभरेमा ...{Loading}...

मूलम्

स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीँषि॑ ।
इ॒मानि॑ ते दुरि॒ता सौभ॑गानि ।
तेभि॑र्व॒यँ सु॒भगा॑सस्स्याम ॥17॥

सायणटीका

15अथ पञ्चदशीमाह - हे सरस्वति! ते तुभ्यं घृतवत् घृतयुक्तमिदं हव्यं अस्माभिस्संपादितमिति शेषः ॥ सत्यवाचे तस्यै सरस्वत्यै इमानि संपादितानि हवींषि प्रभरेम प्रकर्षेण समर्पयामः ॥ दुरिता यानि यान्यस्माभिः कृतानि तानि सर्वाणि हे सरस्वति! ते प्रसादात् सुभगानि सुकृतानि संपन्नानि ॥ तेभिः तैः सुकृतैः वयं सुभगासः सौभाग्ययुक्ताः स्याम ॥ एते ऋचौ ‘सरस्वते सत्यवाचे चरुम्'15 इत्यस्य याज्यानुवाक्ये ॥॥

इति तैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके पञ्चमप्रपाठके चतुर्थोऽनुवाकः ॥