+०३, उपहोमशेषः

01 पुनर्न इन्द्रो ...{Loading}...

पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु ।
धना॑नि श॒क्रो धन्य॑स्सु॒राधाः॑ ।
अ॒र्वा॒चीन॑ङ्कृणुताय्ँ याचि॒तो मनः॑ ।
श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः ।

01 पुनर्न इन्द्रो ...{Loading}...

मूलम्

पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु ।
धना॑नि श॒क्रो धन्य॑स्सु॒राधाः॑ ।
अ॒र्वा॒चीन॑ङ्कृणुताय्ँ याचि॒तो मनः॑ ।
श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः ।

सायणटीका

(SB) 1तृतीयानुवाके प्रथमामृचमाह - अस्मदीयानि धनानि यानि नष्टानि तानि सर्वाण पुनरपि बोऽस्मभ्यमिन्द्रो ददातु ॥ कीदृश इन्द्रः? मघवा धनवान् शक्रः शक्तिसुक्तः धन्यो धनदानार्हः सुराधाः शोमनान्नयुक्तः ॥ तादृशोऽयमिन्द्रो याचितोऽस्माभिः प्रार्थितस्सन् स्वकीयं मनोऽर्वाचीनं कृणुतामस्मदभिमुखं करोतु ॥ नोऽस्मदीयस्यास्य हविषो भागं श्रुष्टी जुषाणः शीघ्रं सेवमानः स इन्द्रोऽस्मदभीष्टं करोतु ॥॥

02 यानि नोऽजिनन्धनानि ...{Loading}...

यानि॑ नोऽजि॒नन्धना॑नि ।
ज॒हर्थ॑ शूर म॒न्युना॑ ।
इन्द्रानु॑विन्द न॒स्तानि॑ ।
अ॒नेन॑ ह॒विषा॒ पुनः॑ ।

02 यानि नोऽजिनन्धनानि ...{Loading}...

मूलम्

यानि॑ नोऽजि॒नन्धना॑नि ।
ज॒हर्थ॑ शूर म॒न्युना॑ ।
इन्द्रानु॑विन्द न॒स्तानि॑ ।
अ॒नेन॑ ह॒विषा॒ पुनः॑ ।

सायणटीका

2अथ द्वितीयामाह - हे शूरेन्द्र! त्वं विहितस्याननुष्ठानान्निषिद्धसेवनाद्वा पापयुक्तान् नः अस्मान् जिनन् शिक्षार्थं हिंसन् मन्युनाऽस्मासु क्रोधेन यान्यस्मदीयानि धनानि जहर्थ अपहृतवानमि ॥ अनेनास्मदीयेन हविषा तुष्टस्सन् पुनरपि नोऽस्माकं तानि धनान्यनुविन्द अनुग्रहेण लभस्व देहीत्यर्थः ॥ एतदुभयं नष्टधनस्य पुनः प्राप्त्यर्थे कस्मिंश्चिदैन्द्रे कर्मणि द्रष्टव्यम् ॥॥

03 इन्द्र आशाभ्यᳶ ...{Loading}...

इन्द्र॒ आशा॑भ्य॒ᳶ परि॑ ।
सर्वा॒भ्योऽभ॑यङ्करत् ॥8॥
जेता॒ शत्रू॒न्विच॑र्षणिः ।

03 इन्द्र आशाभ्यᳶ ...{Loading}...

मूलम्

इन्द्र॒ आशा॑भ्य॒ᳶ परि॑ ।
सर्वा॒भ्योऽभ॑यङ्करत् ॥8॥
जेता॒ शत्रू॒न्विच॑र्षणिः ।

सायणटीका

3अथ तृतीयामाह - विचर्षणिः विविच्य द्रष्टा शत्रूणां जेतेन्द्रः सर्वाभ्यो दिग्भ्यः परितो वर्तमानाभ्योऽस्माकमभयं करत् करोतु ॥ अयं मन्त्रः पूर्वत्रैवोपहोमार्थः ॥॥

04 आकूत्यै त्वा ...{Loading}...

आकू॑त्यै त्वा॒ कामा॑य त्वा स॒मृधे॑ त्वा ।
पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे॑ ।

04 आकूत्यै त्वा ...{Loading}...

मूलम्

आकू॑त्यै त्वा॒ कामा॑य त्वा स॒मृधे॑ त्वा ।
पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे॑ ।

सायणटीका

4अथ चतुर्थीमाह - हे इन्द्र! आकूत्यादिसिद्ध्यर्थं त्वां पुरो दधे पुरस्कृत्य सेवे ॥ आकूतिः संकल्पः कामो भोगः समृत् समृद्धिः अमृतत्वं अपमृत्युराहित्यं, जीवनं अन्नादिसंपत्तिः ॥॥

05 आकूतिमस्यावसे ...{Loading}...

आकू॑तिम॒स्याव॑से ।
काम॑मस्य॒ समृ॑द्ध्यै ।
इन्द्र॑स्य युञ्जते॒ धियः॑ ।

05 आकूतिमस्यावसे ...{Loading}...

मूलम्

आकू॑तिम॒स्याव॑से ।
काम॑मस्य॒ समृ॑द्ध्यै ।
इन्द्र॑स्य युञ्जते॒ धियः॑ ।

सायणटीका

5अथ पञ्चमीमाह - लोके बुद्धिमन्तः कर्तारः अवसे रक्षणार्थं समृद्ध्यै धनादिसमृद्ध्यर्थं च अस्येन्द्रस्य आकूतिं सकल्पं काममिच्छां धियः बुद्धिविशेषांश्च युञ्जते आश्रयन्ति ॥ न त्विन्द्रनैरपेक्ष्येण स्वत न्त्रानाकूत्यादीन्लभन्ते ॥॥

06 आकूतिन्देवीम्मनसᳶ पुरो ...{Loading}...

आकू॑तिन्दे॒वीम्मन॑सᳶ पु॒रो द॑धे ।
य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु ।
यदि॒च्छामि॒ मन॑सा॒ सका॑मः ।
वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ॥9॥

06 आकूतिन्देवीम्मनसᳶ पुरो ...{Loading}...

मूलम्

आकू॑तिन्दे॒वीम्मन॑सᳶ पु॒रो द॑धे ।
य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु ।
यदि॒च्छामि॒ मन॑सा॒ सका॑मः ।
वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ॥9॥

सायणटीका

6अथ षष्ठीमाह - अहमाकृतिं संकल्पाभिमानिनीं देवीं कार्येषु कुर्वाणस्य मनसः पुरो दधे संकल्पपूर्वमेव सर्वं कार्यं मदीयेन मनसा क्रियत इत्यर्थः ॥ सेयमाकूतिर्यज्ञस्य मातृस्थानीया सती मे मम सुहवा सुखेनाह्वातुं शक्याऽस्तु ॥ सकामः कामसहितोऽहं मदीयेन मनमा यत्कार्यं कर्तुमिच्छामि मदीये हृदये निविष्टमेनत् तत्कार्यं विदेयं लभेयम् ॥ अस्य मन्त्रत्रयस्य कर्मणामादौ संकल्पे विनियोगं बोधायन आह - ‘आकृत्यावेदनं करोति आकूत्यै त्वा कामाय त्व सवृधे त्वा’ इति ॥॥

07 सेदग्निरग्नींरत्येत्यन्यान् ...{Loading}...

सेद॒ग्निर॒ग्नीँरत्ये॑त्य॒न्यान् ।
यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः ।
स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ।

07 सेदग्निरग्नींरत्येत्यन्यान् ...{Loading}...

मूलम्

सेद॒ग्निर॒ग्नीँरत्ये॑त्य॒न्यान् ।
यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः ।
स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ।

सायणटीका

7अथ सप्तमीमाह - यत्र यस्मिन्नग्नौ यजमानेनोपचरिते सति तनयः पुत्रो वाजी अन्नवान् वीडुपाणिः यागदानादिषु दृढहस्तः सहस्रपाथाः सहस्रसंख्याकेनान्नैन युक्तस्सन् अक्षरा अक्षरेणाप्यविनाशेन जीवनेन समेति संगच्छते ॥ सेदग्निः स एवोपचरितोऽग्निः अन्यानितरयजमानसंबन्धानग्नीन् अत्येति अतिक्रामति ॥ सोऽयं मन्त्रः प्रायाणीयेष्टौ स्विष्टकृतः पुरोनुवाक्या ॥॥

08 आशानान्त्वाऽऽशापालेभ्यः ...{Loading}...

आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते॑भ्यः ।
इ॒दम्भू॒तस्याध्य॑क्षेभ्यः ।
वि॒धेम॑ ह॒विषा॑ व॒यम् ।

08 आशानान्त्वाऽऽशापालेभ्यः ...{Loading}...

मूलम्

आशा॑नान्त्वाऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते॑भ्यः ।
इ॒दम्भू॒तस्याध्य॑क्षेभ्यः ।
वि॒धेम॑ ह॒विषा॑ व॒यम् ।

सायणटीका

8अथाष्टमीमाह - हे पशो! त्वां आशानां दिशां मध्ये आशापालेभ्यो विशिष्टानां दिशां पालेभ्यः चतुर्भ्य इन्द्रयमवरुणसोमेभ्योऽमृतेभ्यो देवेभ्यः समर्पयामीति शेषः ॥ भूतस्य अस्मिन्कर्मणि प्राप्तस्य पशोरध्यक्षेभ्यः स्वामिभ्यो देवेभ्यो वयं हविषेदं विधेम शीघ्रमेव परिचरेम ॥॥

  • 7चतुर्धा करणे - आशानां त्वेत्यनुष्टुप् ॥ आशानां दिशां सम्बन्धिभ्यः आशापालेभ्यः दिशां नित्यपालकेभ्यः । ‘झत्युपोत्तमम्’ इति उपोत्तमस्य उदात्तत्वम् । अमृतेभ्यः अमरणेभ्यश्च इन्द्रयमवरुणकुबेरेभ्यः भूतस्य भुवनजातस्य सर्वस्य अध्यक्षेभ्यः स्वामिभ्यः तदर्थमिद्धये व्यापृतेभ्यः वयं हविषा अनेन इदं विधेम परिचरेम । तेषामेवेदं परिचरणं यदनेन ऋत्विजः परिचर्यन्त इति भावः । विध विधाने ॥

09 विश्वा आशा ...{Loading}...

विश्वा॒ आशा॒ मधु॑ना॒ सँ सृ॑जामि ।
अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु ।
अ॒यय्ँ यज॑मानो॒ मृधो॒ व्य॑स्यताम् ॥10॥
अगृ॑भीताᳶ प॒शव॑स्सन्तु॒ सर्वे॑ ।

09 विश्वा आशा ...{Loading}...

मूलम्

विश्वा॒ आशा॒ मधु॑ना॒ सँ सृ॑जामि ।
अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु ।
अ॒यय्ँ यज॑मानो॒ मृधो॒ व्य॑स्यताम् ॥10॥
अगृ॑भीताᳶ प॒शव॑स्सन्तु॒ सर्वे॑ ।

सायणटीका

9अथ नवमीमाह - विश्वा आशाः सर्वा दिशाऽहं मधुना मधुरेण वृष्ट्युदकेन संसृजामि संयोजयामि ॥ तेन आप ओषधयश्चानमीवा रोगरहिता भवन्तु ॥ अयं च यजमानो मृधः शत्रून् व्यस्यतां निरस्यतु ॥ सर्वे पशवः अगृभीता व्याघ्रतस्करादिभिरस्वीकृताः सन्तु ॥ इदं मन्त्रद्वयं पशौ संज्ञप्यमाने यजमानेन जप्यम् ॥ तथा दिवश्श्येनीसंज्ञिकास्विष्टिषु ‘अशायै चरुम्’ इत्यस्य याज्यानुवाक्ये ॥ तथा च तयोः प्रतकिद्वयमाम्नातम् - ‘आशानां त्वा विश्वा आशाः’ इति ॥॥

10 अग्निस्सोमो वरुणो ...{Loading}...

अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ ।
बृह॒स्पति॑स्सवि॒ता यस्स॑ह॒स्री ।
पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती ।
त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः ।

10 अग्निस्सोमो वरुणो ...{Loading}...

मूलम्

अ॒ग्निस्सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ ।
बृह॒स्पति॑स्सवि॒ता यस्स॑ह॒स्री ।
पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती ।
त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः ।

सायणटीका

10अथ दशमीमाह - अग्न्यादयः त्वष्टदेवपर्यन्ता ये दश देवाः सन्ति तेषां मध्ये एकैक एव नोऽस्माकमवसा रक्षणाय गोभिः समनक्तु संयोजयतु ॥ यज्ञैश्च समनक्तु ॥ त्वाष्टा देवो रूपाणि पुत्रपौत्रादिशरीराण्यपि समनक्तु ॥ यः सहस्रीति सवितृविशेषणं, यः सहस्रसंख्याकरश्मियुक्तः सोऽयं सवितेति योज्यम् ॥॥

11 त्वष्टा रूपाणि ...{Loading}...

त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती ।
पू॒षा भगँ॑ सवि॒ता नो॑ ददातु ।
बृह॒स्पति॒र्दद॒दिन्द्र॑स्स॒हस्र॑म् ।
मि॒त्रो दा॒ता वरु॑ण॒स्सोमो॑ अ॒ग्निः ॥11॥

11 त्वष्टा रूपाणि ...{Loading}...

मूलम्

त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती ।
पू॒षा भगँ॑ सवि॒ता नो॑ ददातु ।
बृह॒स्पति॒र्दद॒दिन्द्र॑स्स॒हस्र॑म् ।
मि॒त्रो दा॒ता वरु॑ण॒स्सोमो॑ अ॒ग्निः ॥11॥

सायणटीका

11अथैकादशीमाह - अयं त्वष्टा रूपाणि पुत्रादिशरीराणि ददातु ॥ सरस्वती दधती धारयित्री भूयात् ॥ पूषा सविता बृहस्पतिश्च प्रत्येकं नोऽस्मदर्थं भगं सौभाग्यं ददातु ॥ इन्द्रः सहस्रं सहस्रसंख्याकं गोधनादिकं ददत् ददातु ॥ मित्रवरुणसोमाग्निष्वेकैकः सहस्रस्य दाता भवः ॥ एतच्च मन्त्रद्वयं मित्रविन्दायामिष्टौ याज्यानुवाक्ये ॥ तथा चाश्वलायनः - ‘मित्रविन्दा महावैराजी’ इत्यादिनोदाजहार ॥॥

इति तैत्तिरीयब्रह्मणभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके तृतीयोऽनुवाकः ॥