०८ उपहोमाः

विश्वास-प्रस्तुतिः

स प्र॑त्न॒वन्नवी॑यसा । अग्ने॑ द्यु॒म्नेन॑ सय्ँ॒यता॑ । बृ॒हत्त॑तन्थ भा॒नुना॑ । नव॒न्नु स्तोम॑म॒ग्नये॑ ।

मूलम्

स प्र॑त्न॒वन्नवी॑यसा । अग्ने॑ द्यु॒म्नेन॑ सय्ँ॒यता॑ । बृ॒हत्त॑तन्थ भा॒नुना॑ । नव॒न्नु स्तोम॑म॒ग्नये॑ ।

सायण-टीका

(SB) 1अष्टमेऽनुवाके सर्वमप्याग्रयणसूक्तम् । तद्विनियोगं सूत्रकार आह - ‘सप्रत्नवदिति द्वे धाय्ये चतस्र आज्यभागयोर्दश हविषां द्वे स्विष्टकृतः’ इति ॥ तत्र प्रथमामृचमाह - हे अग्ने! स त्वं प्रत्नवत् प्रत्नेन पुराणेन भानुनेव नवीयसाऽत्यन्तं नवतरेण द्युम्नेन दीप्तेन संयता समुह्य गृहीतेन भानुना तेजसेदानीं बृहन्महदन्तरिक्षं ततन्थ तव यागानुरूपं नवतरं तेजः प्रसारयेत्यर्थः ॥

विश्वास-प्रस्तुतिः

दि॒वश्श्ये॒नाय॑ जीजनम् । वसो॑ᳵ कु॒विद्व॒नाति॑ नः । स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे । र॒यिर्वी॒रव॑तो यथा ।

मूलम्

दि॒वश्श्ये॒नाय॑ जीजनम् । वसो॑ᳵ कु॒विद्व॒नाति॑ नः । स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे । र॒यिर्वी॒रव॑तो यथा ।

सायण-टीका

2अथ द्वितीया - दिवो द्युलोकात् श्येनाय श्येनवत्क्षिप्रमागच्छतेऽग्नये नवं स्तोममभिनवं स्तोत्रं नु क्षिप्रं जीजनं उत्पादितवानस्मि । वसोर्धनस्य कुवित् प्रभूतं भागं नोऽस्माकं वनाति ददाति । एते उभे धाय्ये ॥

विश्वास-प्रस्तुतिः

अग्रे॑ य॒ज्ञस्य॒ चेत॑तः । अदा॑भ्यᳶ पुरए॒ता ॥74॥

मूलम्

अग्रे॑ य॒ज्ञस्य॒ चेत॑तः । अदा॑भ्यᳶ पुरए॒ता ॥74॥

सायण-टीका

3अथ तृतीया - यज्ञस्याग्रे उपक्रमे सर्वं कर्तव्यं चेततः चेतयमानस्य यस्याग्नेः ॥ श्रियः स्वारुहाः स्वस्मादेव प्ररूढा अपराधीना इत्यर्थः । दृश दर्शनीयाः भवन्ति । वीरवतः पुत्रवतः पुरुषस्य रयिर्धनं दर्शनीयं यथा भवति तद्वत् सोऽग्निः श्रीमानिति भावः ॥

विश्वास-प्रस्तुतिः

अ॒ग्निर्वि॒शाम्मानु॑षीणाम् । तूर्णी॒ रथ॒स्सदा॒ नवः॑ ।

मूलम्

अ॒ग्निर्वि॒शाम्मानु॑षीणाम् । तूर्णी॒ रथ॒स्सदा॒ नवः॑ ।

सायण-टीका

4अथ चतुर्थी - मानुषीणां विशां देवपरिचरभूतानामग्निः पुरत एता अग्रेसरः केनचिदप्यदाभ्यो हिंसितुमशकः तूर्णिः तरणहेतुः । ‘सर्वं ह्येष तरति’ इति ब्राह्मणम् । रथो रथस्वामी, अत एव रथीरध्वराणाम्’ इत्याम्नातम् । सदा सर्वदा नवोऽभिनवः ॥

विश्वास-प्रस्तुतिः

नवँ॒ सोमा॑य वा॒जिने॑ । आज्य॒म्पय॑सोऽजनि । जुष्टँ॒ शुचि॑तमव्ँ॒वसु॑ ।

मूलम्

नवँ॒ सोमा॑य वा॒जिने॑ । आज्य॒म्पय॑सोऽजनि । जुष्टँ॒ शुचि॑तमव्ँ॒वसु॑ ।

सायण-टीका

5अथ पञ्चमी - वाजिनेऽन्नवते सोमाय नवं नूतनमाज्यं पयसः अजनि उत्पन्नं, तच्च जुष्टं प्रियं शुचितममत्यन्तं शुद्धं वसु श्रेष्ठम् ॥

विश्वास-प्रस्तुतिः

नवँ॑ सोम जुषस्व नः । पी॒यूष॑स्ये॒ह तृ॑प्णुहि । यस्ते॑ भा॒ग ऋ॒ता व॒यम् ।

मूलम्

नवँ॑ सोम जुषस्व नः । पी॒यूष॑स्ये॒ह तृ॑प्णुहि । यस्ते॑ भा॒ग ऋ॒ता व॒यम् ।

सायण-टीका

6अथ षष्ठी - हे सोम! नवमिदमाज्यं जुषस्व । नोऽस्मदीयस्य पीयूषस्यामृतसमानस्य आज्यस्य भागेनेह कर्मणि तृप्णुहि तृप्तो भव । यस्तवास्मिन्नृतौ कालविशेषे देवैः कल्पितो भागः सोऽयमाज्यरूपः । एताश्चतस्र आज्यभागयोः ॥

विश्वास-प्रस्तुतिः

नव॑स्य सोम ते व॒यम् । आ सु॑म॒तिव्ँ वृ॑णीमहे ॥75॥
स नो॑ रास्व सह॒स्रिणः॑ ।

मूलम्

नव॑स्य सोम ते व॒यम् । आ सु॑म॒तिव्ँ वृ॑णीमहे ॥75॥
स नो॑ रास्व सह॒स्रिणः॑ ।

सायण-टीका

7अथ सप्तमी - हे सोम! नवस्य नूतनमूर्तियुक्तस्य ते तव सुमतिमनुग्रहबुद्धिं वयं आ समन्तात् वृणीमहे । स त्वमस्मभ्यं सहस्रिणः सहस्रसंख्यस्य धनस्य भोगं रास्व देहि ॥

विश्वास-प्रस्तुतिः

नवँ॑ ह॒विर्जु॑षस्व नः । ऋ॒तुभि॑स्सोम॒ भूत॑मम् । तद॒ङ्ग प्रति॑हर्य नः । राज॑न्त्सोम स्व॒स्तये॑ ।

मूलम्

नवँ॑ ह॒विर्जु॑षस्व नः । ऋ॒तुभि॑स्सोम॒ भूत॑मम् । तद॒ङ्ग प्रति॑हर्य नः । राज॑न्त्सोम स्व॒स्तये॑ ।

सायण-टीका

8अथाष्टमी - हे सोम! ऋतुभिः कालैः भूतमं अतिशयेन निष्पन्नं सुपक्वं नवं नूतनं श्यामाकरूपं नोऽस्मदीयं हविर्जुषस्व । अङ्गशब्दः प्रियसंबोधनवची । अङ्ग! सोम! राजन्! नः अस्माकं स्वस्तये तद्धविः प्रतिहर्य श्रद्धस्व । एते उभे सौम्यस्य श्यामाकहविषो याज्यापुरोनुवाक्ये ॥

विश्वास-प्रस्तुतिः

नवँ॒स्तोम॒न्नवँ॑ ह॒विः । इ॒न्द्रा॒ग्निभ्या॒न्निवे॑दय । तज्जु॑षेताँ॒ सचे॑तसा ।

मूलम्

नवँ॒स्तोम॒न्नवँ॑ ह॒विः । इ॒न्द्रा॒ग्निभ्या॒न्निवे॑दय । तज्जु॑षेताँ॒ सचे॑तसा ।

सायण-टीका

9अथ नवमी - नवं स्तोत्रं नवं हविश्च इन्द्राग्निभ्यामध्वर्यो! निवेदय । तद्धविः सचेतमा समानचेतमौ इन्द्राग्नी जुषेतां सेवेताम् ॥

विश्वास-प्रस्तुतिः

शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्य । इन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ॥76॥
उ॒भा हि वाँ॑ सु॒हवा॒ जोह॑वीमि । ता वाजँ॑ स॒द्य उ॑श॒ते धेष्ठा॑ ।

मूलम्

शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्य । इन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ॥76॥
उ॒भा हि वाँ॑ सु॒हवा॒ जोह॑वीमि । ता वाजँ॑ स॒द्य उ॑श॒ते धेष्ठा॑ ।

सायण-टीका

10अथ दशमी - वृत्रहणौ शत्रुधातिनौ हे इन्द्राग्नी! अद्य अस्मिन्कर्मणि नवजातं अभिनवत्वेनोत्पन्नं शुचिं नु स्तोमं शुद्धमेव स्तोत्रं जुषेथां, हि यस्मादहं सुहवा सुखेनाह्वातुं शक्यौ वामुभा युवामुभौ जोहवीमि पुनःपुनराह्वयामि । ता तौ तथाविधौ युवां उशते कामयमानाय यजमानाय वाजमन्नं सद्यो धेष्ठा तस्मिन्नेव क्षणे संपादयतम् । एते उभे ऐन्द्राग्नस्य द्वादशकपालस्य याज्यानुवाक्ये ॥

विश्वास-प्रस्तुतिः

अ॒ग्निरिन्द्रो॒ नव॑स्य नः । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । इ॒ह दे॒वौ स॑ह॒स्रिणौ॑ ।

मूलम्

अ॒ग्निरिन्द्रो॒ नव॑स्य नः । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । इ॒ह दे॒वौ स॑ह॒स्रिणौ॑ ।

सायण-टीका

11अथैकादशी - अग्निश्चेन्द्रश्च नोस्मदीयस्य नवस्य नूतनस्यास्य हव्यस्य भागेन तृप्यतां, इह कर्मणि तौ देवौ द्योतमानौ सहस्रिणौ सहस्रसंख्याकधनप्रदौ स्ताम् ॥

विश्वास-प्रस्तुतिः

य॒ज्ञन्न॒ आ हि गच्छ॑ताम् । वसु॑मन्तँ सुव॒र्विद॑म् । अ॒स्य ह॒व्यस्य॑ तृप्यताम् ।

मूलम्

य॒ज्ञन्न॒ आ हि गच्छ॑ताम् । वसु॑मन्तँ सुव॒र्विद॑म् । अ॒स्य ह॒व्यस्य॑ तृप्यताम् ।

सायण-टीका

12अथ द्वादशी - अग्निश्चेन्द्रश्चश्चोभौ नोऽस्मदीयस्य नवस्यास्य हव्यस्य तृप्यतां, तदर्थं नोऽस्मदीयं यज्ञं आ हि गच्छतां सर्वथैवागच्छताम् । कीदृशं यज्ञं? वसुमन्तं बहुधनप्रदं सुवर्विदं स्वर्गलाभसाधनम् । अत्र यद्विकल्पितं ‘हविरैन्द्राग्नं द्वादशकपालमाग्नेन्द्रं वा’ इत्यत्रैन्द्राग्नस्य पूर्वे ऋचौ, आग्नेन्द्रस्य त्वेते उभे याज्यानुवाक्ये ॥

विश्वास-प्रस्तुतिः

अ॒ग्निरिन्द्रो॒ नव॑स्य नः । विश्वा॑न्दे॒वाँस्त॑र्पयत ॥77 ॥
ह॒विषो॒ऽस्य नव॑स्य नः । सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे ।

मूलम्

अ॒ग्निरिन्द्रो॒ नव॑स्य नः । विश्वा॑न्दे॒वाँस्त॑र्पयत ॥77 ॥
ह॒विषो॒ऽस्य नव॑स्य नः । सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे ।

सायण-टीका

13अथ त्रयोदशी - हे ऋत्विजः! नोऽस्मदीयस्य नवस्यास्य हविषो भागेन विश्वान्देवांस्तर्पयत, यस्मात्ते विश्वे देवाः सुवर्विदो जज्ञिरे स्वर्गलाभहेतवो जाताः ॥

विश्वास-प्रस्तुतिः

एदम्ब॒र्हिस्सु॒ष्टरी॑मा॒ नवे॑न । अ॒यय्ँ य॒ज्ञो यज॑मानस्य भा॒गः । अ॒यम्ब॑भूव॒ भुव॑नस्य॒ गर्भः॑ । विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः ।

मूलम्

एदम्ब॒र्हिस्सु॒ष्टरी॑मा॒ नवे॑न । अ॒यय्ँ य॒ज्ञो यज॑मानस्य भा॒गः । अ॒यम्ब॑भूव॒ भुव॑नस्य॒ गर्भः॑ । विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः ।

सायण-टीका

14अथ चतुर्दशी - इदं बर्हिः सुष्टरीम सुष्ठु स्तीर्णं सर्वतोऽभूत् । नवेन हविषा युक्तो यजमानस्यायं यज्ञो भागो विश्वैर्देवैर्भजनीयः । सोऽयं यज्ञो भुवनस्य भूतजातस्य गर्भो रक्षकत्वेनान्तरवस्थितो बभूव । हे विश्व देवाः! अद्यास्मिन्कर्मणीदमास्तीर्णं बर्हिः प्रति आगमिष्ठाः आगच्छत् । एते उभे वैश्वदेवस्य हविषो याज्यानुवाक्ये ॥

विश्वास-प्रस्तुतिः

इ॒मे नु द्यावा॑पृथि॒वी स॒मीची॑ । त॒न्वा॒ने य॒ज्ञम्पु॑रु॒पेश॑सन्धि॒या । आऽस्मै॑ पृणीता॒म्भुव॑नानि॒ विश्वा॑ । प्र॒जाम्पुष्टि॑म॒मृत॒न्नवे॑न ॥78॥

मूलम्

इ॒मे नु द्यावा॑पृथि॒वी स॒मीची॑ । त॒न्वा॒ने य॒ज्ञम्पु॑रु॒पेश॑सन्धि॒या । आऽस्मै॑ पृणीता॒म्भुव॑नानि॒ विश्वा॑ । प्र॒जाम्पुष्टि॑म॒मृत॒न्नवे॑न ॥78॥

सायण-टीका

15अथ पञ्चदशी - इमे तु इमे एव द्यावापृथिव्यौ समीची परस्परेण संगते सत्यौ पुरुपेशसं बहुरूपं यज्ञं धिया स्वबुद्ध्या तन्वाने विस्तारयन्त्यौ अस्मै यजमानाय विश्वा भुवनानि सर्वाणि भूतनातानि आपृणीतां सर्वतः पालयेतां तथा प्रजां पुष्टिममृतमन्नं च नवेन हविषा स्वीकृतेन तत्सर्वं संपादयेताम् ॥

विश्वास-प्रस्तुतिः

इ॒मे धे॒नू अ॒मृतय्ँ॒ये दु॒हाते॑ । पय॑स्वत्युत्त॒रामे॑तु॒ पुष्टिः॑ । इ॒मय्ँ य॒ज्ञञ्जु॒षमा॑णे॒ नवे॑न । स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची॑ ।

मूलम्

इ॒मे धे॒नू अ॒मृतय्ँ॒ये दु॒हाते॑ । पय॑स्वत्युत्त॒रामे॑तु॒ पुष्टिः॑ । इ॒मय्ँ य॒ज्ञञ्जु॒षमा॑णे॒ नवे॑न । स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची॑ ।

सायण-टीका

16अथ षोडशी - ये द्यावापृथिव्यौ अमृतं वृष्ट्यन्नरूपं दुहाते, इमे द्यावापृथिव्यौ सर्वेषां प्राणिनां धेनुस्थानीये । पुष्टिर्धनसमृद्धिरुत्तरामुत्तरोत्तरातिशयावस्थां एतु आगच्छतु । कीदृशी पुष्टिः? पयस्वती प्रभूतवृष्ट्युदकयुक्ता, नवेन नृतनेन हविषेमं यज्ञं जुषमाणे सेवमाने समीची परस्परानुकूले द्यावापृथिव्यौ घृताची धृतमुदकं क्षरन्त्यौ भवेताम् । एते उभे ऋचौ ‘द्यावापृथिव्यमेककपालम्’ इत्यस्य याज्यानुवाक्ये ॥

विश्वास-प्रस्तुतिः

यवि॑ष्ठो हव्य॒वाह॑नः । चि॒त्रभा॑नुर्घु॒तासु॑तिः । नव॑जातो॒ विरो॑चसे । अग्ने॒ तत्ते॑ महित्व॒नम् ।

मूलम्

यवि॑ष्ठो हव्य॒वाह॑नः । चि॒त्रभा॑नुर्घु॒तासु॑तिः । नव॑जातो॒ विरो॑चसे । अग्ने॒ तत्ते॑ महित्व॒नम् ।

सायण-टीका

17अथ सप्तदशी - हे अग्ने! त्वं यविष्ठो युवतमो हव्यवाहनो हविषो वोढा चित्रभानुः घृताशनो नवजातः प्रतिक्षणं नूतनज्वालारूपेणोत्पन्नो विरोचसे विशेषेण दीप्यसे । तन्महित्वनं तदेतन्माहात्म्यं ते तवैव, न त्वन्यस्यास्ति ॥

विश्वास-प्रस्तुतिः

त्वम॑ग्ने दे॒वता॑भ्यः । भा॒गे दे॑व॒ न मी॑यसे ॥79॥
स ए॑ना वि॒द्वान् य॑क्ष्यसि ।

मूलम्

त्वम॑ग्ने दे॒वता॑भ्यः । भा॒गे दे॑व॒ न मी॑यसे ॥79॥
स ए॑ना वि॒द्वान् य॑क्ष्यसि ।

सायण-टीका

18अथाष्टादशी - हे अग्ने! देव! त्वं देवताभ्यः सर्वाभ्यो भागे त्वयोह्यमानेऽपि न मयिसे न हिंस्यसे यथा तव भ्रातरो देवेभ्यो हव्यं वहन्तो मृता न तथा त्वमित्यर्थः । स त्वमेनाः देवताः विद्वान् यक्ष्यसि यज । नः अस्मदीयं नवं स्तोमं स्तोत्रं जुषस्व । एते उभे स्विष्टकृतः संयाज्ये ॥

विश्वास-प्रस्तुतिः

अ॒ग्निᳶ प्र॑थ॒मᳶ प्राश्ञा॑तु । स हि वेद॒ यथा॑ ह॒विः । शि॒वा अ॒स्मभ्य॒मोष॑धीः । कृ॒णोतु॑ वि॒श्वच॑र्षणिः ।

मूलम्

अ॒ग्निᳶ प्र॑थ॒मᳶ प्राश्ञा॑तु । स हि वेद॒ यथा॑ ह॒विः । शि॒वा अ॒स्मभ्य॒मोष॑धीः । कृ॒णोतु॑ वि॒श्वच॑र्षणिः ।

सायण-टीका

19अथैकोनविंशी - अयमग्निरिमं हविश्शेषं मत्तः प्रथमभावी सन् प्राश्नातु । स ह्यग्निः यथेदं हविः संभूतं यथा चोपभोज्यं तथा वेद जानाति । अस्मभ्यं विश्वचर्षणिः विश्वस्य द्रष्टाऽग्निः ओषधीः शिवाः सुखकराः कृणोतु करोतु । अयं मन्त्रः श्यामाकचरुहविषः प्राशने विनियुक्तः ॥

विश्वास-प्रस्तुतिः

भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवाः । त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूᳶ पि॑तो॒ आवि॑शस्व । शन्तो॒काय॑ त॒नुवे॑ स्यो॒नः ।

मूलम्

भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवाः । त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूᳶ पि॑तो॒ आवि॑शस्व । शन्तो॒काय॑ त॒नुवे॑ स्यो॒नः ।

सायण-टीका

20अय विंशी - हे देवाः! नोऽस्माकं भद्रात् वर्तमानाच्छ्रेयसोऽप्यधिकं श्रेयः समनैष्ट सम्यगानय । हे पितो! अन्न! त्वयाऽ वसेन त्वद्रूपेऽण रक्षकेण पाथेयेन त्वां समशीमहि सम्यगश्नुवीमहि संवत्सरपर्यन्तं त्वयैवं जीवाम इत्यर्थः । स त्वं नोऽस्माकं मयोभूः सुखं भावयन् आविशस्व उदरं प्रविश, तोकाय पुत्राय तनुवे शरीराय च शंभव शान्तो भव । अयं मन्त्रो व्रीह्याग्रयणस्य शेषभक्षणे विनियोज्यः ॥

विश्वास-प्रस्तुतिः

ए॒तमु॒ त्यम्मधु॑ना॒ सय्ँयु॑तय्ँ॒ यव॑म् । सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः । इन्द्र॑ आसी॒त्सीर॑पतिश्श॒तक्र॑तुः । की॒नाशा॑ आसन्म॒रुत॑स्सु॒दान॑वः ॥80॥

मूलम्

ए॒तमु॒ त्यम्मधु॑ना॒ सय्ँयु॑तय्ँ॒ यव॑म् । सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः । इन्द्र॑ आसी॒त्सीर॑पतिश्श॒तक्र॑तुः । की॒नाशा॑ आसन्म॒रुत॑स्सु॒दान॑वः ॥80॥

सायण-टीका

21अथैकविंशी - अधिमनौ युगादिभूते मनौ प्रजापतौ राजनि सति तस्मिन्काले कृषिकाः सरस्वत्या नद्याः मधुरेण जलेन संयुतं एतमु इदानीं पुरतो दृश्यमानमेव यवं त्यं यवधान्यविशेषमचर्कृषुः क्षेत्रेषूप्तवन्तः योऽयं यव इदानीं दृश्यते तस्य यवस्य कृषिमादिकाले प्रारब्धवन्त इत्यर्थः । के कर्षकाः कश्च तत्स्वामीति तदुभयमुच्यते - इन्द्रः शतक्रतुः शतसंख्याकैरश्वमेधैर्लब्धपदो यः सोऽयं सीरपतिः हलस्वाम्यासीत् । सुदानवः सुष्ठु दातारो मरुतः कीनाशाः कृषिकर्मकरा आसन् । अयं मन्त्रो यवाग्रयणस्य शेषभक्षणे विनियोज्यः ॥

इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रमित्सायाणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयबाह्यणभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ॥ चतुर्थः प्रपाठकः समाप्तः ॥ वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥