०७ उपहोमाः

विश्वास-प्रस्तुतिः

वृषा॑ऽस्यँ॒शुर्वृ॑ष॒भाय॑ गृह्यसे । वृषा॒ऽयमु॒ग्रो नृ॒चक्ष॑से । दि॒व्यᳵ क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ । वृ॒ष॒भस्य॒ या क॒कुत् ।

मूलम्

वृषा॑ऽस्यँ॒शुर्वृ॑ष॒भाय॑ गृह्यसे । वृषा॒ऽयमु॒ग्रो नृ॒चक्ष॑से । दि॒व्यᳵ क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ । वृ॒ष॒भस्य॒ या क॒कुत् ।

सायण-टीका

(SB) 1सप्तमे प्रथमामृचमाह - अंशुर्लतात्मक. सोमस्त्वं वृषाऽसि वीर्यवानसि । स त्वं वृषभाय श्रेष्ठायेन्द्रायाभिषवार्थं गृह्यसे । अयमुपांशुसवनाख्य उग्रः कठिनो ग्रावा वृषा वीर्यवान्भूत्वा नृचक्षसे नृणा द्रष्ट्रे तस्मा इन्द्राय कर्मण्योऽभिषवकर्मणि कुशलो हितोऽभिषवार्थमुपरवे निहितः । स च दिव्यो द्योतनात्मको बृहच्छब्दः तस्य पाषाणस्य नाम । अत एवान्यत्राम्नातः - ‘बृहन्नसि बृहद्ग्रावा’ इति । वृषभस्य श्रेष्ठस्य हिमव दादिपर्वतस्य या ककुत् ककुत्सदृशं शृङ्गं यदस्ति तद्रूपोऽयं पाषाणः । अत एव सन्नानां ग्राव्णामभिमन्त्रणमन्त्र एवमाम्नातः - ‘पर्वतानां ककुभः प्रयुतः’ इति ॥

विश्वास-प्रस्तुतिः

अ॒यय्ँ यो मा॑म॒को वृषा॑ । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । विब्र॑वीतु॒ जने॑भ्यः ।

मूलम्

अ॒यय्ँ यो मा॑म॒को वृषा॑ । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । विब्र॑वीतु॒ जने॑भ्यः ।

सायण-टीका

2अथ द्वितीया - हे विष्णो! व्याप्त! सोम! अयं यजमानो विषूवान् श्रेष्ठो भवतु । यो यजमानो मामको मदीयो वृषा यागद्वारेण फलाभिवर्षणहेतुः सोऽयमिति पूर्वत्रान्वयः । अपि च यथैवेन्द्रो देवेभ्यः कार्याणि विविच्य ब्रवीति तथाऽयं यजमानो जनेभ्यो विविच्य ब्रवीतु । अयं मन्त्रः क्वचित्कर्मणि यजमानाभिमन्त्रणार्थः ॥

विश्वास-प्रस्तुतिः

अ॒यय्ँ यो मा॑म॒को वृषा॑ । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । विब्र॑वीतु॒ जने॑भ्यः ।

मूलम्

अ॒यय्ँ यो मा॑म॒को वृषा॑ । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । विब्र॑वीतु॒ जने॑भ्यः ।

सायण-टीका

3अथ तृतीया - हे इन्द्र इमं यजमानं वृषभं कृणु श्रेष्ठं कुरु । वृषभत्वमेव प्रपञ्च्यते - आयुष्मन्तं दीर्घेणायुषा युक्तं वर्चस्वन्तं अधिकेन बलेन युक्तं अपि च विशां प्रजानामधिपतिं अस्याः पृथिव्या अध्यक्षं स्वामिनम् । अयं मन्त्र आशीर्वादरूपे कर्मणि द्रष्टव्यः ॥

विश्वास-प्रस्तुतिः

इ॒ममि॑न्द्र वृष॒भङ्कृ॑णु । यस्सु॒शृङ्ग॑स्सुवृष॒भः । क॒ल्याणो॒ द्रोण॒ आहि॑तः । कार्षी॑वल प्रगाणेन ।

मूलम्

इ॒ममि॑न्द्र वृष॒भङ्कृ॑णु । यस्सु॒शृङ्ग॑स्सुवृष॒भः । क॒ल्याणो॒ द्रोण॒ आहि॑तः । कार्षी॑वल प्रगाणेन ।

सायण-टीका

4अथ चतुर्थी - योऽयमिन्द्रार्थमालभ्यमानः पशुः सोऽयं सुशृङ्गः शोभनशृङ्गोपेतः सुवृषभः सुष्ठु सेचनसमर्थः कल्याणः रमणीयः द्रोणे मुद्गमाषादिभक्षपरिपूर्णे काष्ठपात्रे आहितो भक्षणाय नित्यं स्थापितः कार्षीवलप्रगाणेन कृषीवलैः कृतं कार्षीवलं तादृशं प्रगाणं प्रशंसनं यस्यासौ कार्षीवलप्रगाणः तादृशेन तेन वृषभेण यजामहे इन्द्रं पूजयामः ॥

विश्वास-प्रस्तुतिः

वृ॒ष॒भेण॑ यजामहे । वृ॒ष॒भेण॒ यज॑मानाः । अक्रू॑रेणेव स॒र्पिषा॑ । मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण । पृत॑नाश्च जयामसि ॥64॥

मूलम्

वृ॒ष॒भेण॑ यजामहे । वृ॒ष॒भेण॒ यज॑मानाः । अक्रू॑रेणेव स॒र्पिषा॑ । मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण । पृत॑नाश्च जयामसि ॥64॥

सायण-टीका

5अथ पञ्चमी - यथाऽक्रूरेण स्वादुतमेन सर्पिषा यागः क्रियते तथैव वृषभेणानेन यजमाना वयमिन्द्रेणानुगृहीतास्सन्तो मृधश्च शत्रूनपि सर्वाः पृतनाश्च परकीयसेना अपि जयामसि वशीकुर्मः ॥

विश्वास-प्रस्तुतिः

यस्या॒यमृ॑ष॒भो ह॒विः । इन्द्रा॑य परिणी॒यते॑ । जया॑ति॒ शत्रु॑मा॒यन्त॑म् । अथो॑ हन्ति पृतन्य॒तः ।

मूलम्

यस्या॒यमृ॑ष॒भो ह॒विः । इन्द्रा॑य परिणी॒यते॑ । जया॑ति॒ शत्रु॑मा॒यन्त॑म् । अथो॑ हन्ति पृतन्य॒तः ।

सायण-टीका

6अथ षष्ठी - यस्य यजमानस्यायमृषभो हविर्भूत्वेन्द्रार्थं परितो नीयते, स यजमानः आयन्तमागच्छतं शत्रुं जयति । अपि च पृतन्यतोऽस्मद्विरोधिनीं सेनामिच्छतः पुरुषान्सर्वानपि हन्ति ॥

विश्वास-प्रस्तुतिः

नृ॒णामह॑ प्र॒णीरस॑त् । अग्र॑ उद्भिन्द॒ताम॑सत् ।

मूलम्

नृ॒णामह॑ प्र॒णीरस॑त् । अग्र॑ उद्भिन्द॒ताम॑सत् ।

सायण-टीका

7अय सप्तमी - अयं वृषभयाजी नृणां मनुष्याणां प्रणीरसत् प्रकर्षेण नेता भवतु । अहं अपि च उद्भिन्दतां विरोधिजनोद्भेदनं कुर्वतां परुषाणां मध्येऽयमग्रेऽसत् प्रथमप्रवृत्तो भवतु । ‘यस्प्तुशृङ्गः’ इत्यादयश्चत्वारो मन्त्राः ‘ऐन्द्रमृषभमालभेत’ इत्येतस्मिन्पशावुपहोमार्थाः ॥

विश्वास-प्रस्तुतिः

इन्द्र॒ शुष्म॑न्त॒नुवा॒ मेर॑यस्व । नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः । नि शृ॑णीह्याबा॒धय्ँ यो॒ नो॒ अस्ति॑ । उ॒रुन्नो॑ लो॒कङ्कृ॑णुहि जीरदानो ॥65॥

मूलम्

इन्द्र॒ शुष्म॑न्त॒नुवा॒ मेर॑यस्व । नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः । नि शृ॑णीह्याबा॒धय्ँ यो॒ नो॒ अस्ति॑ । उ॒रुन्नो॑ लो॒कङ्कृ॑णुहि जीरदानो ॥65॥

सायण-टीका

8अथाष्टमी - हे इन्द्र! तनुवा अस्मच्छरीरेषु शुष्मं बलं मेरयस्व प्रेरय । विश्वा अभिमातीः पाप्मनो नोच्चैः कृत्वा अभितिष्ठ अभितोऽवस्थितं कुरु । योऽयं नोऽस्माकमपरैः संपादित आबाधोऽस्ति तमाबाधं निशृणीहि नितरां शीर्णं कुरु । हे जीरदानो! जीवनहेतो! इन्द्र! नोऽस्माकमुरुं विस्तीर्णं लोकं कणुहि कुरुष्व ॥

विश्वास-प्रस्तुतिः

प्रेह्य॒भि प्रेहि॒ प्र भ॑रा॒ सह॑स्व । मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु । उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः॑ । इन्द्र॒ शत्रू॑न्पु॒रो अ॒स्माक॑ युध्य ।

मूलम्

प्रेह्य॒भि प्रेहि॒ प्र भ॑रा॒ सह॑स्व । मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु । उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः॑ । इन्द्र॒ शत्रू॑न्पु॒रो अ॒स्माक॑ युध्य ।

सायण-टीका

9अथ नवमी - हे इन्द्र! प्रेहि विजयार्थं गच्छ । गमनकाले अप्यभिप्रेहि शत्रोरभिमुखो गच्छ । गत्वा च प्रभर मुख्यानां प्रहारं कुरु । सहस्व इतरानभिभव । किंचिदपि शत्रुं मा विवेनः अयमेको रक्षणीय इति विशेषेणादरं मा कुरु । ततो जनेषु महतीं मदीयां स्तुतिं शृणुष्व । हे वृषभ! ईडितः स्तुतस्सन् पुनरपि शुष्मैर्बलैः सह शत्रून् हन्तुमुत्तिष्ठ, हे इन्द्र! अस्माकं शत्रून्पुरत एव युध्य संप्रहर । एतच्चोभयं विजयार्थमैन्द्रे कर्मणि द्रष्टव्यम् ॥

विश्वास-प्रस्तुतिः

अग्ने॒ जेता॒ त्वञ्ज॑य । शत्रू॑न्त्सहस॒ ओज॑सा । वि शत्रू॒न्विमृधो॑ नुद ।

मूलम्

अग्ने॒ जेता॒ त्वञ्ज॑य । शत्रू॑न्त्सहस॒ ओज॑सा । वि शत्रू॒न्विमृधो॑ नुद ।

सायण-टीका

10अथ दशमी - हे अग्रे! जेता जयशीलस्त्वं शत्रूञ्जय । तथौजसा बलेन सहसे अभिभव । शत्रून्विनुद विशेषेण निराकुरु । मृधोऽन्यानपि बाधकान्विनुद ॥

विश्वास-प्रस्तुतिः

ए॒तन्ते॒ स्तोम॑न्तुविजात॒ विप्रः॑ । रथ॒न्न धीर॒स्स्वपा॑ अतक्षम् । यदीद॑ग्ने॒ प्रति॒त्वन्दे॑व॒ हर्याः॑ ॥66॥
सुव॑र्वतीर॒प ए॑ना जयेम ।

मूलम्

ए॒तन्ते॒ स्तोम॑न्तुविजात॒ विप्रः॑ । रथ॒न्न धीर॒स्स्वपा॑ अतक्षम् । यदीद॑ग्ने॒ प्रति॒त्वन्दे॑व॒ हर्याः॑ ॥66॥
सुव॑र्वतीर॒प ए॑ना जयेम ।

सायण-टीका

11अथैकादशी - तुविजात! प्रभूतजन्मन्! हे अग्ने! ते तवैतं स्तोमं स्तोत्रं विप्रः यजमानोऽहमतक्षं तक्षणवत्संपादनमकार्षम् । तत्र दृष्टान्तः - धीरो बुद्धिमान् स्वपाः शोभनकर्मा शिल्पी रथं यथा रथं तक्षति तद्वत् । हे अग्ने! देव! यदीत् यदिदं स्तोत्रं त्वं प्रतिहर्याः आद्रियेथाः तर्हि वयं सुवर्वतीः सुवःकामयुता अपः एना एतेन स्तोत्रेण जयेम । एतदुभयमाग्नेये कर्मणि द्रष्टव्यम् ।

विश्वास-प्रस्तुतिः

यो घृ॒तेना॒भिमा॑नितः । इन्द्र॒ जैत्रा॑य जज्ञिषे । स न॒स्सङ्का॑सु पारय ।

मूलम्

यो घृ॒तेना॒भिमा॑नितः । इन्द्र॒ जैत्रा॑य जज्ञिषे । स न॒स्सङ्का॑सु पारय ।

सायण-टीका

12अथ द्वादशी - हे इन्द्र! यस्त्वं घूतेनाभिमानितः अभितः पूजितस्सन् जैत्राय शत्रुजयाय जज्ञिरे जायसे जयसमर्य इत्यर्थः । स त्वं संकासु परकीयसेनासु नोऽस्मान् पारय पालय । तथा पृतनासाह्येषु च सेनानामभिभभेष्वपि समर्थान्कुर्विति शेषः ॥

विश्वास-प्रस्तुतिः

पृ॒त॒ना॒साह्ये॑षु च । इन्द्रो॑ जिगाय पृथि॒वीम् । अ॒न्तरि॑क्षँ॒ सुव॑र्म॒हत् । वृ॒त्र॒हा पु॑रु॒चेत॑नः ।

मूलम्

पृ॒त॒ना॒साह्ये॑षु च । इन्द्रो॑ जिगाय पृथि॒वीम् । अ॒न्तरि॑क्षँ॒ सुव॑र्म॒हत् । वृ॒त्र॒हा पु॑रु॒चेत॑नः ।

सायण-टीका

13अथ त्रयोदशी - पुरुचेतनः बहुविधज्ञानयुक्तः वृत्रहा शत्रुघातक इन्द्रः पृथिवीमन्तरितक्षं महान्तं स्वर्गं च जिगाय वशीकृतवात् ॥

विश्वास-प्रस्तुतिः

इन्द्रो॑ जिगाय॒ सह॑सा॒ सहाँ॑सि । इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा॑ ॥67॥
इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज । स न॑ᳶ पर॒स्पा वरि॑वᳵ कृणोतु ।

मूलम्

इन्द्रो॑ जिगाय॒ सह॑सा॒ सहाँ॑सि । इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा॑ ॥67॥
इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज । स न॑ᳶ पर॒स्पा वरि॑वᳵ कृणोतु ।

सायण-टीका

14अथ चतुर्दशी - अयमिन्द्रः सहसा स्वकीयबलेन सहांसि परकीयबलानि जिगाय जितवान् । अयमिन्द्रो विश्वा पृतनानि सर्वाणि सैन्यानि जिगाय । अयमिन्द्रो जातमात्र एव पुरः परकीयाणि पुराणि विरुरोज विशेषेण भग्नानि कृतवान् । स इन्द्रो नोऽस्माकं परस्पा अतिशयेन पालयिता सन् वरिवः कृणोतु धनं करोतु । इदं मन्त्रद्वयमैन्द्रे कर्मणि द्रष्टव्यम् ॥

विश्वास-प्रस्तुतिः

अ॒यङ्कृ॒त्नुरगृ॑भीतः । वि॒श्व॒जिदु॒द्भिदित्सोमः॑ । ऋषि॒र्विप्र॒ᳵ काव्ये॑न ।

मूलम्

अ॒यङ्कृ॒त्नुरगृ॑भीतः । वि॒श्व॒जिदु॒द्भिदित्सोमः॑ । ऋषि॒र्विप्र॒ᳵ काव्ये॑न ।

सायण-टीका

15अथ पञ्चदशी - कृत्नुर्नाम कश्चित् ऋषिः विप्रो ब्राह्मणः कावनाम्ना साम्ना निष्पन्नं स्तोत्रं काव्यं तेन स्तोत्रेण अयमृषिः विश्वजित् सर्वस्य विश्वस्य जेता उद्भिदित् सर्वस्य विरोधिन उद्भेदक एव सन् सोमः सोमसदृशः सर्वस्योपकारकः । स चागृभीतः केनाप्यनभिभूतः । अस्य मन्त्रस्य क्वचिज्जपे विनियोगो द्रष्टव्यः ॥

विश्वास-प्रस्तुतिः

वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः । सा॒कङ्ग॒न्मन॑सा य॒ज्ञम् । शि॒वो नि॒युद्भि॑श्शि॒वाभिः॑ ।

मूलम्

वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः । सा॒कङ्ग॒न्मन॑सा य॒ज्ञम् । शि॒वो नि॒युद्भि॑श्शि॒वाभिः॑ ।

सायण-टीका

16अथ षोडशी - अयं वायुरग्रेगाः प्रथमगामी यज्ञप्रीः यज्ञेन प्रीयमाणः शिवाभिः शान्ताभिः नियुद्भिः नियुन्नामिकाभिः स्वकीयाभिर्वडवाभिः साकं शिवः स्वयमपि शान्तस्सन् मनसा गन् ध्यानमात्रेण यज्ञं गच्छतु ॥

विश्वास-प्रस्तुतिः

वायो॑ शु॒क्रो अ॑यामि ते । मध्वो॒ अग्र॒न्दिवि॑ष्टिषु ॥68॥
आया॑हि॒ सोम॑ पीतये । स्वा॒रु॒हो दे॑व नि॒युत्व॑ता ।

मूलम्

वायो॑ शु॒क्रो अ॑यामि ते । मध्वो॒ अग्र॒न्दिवि॑ष्टिषु ॥68॥
आया॑हि॒ सोम॑ पीतये । स्वा॒रु॒हो दे॑व नि॒युत्व॑ता ।

सायण-टीका

17अथ सप्तदशी - हे वायो! शुक्रो निर्मलः मध्वो मधुरः सोमरसो योऽस्ति, तमग्रं श्रेष्ठं दिविष्टिषु दिवि वासेच्छा येषां देवानां ते दिविष्टयस्तेषु मध्ये ते त्वदर्थं अयामि रथं प्राप्नोमि । ततो हे देव! नियुत्वता त्वदीययाऽश्वजात्या सह स्वारुहः सुष्ठु रथमारूढः सोमपीतये सोमपानार्थमायाहि । एतदुभयं वायव्ये कर्मणि द्रष्टव्यम् । वायुरग्रेगा इत्यादयस्तु प्रउगशस्त्रेऽप्यन्तर्भूताः॥

विश्वास-प्रस्तुतिः

इ॒ममि॑न्द्र वर्धय क्ष॒त्रिया॑णाम् । अ॒यव्ँ वि॒शाव्ँ वि॒श्पति॑रस्तु॒ राजा॑ । अ॒स्मा इ॑न्द्र॒ महि॒ वर्चाँ॑सि धेहि । अ॒व॒र्चस॑ङ्कणुहि॒ शत्रु॑मस्य ।

मूलम्

इ॒ममि॑न्द्र वर्धय क्ष॒त्रिया॑णाम् । अ॒यव्ँ वि॒शाव्ँ वि॒श्पति॑रस्तु॒ राजा॑ । अ॒स्मा इ॑न्द्र॒ महि॒ वर्चाँ॑सि धेहि । अ॒व॒र्चस॑ङ्कणुहि॒ शत्रु॑मस्य ।

सायण-टीका

18अथाष्टादशी - हे इन्द्र! क्षत्रियाणां मध्ये इमं पुरोवर्तिनं राजानं वर्धय । अयं राजा विशां प्रजानां मध्ये विश्पतिरति शयेन प्रजापालकोऽस्तु । विशां मध्ये या उत्तमा विशस्तासामपि पालकोऽस्त्वित्यर्थः । हे इन्द्र! अस्मै राज्ञे महिवर्चांसि महान्ति बलानि धेहि संपादय । अस्य शत्रुमवर्चसं कृणुहि बलहीनं कुरु ॥

विश्वास-प्रस्तुतिः

इ॒ममाभ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ । निर॒मुम्भ॑ज॒ यो॑ऽमित्रो॑ अस्य । वर्ष्म॑न्क्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व । ततो॑ न उ॒ग्रो विभ॑जा॒ वसू॑नि ॥69॥

मूलम्

इ॒ममाभ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ । निर॒मुम्भ॑ज॒ यो॑ऽमित्रो॑ अस्य । वर्ष्म॑न्क्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व । ततो॑ न उ॒ग्रो विभ॑जा॒ वसू॑नि ॥69॥

सायण-टीका

19अथैकोनविंशी - हे इन्द्र! इमं राजानं सर्वस्मिन् ग्रामेऽश्वेषु गोषु च आभज सर्वतोभागिनं कुरु । अस्य राज्ञोऽमित्रः शत्रुर्योऽस्त्यमुं निर्भज भागरहितं कुरु । क्षत्रस्य क्षत्रियजातेः वर्ष्मन् शरीरे ककुभि उत्तमाङ्गे श्रयस्व इन्द्रस्य प्रसादाश्रितो भव सर्वाऽपि क्षत्रियजातिस्त्वां नमस्करोत्वित्यर्थः । अथवैनं राजानं श्रयस्व स्थापय । तत ऊर्ध्वं नोऽस्माकमुग्रस्त्वं वसूनि परकीयाणि धनानि विभज विशेषेण संपादय परेषु कुपितस्तदीयं धनमस्मभ्यं प्रयच्छेत्यर्थः ॥

विश्वास-प्रस्तुतिः

अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् । सन्दु॑हाथाङ्घर्म॒दुघे॑व धे॒नुः । अ॒यँ राजा॑ प्रि॒य इन्द्र॑स्य भूयात् । प्रि॒यो गवा॒मोष॑धीनामु॒तापाम् ।

मूलम्

अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् । सन्दु॑हाथाङ्घर्म॒दुघे॑व धे॒नुः । अ॒यँ राजा॑ प्रि॒य इन्द्र॑स्य भूयात् । प्रि॒यो गवा॒मोष॑धीनामु॒तापाम् ।

सायण-टीका

20अथ विंशी - प्रवर्ग्यार्थं या पयो दुग्धे सा घर्मदुघा तादृशी धेनुरिव हे द्यावापृथिव्यौ! अस्मै अस्मदर्थं संदुहाथामपेक्षितस्य कामस्य युवां दोहनं कुरुतम् । अयं च राजा युवयोः प्रसादादिन्द्रस्य प्रियो भूयात् । तथा गवामोषधीनामपां च प्रियो भूयात् । ताः सर्वा अस्मिन् रमन्तामियर्थः ॥

विश्वास-प्रस्तुतिः

यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्र॑म् । येन॒ जया॑सि॒ न परा॒जया॑सै । स त्वा॑ऽकरेकवृष॒भँ स्वाना॑म् । अथो॑ राजन्नुत्त॒मम्मा॑न॒वाना॑म् ।

मूलम्

यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्र॑म् । येन॒ जया॑सि॒ न परा॒जया॑सै । स त्वा॑ऽकरेकवृष॒भँ स्वाना॑म् । अथो॑ राजन्नुत्त॒मम्मा॑न॒वाना॑म् ।

सायण-टीका

21अथैकविंशी - उत्तर उत्कृष्टो ज्ञानैश्वर्यादिर्यस्येन्द्रस्य सोऽयमुत्तरावान् । तादृशमिन्द्रं हे राजन्! ते त्वदर्थं युनज्मि त्वया सह संयोजयामि । येनेन्द्रेण जयासि सर्वदा त्वं जेष्यसि न पराजयासै कदाचिदपि पराजयं न प्राप्स्यसि । स इन्द्रः त्वां स्वानां ज्ञातीनां मध्ये एकवृषभमेकमेव श्रेष्ठं अकः करोतु । अथो अपि च हे राजन्! मानवानां त्वामुत्तमं करोतु ॥

विश्वास-प्रस्तुतिः

उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः॑ । एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान् ॥70॥
विश्वा॒ आशा॒ᳶ पृत॑नास्स॒ञ्जय॒ञ्जय॑न् । अ॒भि ति॑ष्ठ शत्रूय॒तस्स॑हस्व ।

मूलम्

उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः॑ । एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान् ॥70॥
विश्वा॒ आशा॒ᳶ पृत॑नास्स॒ञ्जय॒ञ्जय॑न् । अ॒भि ति॑ष्ठ शत्रूय॒तस्स॑हस्व ।

सायण-टीका

22अथ द्वाविंशी - हे राजन्! त्वमुत्तर उत्कृष्टो भव । ते सपत्नाः शत्रवोऽधरे निकृष्टाः सन्तु । त्वमेकवृषा एक एव श्रेष्ठः इन्द्रसखा इन्द्रस्य सख्यं प्राप्तो जिगीवान् सर्वदा जयं प्राप्तो विश्वा आशाः सर्वा अपि दिशः संजयन् सम्यग्वशीकुर्वन् विश्वाः पृतनाश्च जयन् अभितिष्ठ अभिक्रम्य स्थिरो भव । शत्रूयतः शात्रवमिच्छतो मनुष्यान् सहस्व अभिभव । इयमिन्द्र वर्धयेत्यादिमन्त्रपञ्चकमाशीर्वादरूपं राजनि पुरोहितेन प्रयोक्तव्यम् ॥

विश्वास-प्रस्तुतिः

तुभ्य॑म्भरन्ति क्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिञ्चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ।

मूलम्

तुभ्य॑म्भरन्ति क्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिञ्चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ।

सायण-टीका

23अथ त्रयोविंशी - हे यविष्ठ! युवतम अग्ने! क्षितयो भूमिष्ठाः सर्वे मनुष्या अन्तितः समीपदेशात् ओत उत दूरदेशाच्च बलिं पूजामाभरन्ति आनीय प्रयच्छन्ति । भन्दिष्ठस्य अतिशयेन स्तोतुर्मम सुमतिं शोभनमतिं आचिकिद्धि सर्वतोऽनुगृहाण । हे अग्ने! ते तव शर्म शरणं बृहत् महि अधिकं कर्मभिः पूज्यं भद्रं कल्याणम् ॥

विश्वास-प्रस्तुतिः

यो दे॒ह्यो अन॑मयद्वध॒स्नैः । यो अर्य॑पत्नीरु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृत॒स्सहो॑भिः ॥71॥

मूलम्

यो दे॒ह्यो अन॑मयद्वध॒स्नैः । यो अर्य॑पत्नीरु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृत॒स्सहो॑भिः ॥71॥

सायण-टीका

24अथ चतुर्विंशी - योऽग्निर्देह्यो देहिनीः प्रजाः वधस्त्रैः वधबन्धनैश्च । स्ना वेष्टन इति धातोरुत्पन्नत्वाद्बन्धनमुच्यते । अनमयत् स्ववशीकृतवान् । यश्चाग्निरुषतो देवीरर्यपत्नीः सूर्यभार्याश्चकार सोऽग्निः यह्वो महान् नहुषो बन्धको भूत्वा विशः प्रजाः निरुध्य बलिहृतश्चक्रे । बलिहरणं नाम देवेभ्यो हविर्दानम् । सहोभिः स्वकीयैर्बलैस्तथा चक्रे । एतच्चोभयं दिवश्येनीष्टिषु ‘अग्नये बलिमते चरुम्’ इत्यत्र याज्यानुवाक्ये । तथा च तत्र प्रतीकद्वयमाम्नातम् - ‘तुभ्यं भरन्ति, यो देह्यः’ इति ॥

विश्वास-प्रस्तुतिः

प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्यान् । आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ । ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ । प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ।

मूलम्

प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्यान् । आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ । ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ । प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ।

सायण-टीका

25अथ पञ्चविंशी - हे अग्ने! यस्मै यजमानाय त्वं चारुतरः प्रियतर आविर्बभूथ प्रत्यक्षदृष्टोऽभूः । तस्य यजमानस्यार्थे सद्यस्तदानीमेवान्यान् सर्वान्यजमानान् प्रकर्षेणात्येषि अति क्रमिष्यसि । चारुतरत्वमेव स्पष्टीक्रियते - ईडेन्यः सर्वैः स्तुत्यो वपुष्यः उज्ज्वलरूपो विभावा दीप्यमानो मानुषीणां विशां प्रजानां प्रियोऽतिथिः । सोऽयं मन्त्र आग्नेये कर्मणि द्रष्टव्यः ॥

विश्वास-प्रस्तुतिः

ब्रह्म॑ज्येष्ठा वी॒र्या॑ सम्भृ॑तानि । ब्रह्माग्रे॒ ज्येष्ठ॒न्दिव॒मात॑तान । ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे । तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तु॒ङ्कः ।

मूलम्

ब्रह्म॑ज्येष्ठा वी॒र्या॑ सम्भृ॑तानि । ब्रह्माग्रे॒ ज्येष्ठ॒न्दिव॒मात॑तान । ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे । तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तु॒ङ्कः ।

सायण-टीका

26षड्विंशी - हे ज्येष्ठा! वृद्धतमाः! प्रजापतिप्रभृतयः! शृणुत यानि वीर्याणि ज्ञानैश्वर्यादीनि युष्मासु संभृतानि संपादितानि सर्वाणि ब्रह्मैव । ‘अत एव स्मर्यते - यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ॥
इति ।
किंच - ज्येष्ठं लोके वृद्धतमं ब्रह्म अग्रे प्रथममादिकाले दिवमाततान द्युलोकं विस्तारयति स्म । किं बहुना यदृतं सत्यं सर्वकारणकारणं वस्तु तस्यापि ब्रह्म प्रथमं जज्ञे प्रादुरभूत् । स्वस्य स्वयमेव अविर्बभूव स्वप्रकाशत्वेन भासत इत्यर्थः । तेनैवंभूतेन ब्रह्मणा कोऽन्यः पुमान् स्पर्धितुं शक्नोति ॥

विश्वास-प्रस्तुतिः

ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः । ब्रह्म॑णा॒ स्वर॑वो मि॒ताः ॥72॥
ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः । ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ ।

मूलम्

ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः । ब्रह्म॑णा॒ स्वर॑वो मि॒ताः ॥72॥
ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः । ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ ।

सायण-टीका

27अथ सप्तविंशी - घृतवतीः घृतसंपूर्णाः स्रुचोऽपि ब्रह्मैव । मिताः यूपे प्रक्षिप्ताः स्वरवः शकलविशेषा अपि ब्रह्मैव । यज्ञस्य तन्तवो विस्तारा अपि ब्रह्मैव । हविष्कृतो हविस्संपादकाः ये ऋत्विजः सन्ति तेऽपि ब्रह्मैव । एतच्चोभयं ‘ब्रह्मण ऋषभम्’ इति विहिते पशो द्रष्टव्यम् ॥

विश्वास-प्रस्तुतिः

शृङ्गा॑णी॒वेच्छृ॒ङ्गिणाँ॒ सन्द॑दृश्रिरे । च॒षाल॑वन्त॒स्स्वर॑वᳶ पृथि॒व्याम् । ते दे॒वास॒स्स्वर॑वस्तस्थि॒वाँसः॑ । नम॒स्सखि॑भ्यस्स॒न्नान्माऽव॑गात ।

मूलम्

शृङ्गा॑णी॒वेच्छृ॒ङ्गिणाँ॒ सन्द॑दृश्रिरे । च॒षाल॑वन्त॒स्स्वर॑वᳶ पृथि॒व्याम् । ते दे॒वास॒स्स्वर॑वस्तस्थि॒वाँसः॑ । नम॒स्सखि॑भ्यस्स॒न्नान्माऽव॑गात ।

सायण-टीका

28अथाष्टाविंशी - चषाला यूपाग्रवर्तिनः कटकाः स्वरवो यूपरशनास्वासञ्जिताः शकलाः । चषालैः स्वरुभिश्च युक्ता यूपाः पृथिव्यां वेद्यां संददृश्रिरे सम्यग्दृष्टाः । तत्र दृष्टान्तः - शृङ्गिणां वृषभाणां शृङ्गाणीवेत् शृङ्गाणि यथा दृश्यन्ते तथैवेत्यर्थः । स्वरुमन्तस्ते यूपास्तस्थिवांसो देवासः स्थैर्येणावस्थिता देवा एव । अत एव ‘स वा एष सर्वदेवत्यो यद्यूपः’ इत्याम्नातम् । अतो यजमानसखिभ्यो देवरूपेभ्यो यूपेभ्यो नमोऽस्तु । हे यूपाः! सन्नात् अस्मत्सदनात् माऽवगात माऽपगच्छत । एतस्य मन्त्रस्य विनियोगं सूत्रकार अह - ‘यूप यजमान उपतिष्ठते नमस्सखिभ्यः’ इति ॥

विश्वास-प्रस्तुतिः

अ॒भि॒भूर॒ग्निर॑तर॒द्रजाँ॑सि । स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः । जु॒षा॒णो म॒ आहु॑तिम्मामहिष्ट । ह॒त्वा स॒पत्ना॒न्वरि॑वस्करन्नः ।

मूलम्

अ॒भि॒भूर॒ग्निर॑तर॒द्रजाँ॑सि । स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः । जु॒षा॒णो म॒ आहु॑तिम्मामहिष्ट । ह॒त्वा स॒पत्ना॒न्वरि॑वस्करन्नः ।

सायण-टीका

29अथैकोनत्रिंशी - अभिभूरभिभवनशीलोऽयमग्निः रजांसि रञ्जनात्मकान् लोकान् अतरत् अत्यक्रामत् । स्पृधो बाधिकाः पृतनाः शत्रुसेना विहत्य तत एवाभिगतश्रीः सोऽयं जुषाणः प्रियमाणो मे मम आहुतिं मा महिष्ट श्रद्दधातु । अस्मत्सपत्नान् हत्वा वरिवः तदीयं धनं नोऽस्माकं करोतु ॥

विश्वास-प्रस्तुतिः

ईशा॑नन्त्वा॒ भुव॑नानामभि॒श्रिय॑म् । स्तौम्य॑ग्न उरु॒कृतँ॑ सु॒वीरम्॑ । ह॒विर्जु॑षा॒णस्स॒पत्नाँ॑ अभि॒भूर॑सि । ज॒हि शत्रूँ॒ रप॒ मृधो॑ नुदस्व ॥ 73॥

मूलम्

ईशा॑नन्त्वा॒ भुव॑नानामभि॒श्रिय॑म् । स्तौम्य॑ग्न उरु॒कृतँ॑ सु॒वीरम्॑ । ह॒विर्जु॑षा॒णस्स॒पत्नाँ॑ अभि॒भूर॑सि । ज॒हि शत्रूँ॒ रप॒ मृधो॑ नुदस्व ॥ 73॥

सायण-टीका

30अथ त्रिंशी - हे अग्ने! त्वां स्तौमि । कीदृशं? भुवनानामीशानमभिगतश्रियमुरुकृतं प्रभूतकर्मकारिणं सुवीरं शोभनापत्यहेतुम् । हे अग्ने! त्वं हविर्जुषाणः सपत्नान् शत्रूनभिभवितुं समर्थोऽसि । अतः शत्रूञ्जहि मृधो बाधकानपनुदस्व । एतदुभयमाग्नेये कर्मणि द्रष्टव्यम् ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥