६ १५-२० कन्या-दक्षिणा

सायणोक्त-विनियोगः

प्रजापतिरित्यादिमन्त्रस्य कन्याप्रतिग्रहे विनियोगमाह बोधायनः -
‘अथ यदि दक्षिणाभिस् सह दत्ता स्यान्
नात्र वरान् प्रहिणुयात्
ता प्रतिगृह्णीयात्
प्रजापतिस् स्त्रियां यश
इत्येताभिष् षड्भिर् अनुच्छन्दसम्’ इति ।
आपस्तम्बमतानुसारिणस्तु वध्वाः शिरसि तण्डुलप्रक्षेपे विनियोगमाहुः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जा-प॑तिस् स्त्रि॒याय्ँ यशः॑ ।
मु॒ष्कयो॑र् अदधा॒त् सप॑म्+++(←सप्=प्रजनन-सम्बन्धे)+++ ।
काम॑स्य॒ तृप्ति॑म् आन॒न्दम् ।
तस्या॑ग्ने भाजये॒ह मा॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

प्र॒जाप॑तिस्स्त्रि॒याय्ँ यशः॑ ।
मु॒ष्कयो॑रदधा॒त्सप॑म् ।
काम॑स्य॒ तृप्ति॑मान॒न्दम् ।
तस्या॑ग्ने भाजये॒ह मा॑ ।

सायण-टीका

15अथ पञ्चदशीमाह - योंऽयं प्रजापतीर्जगतः स्रष्टा स्त्रियां यशः भार्यायां गर्भरूरेण यशसः कारणं यद्वीर्यं तत् मुष्कयोरण्डयोः सपं सम्बन्धं अदधात् स्थापितवान् । तस्यैव स्थापितस्य विशेषणानि - कामस्य तृप्तिं तृप्तिकारणम् । तस्मिन् गलिते सत्येव योषिन्मे भूयादिति कामो निवर्तते तन्निवृत्तिरेव तृप्तिः । अत आनन्दं सुखकारणम् । हेऽग्ने इह विवाहे कर्मणि मां तस्य वीर्यस्य सुखं भाजय प्रापय ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मोद॑ᳶ प्रमो॒द आ॑न॒न्दः ॥55॥
मु॒ष्कयो॒र् निहि॑त॒स् सपः॑+++(←सप्=प्रजनन-सम्बन्धे)+++ ।
सृ॒त्वेव॒ काम॑स्य तृप्याणि
+++(कन्या-)+++दक्षि॑णानाम् प्रतिग्र॒हे ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

मोद॑ᳶ प्रमो॒द आ॑न॒न्दः ॥55॥
मु॒ष्कयो॒र्निहि॑त॒स्सपः॑ ।
सृ॒त्वेव॒ काम॑स्य तृप्याणि ।
दक्षि॑णानाम्प्रतिग्र॒हे ।

सायण-टीका

16अथ षोडशीमाह - मोदादयस्त्रयस्तारतम्येनावस्थिताः सुखावान्तरविशेषाः । वार्ताजन्यः सुखविशेषो मोदः । दर्शनजन्यः प्रमोदः । भोगजन्य आनन्दः । तेषां सर्वेषां सपः समवायहेतुः मुष्कयोर्निहितः स्थापितः । दक्षिणानां प्रतिग्रहे सति कामस्य सृत्वेव कामितार्थं प्राप्येव तृप्याणि तृप्तो भवानि ।

अयमर्थः - ऋत्विजां दक्षिणाकाले कन्याऽपि दीयते । अत एवापस्तम्बधर्मेषु स्मर्यते - ‘दैवे यज्ञतन्त्रे ऋत्विजे प्रतिपादयेत्’ इति । दैवे विवाहे चिकीर्षिते सति यज्ञप्रयोगमध्ये ऋत्विजे कन्यां समर्पयेत् । आश्वलायनोऽपि दीक्षिणारूपायाः कन्याया अभिमर्शनं विधत्ते - ‘अभिमृशेदप्राणि कन्यां च’ इति । तस्माद्दक्षिणानां प्रतिग्रहे सति कन्यां प्राप्तस्य यादृशी तृप्तिस्तादृशी तृप्तिर्भवतीति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मन॑सश् चि॒त्तम् आकू॑तिम् ।
वा॒चस् स॒त्यम् अ॑शीमहि
प॒शू॒नाँ रू॒पम् अन्न॑स्य ।
यश॒श् श्रीश् श्र॑यता॒म् मयि॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

मन॑सश्चि॒त्तमाकू॑तिम् ।
वा॒चस्स॒त्यम॑शीमहि ।
प॒शू॒नाँ रू॒पमन्न॑स्य ।
यश॒श्श्रीश्श्र॑यता॒म्मयि॑ ।

सायण-टीका

17अथ सप्तदशीमाह - मनसः संबन्धि चित्तं विज्ञानमाकूतिं संकल्पं वाचः संबन्धि सत्यवदनं च अशीमहि प्राप्नुयाम । तथा पशूनां गवादीनां रूपमनेकविधं स्वरूपं अन्नस्य संबन्धि यशः कीर्ति च अशीमहि । मयि श्रीर्धनसमृद्धिः श्रयतां सेवताम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॒ऽहम॒स्या अतृ॑पँ स्त्रि॒यै पुमा॑न् ।
यथा॒ स्त्री तृप्य॑ति पुँ॒सि प्रि॒ये प्रि॒या ।
ए॒वम् भग॑स्य तृप्याणि ॥56॥
य॒ज्ञस्य॒ काम्य॑ᳶ प्रि॒यः ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

यथा॒ऽहम॒स्या अतृ॑पँ स्त्रि॒यै पुमा॑न् ।
यथा॒ स्त्री तृप्य॑ति पुँ॒सि प्रि॒ये प्रि॒या ।
ए॒वम्भग॑स्य तृप्याणि ॥56॥
य॒ज्ञस्य॒ काम्य॑ᳶ प्रि॒यः ।

सायण-टीका

18अथाष्टादशीमाह - अस्यै अस्यां स्त्रियां विवाहेन लब्धायां स्त्रियां पुमानहं यथाऽतृपं येन प्रकारेण तृप्तोऽस्मि, यथा च प्रिया स्त्री प्रिये पुंसि तृप्यति एवमहं भगस्य तृप्याणि सौभाग्येन तृप्तो भवानि । कीदृशोऽहं? यज्ञभ्य काम्यः यज्ञो हि स्वानुष्ठानाय मां कामयते । अत एव यज्ञस्याहं प्रियः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(कन्यां)+++ ददा॒मीत्य् अ॒ग्निर् व॑दति
तथेति॑ वा॒युर् आ॑ह॒ तत् ।
हन्तेति॑ स॒त्यञ् च॒न्द्रमाः॑ ।
आ॒दि॒त्यस् स॒त्यम् ओम् इति॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

ददा॒मीत्य॒ग्निर्व॑दति ।
तथेति॑ वा॒युरा॑ह॒ तत् ।
हन्तेति॑ स॒त्यञ्च॒न्द्रमाः॑ ।
आ॒दि॒त्यस्स॒त्यमोमिति॑ ।

सायण-टीका

19अथैकोनविंशीमाह - एनां कन्यामहं ददामीत्येवमग्निर्ब्रूते । तत्तथाऽस्त्विति वायुरप्याह । चन्द्रमास्तु तत्सत्यं हन्त ममायं हर्ष इत्याह । आदित्यः सत्यमोमिति अवश्यमङ्गीकरोमीति ब्रूते ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आप॒स् तथ् +++(पूर्वोक्त-कन्या-रूप-दक्षिणां)+++ स॒त्यम् आभ॑रन्
यशो॑ य॒ज्ञस्य॒ दक्षि॑णाम् ।
अ॒सौ मे॒ काम॒स् समृ॑द्ध्यताम्
न हि स्पश॒म् अवि॑दन्न् अ॒न्यम् अ॒स्मात् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

आप॒स्तत्स॒त्यमाभ॑रन् ।
यशो॑ य॒ज्ञस्य॒ दक्षि॑णाम् ।
अ॒सौ मे॒ काम॒स्समृ॑द्ध्यताम् ।
न हि स्पश॒मवि॑दन्न॒न्यम॒स्मात् ।

सायण-टीका

20अथ विंशीमाह - यज्ञस्य दक्षिणां यज्ञसंबन्धिदक्षिणारूपं यशः यशसः कारणं तत्कन्यारूपं वस्तु आपः सत्यम् आभरन् अब्देवता अवश्यमानयन् ।
तस्माद् असौ पुत्रोत्पादनरूपो मे कामः समृध्यतां समृद्धो भवतु ।