विश्वास-प्रस्तुतिः
वृषा॒सो अँ॒शुᳶ प॑वते ह॒विष्मा॒न्त्सोमः॑ । इन्द्र॑स्य भा॒ग ऋ॑त॒युश्श॒तायुः॑ । स मा॒ वृषा॑णव्ँ वृष॒भङ्कृ॑णोतु । प्रि॒यव्ँ वि॒शाँ सर्व॑वीरँ सु॒वीर॑म् ।
मूलम्
वृषा॒सो अँ॒शुᳶ प॑वते ह॒विष्मा॒न्त्सोमः॑ । इन्द्र॑स्य भा॒ग ऋ॑त॒युश्श॒तायुः॑ । स मा॒ वृषा॑णव्ँ वृष॒भङ्कृ॑णोतु । प्रि॒यव्ँ वि॒शाँ सर्व॑वीरँ सु॒वीर॑म् ।
सायण-टीका
(SB) 1अथ पञ्चमेऽनुवाके प्रथमामृचमाह - सोमो वल्ल्यात्मकः पवते शुद्धो भवति । कीदृश सोमः! वृषा कामानां वर्षयिता सः प्रसिद्धः अंशुः बहुभिरंशुभिर्युक्तः हविष्मान् हविषो निष्पादकः इन्द्रस्य भागो भक्षणीयः ऋतयुः यज्ञहेतुः शतायुः शतसंवत्सरस्या युषः प्रदाता तादृशः सोमः मां यजमानं वक्ष्यमाणविशेषणोपेतं कृणोतु करोतु । कैर्विशेषणैरुपेतं? वृषाणं सेचकं वृषभं श्रेष्ठं विशां प्रजानां प्रियं प्रीतिहेतुं सर्ववीरं सर्वेषां मध्ये वीर्योपेतं सुवीरं शोभनैर्वीरैः पुत्रैर्युक्तम् ॥
विश्वास-प्रस्तुतिः
कस्य॒ वृषा॑ सु॒ते सचा॑ । नि॒युत्वा॑न्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये ।
मूलम्
कस्य॒ वृषा॑ सु॒ते सचा॑ । नि॒युत्वा॑न्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये ।
सायण-टीका
2अथ द्वितीयामाह - कस्योदकस्य वृषा वर्षिता सुतेऽभिषुते सोमे सचा समवेतः नियुत्वान् नियुद्भिरश्वविशेषैर्युक्तः वृषभः श्रेष्ठः वृत्रहा वैरिघातकः इन्द्रः सोमपीतये सोमपानाय रणात् रमते ॥
विश्वास-प्रस्तुतिः
यस्ते॑ शृङ्ग वृषोनपात् । प्रण॑पात्कुण्ड॒पाय्यः॑ । न्य॑स्मिन्दध्र॒ आ मनः॑ ॥44॥
मूलम्
यस्ते॑ शृङ्ग वृषोनपात् । प्रण॑पात्कुण्ड॒पाय्यः॑ । न्य॑स्मिन्दध्र॒ आ मनः॑ ॥44॥
सायण-टीका
3अथ तृतीयामाह - शृङ्गादिशब्दैस्त्रिभिः सोमः संबोध्यते । अथवा इन्द्रस्य संबोधनानि । शृङ्गवच्छ्रेष्ठकामाभिवर्षको नपात् नपातयिता अस्माकमविनाशहेतुरीदृश इन्द्रो योऽयं कुण्डपाय्यः एतन्नामकः सोमयागविशेषः प्रणपात् प्रकर्षेण नपातयिता तृप्तिहेतुरित्यर्थः । अस्मिन्क्रतौ ते मनः नितरां आ समन्तात् दध्रे धृतवान् ॥
विश्वास-प्रस्तुतिः
तँ स॒ध्रीची॑रू॒तयो॒ वृष्णि॑यानि । पौँस्या॑नि नि॒युत॑स्सश्चु॒रिन्द्र॑म् । स॒मु॒द्रन्न सिन्ध॑व उ॒क्थशु॑ष्माः । उ॒रु॒व्यच॑स॒ङ्गिर॒ आवि॑शन्ति ।
मूलम्
तँ स॒ध्रीची॑रू॒तयो॒ वृष्णि॑यानि । पौँस्या॑नि नि॒युत॑स्सश्चु॒रिन्द्र॑म् । स॒मु॒द्रन्न सिन्ध॑व उ॒क्थशु॑ष्माः । उ॒रु॒व्यच॑स॒ङ्गिर॒ आवि॑शन्ति ।
सायण-टीका
4अथ चतुर्थीमाह - सध्रीचीः सह प्रवर्तमानाः ऊतयः रक्षाहेतवः कर्मविशेषाः पौंस्यानि पुंसंबन्धीनि वृष्णियानि सेचनानि कामवर्षणानि वा नियुतोऽश्वाश्च तमिन्द्रं सश्चुः संवध्नन्ति । तत्र दृष्टान्तः - समुद्गं न सिन्धवं यथा समुद्रं नद्यः प्राप्नुवन्ति तद्वत् । अथवा वक्ष्यमाणार्थेऽयं दृष्टान्तः - उक्थशुष्मा: उक्थैः शस्त्रैः शुष्माः प्रबला गिरोऽस्मदीयाः स्तुतिरूपा वाच उरुव्यचसमत्यन्ततृप्तियुक्तमिन्द्रमाविशन्ति ॥
विश्वास-प्रस्तुतिः
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः । अ॒पᳶ प्रैर॑य॒न्त्सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भिः । विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ।
मूलम्
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः । अ॒पᳶ प्रैर॑य॒न्त्सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भिः । विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ।
सायण-टीका
5अथ पञ्चमीमाह - य इन्द्रः शचीभिः शक्तिभिः पृथिवीं विष्वक् तस्तम्भ सर्वतः स्तम्भितवान् । उत अपिच द्यां द्युलोकमपि विष्वक् तस्तम्भ । तत्र दृष्टान्तः - अक्षेणेव चक्रिया यथा रथस्यक्षेण चक्रिया चक्रद्वयं स्तम्भितं तद्वत् । तादृशायेन्द्रायास्माभिः प्रयुज्यमानाः स्तुतिरूपा गिरोऽनिशितसर्गा अतीक्ष्णस्वभावा अपः सगरस्य समुद्रसमानस्य मेघस्य बुध्नान् मूलात् प्रैरयन् । अस्मदीयाभिः स्तुतिभिः स्तूयमान इन्द्रो वृष्टिं प्रयच्छतीत्यर्थः । ‘आपो व शान्ताः’ इति श्रुतेरनुभवाच्चापामतीक्ष्णस्वभावत्वम् ॥
विश्वास-प्रस्तुतिः
अक्षो॑दय॒च्छव॑सा॒ क्षाम॑बु॒ध्नम् ।
वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑ ॥45॥
दृ॒ढान्यौ॑घ्नादु॒शमा॑न॒ ओजः॑ ।
अवा॑भिनत्क॒कुभ॒ᳶ पर्व॑तानाम् ।
मूलम्
अक्षो॑दय॒च्छव॑सा॒ क्षाम॑बु॒ध्नम् ।
वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑ ॥45॥
दृ॒ढान्यौ॑घ्नादु॒शमा॑न॒ ओजः॑ ।
अवा॑भिनत्क॒कुभ॒ᳶ पर्व॑तानाम् ।
सायण-टीका
6अथ षष्ठीमाह - अयमिन्द्रः शवसा स्वकीयेन बलेन क्षाम क्षीणं बुध्नं मेघमूलं अक्षोदयत् उदकपूरणं कृत्वा प्रेरितवान् । तत्र दृष्टान्तः - वार्णवातो वार्णवायुः जलं यथा प्रेरयति तद्वत् । ओजो बलं उशमानः कामयमानो दृढानि मेघमूलानि औघ्नात् हतवान्वज्रेण भिन्नवान् । पर्वतानां ककुभः शिखराणि महावृष्ट्या वस्त्रेण अवाभिनद्भिन्नान्यकरोत् । वृषा स इत्यादयः षण्मन्त्रा ऐन्द्रे सौमिके कर्मणि द्रष्टव्याः । ‘तँ सध्रीचीः’ इत्यस्य तु सौत्रामण्यामैन्द्रे पशावप्यस्ति विनियोगः । अत एव तत्र प्रतीकमाम्नातम् ‘तँ सध्रीचीः’ इति ॥
विश्वास-प्रस्तुतिः
आ नो॑ अग्ने सुके॒तुना॑ । र॒यिव्ँ वि॒श्वायु॑पोषसम् । मा॒र्डी॒कन्धे॑हि जी॒वसे॑ ।
मूलम्
आ नो॑ अग्ने सुके॒तुना॑ । र॒यिव्ँ वि॒श्वायु॑पोषसम् । मा॒र्डी॒कन्धे॑हि जी॒वसे॑ ।
सायण-टीका
7अथ सप्तमीमाह - हे अग्ने! सुकेतुना शोभनेन ज्ञानेन युक्तस्त्वं विश्वायुपोषसं विश्वस्यायुषः पोषणे क्षमं रयिं धनं मार्डीकं अतिशयेन सुखसाधनभूतं जीवसे अस्माकं जीवनाय आधेहि सर्वतः संपदाय ॥
विश्वास-प्रस्तुतिः
त्वँ सो॑म म॒हे भग॑म् । त्वय्ँ यून॑ ऋताय॒ते । दक्ष॑न्दधासि जी॒वसे॑ ।
मूलम्
त्वँ सो॑म म॒हे भग॑म् । त्वय्ँ यून॑ ऋताय॒ते । दक्ष॑न्दधासि जी॒वसे॑ ।
सायण-टीका
8अथाष्टमीमाह - हे सोम! त्वं महे महते वृद्धाय भगं सौभाग्यं दधासि संपादयसि । तथा त्वं ऋतायते यज्ञमिच्छते यूने यौवनोपेताय यजमानाय जीवसे जीवनार्थं दक्षं समर्थं धनं दधासि संपादयसि । एते उभे ऋचौ चातुर्मास्यान्तर्गतमहापितृयज्ञे आज्यभागयोः पुरोनुवाक्ये । तथा च सूत्रकार आह - ‘जीववन्तावाज्यभागौ यजत्या नो अग्ने सुकेतुना’ इति ॥
विश्वास-प्रस्तुतिः
रथय्ँ॑युञ्जते म॒रुत॑श्शु॒भे सु॒गम् ।
सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ॥46॥
रजाँ॑सि चि॒त्रा विच॑रन्ति त॒न्यवः॑ ।
दि॒वस्स॑म्राजा॒ पय॑सा न उक्षतम् ।
मूलम्
रथय्ँ॑युञ्जते म॒रुत॑श्शु॒भे सु॒गम् ।
सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ॥46॥
रजाँ॑सि चि॒त्रा विच॑रन्ति त॒न्यवः॑ ।
दि॒वस्स॑म्राजा॒ पय॑सा न उक्षतम् ।
सायण-टीका
9अथ नवमीमाह - मरुतो देवाः शुभे कर्मणि सुगं शोभनं गमनसाधनं रथं युञ्जते अश्वैर्योजयन्ति । तत्र दृष्टान्तः - सूरो न यथा सूर्यो रथं युनक्ति तद्वत् । हे मित्रावरूणौ! गविष्टिषु भूमाविष्यमाणाः क्षेत्रादिसंपत्तयो गविष्टयः तासु निमित्तभूतासु चित्रा विचित्राणि रजांसि रञ्जनीयानि जलानि वितन्यवः विस्तारयन्तो मरुतो विविधं चरन्ति । तद्वद्युवामपि दिवः सकाशात्सम्राजा पयसा सम्यग्राजमानेन क्षेत्रोपकारिणा जलेन नोऽस्मान् उक्षतं सिञ्चतम् ॥
विश्वास-प्रस्तुतिः
वाचँ॒ सुमि॑त्रावरुणा॒विरा॑वतीम् । प॒र्जन्य॑श्चि॒त्राव्ँव॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत मरुतस्सुमा॒यया॑ । द्याव्ँव॑र्षयतमरु॒णाम॑रे॒पस॑म् ।
मूलम्
वाचँ॒ सुमि॑त्रावरुणा॒विरा॑वतीम् । प॒र्जन्य॑श्चि॒त्राव्ँव॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत मरुतस्सुमा॒यया॑ । द्याव्ँव॑र्षयतमरु॒णाम॑रे॒पस॑म् ।
सायण-टीका
10अथ दशमीमाह - हे मित्रावरुणौ! अयं पर्जन्य इरावतीमन्नसाधनभूतां चित्रां बहुविधां त्विषीमतीं त्विड्भिर्विद्युद्भिर्युक्तो वाचं गर्जनध्वनिरूपां वदति करोतीत्यर्थः । अरुणां विद्युद्भिर्युक्तत्वेनारुणवर्णां अरेपसं रेपसा वृष्टिप्रतिबन्धकेन पापादिना रहितां द्यां मेघयुक्तां दिवं वर्षयतम् । हे मित्रावरुणौ! युवां वृष्टियुक्तां कुरुतम् । हे मरुतः! यूयमपि मायया धूमज्योतिरादिभिर्मेघनिष्पादिकया भवदीयया मायाशक्त्या अभ्रा विचित्राण्यभ्राणि सुवसत सुष्ठु वासयत संपादयतेत्यर्थः । एतच्च मन्त्रद्वयं वृष्टिहेतो मैत्रावरुणकर्मणि विनियोक्तव्यम् ॥
विश्वास-प्रस्तुतिः
अयु॑क्त स॒प्त शु॒न्ध्युवः॑ । सूरो॒ रथ॑स्य न॒प्त्रियः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः ।
मूलम्
अयु॑क्त स॒प्त शु॒न्ध्युवः॑ । सूरो॒ रथ॑स्य न॒प्त्रियः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः ।
सायण-टीका
11अथैकादशीमाह - सूरः सूर्यो रथस्य स्वकीयस्य नप्त्रियः अपातनहेतून्रथमविनाशयितॄन् शुन्ध्युवः शुद्धान् सप्तसंख्याकान् अयुक्त रथे योजितवान् । स्वयुक्तिभिः स्वेन योजिताभिस्सह याति प्रतिदिनं गच्छति ॥
विश्वास-प्रस्तुतिः
वहि॑ष्ठेभिर्वि॒हर॑न् यासि॒ तन्तु॑म् ॥47॥
अ॒व॒व्यय॒न्नसि॑तन्देव॒ वस्वः॑ ।
दवि॑ध्वतो र॒श्मय॒स्सूर्य॑स्य ।
चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व॑न्तः ।
मूलम्
वहि॑ष्ठेभिर्वि॒हर॑न् यासि॒ तन्तु॑म् ॥47॥
अ॒व॒व्यय॒न्नसि॑तन्देव॒ वस्वः॑ ।
दवि॑ध्वतो र॒श्मय॒स्सूर्य॑स्य ।
चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व॑न्तः ।
सायण-टीका
12अथ द्वादशीमाह - हे देव! सूर्य! वहिष्ठेभिरतिशयेन वहनक्षमैरश्चैर्विहरन् तत्रतत्र क्रीडन् तन्तुं रश्मिविस्तारं यासि प्राप्नोषि । किं कुर्वन्? असितमन्धकारमवव्ययन् विनाशयन् । वस्वः वासयितारमाच्छादकमन्धकारं दविध्वतः दोधूयमानाः विनाशनसमर्थाः सूर्यस्य रश्मयोऽप्स्वन्तरन्तरिक्षमध्ये तमोऽन्धकारमवाधुर्विनाशितवन्तः । अप्शब्दोऽप्यन्तरिक्षनामसु पठितः । तमोविनाशने दृष्टान्तः - चर्मेव यथा दृष्टेरावरकं पटलरूपं चर्मापनयति तद्वत् । एतच्चोभयं सौर्ये कर्मणि द्रष्टव्यम् ॥
विश्वास-प्रस्तुतिः
प॒र्जन्या॑य॒ प्र गा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे॑ । स नो॑ य॒वस॑मिच्छतु ।
मूलम्
प॒र्जन्या॑य॒ प्र गा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे॑ । स नो॑ य॒वस॑मिच्छतु ।
सायण-टीका
13अथ त्रयोदशीमाह - हे ऋत्विजः पर्जन्याय पर्जन्यदेवार्थं प्रगायत प्रकर्षेण गानं कुरुत । कीदृशाय दिवस्पुत्राय स्वर्गलोकस्य पुत्रस्थानीयाय मीढुषे सेचनसमर्थाय । स च पर्जन्यो नोऽस्मदर्थं यवसं तृणसस्यादिकमिच्छतु वृष्टिद्वारेण संपादयत्वित्यर्थः ॥
विश्वास-प्रस्तुतिः
अच्छा॑ वद त॒वस॑ङ्गी॒र्भिरा॒भिः । स्तु॒हि प॒र्जन्य॒न्नम॒साऽऽवि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नुः । रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भ॑म् ॥48॥
मूलम्
अच्छा॑ वद त॒वस॑ङ्गी॒र्भिरा॒भिः । स्तु॒हि प॒र्जन्य॒न्नम॒साऽऽवि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नुः । रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भ॑म् ॥48॥
सायण-टीका
14अथ चतुर्दशीमाह - हे पर्जन्यदेव! तवसमच्छास्मद्धितं बलमभिलक्ष्य वद गर्जनरूपं शब्दं कुरु । येन गर्जनेन वृष्टिद्वाराऽस्माकं बलं संपद्यते तथा गर्जनं हुरु । हे ऋत्विक्समूह! आभिर्गीभिर्वैदिकीभिः स्तुतिभिः पर्जन्यदेवं स्तुहि । नमसा विवास सर्वो जनो नमस्कारेण परिचर्यां चकार । कनिक्रदत् पुनःपुनर्गर्जन्वृषभो वर्षणक्षमो जीरदानुरस्मज्जीवनहेतुरयं पर्जन्यः ओषधीषु गर्भं रेतः गर्भकारणबीजं दधातु स्थापयतु ॥
विश्वास-प्रस्तुतिः
यो गर्भ॒मोष॑धीनाम् । गवा॑ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्य॑ᳶ पुरु॒षीणा॑म् ।
मूलम्
यो गर्भ॒मोष॑धीनाम् । गवा॑ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्य॑ᳶ पुरु॒षीणा॑म् ।
सायण-टीका
15अथ पञ्चदशीमाह - यः पर्जन्य ओषधीनां गवामर्वतामश्वानां पुरुषीणां मनुष्यस्त्रीणां च गर्भं कृणोति करोति स पर्जन्योऽभीष्टं साधयत्विति शेषः ॥
विश्वास-प्रस्तुतिः
तस्मा॒ इदा॒स्ये॑ ह॒विः । जू॒होता॒ मधु॑मत्तमम् । इडा॑न्नस्सय्ँ॒यत॑ङ्करत् ।
मूलम्
तस्मा॒ इदा॒स्ये॑ ह॒विः । जू॒होता॒ मधु॑मत्तमम् । इडा॑न्नस्सय्ँ॒यत॑ङ्करत् ।
सायण-टीका
16अथ षोडशीमाह - यः पर्जन्यदेवः गर्भप्रदः तस्मा इत् तस्यैव पर्जन्यस्य देवस्य आस्ये मुखे हे ऋत्विजः! हविर्जुहोत । कीदृशं हविः? मधुमत्तममतिशयेन मधुरम् । स च पर्जन्योऽस्माकं संयतं सम्यङ्नियतमिडामन्नं करत् करोतु । पर्जन्यायेत्यादिमन्त्रचतुष्टयं पर्जन्यदेवताके कर्मणि द्रष्टव्यम् । अत एव सूत्रकारश्चातुर्मास्येष्वन्वारम्भणीयेष्टौ पर्जन्यचरुं विधाय तत्र पर्जन्यायेति मन्त्रद्वयं विनियुक्तवान् ॥
विश्वास-प्रस्तुतिः
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित् । शुचि॑ङ्घृ॒तेन॒ शुच॑यस्सप॒र्यन् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । असू॑दयन्त त॒नुव॒स्सुजा॑ताः ॥49॥
मूलम्
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित् । शुचि॑ङ्घृ॒तेन॒ शुच॑यस्सप॒र्यन् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । असू॑दयन्त त॒नुव॒स्सुजा॑ताः ॥49॥
सायण-टीका
17अथ सप्तदशीमाह - हे अग्ने! यद्यस्मात्कारणात्तिस्रः शरदः त्रीन्संवत्सरान् शुचयः शुद्धा मरुतः शुचिं त्वामित् शुद्धात्मानं त्वामेव घृतेन सपर्यन् परिचरन् । तस्मात्कारणाद्यज्ञियानि यज्ञयोग्यानि नामानि चित् दधिरे नामान्यपि धृतवन्तः । तानि च मत्तता नामान्यन्यत्राऽम्नातानि ‘ईदृङ्चान्यादृङ्च’ इत्यादीनि । ते च मरुतः सुजातास्तनुवः सुष्ठु समुत्पन्नाः स्वकीयास्तनूः असूदयन्त अन्तरिक्षे प्रेरितवन्तः । अयं मन्त्र आग्नेये कर्मणि द्रष्टव्यः ॥
विश्वास-प्रस्तुतिः
इन्द्र॑श्च नश्शुनासीरौ । इ॒मय्ँ य॒ज्ञम्मि॑मिक्षतम् । गर्भ॑न्धत्तँ स्व॒स्तये॑ ।
मूलम्
इन्द्र॑श्च नश्शुनासीरौ । इ॒मय्ँ य॒ज्ञम्मि॑मिक्षतम् । गर्भ॑न्धत्तँ स्व॒स्तये॑ ।
सायण-टीका
18अथाष्टादशीमाह - शुनो वायुः सीर आदित्यः । हे शुनासीरौ! नोऽस्मदीयमिमं यज्ञं मिमिक्षतं घृतादिद्रव्येण सेक्तुमिञ्चछतम् । भवत्स्वामी योऽयमिन्द्रः सोपि सेक्तुमिच्छतु । तथा शुनासीरौ युवां स्वस्तये क्षेमाय गर्भं धत्तं संपादयतम् ॥
विश्वास-प्रस्तुतिः
ययो॑रि॒दव्ँ विश्व॒म्भुव॑नमा वि॒वेश॑ । ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च । शुना॑सीरावृ॒तुभि॑स् सव्ँविदा॒नौ । इन्द्र॑वन्तौ ह॒विरि॒दञ्जु॑षेथाम् ।
मूलम्
ययो॑रि॒दव्ँ विश्व॒म्भुव॑नमा वि॒वेश॑ । ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च । शुना॑सीरावृ॒तुभि॑स् सव्ँविदा॒नौ । इन्द्र॑वन्तौ ह॒विरि॒दञ्जु॑षेथाम् ।
सायण-टीका
19अथैकोनविंशीमाह - ययोः शुनासीरयोरिदं विश्वं भुवनमाविवेश प्रविष्टमाश्रितमित्यर्थः । तथा ययोः शुनासीरयोरानन्दो निहितोऽवस्थितो महश्च तेजोऽप्याश्रितम् । तौ शुनासीरावृतुभिर्वस-न्तादिदेवैत्सह संविदानौ ऐकमत्यं गताविन्द्रवन्ताविन्द्रेण युक्तौ युवामिदं हविर्जुषेथाम् । एतच्चोभयं शुनासीरीये कर्मणि द्रष्टव्यम् ॥
विश्वास-प्रस्तुतिः
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते । स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।
मूलम्
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते । स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।
सायण-टीका
20अय विंशीमाह - ये यजमाना ऋत्विज आ समन्तादग्निमिन्धते प्रज्वलयन्ति । घशब्दः पादपूरणार्थः प्रसिद्ध्यर्थो वा । प्रसिद्धा ऋत्विज इत्यर्थः । तथाऽऽनुषक् अनुपक्तं बर्हिर्ये स्तृणन्ति । तथा येषां यजमानादीनां युवा नित्यतरुणः इन्द्रः सखा सखिवत्सुलभो भवति, ते यजमानादयः कर्मानुतिष्ठन्त्विति शेषः । अनेन मन्त्रेण सुत्यादिने महारात्रे बुध्वा सदोऽभिमृशेत् । तथा च सूत्रकारेणोक्तम् - ‘आघा ये अग्निमिन्धत इति सदः’ हति ॥
विश्वास-प्रस्तुतिः
अग्न॒ इन्द्र॑श्च मे॒दिना॑ । ह॒थो वृ॒त्राण्य॑प्र॒ति । यु॒वँ हि वृ॑त्र॒हन्त॑मा ।
मूलम्
अग्न॒ इन्द्र॑श्च मे॒दिना॑ । ह॒थो वृ॒त्राण्य॑प्र॒ति । यु॒वँ हि वृ॑त्र॒हन्त॑मा ।
सायण-टीका
21अथैकविंशीमाह - हे अग्ने! त्वं चेन्द्रश्च मेदिना मेदस्वन्तौ बलवन्तौ वृत्राणि शत्रूनप्रति प्रतिकूलत्वं यथा न भवति तथा हथो मारयथः । हि यस्मात्कारणाद्युवं युवामुभौ वृत्रहन्तमा अतिशयेन शत्रुघातिनौ ॥
विश्वास-प्रस्तुतिः
याभ्याँ॒ सुव॒रज॑य॒न्नग्र॑ ए॒व । यावा॑तस्थ॒तुर्भुव॑नस्य॒ मध्ये॑ । प्रच॑र्ष॒णी वृ॑षणा॒ वज्र॑बाहू । अ॒ग्नी इन्द्रा॑वृत्र॒हणा॑ हुवे वाम् ॥50॥
मूलम्
याभ्याँ॒ सुव॒रज॑य॒न्नग्र॑ ए॒व । यावा॑तस्थ॒तुर्भुव॑नस्य॒ मध्ये॑ । प्रच॑र्ष॒णी वृ॑षणा॒ वज्र॑बाहू । अ॒ग्नी इन्द्रा॑वृत्र॒हणा॑ हुवे वाम् ॥50॥
सायण-टीका
22अथ द्वाविंशीमाह - याभ्यामिन्द्राग्निभ्यां अग्र एव इतः पूर्वमेव अनुगृहीता यजमानाः सुवरजयन् स्वर्गं जितवन्तः । यौ चेन्द्राग्नी भुवनस्य मध्ये सर्वत्र आतस्थतुः, आगत्य स्थितौ । ताविन्द्राग्नी वां युवां हुवे अस्मिन्कर्मण्याह्वयामि । कीदृशौ? प्रचर्षणी प्रकृष्टैश्चर्षणीभिर्मनुष्यैर्यागकर्तृभिर्युक्तौ वृषणा कामानां वर्षयितारौ वज्रबाहू हस्ते वज्रं धारयन्तौ वृत्रहणा वैरिघातिनौ । एतच्चोभयमैन्द्राग्ने कर्मणि द्रष्टव्यम् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभष्ये द्वितीयकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥