विश्वास-प्रस्तुतिः
न॒क्त॒ञ्जा॒ताऽस्यो॑षधे ।
रामे॒ कृष्णे॒ असि॑क्नि च ।
इ॒दँ र॑जनि रजय ।
मूलम्
न॒क्त॒ञ्जा॒ताऽस्यो॑षधे ।
रामे॒ कृष्णे॒ असि॑क्नि च ।
इ॒दँ र॑जनि रजय ।
सायण-टीका
(SB) 1चतुर्थानुवाके प्रथमामृचमाह - अथ पञ्चभिर्मन्त्रैः श्वेतकुष्ठरोगं विनाशयति - शरीरं रमणीयं करोतीति रामा । स्वयं कृष्णावर्णा । श्वैत्यविनाशनेनासितं कृष्णावर्णं तस्मिन्प्रदेशे संपादयतीत्यसिक्नी । तथाविधे हे नील्याख्यौषधे! त्वं नक्तं जाताऽसि । अत एवान्धकारवन्नीलवर्णा दृश्यसे । हे रजनि! स्वकीयेन वर्णेन रञ्जनक्षमे ओषधे इदं श्वेतं शरीरं रजय स्वकीयवर्णेन रञ्जितं कुरु । यत्किलासं श्वेतरोगग्रस्तमङ्गं यच्च पलितं रोमादिकं तदिदं रजयेति पूर्वत्रान्वयः । अत्र हरिद्रा रजनीति केचित् ॥
विश्वास-प्रस्तुतिः
कि॒लास॑म्पलि॒तञ्च॒ यत् ।
कि॒लास॑ञ्च पलि॒तञ्च॑ ।
निरि॒तो ना॑शया॒ पृष॑त् ।
मूलम्
कि॒लास॑म्पलि॒तञ्च॒ यत् ।
कि॒लास॑ञ्च पलि॒तञ्च॑ ।
निरि॒तो ना॑शया॒ पृष॑त् ।
सायण-टीका
2अथ द्वितीयामाह - किलासं श्वित्ररोगाङ्गं पलितं चेत्येवं पृषत् यच्चित्ररूपं तत् इतश्शरीरान्निश्शेषेण नाशय । स्वो वर्णो देहस्य स्वकीयः पूर्वसिद्धो वर्णौ नोऽस्मान् आसमन्तात् अश्नुतांता व्याप्नोतु । श्वेतानि रोगरूपाणि परापातय विनाशय ॥
विश्वास-प्रस्तुतिः
असि॑तन्ते नि॒लय॑नम् ।
आ॒स्थान॒मसि॑त॒न्तव॑ ॥34॥
असि॑क्नियस्योषधे ।
निरि॒तो ना॑शया॒ पृष॑त् ।
मूलम्
असि॑तन्ते नि॒लय॑नम् ।
आ॒स्थान॒मसि॑त॒न्तव॑ ॥34॥
असि॑क्नियस्योषधे ।
निरि॒तो ना॑शया॒ पृष॑त् ।
सायण-टीका
3अथ तृतीयामाह - हे ओषधे! ते तव निलयनं निश्शेषेण लयनं लयप्राप्तिस्थानमङ्गमसितं कृष्णं भवति । न केवलं देहावयवः किंतु तव यदास्थानं वसतिरूपं तदसितं कृष्णं भवति । आ समन्तात्तिष्ठत्यत्रेत्यास्थानं नीलिप्रक्षेपेण वस्त्रं कृष्णं भवतीति प्रसिद्धमेतत् । अतो हे ओषधे! त्वमसिक्न्यसि तद्वत्प्रापिकाऽसि । अस्मत्पृषत् बहुविधं रूपमितोऽस्मदीयशरीरात् निश्शेषेण नाशय ॥
विश्वास-प्रस्तुतिः
अ॒स्थि॒जस्य॑ कि॒लास॑स्य ।
त॒नू॒जस्य॑ च॒ यत्त्व॒चि ।
कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा ।
लक्ष्म॑ श्वे॒तम॑नीनशम् ।
मूलम्
अ॒स्थि॒जस्य॑ कि॒लास॑स्य ।
त॒नू॒जस्य॑ च॒ यत्त्व॒चि ।
कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा ।
लक्ष्म॑ श्वे॒तम॑नीनशम् ।
सायण-टीका
4अथ चतुर्थीमाह - अस्थिजन्यं यत्किलासं श्वित्रं तनूजं मांसजन्यं यत्किलासं त्वचि यत्किलासं वर्तते यच्च कृत्यया परकीयाभिचारेण कृतं संपादितं किलासं तस्य सर्वस्य संबन्धि श्वेतं लक्ष्म श्वेतवर्णलाञ्छनं ब्रह्मणा परमेश्वरेण अनुगृहीतोऽहं अनीनशं नाशितवानस्मि ॥
विश्वास-प्रस्तुतिः
सरू॑पा॒ नाम॑ ते मा॒ता ।
सरू॑पो॒ नाम॑ ते पि॒ता ।
सरू॑पाऽस्योषधे॒ सा ।
सरू॑पमि॒दङ्कृ॑धि ॥35॥
मूलम्
सरू॑पा॒ नाम॑ ते मा॒ता ।
सरू॑पो॒ नाम॑ ते पि॒ता ।
सरू॑पाऽस्योषधे॒ सा ।
सरू॑पमि॒दङ्कृ॑धि ॥35॥
सायण-टीका
5अथ पञ्चमीमाह - हे ओषधे! ते माता तव मातृस्थानीया भूमिः सरूपा नाम त्वया समानरूपैव कृष्णभूमिरित्यर्थः । ते पिता तव पितृस्थानीयो बीजविशेषः सरूपो नाम कृष्णवर्णतया समानरूपः । एताभ्याभुत्पन्ना सा त्वमपि सरूपाऽसि कृष्णवर्णतया तयोर्मातापित्रोः समानरूपाऽसि । तस्मादिदं श्वेतरूपरोगग्रस्तं शरीरं सरूपं कृधि त्वया समानरूपं कृष्णवर्णं कुरु । एतेषां पञ्चानां मन्त्राणां श्वेतरोगनिवारणौषध्यभिमन्त्रणे विनियोगो द्रष्टव्यः ॥
विश्वास-प्रस्तुतिः
शु॒नँ हु॑वेम म॒घवा॑न॒मिन्द्र॑म् ।
अ॒स्मिन्भरे॒ नृत॑मव्ँ॒वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॑ ।
घ्नन्तव्ँ॑ वृ॒त्राणि॑ स॒ञ्जित॒न्धना॑नाम् ।
मूलम्
शु॒नँ हु॑वेम म॒घवा॑न॒मिन्द्र॑म् ।
अ॒स्मिन्भरे॒ नृत॑मव्ँ॒वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॑ ।
घ्नन्तव्ँ॑ वृ॒त्राणि॑ स॒ञ्जित॒न्धना॑नाम् ।
सायण-टीका
6अथ षष्ठीमाह - वाजसातौ अन्नप्रदे अस्मिन्भरे भरणीये सङ्ग्रामे इन्द्रं हुवेम आह्वयाम । कीदृशं! शुनण् सुखरूपं मघवानं धनयुक्तं नृतमं पुरुषश्रेष्ठं शृण्वन्तं अस्मदाह्वानस्य श्रोतारं समत्सु युद्धेषु ऊतये अस्मद्रक्षार्थं उग्रं कोपयुक्तं वृत्राणि घ्नन्तं शत्रून्मारयन्तं धनानां संजितं सम्यक्संपादकम् । अयं मन्त्रो विजयार्थेन्द्रकर्मण्युपहोमार्थः ॥
विश्वास-प्रस्तुतिः
धू॒नु॒थ द्याम्पर्व॑तान्दा॒शुषे॒ वसु॑ ।
नि वो॒ वना॑ जिहते॒ याम॑ नो भि॒या ।
को॒पय॑थ पृथि॒वीम्पृ॑श्ञिमातरः ।
यु॒धे यदु॑ग्रा॒ᳶ पृष॑ती॒रयु॑ग्ध्वम् ।
मूलम्
धू॒नु॒थ द्याम्पर्व॑तान्दा॒शुषे॒ वसु॑ ।
नि वो॒ वना॑ जिहते॒ याम॑ नो भि॒या ।
को॒पय॑थ पृथि॒वीम्पृ॑श्ञिमातरः ।
यु॒धे यदु॑ग्रा॒ᳶ पृष॑ती॒रयु॑ग्ध्वम् ।
सायण-टीका
7अथ सप्तमामीह - हे पृश्निमातरः! पृश्नेरुत्पन्ना मरुतः! तथा च ब्राह्मणम् - पृश्नियै वै पयसो मरुतो जाताः’ इति । तादृशा यूयं यद्यदा युधे युद्धार्थमागतास्सन्तः पृषतीर्भवदीयाः अश्वा अयुग्ध्वं रथे योजितवन्तः तदानीमेव द्यां धूनुथ द्युलोकं कम्पयथ, तथा पर्वतान्धूनुथ । दाशुषे हविर्दत्तवते यजमानाय वसु धनं धूनुथ प्रयच्छथेत्यर्थ. । वो युष्माकं यामनः गमनवेगात् वनानि सर्वाणि भिया भीत्यैव निजिहते न्यग्भूतानि पतन्ति । तथा पृथिवीं कोपयथ भूमिं क्षोभयथ ॥
विश्वास-प्रस्तुतिः
प्रवे॑पयन्ति॒ पर्व॑तान् ।
विवि॑ञ्चन्ति॒ वन॒स्पती॑न् ॥36॥
प्रोवा॑रत मरुतो दु॒र्मदा॑ इव ।
देवा॑स॒स्सर्व॑या वि॒शा ।
मूलम्
प्रवे॑पयन्ति॒ पर्व॑तान् ।
विवि॑ञ्चन्ति॒ वन॒स्पती॑न् ॥36॥
प्रोवा॑रत मरुतो दु॒र्मदा॑ इव ।
देवा॑स॒स्सर्व॑या वि॒शा ।
सायण-टीका
8अथाष्टमीमाह - हे मरुतः! भवन्तः पर्वतान् प्रवेपयन्ति कम्पयन्ति, तथा वनस्पतीन् विविञ्चन्ति विविधमुन्मीलयन्ति । प्रो प्रकर्षेण अवारत धावत । कीदृशा भवन्तः? सर्वया विशा प्रजया सह देवासो दीप्यमानाः । एते ऋचौ ‘पृश्नियै दुग्धे प्रैयङ्गवं चरुं निर्वपेत्'18 इत्येतस्मिन्कर्मणि याज्यानुवाक्ये द्रष्टव्ये ॥
विश्वास-प्रस्तुतिः
पु॒रु॒त्रा हि स॒दृङ्ङसि॑ ।
विशो॒ विश्वा॒ अनु॑ प्र॒भु ।
स॒मत्सु॑ त्वा हवामहे ।
स॒मत्स्व॒ग्निमव॑से ।
मूलम्
पु॒रु॒त्रा हि स॒दृङ्ङसि॑ ।
विशो॒ विश्वा॒ अनु॑ प्र॒भु ।
स॒मत्सु॑ त्वा हवामहे ।
स॒मत्स्व॒ग्निमव॑से ।
सायण-टीका
9अथ नवमीमाह - हे अग्ने! त्वं पुरुत्रा बहुषु स्थानेषु सदृङ्ङसि समानोऽसि स्थित्वाऽप्यलिप्तोऽसीत्यर्थ : । तथा चाहुः - ‘श्मशानेष्वपि तेजस्वी पावकोऽस्मिन्न लिप्यते’ इति । विशो विश्वा अनु सर्वाः प्रजा अनुसृत्य प्रभु प्रकर्षेण दाहपाकादिनोपकारको भवसि । समत्सु युद्धेषु त्वां हवामहे आह्वयामः ॥
विश्वास-प्रस्तुतिः
वा॒ज॒यन्तो॑ हवामहे ।
वाजे॑षु चि॒त्ररा॑धसम् ।
मूलम्
वा॒ज॒यन्तो॑ हवामहे ।
वाजे॑षु चि॒त्ररा॑धसम् ।
सायण-टीका
10अथ दशमीमाह - वाजयन्तोऽन्नमिचछन्तो वयं समत्सु युद्धेषु अवसे अस्माकं रक्षणाय अग्निं हवामहे आह्वयामः । कीदृशं? वाजेषु अन्नेषु विषयेषु चित्रराधसं आश्चर्यं यथा भवति तथा साधकम् । एतच्च मन्त्रद्वयं विजयार्थाग्नये कर्मणि द्रष्टव्यम् ॥
विश्वास-प्रस्तुतिः
सङ्ग॑च्छध्वँ॒ सव्ँव॑दध्वम् ।
सव्ँ वो॒ मनाँ॑सि जानताम् ॥37॥
दे॒वा भा॒गय्ँयथा॒ पूर्वे॑ ।
स॒ञ्जा॒ना॒ना उ॒पास॑त ।
मूलम्
सङ्ग॑च्छध्वँ॒ सव्ँव॑दध्वम् ।
सव्ँ वो॒ मनाँ॑सि जानताम् ॥37॥
दे॒वा भा॒गय्ँयथा॒ पूर्वे॑ ।
स॒ञ्जा॒ना॒ना उ॒पास॑त ।
सायण-टीका
11अथैकादशीमाह - समानैस्सह विप्रियाः ‘हे पुरुषाः! यूयं संगच्छध्वं परस्परं संगता भवत । संवदध्वं संवादं कुरुत एको भोक्तुं कार्यमिव । वो युष्माकं मनांसि संजानतां परस्परं संमतिं जानन्तु । यथा पूर्वे देवा संजानानाः परस्परसंगतिं जानन्तो भागमुपासत स्वस्वभागमविघ्नेनानुभूतवन्तस्तद्वत् ॥
विश्वास-प्रस्तुतिः
स॒मा॒नो मन्त्र॒स्समि॑तिस्समा॒नी ।
स॒मा॒नम्मन॑स्स॒ह चि॒त्तमे॑षाम् ।
स॒मा॒नङ्केतो॑ अ॒भि सँर॑भध्वम् ।
सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः ।
मूलम्
स॒मा॒नो मन्त्र॒स्समि॑तिस्समा॒नी ।
स॒मा॒नम्मन॑स्स॒ह चि॒त्तमे॑षाम् ।
स॒मा॒नङ्केतो॑ अ॒भि सँर॑भध्वम् ।
सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः ।
सायण-टीका
12अथ द्वादशीमाह - मन्त्रो मन्त्रालोचनं कार्यविचारः समानः एकरूपोऽस्तु । तथा समितिः समानी अन्योन्यसंगमोऽप्येकरूपोऽस्तु । मनः समानमेकविषयमस्तु । एषां चित्तं सहतिष्ठतु । ऊहापोहस्थमन्तःकरणं मनः । वस्तुज्ञानावस्थितमन्तःकरणं चित्तम् । समानं केतौ अभि सहवासस्थानमभिलक्ष्य संरभध्वं प्रयतध्वम् । वो युष्माकं विप्रतिपन्नानां देवानां संज्ञानेन संप्रतिपत्तिनिमित्तेन हविषा यजामः ॥
विश्वास-प्रस्तुतिः
स॒मा॒नी व॒ आकू॑तिः ।
स॒मा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनः॑ ।
यथा॑ व॒स्सुस॒हास॑ति ॥38॥
मूलम्
स॒मा॒नी व॒ आकू॑तिः ।
स॒मा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनः॑ ।
यथा॑ व॒स्सुस॒हास॑ति ॥38॥
सायण-टीका
13अथ त्रयोदशीमाह - वो युष्माकं आकूतिस्समानी संकल्प एकरूपोऽस्तु । वो युष्माकं हृदयानि कार्यनिश्चायकान्यन्तःकरणानि समाना एकरूपाणि भवन्तु । वो यूष्माकं मन ऊहापोहरूपं मननसामर्थ्यं च समानमेकरूपमस्तु । किं बहुना, वो युष्माकं सर्वं कार्यं सुसहा सुखेन सहावस्थितं यथा असति अतिशयेन प्रकारेण भवति तथाऽस्तु ॥
विश्वास-प्रस्तुतिः
सं॒ज्ञान॑न्न॒स्स्वैः ।
सं॒ज्ञान॒मर॑णैः ।
सं॒ज्ञान॑मश्विना यु॒वम् ।
इ॒हास्मासु॒ निय॑च्छतम् ।
मूलम्
सं॒ज्ञान॑न्न॒स्स्वैः ।
सं॒ज्ञान॒मर॑णैः ।
सं॒ज्ञान॑मश्विना यु॒वम् ।
इ॒हास्मासु॒ निय॑च्छतम् ।
सायण-टीका
14अथ चतुर्दशीमाह - नोऽस्माकं स्वैः स्वकीयेः पुरुषैस्सह संज्ञानमैकमत्यमस्तु । अरणैर्गमनैर्व्यवहारविशेषैः संज्ञानमैकमत्यमस्तु । हे अश्विनौ! यूवामिह लोके अस्मासु सर्वेष्वपि संज्ञानैमैकमत्यं नियच्छतं नियतं कुरुतम् ॥
विश्वास-प्रस्तुतिः
सं॒ज्ञान॑म्मे॒ बृह॒स्पतिः॑ ।
सं॒ज्ञानँ॑ सवि॒ता क॑रत् ।
सं॒ज्ञान॑मश्विना यु॒वम् ।
इ॒ह मह्य॒न्नि य॑च्छतम् ।
मूलम्
सं॒ज्ञान॑म्मे॒ बृह॒स्पतिः॑ ।
सं॒ज्ञानँ॑ सवि॒ता क॑रत् ।
सं॒ज्ञान॑मश्विना यु॒वम् ।
इ॒ह मह्य॒न्नि य॑च्छतम् ।
सायण-टीका
15अथ पञ्चदशीमाह - बृहस्पतिर्देवो मे मदीयसंघस्य संज्ञानमैकमत्यं करोतु । सविता च संज्ञानमैकमत्यं करोतु । हे अश्विनौ! युवां मह्यं मदर्थं इह मदीये जने संज्ञानं नियच्छतम् । संगच्छध्वमित्यादयः पञ्च मन्त्राः ‘यस्समानैर्मिथो विप्रियस्स्यात्तमेतया संज्ञान्या याजयेत्’ इत्यस्मिन्कर्मणि द्रष्टव्याः ॥
विश्वास-प्रस्तुतिः
उप॑ च्छा॒यामि॑व॒ घृणेः॑ ।
अग॑न्म॒ शर्म॑ ते व॒यम् ॥39॥
अग्ने॒ हिर॑ण्यसन्दृशः ।
अद॑ब्धेभिस्सवितᳶ पा॒युभि॒ष्ट्वम् ।
मूलम्
उप॑ च्छा॒यामि॑व॒ घृणेः॑ ।
अग॑न्म॒ शर्म॑ ते व॒यम् ॥39॥
अग्ने॒ हिर॑ण्यसन्दृशः ।
अद॑ब्धेभिस्सवितᳶ पा॒युभि॒ष्ट्वम् ।
सायण-टीका
16अथ षोडशीमाह - हे अग्ने! हिरण्यसंदृशः सुवर्णवत्सम्यग्दृश्यमानस्य ते तव शर्म शरणं गृहं उप समीपे वयमगन्म प्राप्ताः स्मः । तत्र दृष्टान्तः घृणेश्छायामिव । यथा लोके आदित्यस्य रश्मेश्छायाभूतां शालां प्राप्नुवन्ति तद्वत् । अयं मन्त्र आग्नेयकर्मणि द्रष्टव्यः ॥
विश्वास-प्रस्तुतिः
शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वस्सुवि॒ताय॒ नव्य॑से ।
रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत ।
मूलम्
शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वस्सुवि॒ताय॒ नव्य॑से ।
रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत ।
सायण-टीका
17अथ सप्तदशीमाह - हे सवितः! त्वमदब्धेभिरहिंसकैः शिवेभिः शान्तैः पायुभिः पालनोपायैः अद्यास्मिन्कर्मणि नो गयं अस्मदीयं गृहं परिपाहि सर्वतः पालय । हिरण्यजिह्वः स्वर्णसदृशजिह्वायुक्तस्सन् नव्यसे अत्यन्तं नूतनाय सुविताय शोभनगमनाय सम्यगनुष्ठानाय रक्ष विघ्नान्परिहर । अघशँसः नोऽस्मदीयमघं शंसन् निन्दां कुर्वन् यो वैरी वर्तते स नोऽस्माकं माकिरीशत बाधितुं समर्थो मा भूत् । अयं मन्त्रः सावित्रे कर्मणि द्रष्टव्यः ॥
विश्वास-प्रस्तुतिः
मदे॑मदे॒ हि नो॑ द॒दुः ।
यू॒था गवा॑मृजु॒क्रतुः॑ ।
सङ्गृ॑भाय पु॒रूश॒ता ।
उ॒भ॒या ह॒स्त्या वसु॑ ।
शि॒शी॒हि रा॒य आभ॑र ॥ 40॥
मूलम्
मदे॑मदे॒ हि नो॑ द॒दुः ।
यू॒था गवा॑मृजु॒क्रतुः॑ ।
सङ्गृ॑भाय पु॒रूश॒ता ।
उ॒भ॒या ह॒स्त्या वसु॑ ।
शि॒शी॒हि रा॒य आभ॑र ॥ 40॥
सायण-टीका
18अथाष्टादशीमाह - ऋजुक्रतुरकुटिलकर्मा अयमिन्द्रो नोऽस्माकं मदेमदे तदातदा हर्षनिमित्तं गवां यूथा ददुः गोसमूहान्प्रयच्छति । हे इन्द्र! उभया हस्त्या उभयोर्हस्तयोः पुरू शता बहूनि शतानि संगृभाय सम्यग्गृहीत्वा वसु धनं शिशीहि अस्मभ्यं प्रयच्छ । पुनरपि रायो धनानि आभर संपादय ॥
विश्वास-प्रस्तुतिः
शिप्रि॑न्वाजानाम्पते ।
शची॑व॒स्तव॑ दँ॒सना॑ ।
आ तू न॑ इन्द्र भाजय ।
गोष्वश्वे॑षु शु॒भ्रुषु॑ ।
स॒हस्रे॑षु तुवीमघ ।
मूलम्
शिप्रि॑न्वाजानाम्पते ।
शची॑व॒स्तव॑ दँ॒सना॑ ।
आ तू न॑ इन्द्र भाजय ।
गोष्वश्वे॑षु शु॒भ्रुषु॑ ।
स॒हस्रे॑षु तुवीमघ ।
सायण-टीका
19अथैकोनविंशीमाह - शिप्रशब्दो हनुवाचकः । शोभनहनुयुक्तः शिप्री । वाजानां पतिरन्नपालकः । शचीवान् शक्तिमान् । तुवीमघो बहुलधनः । तादृश हे इन्द्र! तव दँसना त्वत्संबन्धिनि दंसनशब्दाभिधेये अस्मिन्कर्मण्यनुष्ठिते सति शुभ्रुषु निर्मलेपु सहस्रेषु सहस्रसंख्याकेषु गोष्वश्वेषु च नोऽस्मान् आतु भाजय समन्तात्सदा भागिनः कुरु । एतच्च मन्त्रद्वयमैन्द्रे कर्मणि द्रष्टव्यम् ॥
विश्वास-प्रस्तुतिः
यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
आदि॑त्या॒स्तस्मा॑न्मा यू॒यम् ।
ऋ॒तस्य॒र्तेन॑ मुञ्चत ।
मूलम्
यद्दे॑वा देव॒हेड॑नम् ।
देवा॑सश्चकृ॒मा व॒यम् ।
आदि॑त्या॒स्तस्मा॑न्मा यू॒यम् ।
ऋ॒तस्य॒र्तेन॑ मुञ्चत ।
सायण-टीका
20अथ विंशीमाह - हे देवासः! दीप्यमाना आदित्या देवाः! देवहेलनं देवावज्ञारूपं पापं यद्वयं चकृम यूयमादित्या ऋतस्य यज्ञस्य ऋतेन सत्येन शास्त्रीयेणास्मदनुष्ठानेन मां तस्मात्पापान्मुश्चत मुक्तं कुरुत ॥
विश्वास-प्रस्तुतिः
ऋ॒तस्य॒र्तेना॑दित्याः ॥41॥
यज॑त्रा मु॒ञ्चते॒ह मा॑ ।
य॒ज्ञैर्वो॑ यज्ञवाहसः ।
आ॒शिक्ष॑न्तो॒ न शे॑किम ।
मूलम्
ऋ॒तस्य॒र्तेना॑दित्याः ॥41॥
यज॑त्रा मु॒ञ्चते॒ह मा॑ ।
य॒ज्ञैर्वो॑ यज्ञवाहसः ।
आ॒शिक्ष॑न्तो॒ न शे॑किम ।
सायण-टीका
21अथैकविंशीमाह - हे आदित्याः! यजत्रा यष्टव्या यूयमिहास्मिल्लोके ऋतस्यर्तेन सम्यगनुष्ठानेन मां पापादस्मान्मुञ्चत । हे यज्ञवाहसः! यज्ञनिर्वाहका देवाः! वो युष्मत्संबन्धिभिर्यज्ञैः शेकिम पापं नाशयितुं शक्ता भवेम । तत्र दृष्टान्तः - आशिक्षन्तो न यथा यज्ञसंबन्धिनीं सर्वतः शिक्षां कुर्वन्त आचार्याः शक्तास्तद्वत् ॥
विश्वास-प्रस्तुतिः
मेद॑स्वता॒ यज॑मानाः ।
स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः ।
अ॒का॒मा वो॑ विश्वेदेवाः ।
शिक्ष॑न्तो॒ नोप॑शेकिम ।
मूलम्
मेद॑स्वता॒ यज॑मानाः ।
स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः ।
अ॒का॒मा वो॑ विश्वेदेवाः ।
शिक्ष॑न्तो॒ नोप॑शेकिम ।
सायण-टीका
22अथ द्वाविंशीमाह - हे विश्वे देवाः! मेदस्वता सारयुक्तेनाज्येन पूर्णया स्रुचा जुहुतः होमं कुर्वन्तोऽकामाः फलकामनारहिता यजमाना वयं वो युष्माकं प्रसादादुपशेकिम पापं नाशयितुं सर्वथा शक्ताः स्मः । शिक्षन्तो नेति दृष्टान्तः पूर्ववत् ॥
विश्वास-प्रस्तुतिः
यदि॒ दिवा॒ यदि॒ नक्त॑म् ।
एन॑ एन॒स्योक॑रत् ।
भू॒तम्मा॒ तस्मा॒द्भव्य॑ञ्च ॥42॥
मूलम्
यदि॒ दिवा॒ यदि॒ नक्त॑म् ।
एन॑ एन॒स्योक॑रत् ।
भू॒तम्मा॒ तस्मा॒द्भव्य॑ञ्च ॥42॥
सायण-टीका
23अथ त्रयोविंशीमाह - एन इच्छतीत्येनस्यः पूर्वं पापप्रवृत्तोऽहं रात्रौ दिवसे वा एनोऽकरत् पापं कृतवानस्मि । कीदृशमेनः? भूतं भव्यं च । किंचिदेनः पूर्वमेव निष्पन्नं अन्यत्तु कर्तुमुद्युक्तम् । तस्मात्सर्वस्मात्पापान्मामादित्यो मुञ्चतु । तत्र दृष्टान्तः - द्रुपदादिव अपराधिनां पादे प्रतिमोचितं काष्ठं द्रुपदं यथा कृपालुः स्वामी अस्माद्वन्धनादपराधिनं मोचयति तद्वन् ॥
विश्वास-प्रस्तुतिः
द्रु॒प॒दादि॑व मुञ्चतु ।
द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः ।
स्वि॒न्नस्स्ना॒त्वी मला॑दिव ।
पू॒तम्प॒वित्रे॑णे॒वाज्य॑म् ।
विश्वे॑ मुञ्चन्तु॒ मैन॑सः ।
मूलम्
द्रु॒प॒दादि॑व मुञ्चतु ।
द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः ।
स्वि॒न्नस्स्ना॒त्वी मला॑दिव ।
पू॒तम्प॒वित्रे॑णे॒वाज्य॑म् ।
विश्वे॑ मुञ्चन्तु॒ मैन॑सः ।
सायण-टीका
24अथ चतुर्विंशीमाह - विश्वे सर्वे देवाः मामेनसः पापान्मुञ्चन्तु मुक्तं कुर्वन्तु । तत्र दृष्टान्तत्रयम् - द्रुपदात्पादबन्धनरूपात् काष्ठात् मुमुचान इवेत् यथा तथेत्यर्थ: । स्विन्नः स्वेदव्याप्तगात्रः स्नात्वी स्नानं कृत्वा यथा मलन्मुच्यते तद्वत् । पवित्रेणोत्पवनसाधनेन आज्यं यथा पूते तद्वत् ॥
विश्वास-प्रस्तुतिः
उद्व॒यन्तम॑स॒स्परि॑ ।
पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॑म् ।
अग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ 43॥
मूलम्
उद्व॒यन्तम॑स॒स्परि॑ ।
पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॑म् ।
अग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ 43॥
सायण-टीका
25अथ पञ्चविंशीमाह - तमसस्परि तमसः अन्धकारात् परि ऊर्ध्वं उत्तरमुत्कृष्टं ज्योतिः उत्पश्यन्त उत्कर्षेण पश्यन्तो वयं देवत्रा देवेषु मध्ये देवं द्योतमानं सूर्यरूपमुत्तमं ज्योतिः अगन्म प्राप्ताः स्मः । ‘यद्देवा देवहेडनम्’ इत्येताः षडृचः पापक्षयार्थे कर्मणि द्रष्टव्याः ॥
इति तैत्तिरीयब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥