विश्वास-प्रस्तुतिः
जुष्टी॑ नरो॒ ब्रह्म॑णा वᳶ पितृ॒णाम् ।
अक्ष॑मव्यय॒न्न किला॑रिषाथ ।
यच्छक्व॑रीषु बृह॒ता रवे॑ण ।
इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः ।
मूलम्
जुष्टी॑ नरो॒ ब्रह्म॑णा वᳶ पितृ॒णाम् ।
अक्ष॑मव्यय॒न्न किला॑रिषाथ ।
यच्छक्व॑रीषु बृह॒ता रवे॑ण ।
इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः ।
सायण-टीका
(SB) 1तृतीयानुवाके प्रथमामृचमाह - हे वसिष्ठाः वसिष्ठस्य मम पुत्राः! यत् यस्मात्कारणात् शक्वरीषु ‘प्रोष्वस्मै पुरो रथम्’ इत्यादिकासु शक्वरीछन्दोयुक्तास्वृक्षु बृहता रवेण महता सामध्वनिना इन्द्रे शुष्मं बलमदधाथाः संपादितवन्तः । तस्मात्कारणाद्धे नरः! मत्पुत्राः! पुरुषाः! वो युष्मत्संबन्धिनां पितृणां ब्रह्मणा जुष्टी भवदीयेन परिबृढेन स्तोत्रेण प्रीतानामक्षं क्रुद्धं चक्षुरिन्द्रियमव्ययं वसिष्ठोऽहमाच्छादितवानस्मि । इतःपरं यूयं न रिषाथ किल सर्वथा हिंसिता न भवथ । अयमर्थः - सौदासनामकैरसुरैर्यदा वसिष्ठो हतपुत्रोऽभूत्तदानीं पुत्राभावादेतदीयाः पितरो रक्तवर्णेन चक्षुषा युक्ताः क्रुद्धा दृश्यन्ते । तदनीं वसिष्ठः पुत्रानुत्पादितवान् । ते च पुत्रा विद्याधिकाः सन्तः सामगानेनेन्द्रं तोषितवन्तः । तदीयपितॄणां कुद्धमक्षं क्रोधपरित्यागेन शान्तं संपन्नम् । सोऽयं वृत्तान्तो वसिष्ठेन स्वपुत्रान्प्रत्यभिहित इति । अयं मन्त्रो रक्षार्थे द्रष्टव्यः ॥
विश्वास-प्रस्तुतिः
पा॒व॒का न॒स्सर॑स्वती ।
वाजे॑भिर्वा॒जिनी॑वती ।
य॒ज्ञव्ँव॑ष्टु धि॒या व॑सुः ।
मूलम्
पा॒व॒का न॒स्सर॑स्वती ।
वाजे॑भिर्वा॒जिनी॑वती ।
य॒ज्ञव्ँव॑ष्टु धि॒या व॑सुः ।
सायण-टीका
2अथ द्वितीयामाह - इयं सरस्वती नोऽस्मदीयं यज्ञं धिया स्वबुद्ध्या वष्टु कामयताम् । कीदृशी? पावका शोधिका । वाजेभिर्नानाविधैरन्नैर्युक्तत्वेन वाजिनीवती बहन्ना । वसुः सर्वेषां निवासयित्री । अयं मन्त्रोऽङ्गहीनपशूपाकरणप्रायश्चित्तत्वेन सूत्रे विनियुक्तः - ‘सारस्वतीं बार्हस्पत्यामिति च हुत्वा प्रयोजयेत्’ इति ॥
विश्वास-प्रस्तुतिः
सर॑स्वत्य॒भिनो॑नेषि॒ वस्यः॑ ।
मा प॑स्फरी॒ᳶ पय॑सा॒ मा न॒ आध॑क् ।
जु॒षस्व॑ नस्स॒ख्या॑ वे॒श्या॑ च ॥21॥
मा त्वक्षेत्रा॒ण्यर॑णानि गन्म ।
मूलम्
सर॑स्वत्य॒भिनो॑नेषि॒ वस्यः॑ ।
मा प॑स्फरी॒ᳶ पय॑सा॒ मा न॒ आध॑क् ।
जु॒षस्व॑ नस्स॒ख्या॑ वे॒श्या॑ च ॥21॥
मा त्वक्षेत्रा॒ण्यर॑णानि गन्म ।
सायण-टीका
3अथ तृतीयामाह - हे सरस्वति! नोऽस्मान् वस्योऽभि श्रेयः प्रति नेषि नय । मा पस्फरीर्मा हिंसीः । पयसा नदीरूपायास्तव जलेन नोऽस्मान् मा आ धक्सर्वतो मा धाक्षीः मा विनाशय । सख्या सखित्वेन वेश्या च गृहावस्थानेन च नोऽस्मान्प्रति जुषस्व । त्वत्तव प्रसादादरणानि रणरहितानि क्लेशकारणानि क्षेत्राणि मृत्युस्थानानि मा गन्म मा प्राप्नवाम । अयं च पादोऽन्यत्र ब्राह्मणेन व्याख्यातः - ‘मा त्वत्क्षेत्राण्यरागानि गन्मेत्याह मृत्योर्वै क्षेत्राण्यरणानि तेनैव मृत्योः क्षेत्राणि न गच्छति'8 इति । तस्मिन्नेव ब्राह्मणे मन्त्रोऽप्ययं विनियुक्तः - ‘सरस्वत्यभि नो नेषि वस्य इति पुरोरुचं कुर्यात्'8 इति । तत्र ‘उक्थ्याग्रान्गृह्णीत'8 इत्युपक्रान्तत्वात्तदीयेयं पुरोरुक् । तथा सूक्तेऽपि - ‘सारस्वतीं मेषीमालभेत’ इत्यस्य पशोर्हविषः पुरोनुवाक्यारूपेण प्रतीकमाम्नातम् ‘सरस्वत्यभि नो नेषि’ इति ॥
विश्वास-प्रस्तुतिः
वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्हिर॒ग्नौ ।
अया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।
अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्याः ।
अश्रा॑यि य॒ज्ञस्सूर्ये॒ न चक्षुः॑ ।
मूलम्
वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्हिर॒ग्नौ ।
अया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।
अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्याः ।
अश्रा॑यि य॒ज्ञस्सूर्ये॒ न चक्षुः॑ ।
सायण-टीका
4अथ चतुर्थीमाह - अग्नौ हविः प्रस्तररूपेण होतव्यं बर्हिर्यदस्ति तदेतन्नमसा नमनेन विनयेन सह वृञ्जे वर्जयामि लुनामीत्यर्थः । ‘आच्छेत्ता ते मा रिषम्’ इत्याद्युक्तिर्विनयः । घृतवती घृतसंपूर्णा सुवृक्तिः सुमदाना स्रुग्जुहूरयामि होमार्थमस्माभिरग्राहि । पृथिव्याः संबन्धिनि सदने देवयजने सद्म प्राग्वंशादिरूपं अम्यक्षि अस्माभिरप्रापि । यज्ञोऽयमस्माभिरश्रायि । सूर्ये न सूर्येऽपि चक्षुरस्मदीयमश्रायि सूर्यावलोकनं कृतमित्यर्थः । सोऽयं मन्त्रः क्वचिद्याजमानजपे विनियोक्तव्यः ॥
विश्वास-प्रस्तुतिः
इ॒हार्वाञ्च॒मति॑ ह्वये ।
इन्द्र॒ञ्जैत्रा॑य॒ जेत॑वे ।
अ॒स्माक॑मस्तु॒ केव॑लः ।
मूलम्
इ॒हार्वाञ्च॒मति॑ ह्वये ।
इन्द्र॒ञ्जैत्रा॑य॒ जेत॑वे ।
अ॒स्माक॑मस्तु॒ केव॑लः ।
सायण-टीका
5अथ पञ्चमीमाह - इह कर्मणीन्द्रमर्वाञ्चमस्मदभिमुखमतिह्वये अन्यान्यजमानानतिलङ्घ्य प्रथममेवाह्वयामि । किमर्थं? जैत्राय जेतवे जेतव्यस्य जयार्थम् । स इन्द्रोऽस्माकं केवलोऽस्तु अस्मास्वेव पक्षपातवान्भवतु ॥
विश्वास-प्रस्तुतिः
अ॒र्वाञ्च॒म् इन्द्र॑म् अ॒मुतो॑ हवामहे ।
यो गो॒जिद् ध॑न॒जिद् अ॑श्व॒जिद् यः ॥22॥
इ॒मन्नो॑ य॒ज्ञव्ँ वि॑ह॒वे जु॑षस्व ।
अ॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा ।
मूलम्
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे ।
यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ॥22॥
इ॒मन्नो॑ य॒ज्ञव्ँ वि॑ह॒वे जु॑षस्व ।
अ॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा ।
सायण-टीका
6अथ षष्ठीमाह - अर्वाञ्चमस्मदभिमुखमिन्द्रममुतः स्वर्गादाह्वयामः । य इन्द्रो गोजित् शत्रुसंबन्धिनीर्गा जयेत संपादयति । यश्च तथैव धनजिदश्वजिच्च, तमिन्द्रं हवामहे इति पूर्वत्रैवान्वयः । हं हरिवः! हरिनामकाभ्यामश्वाभ्यां युक्तेन्द्र! विहवे विविधाह्वाने सत्यस्मदीयमिमं यज्ञं जुषस्व सेवस्व । अस्यानेन यज्ञेन त्वां मेदिनं स्निग्धशरीरं कुर्मः । एते ऋचौ कस्मिंश्चिज्जयहेतावैन्द्रे हविषि याज्यानुवाक्ये द्रष्टव्ये ॥
विश्वास-प्रस्तुतिः
अस॑म्मृष्टो जायसे मातृ॒वोश्शुचिः॑ ।
म॒न्द्रᳵ क॒विरुद॑तिष्ठो॒ विव॑स्वतः ।
घृ॒तेन॑ त्वाऽवर्धयन्नग्न आहुत ।
धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ।
मूलम्
अस॑म्मृष्टो जायसे मातृ॒वोश्शुचिः॑ ।
म॒न्द्रᳵ क॒विरुद॑तिष्ठो॒ विव॑स्वतः ।
घृ॒तेन॑ त्वाऽवर्धयन्नग्न आहुत ।
धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ।
सायण-टीका
7अथ सप्तमीमाह - हे अग्ने! त्वमकृतसंमार्जन एव सन् मातृवोर्मात्रोररण्योः शुचिरेव जायसे । स्रुगादयो हि संमार्जनतः शुध्यन्ति । त्वं पुनरसंमृष्ट एव शुचिर्भवसि । मन्द्रो हर्षयुक्तः कविर्विद्वांस्त्वं विवस्वतः परिचरतो यजमानान्प्रत्युदतिष्ठः उत्थितोऽभूः । आहुतिभिराहुत! हे अग्ने! यजमानास्त्वां घृतेनावर्धयन् । ते तव धूमो दिवि श्रित आकाशे व्याप्तस्सन् केतुरभवत् अग्निमानयं प्रदेश इति ज्ञानस्य हेतुरभवत् । अयं च मन्त्रो मथनजन्याग्र्यभिमन्त्रणे क्वचिद्विनियोक्तव्यः ॥
विश्वास-प्रस्तुतिः
अ॒ग्निरग्रे॑ प्रथ॒मो दे॒वता॑नाम् ।
सय्ँ या॑तानामुत्त॒मो विष्णु॑रासीत् ।
यज॑मानाय परि॒गृह्य॑ दे॒वान् ।
दी॒क्षये॒दँ ह॒विरा ग॑च्छतन्नः ॥23॥
मूलम्
अ॒ग्निरग्रे॑ प्रथ॒मो दे॒वता॑नाम् ।
सय्ँ या॑तानामुत्त॒मो विष्णु॑रासीत् ।
यज॑मानाय परि॒गृह्य॑ दे॒वान् ।
दी॒क्षये॒दँ ह॒विरा ग॑च्छतन्नः ॥23॥
सायण-टीका
8अथाष्टमीमाह - यजमानं प्रति संयातानां पौर्वापर्येणागच्छन्तीनां देवतानामग्निः प्रथमोऽग्रे पुरतो मार्गप्रदर्शको गच्छति । विष्णुरुत्तमः पश्चादागच्छति । एतदुक्तं भवति - ‘अनपक्रमणार्थं पङ्क्तिरूपेणागच्छतां देवानामग्निः प्रथमो विष्णुरुतमश्चरमः’ इति । तावुभौ सर्वान्देवान् मुखतः पृष्ठतश्च यजमानार्थं परिगृह्य दीक्षादेवतया सह तावग्नाविष्णू युवां नोऽस्मदीयमिदं हविरुद्दिश्यागच्छतम् ॥
विश्वास-प्रस्तुतिः
अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒मम्म॒हः ।
दी॒क्षा॒पा॒लेभ्यो॒ऽवन॑तँ॒ हि श॑क्रा ।
विश्वै॑र्दे॒वैर्य॒ज्ञियै॑स्सव्ँ विदा॒नौ ।
दी॒क्षाम॒स्मै यज॑मानाय धत्तम् ।
मूलम्
अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒मम्म॒हः ।
दी॒क्षा॒पा॒लेभ्यो॒ऽवन॑तँ॒ हि श॑क्रा ।
विश्वै॑र्दे॒वैर्य॒ज्ञियै॑स्सव्ँ विदा॒नौ ।
दी॒क्षाम॒स्मै यज॑मानाय धत्तम् ।
सायण-टीका
9अथ नवमीमाह - हे विष्णो! त्वं चाग्निश्चोभौ युवां दीक्षाख्यव्रतपालकेभ्यो देवेभ्यस्सकाशात् यजमानार्थं महः उत्तमं तपो वनतं याचतम् । हे शक्रा! इन्द्रसमानौ युवां हि प्रसिद्धौ यज्ञयोग्यैः सर्वैर्देवैस्सह संविदानावैकमत्यं गतौ अस्मै यजमानाय दीक्षाख्यं संस्कारं संपादयतम् । एतच्चोभयं दीक्षणीयायामिष्टौ याज्यानुवाक्यारूपेण विनियोज्यम् ॥
०२ प्र तद्विष्णुः ...{Loading}...
प्र᳓ त᳓द् वि᳓ष्णुः स्तवते+++(=स्तूयते)+++ वीर्ये᳙ण
मृगो᳓ न᳓ भीमः᳓ कुचरो᳓ गिरिष्ठाः᳓ ।
य᳓स्योरु᳓षु त्रिषु᳓ विक्र᳓मणेष्व्
अधिक्षिय᳓न्ति भु᳓वनानि वि᳓श्वा ॥
002 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र᳓ त᳓द् वि᳓ष्णु स्तवते वीरि᳓येण
मृगो᳓ न᳓ भीमः᳓ कुचरो᳓ गिरिष्ठाः᳓
य᳓स्योरु᳓षु त्रिषु᳓ विक्र᳓मणेषु
अधिक्षिय᳓न्ति भु᳓वनानि वि᳓श्वा
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
prá ← prá (invariable)
stavate ← √stu- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vīryèṇa ← vīryà- (nominal stem)
{case:INS, gender:N, number:SG}
víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}
bhīmáḥ ← bhīmá- (nominal stem)
{case:NOM, gender:M, number:SG}
giriṣṭhā́ḥ ← giriṣṭhā́- (nominal stem)
{case:NOM, gender:M, number:SG}
kucaráḥ ← kucará- (nominal stem)
{case:NOM, gender:M, number:SG}
mr̥gáḥ ← mr̥gá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
triṣú ← trí- (nominal stem)
{case:LOC, gender:N, number:PL}
urúṣu ← urú- (nominal stem)
{case:LOC, gender:N, number:PL}
vikrámaṇeṣu ← vikrámaṇa- (nominal stem)
{case:LOC, gender:N, number:PL}
yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}
adhikṣiyánti ← √kṣi- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}
víśvā ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- viṣṇu ← viṣṇuḥ ← viṣṇu
- [noun], nominative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- stavate ← stu
- [verb], singular, Present indikative
- “laud; praise; declare; stu.”
- vīryeṇa ← vīrya
- [noun], instrumental, singular, neuter
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
- mṛgo ← mṛgaḥ ← mṛga
- [noun], nominative, singular, masculine
- “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”
- na
- [adverb]
- “not; like; no; na [word].”
- bhīmaḥ ← bhīma
- [noun], nominative, singular, masculine
- “awful; amazing; terrific; enormous; bhīma [word]; fearful.”
- kucaro ← kucaraḥ ← kucara
- [noun], nominative, singular, masculine
- giriṣṭhāḥ ← giriṣṭhā
- [noun], nominative, singular, masculine
- yasyoruṣu ← yasya ← yad
- [noun], genitive, singular, neuter
- “who; which; yat [pronoun].”
- yasyoruṣu ← uruṣu ← uru
- [noun], locative, plural, neuter
- “wide; broad; great; uru [word]; much(a); excellent.”
- triṣu ← tri
- [noun], locative, plural, neuter
- “three; tri/tisṛ [word].”
- vikramaṇeṣv ← vikramaṇeṣu ← vikramaṇa
- [noun], locative, plural, neuter
- adhikṣiyanti ← adhikṣi ← √kṣi
- [verb], plural, Present indikative
- bhuvanāni ← bhuvana
- [noun], nominative, plural, neuter
- “Earth; being; world; bhuvana [word].”
- viśvā ← viśva
- [noun], nominative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
सायण-भाष्यम्
यस्येति वक्ष्यमाणत्वात् स इति अवगम्यते । स महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः ॥ कर्मणि व्यत्ययेन शप् । वीर्येण स्तूयमानत्वे दृष्टान्तः । मृगो न सिंहादिरिव । यथा स्वविरोधिनो मृगयिता सिंहः भीमः भीतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते । अस्मिन्नर्थे निरुक्तं - मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो बिभ्यत्यस्माद्भीष्मोऽप्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति वा । गिरिष्ठा गिरिस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा’ (निरु. १, २० ) इति । तद्वदयमपि मृगोऽन्वेष्टा शत्रूणां भीमो भयानकः सर्वेषां भीत्यपादानभूतः । परमेश्वराद्भीतिः ‘भीषास्माद्वातः पवते ’ ( तै. आ. ८.८. १) इत्यादिश्रुतिषु प्रसिद्धा । किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिष्ठाः गिरिवत् उच्छ्रितलोकस्थायी । यद्वा । गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः । ईडशोऽयं स्वमहिम्ना स्तूयते । किंच यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते ॥
10अथ दशमीमाह - तत्तस्मिन्कर्मणि यजमानानां वीर्यार्थं विष्णुः प्रस्तवते प्रकर्षेण स्तूयते । कुचरो भूमौ वर्तमानो भीमो भयंकरो मृगो न सिंहो यथोर्ध्वमुत्प्लुत्य गिरिष्ठाः पर्वतस्थो भवति, तथा यस्य विष्णोः पूर्वं वामनस्य पश्चात्त्रिविक्रमत्वं गच्छत उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु विश्वा भुवनानि सर्वे लोका अधिक्षियन्ति आधिक्येन निवसन्ति । स विष्णुः स्तूयत हति पूर्वत्रान्वयः ॥
Wilson
English translation:
“Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Mountain-haunting wild beast: mṛga or siṃha, a lion, as applicable to Viṣṇu: one who seeks for his enemies to inflict punishment on them, and is therefore, fearful and fierce;
Giriṣṭhāḥ = he who dwells on high, or who abides in prayer and the like: mantrādirūpāyām vāci artamānaḥ
Jamison Brereton
In this way Viṣṇu will be praised for his heroic deed—(he who is) like a fearsome wild beast, living in the mountains and roaming wherever it wants,
in whose three wide strides dwell all living beings.
Jamison Brereton Notes
The covert identification with Indra continues in pāda b, which is identical to X.180.2a, where Indra is the referent.
Griffith
For this his mighty deed is Visnu lauded, like some wild beast, dread, prowling, mountain-roaming;
He within whose three wide-extended paces all living creatures have their habitation.
Macdonell
Because of this his mighty deed is Viṣṇu Lauded, like some fierce beast that is much dreaded, That wanders as it lists, that haunts the mountains: He in whose three wide strides abide all creatures.
Geldner
Also wird Vishnu ob seiner Heldentat gepriesen, der umherschweifend im Gebirge haust wie das furchtbare wilde Tier, in dessen drei weiten Schritten alle Geschöpfe Wohnung finden.
Grassmann
Gerühmt wird Vischnu wegen dieser Grossthat, gleich wildem Löwen, der durch Berge schweifet, Er, unter dessen drei gewalt’gen Schritten die Wesen alle sichre Wohnung haben.
Elizarenkova
Вот прославляется Вишну за героическую силу,
Страшный, как зверь, бродящий (неизвестно) где, живущий в горах,
В трех широких шагах которого
Обитают все существа.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्य) जिस जगदीश्वर के निर्माण किये हुए (उरुषु) विस्तीर्ण (त्रिषु) जन्म, नाम और स्थान इन तीन (विक्रमणेषु) विविध प्रकार के सृष्टि-क्रमों में (विश्वा) समस्त (भुवनानि) लोक-लोकान्तर (अधिक्षियन्ति) आधाररूप से निवास करते हैं (तत्) वह (विष्णुः) सर्वव्यापी परमात्मा अपने (वीर्येण) पराक्रम से (कुचरः) कुटिलगामी अर्थात् ऊँचे-नीचे नाना प्रकार विषम स्थलों में चलने और (गिरिष्ठाः) पर्वत कन्दराओ में स्थिर होनेवाले (मृगः) हरिण के (न) समान (भीमः) भयङ्कर है और समस्त लोक-लोकान्तरों को (प्रस्तवते) प्रशंसित करता है ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी पदार्थ ईश्वर और सृष्टि के नियम को उल्लङ्घ नहीं सकता है, जो धार्मिक जनों को मित्र के समान आनन्द देने, दुष्टों को सिंह के समान भय देने और न्यायादि गुणों का धारण करनेवाला परमात्मा है, वही सबका अधिष्ठाता और न्यायाधीश है, यह जानना चाहिये ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यस्य निर्मितेषूरुषु त्रिषु विक्रमणेषु विश्वा भुवनान्यधिक्षियन्ति तत् स विष्णुः स्ववीर्येण कुचरो गिरिष्ठा मृगो भीमो नेव विश्वाल्ँ लोकान् प्रस्तवते ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (तत्) सः (विष्णुः) सर्वव्यापीश्वरः (स्तवते) स्तौति (वीर्येण) स्वपराक्रमेण (मृगः) (न) इव (भीमः) भयङ्करः (कुचरः) यः कुत्सितं चरति सः (गिरिष्ठाः) यो गिरौ तिष्ठति (यस्य) (उरुषु) विस्तीर्णेषु (त्रिषु) नामस्थानजन्मसु (विक्रमणेषु) विविधेषु सृष्टिक्रमेषु (अधिक्षियन्ति) आधाररूपेण निवसन्ति (भुवनानि) भवन्ति भूतानि येषु तानि लोकजातानि (विश्वा) सर्वाणि ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। नहि कश्चिदपि पदार्थ ईश्वरसृष्टिनियमक्रममुल्लङ्घितुं शक्नोति यो धार्मिकाणां मित्रइवाह्लादप्रदो दुष्टानां सिंह इव भयप्रदो न्यायादिगुणधर्त्ता परमात्माऽस्ति स एव सर्वोषामधिष्ठाता न्यायाधीशोऽस्तीति वेदितव्यम् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कोणताही पदार्थ ईश्वर व सृष्टीच्या नियमाचे उल्लंघन करू शकत नाही, जो धार्मिक लोकांना मित्राप्रमाणे आनंद देणारा, दुष्टांना सिंहाप्रमाणे भयभीत करविणारा न्याय इत्यादी गुणांना धारण करणारा परमेश्वर आहे, तोच सर्वांचा अधिष्ठाता, न्यायाधीश आहे हे जाणले पाहिजे. ॥ २ ॥
विश्वास-प्रस्तुतिः
नूमर्तो॑ दयते सनि॒ष्यन् यः ।
विष्ण॑व उरुगा॒याय॒ दाश॑त् ॥24॥
प्र यस्स॒त्राचा॒ मन॑सा॒ यजा॑तै ।
ए॒ताव॑न्त॒न्नर्य॑मा॒ विवा॑सात् ।
मूलम्
नूमर्तो॑ दयते सनि॒ष्यन् यः ।
विष्ण॑व उरुगा॒याय॒ दाश॑त् ॥24॥
प्र यस्स॒त्राचा॒ मन॑सा॒ यजा॑तै ।
ए॒ताव॑न्त॒न्नर्य॑मा॒ विवा॑सात् ।
सायण-टीका
11अथैकादशीमाह - यो यजमानः सनिष्यन् हविर्दास्यन्नुरुगायाय महाकीर्तये विष्णवे दाशद्ददाति । यश्च सत्राचा सत्यगामिना मनसा प्रयजातै प्रकर्षेण यजते । एतावन्तं पूर्वोक्तविक्रमत्रयसामर्थ्योपेतं नर्यं नरेभ्यो हितं विष्णुमाविवासात् स्तुत्यादिना सर्वतः परिचरति स मर्तो मनुष्यो नु क्षिप्रं दयते स्वात्मानं जगच्च रक्षति ॥
विश्वास-प्रस्तुतिः
विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् ।
क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः ।
उ॒रु॒क्षि॒तिँ सु॒जनि॑मा चकार ।
मूलम्
विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् ।
क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः ।
उ॒रु॒क्षि॒तिँ सु॒जनि॑मा चकार ।
सायण-टीका
12अथ द्वादशीमाह - एष विष्णुः पृथिवीमेतां पृथिव्युपलक्षितमिदं लोकत्रयं विचक्रमे विशेषेण पादैराक्रान्तवान् । किं कुर्वन्, मनुषे मनुष्याणां क्षेत्राय निवासार्थं दशस्यन् प्रदातुमिच्छन् । अस्य विष्णोः कीरयो जनासः कीर्तिपरा जनाः ध्रुवासः स्थिरा भवन्ति । स विष्णुः पुनः सुजनिमा शोभनेन वामनरूपेण जन्मना युक्त उरुक्षितिं प्राणिनां निवासाय विस्तीर्णं स्थानं चकार ॥
विश्वास-प्रस्तुतिः
त्रिर्दे॒वᳶ पृ॑थि॒वीमे॒ष ए॒ताम् ।
विच॑क्रमे श॒तर्च॑सम्महि॒त्वा ।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् ।
त्वे॒षँ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥25॥
मूलम्
त्रिर्दे॒वᳶ पृ॑थि॒वीमे॒ष ए॒ताम् ।
विच॑क्रमे श॒तर्च॑सम्महि॒त्वा ।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् ।
त्वे॒षँ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥25॥
सायण-टीका
13अथ त्रयोदशीमाह - एष विष्णुर्देवः शतर्चसं शतविधगतियुक्तामेतां पृथिवीं पृथिव्युपलक्षितलोकत्रयं महित्वा स्वमहिम्ना त्रिविचक्रमे त्रिवारं पादेनाक्रान्तवान् । तवसस्तवीयान् महतो महीयान् विष्णुः प्रास्तु प्रकृष्टो भवतु । स्थविरस्यात्यन्तं प्रवृद्धस्यास्य विष्णोर्नाम त्रिविक्रमादिरूपं त्वेषं हि प्रदीप्तं प्रसिद्धमित्यर्थः । उक्तानां मन्त्राणां ‘वैष्णवं वामनमालभेत’ इत्येतस्य पशोः सूक्ते प्रतीकान्याम्नातानि, ‘प्र तद्विष्णुः, विचक्रमे त्रिर्देवः’ इति । ‘नु मर्तः’ इति मन्त्रस्तु ‘प्र तद्विष्णुः’ इत्यनेन सह विकल्प्यते ॥
विश्वास-प्रस्तुतिः
होता॑रञ्चि॒त्रर॑थमध्व॒रस्य॑ ।
य॒ज्ञस्य॑यज्ञस्य के॒तुँ रुश॑न्तम् ।
प्रत्य॑र्धिन्दे॒वस्य॑देवस्य म॒ह्ना ।
श्रि॒या त्व॑ग्निमति॑थि॒ञ्जना॑नाम् ।
मूलम्
होता॑रञ्चि॒त्रर॑थमध्व॒रस्य॑ ।
य॒ज्ञस्य॑यज्ञस्य के॒तुँ रुश॑न्तम् ।
प्रत्य॑र्धिन्दे॒वस्य॑देवस्य म॒ह्ना ।
श्रि॒या त्व॑ग्निमति॑थि॒ञ्जना॑नाम् ।
सायण-टीका
14अथ चतुर्दशीमाह - श्रिया स्वकीयया संपदा युक्तमग्निं त्विममग्निमेव यजामह इति शेषः । कीदृशमग्निं? होतारं देवानामाह्वातारं चित्ररथं विचित्रेण रथेन युक्तमध्वरस्य हिंसारहितस्य यज्ञस्य यज्ञस्य केतुं सर्वस्यापि यज्ञस्य ज्ञापकं रुशन्तं दीप्तिमन्तं मह्ना स्वकीयेन महिम्ना दैवस्य देवस्य सर्वस्यापि देवस्य प्रत्यर्धिं प्रत्येकमर्धेन हविषा युक्तम् । अत एव सूत्रकार आह - ‘सर्वेषां हविषामुत्तरार्धात्सकृत्सकृत्स्विष्टकृतेऽवद्यति’ हति । जनानां यजमानानामतिथिमतिथिवत्पूजनीयम् । अयं मन्त्र अतिथेष्टौ स्विष्टकृतः पुरोनुवाक्या । तथा चाश्वलायन आह - ‘होतारं चित्ररथमध्वरस्य, प्रप्रायमग्निर्भरतस्य शृण्व इति संयाज्ये’ हति ॥
विश्वास-प्रस्तुतिः
आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः॑ ।
ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
वरी॑वृज॒त्स्थवि॑रेभिस्सुशिप्र ।
अ॒स्मे दध॒द्वृष॑णँ॒ शुष्म॑मिन्द्र ।
मूलम्
आ नो॒ विश्वा॑भिरू॒तिभि॑स्स॒जोषाः॑ ।
ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
वरी॑वृज॒त्स्थवि॑रेभिस्सुशिप्र ।
अ॒स्मे दध॒द्वृष॑णँ॒ शुष्म॑मिन्द्र ।
सायण-टीका
15अथ पञ्चदशीमाह - हे हर्यश्व! हरिनामकाभ्यामश्वाभ्यामुपेतेन्द्र ब्रह्म जुषाणोऽस्मदीयस्तोत्रं सेवमानः सजोषा अस्माभिः समान प्रीतिस्सन् विश्वाभिरूतिभिः सर्वैरपि रक्षणप्रकारैः सह नोऽस्मान्प्रत्यायाहि आगच्छ । किं कुर्वन्? हे सुशिप्र! शोभनहविर्युक्त! स्थविरेभिर्वृद्धैः देवैः सह वरीवृजत् सर्वमशुभमत्यन्तं वर्जयन् । हे इन्द्र! वृषणं कामवर्षणक्षमं शुष्मं बलमस्मे दधत् अस्मासु संपादयन्वर्तस्व ॥
विश्वास-प्रस्तुतिः
इन्द्र॑स्सुव॒र्षा ज॒नय॒न्नहा॑नि ।
जि॒गायो॒शिग्भि॒ᳶ पृत॑ना अभि॒श्रीः ॥26॥
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॑म् ।
अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ।
मूलम्
इन्द्र॑स्सुव॒र्षा ज॒नय॒न्नहा॑नि ।
जि॒गायो॒शिग्भि॒ᳶ पृत॑ना अभि॒श्रीः ॥26॥
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॑म् ।
अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ।
सायण-टीका
16अथ षोडशीमाह - अयमिन्द्रः उशिग्भिर्विजयं कामयमानैर्देवैः सह पृतना वैरिसेना जिगाय जयं प्राप्तवान् । कीदृश इन्द्रः? सुवर्षाः स्वर्गप्रदः अभिश्रीरभिमतश्रीकः । कि कुर्वन्? अहानि जनयन् स्वर्भानुसंज्ञिनाऽसुरेण सूर्ये तमसा विद्धे सति तदसुरविनाशनेन प्रकाशभूतान्यहान्युत्पादयन् मनवे मनुष्यार्थमह्नां केतुं सूर्यं प्रारोचयत् प्रकर्षेण दीपितवान् । ततो बृहते रणाय महते रणाय क्रीडार्थं ज्योतिरविन्दत् सूर्यरश्मिरूपं प्रकाशं लब्धवान् । एते ऋचौ कस्मिंश्चिदैन्द्रे कर्मणि याज्यानुवाक्ये ॥
विश्वास-प्रस्तुतिः
अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम् ।
आ नू॒नय्ँ या॑तँ सुकृ॒ताय॑ विप्रा ।
प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न ।
उ॒पाग॑च्छत॒मव॒साग॑तन्नः ।
मूलम्
अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम् ।
आ नू॒नय्ँ या॑तँ सुकृ॒ताय॑ विप्रा ।
प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न ।
उ॒पाग॑च्छत॒मव॒साग॑तन्नः ।
सायण-टीका
17अथ सप्तदशीमाह - हे अश्विनौ! वां युवामवसेऽस्मद्रक्षणार्थं निह्वये नितरामाह्वयामि । हे विप्रा! मेधाविनावश्विनौ! सुकृताय शोभनकर्मसिद्ध्यर्थं नूनमायातमवश्यमागच्छतम् । प्रातर्युक्तेन प्रातःकालेऽश्विभ्यां संयुक्तेन सुवृता शोभनवर्तनेन रथेनोपागच्छतं समीपे समागच्छतम् । समागमने कारणमुच्यते - आत्माकमवसा रक्षणेन अगतमागच्छतम् ॥
विश्वास-प्रस्तुतिः
अ॒वि॒ष्टन्धी॒ष्वश्वि॑ना न आ॒सु ।
प्र॒जाव॒द्रेतो॒ अह्र॑यन्नो अस्तु ।
आवा॑न्तो॒के तन॑ये॒ तूतु॑जानाः ।
सु॒रत्ना॑सो दे॒ववी॑तिङ्गमेम ॥27॥
मूलम्
अ॒वि॒ष्टन्धी॒ष्वश्वि॑ना न आ॒सु ।
प्र॒जाव॒द्रेतो॒ अह्र॑यन्नो अस्तु ।
आवा॑न्तो॒के तन॑ये॒ तूतु॑जानाः ।
सु॒रत्ना॑सो दे॒ववी॑तिङ्गमेम ॥27॥
सायण-टीका
18अथाष्टादशीमाह - हे अश्विनौ! आसु धीषु कर्मानुष्ठानबुद्धिषु नोऽस्मानविष्टमवतं रक्षतम् । नोऽस्माकं रेतः प्रजावदपत्ययुक्तं सत् अह्रयमलज्जाकरमस्तु । अपत्याभावे निषिक्तं रेतो लज्जाकरमेव स्यात् । आवां वयं तोके तनये पुत्रे पौत्रे च तूतुजानाः क्षिप्रं यतमानाः सुरत्नासः शोभनरत्नोपेता देववीतिं देवैः काम्यमानं यज्ञं गमेम प्राप्नुयाम । एते ऋचावाश्विने कर्मणि याज्यानुवाक्ये ॥
विश्वास-प्रस्तुतिः
त्वँ सो॑म॒ क्रतु॑भिस्सु॒क्रतु॑र्भूः ।
त्वदन्दक्षै॑स्सु॒दक्षो॑ वि॒श्ववे॑दाः ।
त्वव्ँ वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा ।
द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः॑ ।
मूलम्
त्वँ सो॑म॒ क्रतु॑भिस्सु॒क्रतु॑र्भूः ।
त्वदन्दक्षै॑स्सु॒दक्षो॑ वि॒श्ववे॑दाः ।
त्वव्ँ वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा ।
द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः॑ ।
सायण-टीका
19अथैकोनविंशीमाह - हे सोम! त्वं क्रतुभिरस्मदनुष्ठितैः कर्मभिः सुक्रतुर्भूः । शोभनकर्मा भव । त्वं दक्षैरस्मदीयैर्बलैः सुदक्षः शोभनबलोपेतो विश्ववेदाः सर्वज्ञश्च भव । तथा त्वं वृषत्वेभिः सेचनयुक्तैरस्माभिर्वृषा सेचनयुक्तो महित्वा महिमोपेतश्च भव । द्युम्नेभिरस्मदीयैर्धनैर्द्युम्नी धनवान्भूत्वा नृचक्षा अभवो मनुष्येषु ख्यातः संपन्नः । अस्मदीयोत्कर्षमेव त्वदीयोत्कर्षत्वेन भावयेत्यर्थः ॥
विश्वास-प्रस्तुतिः
अषा॑ढय्ँ यु॒त्सु पृत॑नासु॒ पप्रि॑म् ।
सु॒व॒र्षाम॒प्स्वाव्ँ वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सम् ।
जय॑न्त॒न्त्वामनु॑मदेम सोम ।
मूलम्
अषा॑ढय्ँ यु॒त्सु पृत॑नासु॒ पप्रि॑म् ।
सु॒व॒र्षाम॒प्स्वाव्ँ वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सम् ।
जय॑न्त॒न्त्वामनु॑मदेम सोम ।
सायण-टीका
20अथ विंशीमाह - हे सोम! त्वामनु वयं मदेम हृष्यास्म । कीदृशं? युत्स्वषाढं युद्धेषु केनाप्यतिरस्कार्यं पृतनासु स्वकीयसेनासु पप्रिं पालकं पूरकं वा सुवर्षां स्वर्गप्रदं अप्स्वां जलप्रद वृजनस्य गोपां बलस्य रक्षकं भरेषुजां सङ्ग्रामेषु रक्षणाय प्रादुर्भवन्तं सुक्षितिं शोभननिवासं सुश्रवसं शोभनकीर्तिं जयन्तं जयोपेतम् । एतयोः ऋचोः ‘सौम्यं बभ्रुं ज्योगामयावी’ इत्यस्य पशोः सूक्ते प्रतीकद्वयमाम्नातम् - ‘अषाढं युत्सु त्वँसोम क्रतुभिः’ । इति ॥
सायणोक्त-विनियोगः
21अथैकविंशीमाह -
०१ भवा मित्रो ...{Loading}...
भ᳓वा मित्रो᳓ न᳓ शे᳓व्यो+++(=सुखहेतुः)+++ घृता᳓-सुतिर्
वि᳓भूत-द्युम्न एवया᳓+++(=एतव्या??)+++ उ स-प्र᳓थाः ।
अ᳓धा+++(=अथा)+++ ते +++(→स्तोमो)+++ विष्णो +++(निर्धनेन)+++ विदु᳓षा चिद् अ᳓र्ध्यः+++(←ऋधु (वृद्धौ))+++
स्तो᳓मो, यज्ञ᳓श् च +++(आ)+++रा᳓ध्यो हवि᳓ष्मता ॥
+++(अनेन देवस्त्रोत्राणि चोदितानि!)+++
001 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - जगती
विषयाः
स्तोत्रम्
यज्ञे ऽशक्तिः
Thomson & Solcum
भ᳓वा मित्रो᳓ न᳓ शे᳓वियो घृता᳓सुतिर्
वि᳓भूतद्युम्न एवया᳓ उ सप्र᳓थाः
अ᳓धा ते विष्णो विदु᳓षा चिद् अ᳓र्धिय
स्तो᳓मो यज्ञ᳓श् च रा᳓धियो हवि᳓ष्मता
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
bháva ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ghr̥tā́sutiḥ ← ghr̥tā́suti- (nominal stem)
{case:NOM, gender:M, number:SG}
mitráḥ ← mitrá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
śévyaḥ ← śévya- (nominal stem)
{case:NOM, gender:M, number:SG}
evayā́ḥ ← evayā́- (nominal stem)
{case:NOM, gender:M, number:SG}
sapráthāḥ ← sapráthas- (nominal stem)
{case:NOM, gender:M, number:SG}
u ← u (invariable)
víbhūtadyumnaḥ ← víbhūtadyumna- (nominal stem)
{case:NOM, gender:M, number:SG}
ádha ← ádha (invariable)
árdhyaḥ ← árdhya- (nominal stem)
{case:NOM, gender:M, number:SG}
cit ← cit (invariable)
te ← tvám (pronoun)
{case:DAT, number:SG}
vidúṣā ← √vid- 2 (root)
{case:INS, gender:M, number:SG, tense:PRF, voice:ACT}
viṣṇo ← víṣṇu- (nominal stem)
{case:VOC, gender:M, number:SG}
ca ← ca (invariable)
havíṣmatā ← havíṣmant- (nominal stem)
{case:INS, gender:M, number:SG}
rā́dhyaḥ ← rā́dhya- (nominal stem)
{case:NOM, gender:M, number:SG}
stómaḥ ← stóma- (nominal stem)
{case:NOM, gender:M, number:SG}
yajñáḥ ← yajñá- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
भव॑ । मि॒त्रः । न । शेव्यः॑ । घृ॒तऽआ॑सुतिः । विभू॑तऽद्युम्नः । ए॒व॒ऽयाः । ऊं॒ इति॑ । स॒ऽप्रथाः॑ ।
अध॑ । ते॒ । वि॒ष्णो॒ इति॑ । वि॒दुषा॑ । चि॒त् । अर्ध्यः॑ । स्तोमः॑ । य॒ज्ञः । च॒ । राध्यः॑ । ह॒विष्म॑ता ॥
Hellwig Grammar
- bhavā ← bhava ← bhū
- [verb], singular, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- mitro ← mitraḥ ← mitra
- [noun], nominative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- na
- [adverb]
- “not; like; no; na [word].”
- śevyo ← śevyaḥ ← śevya
- [noun], nominative, singular, masculine
- ghṛtāsutir ← ghṛta
- [noun], neuter
- “ghee; fat.”
- ghṛtāsutir ← āsutiḥ ← āsuti
- [noun], nominative, singular, masculine
- vibhūtadyumna ← vibhūta ← vibhū ← √bhū
- [verb noun]
- “appear; expand; develop.”
- vibhūtadyumna ← dyumnaḥ ← dyumna
- [noun], nominative, singular, masculine
- “magnificence.”
- evayā ← eva
- [noun]
- “fast; rapid; agile.”
- evayā ← yāḥ ← yā
- [noun], nominative, singular, masculine
- “going.”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- saprathāḥ ← saprathas
- [noun], nominative, singular, masculine
- “extensive; wide; extended.”
- adhā ← adha
- [adverb]
- “then; and; therefore; now.”
- te ← tvad
- [noun], dative, singular
- “you.”
- viṣṇo ← viṣṇu
- [noun], vocative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- viduṣā ← vid
- [verb noun], instrumental, singular
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- cid ← cit
- [adverb]
- “even; indeed.”
- ardhya ← ṛdh
- [verb noun], vocative, singular
- “boom; stick to.”
- stomo ← stomaḥ ← stoma
- [noun], nominative, singular, masculine
- “hymn; Stoma; stoma [word].”
- yajñaś ← yajñaḥ ← yajña
- [noun], nominative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- rādhyo ← rādhyaḥ ← rādh
- [verb noun], nominative, singular
- “thrive; boom; succeed.”
- haviṣmatā ← haviṣmat
- [noun], instrumental, singular, masculine
- “sacrificing.”
सायण-भाष्यम्
हे विष्णो मित्रो न । मितेर्दुःखात् त्राता सखा आदित्यो वा मित्रः। ‘प्रमीतेस्त्रायते’ (निरु. १०. २१) इति निरुक्तम् । तद्वत् शेव्यः सुखे साधुः सुखकर्ता घृतासुतिः । घृतमुदकम् आसूयते येन स तादृशः । यद्वा । घृतमाज्यमाभिमुख्येन नीयते यस्मै स तादृशः । विभूतद्युम्नः प्रभूतयशाः प्रभूतान्नो वा एवयाः रक्षणस्य मिश्रयिता प्रापयिता । सप्रथाः सर्वतः पृथुः । प्रतिविशेषणं नः भव इति संबन्धः । द्व्यचोऽतस्तिङः ’ इति दीर्घः। उ इति पादपूरणः ॥ हे विष्णो त्वं यस्मादीदृशो भवसि अध अस्मात् ते तव स्तोमः स्तोत्रविशेषः विदुषा त्वन्माहात्म्यवेदित्रा यजमानेन अर्ध्यः पुनःपुनः प्रवर्धनार्हः । एकवारकरणे न संपूर्यते इत्यर्थः । तथा ते यज्ञश्च हविष्मता तेन यजमानेन राध्यः समाराधनीयः। यद्वा । विदुषा होत्रा स्तोमो राध्यो हविष्मता यज्ञश्च राध्यः ॥
हे विष्णो! त्वं मित्रो न मित्र इव शेव्यः सुखहेतुर् भव ।
कीदृशस्त्वं? घृतासुतिर् घृतदानो विभूतद्युम्नः प्रभूतधनयुक्त एवया एव एतव्या गन्तव्यदेशस्तत्र गन्ता सप्रथा उ कीर्ति-सहितोऽपि । अधेत्य् अथशब्दार्थः । अनन्तरं हे विष्णो! विदुषा चिद् यष्टुम् अशक्तेन केवल-विद्या-युक्तेनापि ते स्तोम ऋध्यः त्वदीयं स्तोत्रं संपादनीयम् ।
हविष्मतो हविर्-युक्तस्य यष्टुं शक्तस्य यज्ञस्य राध्यो यज्ञेन त्वम् आराधनीयः ।
द्रव्याभावाद् अनुष्ठातुम् अशक्तस्य तज्-जपेनैवानुष्ठान-संपूर्तिः ।
अत एवान्यत्राम्नायते -
‘यं यं क्रतुम् अधीते
तेन तेनास्येष्टं भवति’ इति ।
स्मृतिरपि-
जप्येनैव तु संसिध्येद्
ब्राह्मणो नात्र संशयः ।
कुर्याद् अन्यन् न वा कुर्यान्
मैत्रो ब्राह्मण उच्यते ॥
इति ॥
Wilson
English translation:
“Be (to us), Viṣṇu, like a friend, the giver of happiness, the acepter of oblations, abounding with food, the granter of protection, and every way accessible; on which account your praise is to be repeatedly recited by the wise, and your worship to be celebrated by the offerer of oblations.”
Jamison Brereton
Become kindly like an ally [/Mitra]—you with ghee as your drink, traveling your ways, extensive and having far-reaching brilliance.
Then for you, o Viṣṇu, praise can be brought to success only by one who knows, and sacrifice can be made to succeed by one who offers an
oblation.
Griffith
FAR-SHINING, widely famed, going thy wonted way, fed with the oil, be helpful. Mitra-like, to us.
So, Visnu, e’en the wise must swell thy song of praise, and he who hath oblations pay thee solemn rites.
Geldner
Sei freundlich wie Mitra, der sich am Schmalz stärkt, du von reichem Glanze, rasch gehend, weitbekannt! Dann soll dir, Vishnu, ein Loblied, wie es nur der Kundige richtig treffen kann, und ein Opfer von dem Opferspender zur Zufriedenheit gemacht werden.
Grassmann
Sei, fettgetränkter, du wie Mitra heilvoll uns, glanzreicher, grosser, gehend den gewohnten Gang, Dann ist dir, Vischnu, Lobgesang vom kundigen zu bringen und das Opfer von dem Opferer.
Elizarenkova
Будь дружелюбен, как Митра, чей выжатый напиток - жир,
(Ты,) обладающий ярким блеском, быстро идущий и далеко распространяющийся!
Вот для тебя, о Вишну, восхваление, (сложенное) знатоком,
Приводящее к успеху, и жертва, (принесенная) тем, у кого есть жертвенное возлияние, сулящее успех.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पाँच ऋचावाले एकसौ छप्पनवें सूक्त का आरम्भ है। उसमें आरम्भ से विद्वान् अध्यापक-अध्येताओं के गुणों को कहते हैं ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (विष्णो) समस्त विद्याओं में व्याप्त ! (ते) तुम्हारा जो (अर्द्ध्यः) बढ़ने (स्तोमः) और स्तुति करने योग्य व्यवहार (यज्ञः, च) और सङ्गम करने योग्य ब्रह्मचर्य नामवाला यज्ञ (हविष्मता) प्रशस्त विद्या देने और ग्रहण करने से युक्त व्यवहार से (राध्यः) अच्छे प्रकार सिद्ध करने योग्य है उसका अनुष्ठान आरम्भ कर (अध) इसके अनन्तर (शेव्यः) दूसरों को सुखी करने योग्य (मित्रः) मित्र के (न) समान (एवयाः) रक्षा करनेवालों को प्राप्त होनेवाला (उ) तर्क-वितर्क के साथ (सप्रथाः) उत्तम प्रसिद्धियुक्त (विदुषा) और आप्त उत्तम विद्वान् के साथ (चित्) भी (घृतासुतिः) जिससे घृत उत्पन्न होता (विभूतद्युम्नः) और जिससे विशेष धन वा यश हुए हो ऐसा तू (भव) हो ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् जन जिस ब्रह्मचर्यानुष्ठानरूप यज्ञ की वृद्धि, स्तुति और उत्तमता से सिद्धि करने की इच्छा करते हैं, उसका अच्छे प्रकार सेवन कर विद्वान् होके सबका मित्र हो ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विष्णो ते तव योऽर्द्ध्यः स्तोमो यज्ञश्च हविष्मता राध्योऽस्ति तं चानुष्ठायाऽध शेव्यो मित्रो न एवया उ सप्रथा विदुषा चिदपि घृतासुतिर्विभूतद्युम्नस्त्वं भव ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ विद्वदध्यापकाध्येतृगुणानाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (भव) अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (मित्रः) (न) इव (शेव्यः) सुखयितुं योग्यः (घृतासुतिः) घृतमासूयते येन सः (विभूतद्युम्नः) विशिष्टानि भूतानि द्युम्नानि धनानि यशांसि वा यस्य सः (एव्याः) एवान् रक्षकान् याति (उ) वितर्के (सप्रथाः) सप्रख्यातिः (अध) अनन्तरम्। अत्र निपातस्य चेति दीर्घः। (ते) तव (विष्णो) सर्वासु विद्यासु व्यापिन् (विदुषा) आप्तेन विपश्चिता (चित्) अपि (अर्ध्यः) वर्द्धितुं योग्यः (स्तोमः) स्तोतुमर्हो व्यवहारः (यज्ञः) सङ्गन्तुमर्हो ब्रह्मचर्याख्यः (च) (राध्यः) संशोधितुं योग्यः (हविष्मता) प्रशस्तविद्यादानग्रहणयुक्तेन व्यवहारेण ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वांसो यस्य ब्रह्मचर्यानुष्ठानाख्ययज्ञस्य वृद्धिं स्तुतिं संसिद्धिं च चिकीर्षन्ति तं संसेव्य विद्वान् भूत्वा सर्वस्य मित्रं भवेत् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात विद्वान, अध्यापक व अध्येता यांच्या गुणांचे वर्णन असून या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वान लोक ज्या ब्रह्मचर्यानुष्ठानरूपी यज्ञाची वृद्धी, स्तुती व उत्तमतेने सिद्धी करण्याची इच्छा करतात त्यांचे चांगल्या प्रकारे ग्रहण करून विद्वान बनून सर्वांचे मित्र व्हावे. ॥ १ ॥
सायणोक्त-विनियोगः
22अथ द्वाविंशीमाह -
०२ यः पूर्व्याय ...{Loading}...
यः᳓ पूर्व्या᳓य वेध᳓से +++(अवतारैर्)+++ न᳓वीयसे
सु-म᳓द्-जानये वि᳓ष्णवे द᳓दाशति ।
यो᳓ जात᳓म् अस्य महतो᳓ म᳓हि ब्र᳓वत्,
से᳓द् उ श्र᳓वोभिर् यु᳓ज्यं चिद् अभ्य᳙सत् ॥
002 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - जगती
विषयाः
स्तोत्रम्
यज्ञे ऽशक्तिः
Thomson & Solcum
यः᳓ पूर्विया᳓य वेध᳓से न᳓वीयसे
सुम᳓ज्जानये वि᳓ष्णवे द᳓दाशति
यो᳓ जात᳓म् अस्य महतो᳓ म᳓हि ब्र᳓वत्
से᳓द् उ श्र᳓वोभिर् यु᳓जियं चिद् अभ्य् अ᳡सत्
तैत्तिरीयं मूलम्
यᳶ पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे ।
सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति ।
यो जा॒तम॒स्य म॑ह॒तो म॒हि ब्रवा॑त् ।
सेदु॒ श्रवो॑भिर्यु॒ज्य॑ञ्चिद॒भ्य॑सत् ।
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
návīyase ← návīyaṁs- (nominal stem)
{case:DAT, gender:M, number:SG}
pūrvyā́ya ← pūrvyá- (nominal stem)
{case:DAT, gender:M, number:SG}
vedháse ← vedhás- (nominal stem)
{case:DAT, gender:M, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
dádāśati ← √dāś- (root)
{number:SG, person:3, mood:SBJV, tense:PRF, voice:ACT}
sumájjānaye ← sumájjāni- (nominal stem)
{case:DAT, gender:M, number:SG}
víṣṇave ← víṣṇu- (nominal stem)
{case:DAT, gender:M, number:SG}
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
brávat ← √brū- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
jātám ← √janⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
mahatáḥ ← mahā́nt- (nominal stem)
{case:GEN, gender:M, number:SG}
máhi ← máh- (nominal stem)
{case:NOM, gender:N, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
abhí ← abhí (invariable)
asat ← √as- 1 (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
cit ← cit (invariable)
ít ← ít (invariable)
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
śrávobhiḥ ← śrávas- (nominal stem)
{case:INS, gender:N, number:PL}
u ← u (invariable)
yújyam ← yújya- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
यः । पू॒र्व्याय॑ । वे॒धसे॑ । नवी॑यसे । सु॒मत्ऽजा॑नये । विष्ण॑वे । ददा॑शति ।
यः । जा॒तम् । अ॒स्य॒ । म॒ह॒तः । महि॑ । ब्रव॑त् । सः । इत् । ऊं॒ इति॑ । श्रवः॑ऽभिः । युज्य॑म् । चि॒त् । अ॒भि । अ॒स॒त् ॥
Hellwig Grammar
- yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- pūrvyāya ← pūrvya
- [noun], dative, singular, masculine
- “first; precedent; age-old; excellent; former(a).”
- vedhase ← vedhas
- [noun], dative, singular, masculine
- “Brahma; creator; believer [worshipper]; Vishnu.”
- navīyase ← navīyas
- [noun], dative, singular, masculine
- “new; fresh; up-to-the-minute.”
- sumajjānaye ← sumat
- [adverb]
- “together.”
- sumajjānaye ← jānaye ← jānī
- [noun], dative, singular, masculine
- “wife.”
- viṣṇave ← viṣṇu
- [noun], dative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- dadāśati ← dāś
- [verb], singular, Perfect conjunctive (subj.)
- “sacrifice; give.”
- yo ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- jātam ← jāta
- [noun], accusative, singular, neuter
- “kind; object; descendant; kin; being; reincarnation.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- mahato ← mahataḥ ← mahat
- [noun], genitive, singular, masculine
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- mahi
- [noun], accusative, singular, neuter
- “great; firm.”
- bravat ← brū
- [verb], singular, Present conjunctive (subjunctive)
- “say; tell; describe; speak; state; answer; call; explain; address; proclaim; talk; talk; choose.”
- sed ← sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- sed ← id
- [adverb]
- “indeed; assuredly; entirely.”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- śravobhir ← śravobhiḥ ← śravas
- [noun], instrumental, plural, neuter
- “fame; glory; ear.”
- yujyaṃ ← yujyam ← yujya
- [noun], accusative, singular, masculine
- “adequate to(p); appropriate; united; allied.”
- cid ← cit
- [adverb]
- “even; indeed.”
- abhy ← abhī ← abhi
- [adverb]
- “towards; on.”
- asat ← as
- [verb], singular, Present conjunctive (subjunctive)
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
सायण-भाष्यम्
यः यो मर्त्यः पूर्व्याय पूर्वकालीनाय नित्यायेत्यर्थः । वेधसे विविधजगत्कर्त्रे नवीयसे नित्यनूतनाय अत्यन्तरमणीयायेत्यर्थः । स्तुत्याय वा सुमज्जानये स्वयमेवोत्पन्नाय ॥ जनेरौणादिक इण् ॥ ‘ सुमत्स्वयमित्यर्थः’ (निरु. ६. २२) इति यास्कः । यद्वा । सुतरां मादयतीति सुमत्। तादृशी जाया यस्य स तथोक्तः । तस्मै सर्वजगन्मादनशीलश्रीपतये इत्यर्थः ॥ बहुव्रीहौ ‘जायाया निङ्’ (पा. सू. ५. ४. १३४ ) इति निङादेशः समासान्तः । वलि लोपः ॥ उक्तगुणकाय विष्णवे व्यापकाय ददाशति हविरादिकं ददाति । किंच अस्य विष्णोः महतः महानुभावस्य महि महत् पूज्यं जातं जन्म उत्पतिं हिरण्यगर्भादिरूपं जन्म ब्रवत् ब्रूयात् ॥ ब्रवीतेर्लेटि अडागमः ॥ संकीर्तयेत्। सेदु । उशब्दोऽपिशब्दार्थः । सोऽपि दाता स्तोता च श्रवोभिः अन्नैः कीर्तिभिर्वा युक्तः सन् युज्यं चित सर्वैर्गन्तव्यमेव तत्पदम् अभि आभिमुख्येन असत् गच्छति प्राप्नोति ॥
यः पुमान्विष्णवे ददाशति हविर्ददाति । कीदृशाय विष्णवे? पूर्व्याय जगतः पूर्वमेव भवाय वेधसे जगतो विधात्रे नवीयसे रामकृष्णाद्यवतारैरत्यन्तं नूतनाय सुमज्जानये सुष्ठु माद्यन्ती हृष्यन्ती लक्ष्म्याख्या जाया यस्यासौ सुमज्जानिस्तस्मै । यश्चान्यः पुरुषोऽस्य महतो विष्णोर्जातं रामकृष्णादिजन्मविशेषं महि ब्रवात् महत्त्वेन सर्वदा ब्रवीति । सेदुः स एवोभयविधः पुमान्, श्रवोभिः श्रवणीयैर् हविर्दानमन्त्रैः स्तोत्रविशेषैश् च युज्यं चित् सर्वदा स्वेन युक्तम् अपि काम-क्रोध-लोभ-रूपं शत्रुम् अभ्यसद् अभितो निरस्यति । अत एव स्मर्यते -
त्रिविधं नरकस्यैतत्
द्वारं नाशनम् आत्मनः ।
कामः क्रोधस् तथा लोभस्
तस्माद् एतत् त्रयं त्यजेत् ॥
इति ॥
Wilson
English translation:
“He who presents (offerings) to Viṣṇu, the ancient, the creator, the recent, the self-born; he who celebrates the great birth of that mighty one; he verily possessed of abundance, attains (the station) that is to be sought (by all).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śravobhir yujyam cidabhyasat, by food, or by fame, he attains whatsoever is to be joined with; to complete the ellipse: annairyuktaḥ san sarvair gantavyam tat padam gacchati
Jamison Brereton
Whoever will do service to the ancient ritual expert and to the newer one, to Viṣṇu together with the Wives (of the Gods),
who will speak of his birth, the great birth of the great one, just he will surpass in renown even his yokefellow.334 I.157
Griffith
He who brings gifts to him the Ancient and the Last, to Visnu who ordains, together with his Spouse,
Who tells the lofty birth of him the Lofty One, shall verily surpass in glory e’en his peer.
Geldner
Wer gegen den allerersten und neuesten Meister Vishnu, dem die Frauen gut sind, freigebig ist, wer seine, des Hohen, hohen Ursprung verkündet, der soll an Ruhm selbst den Ebenbürtigen übertreffen.
Grassmann
Wer ihm, dem alten Ordner und dem neusten auch, dem Vischnu sammt der Gattin seinen Dienst erweist, Und wer des Hohen hohen Ursprung kündiget, der überragt den ebenbürt’gen auch an Ruhm.
Elizarenkova
Кто почитает Вишну, устроителя (обряда),
Древнего и более нового (бога) вместе с женами,
Кто провозгласит великое рожденье его, великого,
Тот превзойдет славою даже того, кто имеет союзника.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (नवीयसे) अत्यन्त विद्या पढ़ा हुआ नवीन (सुमज्जानये) सुन्दरता से पाई हुई विद्या से प्रसिद्ध (पूर्व्याय) पूर्वज विद्वानों के द्वारा अच्छी सिखावटों से सिखाये हुए (वेधसे) मेधावी अर्थात् धीर (विष्णवे) विद्या में व्याप्त होने का स्वभाव रखनेवाले के लिये विज्ञान (ददाशति) देता है वा (यः) जो (अस्य) इस (महतः) सत्कार करने योग्य जन के (महि) महान् प्रशंसित (जातम्) उत्पन्न हुए विज्ञान को (ब्रवत्) प्रकट कहे (उ) और (श्रवोभिः) श्रवण, मनन और निदिध्यासन अर्थात् अत्यन्त धारण करने-विचारने से अत्यन्त उत्पन्न हुए (युज्यम्) समाधान के योग्य विज्ञान का (अभ्यसत्) अभ्यास करे (सः, चित्) वही विद्वान् हो और (इत्) वही पढ़ाने को योग्य हो ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो निष्कपटता से बुद्धिमान् विद्यार्थियों को पढ़ाते वा उनको उपदेश देते हैं और जो धर्मयुक्त व्यवहार से पढ़ते और अभ्यास करते हैं, वे सब अतीव विद्वान् और धार्मिक होकर बड़े सुख को प्राप्त होते हैं ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यो नवीयसे सुमज्जानये पूर्व्याय वेधसे विष्णवे ददाशति योऽस्य महतो महि जातं ब्रवत् य उ श्रवोभिर्जातं महि युज्यमभ्यसत् स चिद्विद्वान् जायेत स इदेवाऽध्यापयितुं योग्यो भवेत् ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) (पूर्व्याय) पूर्वैर्विद्वद्भिः सुशिक्षया निष्पादिताय (वेधसे) मेधाविने (नवीयसे) अतिशयेनाधीतविद्याय नूतनाय (सुमज्जानये) सुष्ठुप्राप्तविद्याय प्रसिद्धाय (विष्णवे) विद्या व्याप्तुं शीलाय (ददाशति) ददाति। अत्र बहुलं छन्दसीति शपः श्लुः। (यः) (जातम्) उत्पन्नं विज्ञानम् (अस्य) विद्याविषयस्य (महतः) पूजितव्यस्य (महि) महत् पूजितम् (ब्रवत्) ब्रूयात् (सः) (इत्) एव (उ) वितर्के (श्रवोभिः) श्रवणमनननिदिध्यासनैः (युज्यम्) समाधातुमर्हम् (चित्) अपि (अभि) आभिमुख्ये (असत्) अभ्यासं कुर्यात् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये निष्कपटतया धीमतो विद्यार्थिनोऽध्यापयन्त्युपदिशन्ति ये च धर्म्येणाऽधीयतेऽभ्यस्यन्ति च तेऽतिशयेन विद्वांसो धार्मिका भूत्वा महत्सुखं यान्ति ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे निष्कपटीपणाने बुद्धिमान विद्यार्थ्यांना शिकवितात व त्यांना उपदेश देतात व जे धर्मयुक्त व्यवहाराने शिकवितात व अभ्यास करतात ते सर्व अत्यंत विद्वान व धार्मिक बनून खूप सुख प्राप्त करतात. ॥ २ ॥
सायणोक्त-विनियोगः
23अथ त्रयोविंशीमाह -
विश्वास-प्रस्तुतिः - ऋक्
तमु॑ स्तोतारᳶ पू॒र्व्यय्ँ यथा॑ वि॒द+++(=वेद)+++।
ऋ॒तस्य॒ गर्भँ॑ ह॒विषा॑ पिपर्तन ।
आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद् विवक्तन ।
बृ॒हत् ते॑ विष्णो सुम॒तिम् भ॑जामहे ॥29॥
मूलम्
तमु॑ स्तोतारᳶ पू॒र्व्यय्ँयथा॑ वि॒द ऋ॒तस्य॑ ।
गर्भँ॑ ह॒विषा॑ पिपर्तन ।
आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन ।
बृ॒हत्ते॑ विष्णो सुम॒तिम्भ॑जामहे ॥29॥
सायण-टीका
हे स्तोतारः! पुरुषाः! पूर्व्यं जगतः पूर्वमेवावस्थितं तमु तमेव विष्णुं यथाविद यथावज् जानति । ज्ञात्वा चर्तस्य सत्यस्य देवस्य गर्भं गर्भवदन्तःस्थितं वेदप्रतिपाद्यमित्यर्थः । तादृशं विष्णुं हविषा पिपर्तन पालयत पूरयत वा । तत्राशक्तौ यूयमस्य विष्णोर् नामचित् केशवनारायणादीनि नामानि जानन्तः शास्त्राचार्यमुखादवगच्छत्त आविवक्तन समन्ताद्विशेषेण ब्रूत निरन्तरं जपतेत्यर्थः । हे विष्णो! ते सुमतिं त्वदीयामनुग्रहबुद्धिं बृहद्भजामहे निरन्तरं सेवामह इत्यर्थः । एतास्तिस्र ऋचो वैष्णवे कर्मण्युपहोमार्थाः ॥
विश्वास-प्रस्तुतिः
इ॒मा धा॒ना घृ॑त॒स्नुवः॑ ।
हरी॑ इ॒होप॑वक्षतः ।
इन्द्रँ॑ सु॒खत॑मे॒ रथे॑ ।
मूलम्
इ॒मा धा॒ना घृ॑त॒स्नुवः॑ ।
हरी॑ इ॒होप॑वक्षतः ।
इन्द्रँ॑ सु॒खत॑मे॒ रथे॑ ।
सायण-टीका
24अथ चतुर्विंशीमाह - घृतस्नुवो घृतं क्षरन्त्य इमा धाना भर्जितयवरूपा अस्माभिरुपकॢप्ता इति शेषः । सुखतमेऽतिशयेन सुखप्रदे रथे समारूढं इन्द्रं हरी तदीयौ अश्वाविह धानायुक्ते कर्मण्युपवक्षतः समीपं प्रापयतः । अयं मन्त्रः प्रातस्सवन उन्नीयमानसूक्तेऽन्तर्भावनीयः । अत एव बह्वृचैः - ‘आ त्वा वहन्तु’ इति सूक्तेऽन्तर्भाव्याम्नातः ॥
विश्वास-प्रस्तुतिः
ए॒ष ब्र॒ह्मा प्रते॑म॒हे ।
वि॒दथे॑ शँसिषँ॒ हरी॑ ।
य ऋ॒त्विय॒ᳶ प्रते॑ वन्वे ।
व॒नुषो॑ हर्य॒तम्मद॑म् ।
इन्द्रो॒ नाम॑ घृ॒तन्नयः ।
हरि॑भि॒श्चारु॒ सेच॑ते ।
श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ॥30॥
हरि॑वर्पस॒ङ्गिरः॑ ।
मूलम्
ए॒ष ब्र॒ह्मा प्रते॑म॒हे ।
वि॒दथे॑ शँसिषँ॒ हरी॑ ।
य ऋ॒त्विय॒ᳶ प्रते॑ वन्वे ।
व॒नुषो॑ हर्य॒तम्मद॑म् ।
इन्द्रो॒ नाम॑ घृ॒तन्नयः ।
हरि॑भि॒श्चारु॒ सेच॑ते ।
श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ॥30॥
हरि॑वर्पस॒ङ्गिरः॑ ।
सायण-टीका
25अथ पञ्चविंशीमाह - द्वयो ऋचोर्व्यतिषक्तरूपोऽयं मन्त्रः । प्रयोगकाले हि तदुभयं व्यतिषज्य शंसनीयम् । अत एवात्र व्यतिषज्याम्नातः । अर्थस्तु विभज्यैवावबोद्धव्यः । तत्रैका द्विपदाऽनुष्टुप् । इतरा चतुष्पदा जगती । तत्र द्विपदायाः पाठस्तु - ‘एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतौ गणे’ इति । तस्यायमर्थः - इन्द्रो नाम यो देवतागणे श्रुतः प्रसिद्धः । ऋत्विय ऋतावृतौ तत्तत्कर्मकाले तत्तत्कर्म कर्तुमाविर्भवति, एष एवंभूत इन्द्रः सदा ब्रह्मा प्रजापतिरेवेति । अयं द्विपदो मन्त्र एवमेवाच्छिद्रकाण्डे समाम्नातः । जगत्याः पाठस्तु - ‘प्र ते महे विदथे शँसिषँ हरी । प्र ते वन्वे वनुषो हर्यतं मदम् । घृतं न यो हरिभिश्चारु सेचते । आ त्वा विशन्तु हरिवर्पसं गिरः’ इति । हे इन्द्र! महे विदथे महति यज्ञे हरी त्वदीयावश्वौ प्रशंसिषं प्रकर्षेण स्तुतवानस्मि । हर्यतं हरणीयं मदं मदहेतुं सोमं वनुषः प्रार्थितवतः ते तव प्रवन्वे प्रकर्षेण ददामि । चारु घृतं न समीचीनं घृतमिव मद्दत्तं सोमं हरिभिः अश्वैर्युक्तोऽयमिन्द्वः सेचते समवैति संबध्यानुभवतीत्यर्थः । हरिवर्पसं हरितवर्णवपुर्युक्तं च पूर्वोक्तगुणयुक्तं त्वा त्वां मदीयाः स्तुतिरूपा गिर आविशन्त्विति । एतयो ऋचोर्व्यतिषङ्गपाठः केवलमदृष्टार्थ एवोपहोमेष्वाम्नातः । अयं च व्यनिषक्तो मन्त्रो विहृतषोडशस्तोत्रेऽन्तर्भावनीयः ॥
विश्वास-प्रस्तुतिः
आच॑र्षणि॒प्रा वृ॑ष॒भो जना॑नाम् ।
राजा॑ कृष्टी॒नाम्पु॑रुहू॒त इन्द्रः॑ ।
स्तु॒तश्र॑व॒स्यन्नव॒सोप॑म॒द्रिक् ।
यु॒क्त्वा हरी॒ वृष॒णाया॑ह्य॒र्वाङ् ।
मूलम्
आच॑र्षणि॒प्रा वृ॑ष॒भो जना॑नाम् ।
राजा॑ कृष्टी॒नाम्पु॑रुहू॒त इन्द्रः॑ ।
स्तु॒तश्र॑व॒स्यन्नव॒सोप॑म॒द्रिक् ।
यु॒क्त्वा हरी॒ वृष॒णाया॑ह्य॒र्वाङ् ।
सायण-टीका
26अथ षड्विंशीमाह - हे! इन्द्र! त्वं वृषणा सेचनसमर्थो हरी अश्वौ युक्त्वा रथे संयोज्य अर्वाङ् अस्मदभिमुख आयाहि आगच्छ। कीदृशस्त्वम्? आ समन्तात् चर्षणिप्राः चर्षणीनां मनुष्याणां यजमानरूपाणां फलैः पूरयिता जनानां देवलोकस्थानां मध्ये वृषभः श्रेष्ठः कृष्टीनां मनुष्याणां सर्वेषां स्वामी पुरुहूतः पुरुषु बहुषु यज्ञेष्वाहूतः इन्द्रः परमैश्वर्ययुक्तः स्तुतो यागकाले स्तोत्रैः स्तुतः श्रवस्यन् श्रवोऽन्नं हविस्तदिच्छन् अवसाऽस्मदीयरक्षणेन निमित्तेनोपमद्रिक् मत्समीपं प्राप्नुवन् । अयं च मन्त्रः सौत्रामण्यामैन्द्रस्य पशोर्वपायाः पुरोनुवाक्या । अत एव तत्र प्रतीकमाम्नातम् - ‘आ चर्षणिप्रा विवेष यन्मा’ इति ॥
विश्वास-प्रस्तुतिः
प्र यत्सिन्ध॑वᳶ प्रस॒वय्ँयदाय॑न् ।
आप॑स्समु॒द्रँ र॒थ्ये॑व जग्मुः ।
अत॑श्चि॒दिन्द्र॒स्सद॑सो॒ वरी॑यान् ।
यदीँ॒ सोम॑ᳶ पृ॒णति॑ दु॒ग्धो अँ॒शुः ।
मूलम्
प्र यत्सिन्ध॑वᳶ प्रस॒वय्ँयदाय॑न् ।
आप॑स्समु॒द्रँ र॒थ्ये॑व जग्मुः ।
अत॑श्चि॒दिन्द्र॒स्सद॑सो॒ वरी॑यान् ।
यदीँ॒ सोम॑ᳶ पृ॒णति॑ दु॒ग्धो अँ॒शुः ।
सायण-टीका
27अथ सप्तविंशीमाह - यद्यदा सिन्धवो नद्यः प्रसवमिन्द्रस्यानुज्ञां प्रकर्षेणायन्प्राप्नुवन् । द्वितीयो यच्छब्दस्तच्छब्दार्थे वर्तमान उत्तरत्रान्वेति । तत्तदा रथ्येव रथपङ्किरिव नदीप्रवाहगताः आपः समुद्रं जग्मुः । यथा राजमार्गे रथपङ्क्तिः शीघ्रं ग्रामान्तरं प्राप्नोति तद्वन्नदीगतो जलप्रवाहः सहसा समुद्रं प्राप्नोति । यद्यस्मात्कारणात् ईं इममिन्द्रं दुग्धः अभिषुऽतः सोमः अंशुः सोमरसभागः पृणति पूरयति तद्वत् । अतश्चित् अत एव कारणादयमिन्द्रः सदसः सभागताद्देवसमूहात् वरीयान् अतिशयेन श्रेष्ठः ॥
विश्वास-प्रस्तुतिः
ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाङ् ॥31॥
अर॑न्ते॒ सोम॑स्त॒नुवे॑ भवाति ।
शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑ ।
प्रास्माँ अ॑व॒ पृत॑नासु॒ प्रयु॒त्सु ।
मूलम्
ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाङ् ॥31॥
अर॑न्ते॒ सोम॑स्त॒नुवे॑ भवाति ।
शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑ ।
प्रास्माँ अ॑व॒ पृत॑नासु॒ प्रयु॒त्सु ।
सायण-टीका
28अथाष्टाविंशीमाह - हे! इन्द्र! त्वा ह्वयामसि अस्मिन्कर्मण्याह्वयामः: । अर्वाङ् अभिमुखो याहि कर्मभूमिं गच्छ । ते तनुवे त्वदीयाय शरीराय सोमः अस्माभिर्दीयमानः अरं भवाति अलं संपूर्णो भवति । हे शतक्रतो! सुतेषु सोमेषु मादयस्व तं पीत्वा हृष्टो भव । पृतनासु परकीयसेनासु प्रकर्षेण अस्मानव रक्ष । युत्सु युद्धेषु च प्रकर्षेण रक्ष ॥
विश्वास-प्रस्तुतिः
इन्द्रा॑य॒ सोमा॑ᳶ प्र॒दिवो॒ विदा॑नाः ।
ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
प्र॒य॒म्यमा॑णा॒न्प्रति॒ षू गृ॑भाय ।
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ।
मूलम्
इन्द्रा॑य॒ सोमा॑ᳶ प्र॒दिवो॒ विदा॑नाः ।
ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
प्र॒य॒म्यमा॑णा॒न्प्रति॒ षू गृ॑भाय ।
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ।
सायण-टीका
29अथैकोनत्रिंशीमाह - प्रदिव इति पुरातननामसु पठितः, प्रदिवः सोमाः पुरातनाः सोमा इन्द्राय विदाना इन्द्रार्थत्वेनैव विज्ञाताः । ऋभुः इन्द्रः येभिः यैस्सोमैः वृषपर्वा वृषभवत्पीवराङ्गो विहायाः विशेषेण कार्श्यं हित्वाऽवस्थितः प्रति प्रत्येकं प्रयम्यमाणान् प्रकर्षेणास्माभिर्दीयमानान्सोमान् सुष्ठु गृभाय गृहाण । हे इन्द्र! वृषधूतस्य वृषभवद्वीर्यवद्भिर्ग्रावभिरभिषुतस्य वृष्णः वीर्यवतस्सोमस्य रसं पिब ॥
विश्वास-प्रस्तुतिः
अहे॑डमान॒ उप॑याहि य॒ज्ञम् ।
तुभ्य॑म्पवन्त॒ इन्द॑वस्सु॒तासः॑ ।
गावो॒ न व॑ज्रिन्त्स्व॒मोको॒ अच्छ॑ ॥32॥
इन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ।
मूलम्
अहे॑डमान॒ उप॑याहि य॒ज्ञम् ।
तुभ्य॑म्पवन्त॒ इन्द॑वस्सु॒तासः॑ ।
गावो॒ न व॑ज्रिन्त्स्व॒मोको॒ अच्छ॑ ॥32॥
इन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ।
सायण-टीका
30अयं त्रिंशीमाह - हे इन्द्र! अहेडमानोऽक्रुध्यन्सन् अस्मदीयं यज्ञमुपयाहि सुतासः अभिषुता इन्दवः सोमाः तुभ्यं त्वदर्थं पवन्ते दशापवित्रेण शोधिता भवन्ति । हे वज्रिन्! इन्द्र! यज्ञियानां यज्ञार्हणां देवानां मध्ये प्रथमस्सन् स्वमोको अच्छ स्वकीयं स्थानमभिलक्ष्य आगहि आगच्छ । तत्र दृष्टान्तः - गावो न यथा गावः स्वकीयां गोशालां प्रत्यागच्छन्ति तद्वत् ॥
विश्वास-प्रस्तुतिः
या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा ।
यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् ।
तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात् ।
सन्ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ।
मूलम्
या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा ।
यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् ।
तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात् ।
सन्ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ।
सायण-टीका
31अथैकत्रिंशीमाह - हे इन्द्र! या ते काकुत् जिह्वा सुकृता प्रजापतिना सुष्ठु निर्मिता । अत एव या जिह्वा वरिष्ठाऽतिशयेन श्रेष्ठा । यया जिह्वया मध्वो मधुरस्य सोमस्योर्मिं तरङ्गं तरङ्गाकारं रसं शश्वत् निरन्तरं पिबसि । तया जिह्नया पाहि । अध्वर्युरयं ते तव यागार्थं प्रास्थात् प्रस्थितः । हे इन्द्र! ते वज्रो गव्यः गा इच्छन् संवर्ततां सम्यक्प्रवर्तताम् । ‘प्र यत्सिन्धवः’ इत्यादयः पञ्चेन्द्रलिङ्गका मन्त्रा माध्यंदिनसवने शुक्रामन्थिग्रहप्रचारा- त्पूर्वं प्रस्थितयाज्या द्रष्टव्याः ॥
विश्वास-प्रस्तुतिः
प्रा॒त॒र्युजा॒ वि बो॑धय ।
अश्वि॑ना॒वेह ग॑च्छतम् ।
अ॒स्य सोम॑स्य पी॒तये॑ ।
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् ।
मूलम्
प्रा॒त॒र्युजा॒ वि बो॑धय ।
अश्वि॑ना॒वेह ग॑च्छतम् ।
अ॒स्य सोम॑स्य पी॒तये॑ ।
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् ।
सायण-टीका
32अथ द्वात्रिंशीमाह - हे होतः! प्रातर्युजा प्रातःकालभोजनीयावश्विनौ विबोधय मन्त्रविशेषेण प्रबुद्धौ कुरु । हे अश्विना इह कर्मणि अस्य सोमस्य पानाय युवां गच्छतम् । अयं मन्त्र आश्विनग्रहस्य पुरोनुवाक्या ॥
विश्वास-प्रस्तुतिः
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् ।
पु॒रा गृध्रा॒दर॑रुषᳶ पिबाथः ।
प्रा॒तर्हि य॒ज्ञम॒श्विना॒ दधा॑ते ।
प्रशँ॑सन्ति क॒वय॑ᳶ पूर्व॒भाजः॑ ।
मूलम्
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् ।
पु॒रा गृध्रा॒दर॑रुषᳶ पिबाथः ।
प्रा॒तर्हि य॒ज्ञम॒श्विना॒ दधा॑ते ।
प्रशँ॑सन्ति क॒वय॑ᳶ पूर्व॒भाजः॑ ।
सायण-टीका
33अथ त्रयस्त्रिंशीमाह - हे ऋत्विजः! प्रातर्यावाणा प्रातस्सवनं गच्छन्तावश्विनौ प्रथमा प्रथममेव यजध्वम् । हे अश्विनौ गृध्रात् सोमयुक्तात् अररुषः अररुर्नामकादसुरात् पुरा पिवाथः इमं सोमरसं पिबतम् । हि यस्मात्कारणादेतावश्विनौ प्रातःकाले यज्ञं दधाते आश्विने शस्त्रे चमसगणे यज्ञमश्विनौ धारयतः तस्मात्कारणात् पूर्वभाजः पूर्वमेव देवान्भजमानाः कवयो विद्वांस ऋत्विज एतावश्विनौ प्रशंसति ॥
विश्वास-प्रस्तुतिः
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत ।
न सा॒यम॑स्ति देव॒या अजु॑ष्टम् ।
उ॒तान्यो अ॒स्मद्य॑जते॒ विचा॑यः ।
पूर्व॑ᳶपूर्वो॒ यज॑मानो॒ वनी॑यान् ॥33॥
मूलम्
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत ।
न सा॒यम॑स्ति देव॒या अजु॑ष्टम् ।
उ॒तान्यो अ॒स्मद्य॑जते॒ विचा॑यः ।
पूर्व॑ᳶपूर्वो॒ यज॑मानो॒ वनी॑यान् ॥33॥
सायण-टीका
34अथ चतुर्स्त्रिशीमाह - हे ऋत्विजः! प्रातःकाले यजध्वम् एतावश्विनौ हिनोत प्रीणयत । सायंकाले देवया देवार्थं यागो नास्ति यस्मात्सायंकाले हुतं अजुष्टमप्रियम् । उत अपिच अस्मदन्यः कश्चिद्यजमानो विचायो विशेषेण पूजायुक्तो यद्यपि यजते तथाऽपि पूर्वः पूर्वो यजमानो वनीयान् अत्यन्तं संभजनीयः तस्मादहमेव सर्वेभ्यः पूर्वो यजामीत्यभिप्रायः । एते ऋचावाश्विने कर्मणि विकल्पिते याज्ये ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः ॥