०२ उपहोमाः

चक्षुषो हेते

चक्षुषो हेते ...{Loading}...

भास्करोक्त-विनियोगः

1अभिचारेष्ट्यां ‘अग्रये यविष्ठाय’ इत्यादौ उपहोमाः - चक्षुषो हेत इति बृहतीप्रकारः ॥

मेनिवारणम्

विश्वास-प्रस्तुतिः ...{Loading}...

चक्षु॑षो हेते॒ मन॑सो हेते,
वा॒चो हे॑ते॒ +++(वाचो॑ हेते॒)+++ ब्रह्म॑णो हेते ।
यो मा॑ ऽघा॒युर् अ॑भि॒दास॑ति+++(=अभिचरति)+++,
तम् अ॑ग्ने मे॒न्या+++(=मन्युना)+++ ऽमे॒निं कृ॑णु

सर्वाष् टीकाः ...{Loading}...
मूलम्

चक्षु॑षो हेते॒ मन॑सो हेते । वाचो॑ हेते॒ ब्रह्म॑णो हेते । यो मा॑ऽघा॒युर॑भि॒दास॑ति । तम॑ग्ने मे॒न्या मे॒निङ्कृ॑णु ।

सायण-टीका

चक्षुरादीनां ज्ञानेन्द्रियाणां शत्रुसंबन्धिनां हे! हेते! विनाशहेतो! मनसस्चान्तःकरणस्य हेते! वागादीनां च कर्मेन्द्रियाणां हेते! ब्रह्मणो मन्त्रस्य कर्मणो वा हेते! यो मामघायुः अघं पापं वधादिकं ममेच्छन् ‘छन्दसि परेच्छायामपि’ इति क्यच् । ‘अश्वाघस्स्यात्’ इत्यात्वम् । अभिदासति क्षपयति ‘दमु उपक्षये’ वर्णविकारश्छान्दसः । हे! अग्ने! तदीयचक्षुरादिविनाशक! तं मेन्या वज्ज्रेणायुधेन अमेनिं अशरीरं कृणु कुरु । अमनस्कमित्येके । मारयेति यावत् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा॒ चक्षु॑षा॒ यो मन॑सा,
यो वा॒चा ब्रह्म॑णा ऽऽघा॒युर् अ॑भि॒दास॑ति
तया॑ऽग्ने॒ त्वं मे॒न्या,
अ॒मुम् अ॑मे॒निं कृ॑णु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो मा॒ चक्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति । तया॑ऽग्ने॒ त्वम्मे॒न्या । अ॒मुम॑मे॒निङ्कृ॑णु ।

सायण-टीका

2यो मेति बृहतीविशेषः ॥ यो मां चक्षुरादिना अघायुः चक्षुरादिविनाशरूपं ममेच्छन् मामभिदासति अमुं अमुकशर्माणं मेन्या तया अमेनिं कृणु हे! अग्ने! ॥

अभिचार-प्रतीकारः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् किञ्चा॒सौ मन॑सा॒ यच् च॑ वा॒चा,
य॒ज्ञैर् जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ।
तन् मृ॒त्युर् निरृ॑त्या संविदा॒नः+++(=समाहितः)+++,
पु॒रा दि॒ष्टाद्+++(=दैवात् तदनुकूलाद्)+++ आहु॑तीर् अस्य हन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ॥12॥
तन्मृ॒त्युर्निर्ऋ॑त्या सव्ँ विदा॒नः । पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु ।

सायण-टीका

3यत्किंचेति त्रिष्टुप् ॥ असौ अमुकनामा मम मरणार्थं यत्किंचिन्मनसा वाचा च यज्ञैर्जुहोति हविर्भिस्माधनैः, तत् तदा अस्य आहुतीर्हन्तु मृत्युः । निर्ऋत्या कृच्छ्रवत्या संविदानः ऐकमत्यं गतः आदिष्टात्पुरा प्रागेव देवतादेशात् प्रागेव हन्तु उत्तरकाले हन्तुमशक्यत्वात् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

या॒तु॒धाना॒ निरृ॑ति॒र् आदु॒+++(=अनु)+++ रक्षः॑,
ते अ॑स्य घ्न॒न्त्व् अनृ॑तेन स॒त्यम् ।
इन्द्रे॑षिता॒+++(←बहुव्रीहिः!)+++ आज्य॑मस्य मथ्नन्तु,
मा तत् समृ॑द्धि॒ यद् अ॒सौ क॒रोति॑

सर्वाष् टीकाः ...{Loading}...
मूलम्

या॒तु॒धाना॒ निर्ऋ॑ति॒रादु॒रक्षः॑ । ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मा तत्समृ॑द्धि॒ यद॒सौ क॒रोति॑ ।

सायण-टीका

4यातुधाना इति त्रिष्टुप् ॥ दक्षिणादिग्वासिनी निर्ऋतिरुक्ता । रक्षः प्रसिद्धम् । ते यज्ञविद्वेषिणः सर्वे अस्य मदीयस्य शत्रोः सत्यं यागफलं आदु अनन्तरमेव घ्नन्तु अनृतेन विपरीतसाधनेन । पुंसश्शेषश्छान्दसः । किंच ते सर्वेऽपि इन्द्रेषिता इन्द्रेण प्रेषिताः आज्यं आज्यादिकं हविः मथ्नन्तु । मा तत्समृद्धि तत्कर्म संगतर्द्धिकं समृद्धं मा भूत् । यदसौ यज्ञशर्मा करोति साधयति । यद्वा - तत्कर्म मा समृद्धिं यत्करोति कर्म अमुकः । च्लेः वर्णविकारः ॥

प्रतिज्ञा

विश्वास-प्रस्तुतिः ...{Loading}...

हन्मि॑ ते॒ऽहं कृ॒तँ ह॒विः,
यो मे॑ घो॒रम् अची॑कृतः+++(=अकार्षीः)+++ ।
अपां॑चौ त उ॒भौ बा॒हू,
अप॑नह्याम्य् (=बध्नामि) आ॒स्य॑म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

हन्मि॑ ते॒ऽहङ्कृ॒तँ ह॒विः । यो मे॑ घो॒रमची॑कृतः । अपा॑ञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्य॑म् ॥13॥

सायण-टीका

5हन्मि त इत्याद्या अनुष्टुभः ॥ शत्रो! त्वदीयं कृतं हविः अहं हन्मि नाशयामि यस्त्वं मे घोरं क्रूरं आयुरादिकं अचीकृतः कृन्तासि । ‘कृती छेदने’ । किंच तव ते उभावपि बाहू अपाञ्चौ अपगतौ आस्यं च अपनह्यामि ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अप॑नह्यामि ते बा॒हू,
अप॑नह्याम्य् आ॒स्य॑म् ।
अ॒ग्नेर् दे॒वस्य॒ ब्रह्म॑णा,
सर्वं॑ ते ऽवधिषं कृ॒तम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अप॑नह्यामि ते बा॒हू । अप॑नह्याम्या॒स्य॑म् । अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा । सर्व॑न्तेऽवधिषङ्कृ॒तम् ।

सायण-टीका

6अपनह्यामीत्याद्यर्धर्चो गतः । अग्नेर्देवस्य दीप्तिमतः ब्रह्मणा तेजसा कर्मणा वा ते त्वदीयं कृतं सर्वमपि कर्म अवधिषं हतवानेवास्मि ॥

अभिचार-प्रतीकारः

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रा ऽमुष्य॑ वषट्का॒रात्,
य॒ज्ञं दे॒वेषु॑ नस् कृधि
स्वि॑ष्टम् अ॒स्माकं॑ भ्यूयात्,
माऽस्मान् प्राप॒न्न् अरा॑तयः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पु॒राऽमुष्य॑ वषट्का॒रात् । य॒ज्ञन्दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माक॑म्भूयात् । माऽस्मान्प्राप॒न्नरा॑तयः ।

सायण-टीका

7पुराऽमुष्येति ॥ अमुष्य यज्ञशर्मणो वषट्कारात्पुरैव अस्माकं यज्ञं देवेषु कृधि कुरु स्थापय । अस्य यज्ञः छिनत्तु । अस्माकं स्विष्टं भूयात् । अस्मान् मा प्रापन् अप्राप्यैव विनश्यन्तु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अन्ति॑ दू॒रे स॒तो अ॑ग्ने,
भ्रातृ॑व्यस्याऽऽभि॒दास॑तः
व॒ष॒ट्का॒रेण॒ वज्रे॑ण,
कृ॒त्याँ ह॑न्मि कृ॒ताम् अ॒हम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन्ति॑ दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्याभि॒दास॑तः ॥14॥
व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्याँ ह॑न्मि कृ॒ताम॒हम् ।

सायण-टीका

8अन्ति दूर इत्यादि ॥ अन्तिके दूरे वा सतः भ्रातृव्यस्य शत्रोः ‘कादिलोपो बहुलम्’ इत्यन्तिकस्य लोपः । अभिदासतः मामुपक्षयितुं प्रवृत्तस्य संबन्धिनीं तेन कृतां कृत्यां वज्रस्थानीयेन वषट्कारेण अहं हन्मि त्वत्प्रसादात् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा॒ नक्तं॒ दिवा॑ सा॒यम्,
प्रा॒तश् चाह्नो॑ नि॒पीय॑ति+++(=बाधते)+++ ।
अ॒द्या तम् इ॑न्द्र॒ वज्रे॑ण,
भ्रातृ॑व्यं पादयामसि+++(=पातयामि)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो मा॒ नक्त॒न्दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्या तमि॑न्द्र॒ वज्रे॑ण । भातृ॑व्यम्पादयामसि ।

सायण-टीका

9यो मा नक्तमिति ॥ नक्तं दिवा च अह्नोपि सायं प्रातश्च अविरतं यो मां निपीयति नियमेन पिबति शोषयति अद्य अस्मिन् कर्मणि अप्रतिहतशक्त्या तं भ्रातृव्यं पादयामसि गमयामः मनुष्यलोकात् हे! इन्द्र! त्वत्प्रसादात् ॥

]()

शिष्टम्

विश्वास-प्रस्तुतिः

इन्द्र॑स्य गृ॒हो॑ऽसि॒ तन्त्वा॑ । प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ ।

मूलम्

इन्द्र॑स्य गृ॒हो॑ऽसि॒ तन्त्वा॑ । प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ ।

सायण-टीका

10आदित्यमुपतिष्ठते - इन्द्रस्येत्यादि गायत्री ॥ इन्द्रस्य ईश्वरस्य गृहोसि उपासनस्थानमसि । तं त्वा प्रपद्येऽहमाश्रयामि । सगुः गोसहितः साश्वः अश्वसहितः । यच्चान्यत् मे ममास्ति पुरुषादि तेन च सह त्वां प्रपद्ये ॥

विश्वास-प्रस्तुतिः

ईडे॑ अ॒ग्निव्ँ वि॑प॒श्चित॑म् ॥15॥
गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वान॑न्धि॒तावा॑नम् ।

मूलम्

ईडे॑ अ॒ग्निव्ँ वि॑प॒श्चित॑म् ॥15॥
गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वान॑न्धि॒तावा॑नम् ।

सायण-टीका

11ईडे अग्निमिति गायत्री ॥ ईडे स्तौमि अग्निं विपश्चितं मेधाविनं यज्ञस्य साधनं श्रुष्टीवानं सुखवन्तं अन्नवन्तं वा । धितावानं धितं निहितं धनं तेन तद्वन्तम् । हित्वाभावश्छान्दसः । यद्वा - ‘धि धारणे’ ‘छन्दसि वनिपौ’ इति वनिप् । ईदृशमग्निं गिरा स्तौमि ॥

विश्वास-प्रस्तुतिः

अग्ने॑ श॒केम॑ ते व॒यम् । यम॑न्दे॒वस्य॑ वा॒जिनः॑ । अति॒ द्वेषाँ॑सि तरेम ।

मूलम्

अग्ने॑ श॒केम॑ ते व॒यम् । यम॑न्दे॒वस्य॑ वा॒जिनः॑ । अति॒ द्वेषाँ॑सि तरेम ।

सायण-टीका

12अग्ने शकेमेति गायत्री। ॥ हे! अग्ने! देवस्य देवनशीलस्य वाजिनः अन्नवतः तव यमं यमनं अन्त्यलोपश्छान्दसः । वशीकारं शकेम कर्तुं च समर्थास्स्याम । ततश्चातितरेम द्वेषांसि द्वेष्याणि पापानि ॥

विश्वास-प्रस्तुतिः

अव॑तम्मा॒ सम॑नसौ॒ समो॑कसौ । सचे॑तसौ॒ सरे॑तसौ । उ॒भौ माम॑वतञ्जातवेदसौ । शि॒वौ भ॑वतम॒द्य नः॑ ।

मूलम्

अव॑तम्मा॒ सम॑नसौ॒ समो॑कसौ । सचे॑तसौ॒ सरे॑तसौ । उ॒भौ माम॑वतञ्जातवेदसौ । शि॒वौ भ॑वतम॒द्य नः॑ ।

सायण-टीका

13अवतमिति पङ्क्तिः ॥ हे! जातवेदसौ मामवतं रक्षतम् । समनसौ समानमनस्कौ ऐकमत्यं गतौ समोकसौ संगतस्थानौ सचेतसौ समानचैतन्यौ सरेतसौ समानपुंस्त्वौ । उभौ युवां गार्हपत्याहवनीयौ मां अवतम् । शिवौ चास्माकं भवतम् । अद्य अस्मिन् कर्मणि ॥

सायणोक्त-विनियोगः

14यस्याग्निहोत्रं विच्छिद्येत सोऽग्नये तन्तुमते इत्यस्य याज्यानुवाक्ये - स्वयं कृण्वान इति त्रिष्टुभौ ॥

विश्वास-प्रस्तुतिः

स्व॒यङ्कृ॑ण्वा॒नस्सु॒गमप्र॑यावम् ॥16॥
ति॒ग्मशृ॑ङ्गो वृष॒भश्शोशु॑चानः । प्र॒त्नँ स॒धस्थ॒मनु॒पश्य॑मानः । आ तन्तु॑म॒ग्निर्दि॒व्यन्त॑तान ।

मूलम्

स्व॒यङ्कृ॑ण्वा॒नस्सु॒गमप्र॑यावम् ॥16॥
ति॒ग्मशृ॑ङ्गो वृष॒भश्शोशु॑चानः । प्र॒त्नँ स॒धस्थ॒मनु॒पश्य॑मानः । आ तन्तु॑म॒ग्निर्दि॒व्यन्त॑तान ।

सायण-टीका

स्वयं कृण्वानः स्वयमेव कुर्वन् सुगं सुष्ठु गन्तव्यं, अप्रयावं प्रमादरहितं तन्तुं अपत्यं दिव्यं देवयोग्यं आततान आतनोत्वग्निः । कीदृशः? तिग्मशृङ्गः तीक्ष्णज्वालः वृषभः वर्षिता कामानाम् । शोशुचानः भृशं दीप्यमानः यत्नं पुराणं सधस्थं सहस्थानं पितापुत्रयोः सहावस्थानफलं अनुपश्यमानः अनुरूपत्वं पश्यन् तन्तुं आतनोतु ॥

विश्वास-प्रस्तुतिः

त्वन्न॒स्तन्तु॑रु॒त सेतु॑रग्ने । त्वम्पन्था॑ भवसि देव॒यानः॑ । त्वया॑ऽग्ने पृ॒ष्ठव्ँव॒यमारु॑हेम । अथा॑ दे॒वैस्स॑ध॒माद॑म्मदेम ।

मूलम्

त्वन्न॒स्तन्तु॑रु॒त सेतु॑रग्ने । त्वम्पन्था॑ भवसि देव॒यानः॑ । त्वया॑ऽग्ने पृ॒ष्ठव्ँव॒यमारु॑हेम । अथा॑ दे॒वैस्स॑ध॒माद॑म्मदेम ।

सायण-टीका

15त्वं न इति ॥ हे अग्ने! त्वमेव अस्माकं तन्तुः संततिः, तत्कार्यकरणात् । अपिच त्वमेव अस्माकं सेतुः दुःखानां समाप्तिस्थानम् । दिवोपि त्वत्प्रसादप्राप्यत्वात् त्वमेव देवयानः देवत्वप्राप्तिमार्गोसि, अस्माकं त्वत्प्राप्तिहेतुत्वात् । त्वयैव हेतुना वयं पृष्ठं स्वर्गं आरुहेम, कर्मनिर्वृत्तिहेतुत्वात् । अथ एवं त्वया संपादिते वयं देवः सधमादं सहमदं मदेम ॥

विश्वास-प्रस्तुतिः

उदु॑त्त॒मम्मु॑मुग्धि नः । वि पाश॑म्मध्य॒मञ्चृ॑त । अवा॑ध॒मानि॑ जी॒वसे॑ ॥ 17॥

मूलम्

उदु॑त्त॒मम्मु॑मुग्धि नः । वि पाश॑म्मध्य॒मञ्चृ॑त । अवा॑ध॒मानि॑ जी॒वसे॑ ॥ 17॥

सायण-टीका

16उदुत्तममिति गायत्री ॥ उदुत्तमं पाशं मुमुग्धि ऊर्ध्वं मोचय । मध्यमं पाशं विचृत विश्लिष्य छिन्धि । अधमानि अधस्स्थानानि अवचृत अवमुमुग्धि अवागाकृष्य नाशय । जीवसे जीवनाय ॥

विश्वास-प्रस्तुतिः

व॒यँ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तो अशीमहि ।

मूलम्

व॒यँ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तो अशीमहि ।

सायण-टीका

17हे! सोम! तव व्रते कर्मणि वर्तमाना वयं अत्रैव तनूषु शरीरेषु मनो बिभ्रतः विस्रब्धां स्मृतिं धारयन्तः अशीमहि व्याप्नुवाम, तत्फलत्वात् । अश्नोतेश्छान्दसश्शपो लुक् ॥

विश्वास-प्रस्तुतिः

इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी॑ । उदँशे॑न पति॒विद्ये॑ जिगाय । त्रिँ॒शद॑स्या ज॒घनय्ँ॒योज॑नानि । उ॒पस्थ॒ इन्द्रँ॒ स्थवि॑रम्बिभर्ति ।

मूलम्

इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी॑ । उदँशे॑न पति॒विद्ये॑ जिगाय । त्रिँ॒शद॑स्या ज॒घनय्ँ॒योज॑नानि । उ॒पस्थ॒ इन्द्रँ॒ स्थवि॑रम्बिभर्ति ।

सायण-टीका

18इन्द्राणीति त्रिष्टुभौ ॥ ‘इन्द्राण्यै चरुम्’ इत्यत्र विकल्पः उपहोमो वा । इन्द्राणी इन्द्रस्य पत्नी देवी क्रीडानादिशीला सुभगा सुशीला सुश्री सुपत्नी शोभनपतिका ‘विभाषा सुपूर्वस्य’ इति ङीब्नकारौ । उभयत्राद्युदात्तत्वम् । अस्याः को विशेष इत्याह - एषा हि अंशेन एकदेशेन उपस्थेन सौभाग्यैकदेशेन वा पतिविद्ये पतिलाभे उज्जिगाय । छान्दसः क्यप् । उच्छ्रिता बभूव । तत्कथमित्याह - त्रिंशद्योजनानि अस्या जघनं योनिपरीणाहः रतिकाले । अतः स्थविरं सर्वैर्गुणैः परिबृढ इन्द्रं रतिकाले उपस्थे बिभर्ति उत्सङ्गे गृह्णाति । ततो ज्ञायते - अंशमात्रेणैव पतिविद्ये उज्जयं लभत इति ॥

विश्वास-प्रस्तुतिः

सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या । वि॒श्वव्य॑चा॒ अदि॑ति॒स्सूर्य॑त्वक् । इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना ॥18॥
सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ।

मूलम्

सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या । वि॒श्वव्य॑चा॒ अदि॑ति॒स्सूर्य॑त्वक् । इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना ॥18॥
सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ।

सायण-टीका

19सेना हेति ॥ सेना बलवती सेश्वरा वा । ह नाम प्रसिद्धौ । पृथिवी विस्तीर्णा । धनंजया धनानां नेत्री ‘संज्ञायां भ्रातृवृजि’ इति खश् । विश्वव्यचा विश्वं व्याप्य वर्तमाना ‘गतिकारकयोरपि’ इत्यसुन् । अदितिः अखण्डनीया सूर्यत्वचा वर्तमाना दीप्तिमतीत्यर्थः । ईदृशी इन्द्राणी देवी प्रासहा प्रसहनेन सहेः क्विपि ‘नहि वृति’ इति दीर्घत्वम् । आददाना शत्रुधनानि अस्मदर्थमाहरन्ती सा देवी अस्मभ्यं सुखं यच्छतु ददातु । सुहवा सुखेनाह्वातव्या ‘बहुलं छन्दसि’ इति संप्रसारणम् । शोभनाह्वाना वा । ‘द्व्यचश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । आह्वानप्रयोजनस्य सद्य एव करणं शोभनत्वम् ॥


राजाभिषेकः

आ त्वा हार्षम् ...{Loading}...
सायणोक्त-विनियोगः

20अतः परं राजाभिषेके विनियोज्याः पश्चाप्यनुष्टुभः - आ त्वाऽहार्षमिति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आत्वा॑ ऽहार्षम्, +++(राष्ट्रे)+++ अ॒न्तर् अ॑भूः+++(→भूयाः)+++ । ध्रु॒वस् ति॒ष्ठावि॑चाचलिः । विश॑स् त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्-रा॒ष्ट्रम् अधि॑-भ्रशत्

सर्वाष् टीकाः ...{Loading}...
मूलम्

आत्वा॑ऽहार्षम॒न्तर॑भूः । ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ।

सायण-टीका

व्याख्याता ‘विष्णोः क्रमोसि’ इत्यत्र । पुरोहितो राजानं प्रत्याह - त्वां अहं आहार्षं स्थानाच्च्युतमाहरामि । आहृतश्च त्वं अन्तर् अभूः राष्ट्रस्य मध्ये भव । अविचाचलिः विचालयितुमशक्यः ध्रुवश्च तिष्ठ । विशो राष्ट्रवर्तिन्यः प्रजाः त्वामेव राजानं वाञ्छन्तु राष्ट्रं च त्वत्तो माऽधिभ्रशत् । अधिरत्र पञ्चम्यर्थानुवादी । भ्रष्टं मा मृत् ।।

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रु॒वा द्यौर्, ध्रु॒वा पृ॑थि॒वी । ध्रु॒वव्ँ विश्व॑म् इ॒दञ् जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम् अ॒यम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी । ध्रु॒वव्ँ विश्व॑मि॒दञ्जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम॒यम् ।

सायण-टीका

21त्रिषु पादेषु दृष्टान्ताः, चतुर्थो दार्ष्टान्तिकः - ध्रुवेत्यादि ॥ द्यौः पृथिवी च ध्रुवा । इदं च विश्वं ध्रुव जगत् आप्रवाहं नित्यं ध्रुवं, बहुकालावस्थायित्वात् । इमे च पर्वताः ध्रुवाः । अयं च विशां मनुष्याणां राजा ध्रुवः । तुल्ययोगोपमैषां, द्युप्रभृतिविषयो राजा भवत्विति यावत् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒हैवैधि॒ मा व्य॑थिष्ठाः ॥19॥
पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस् ति॑ष्ठ । इ॒ह रा॒ष्ट्रम् उ॑ धारय

सर्वाष् टीकाः ...{Loading}...
English

Grow right here, don’t be distressed.
Like a mountain un-fickle.
Like Indra, stand firm here.
Bear the nation here.

मूलम्

इ॒हैवैधि॒ मा व्य॑थिष्ठाः ॥19॥
पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ । इ॒ह रा॒ष्ट्रमु॑ धारय ।

सायण-टीका

22इहैवैधीति ॥ इहैव राष्ट्रे एधि राजा भव । मा व्यथिष्ठाः पर्वत इव अविचाचलिः अविचलो भव । ‘उपसर्गाच्छन्दसि’ इति इप्रत्ययः । इन्द्र इव ध्रुवो भव । इह राजभावे तिष्ठराष्ट्रंधारय । अवधारणे उकारः । राष्ट्रं धारयैव माऽमुचः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि-ति॑ष्ठ पृतन्य॒तः ।
अध॑रे सन्तु॒ शत्र॑वः ।
इन्द्र॑ इव वृत्र॒-हा ति॑ष्ठ
अ॒पः क्षेत्रा॑णि स॒ञ्जय॑न्

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒भिति॑ष्ठ पृतन्य॒तः । अध॑रे सन्तु॒ शत्र॑वः । इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ । अ॒पः क्षेत्रा॑णि स॒ञ्जय॑न् ।

English

Outflank the assailants.
Down be the enemies.
Stand like Indra vRtra-killer.
Thoroughly winning (their) deeds and lands.

सायण-टीका

23अभितिष्ठेति । । पृतन्यतः संग्रामं कर्तुमिच्छतः ‘कव्यध्वरपृतनस्यर्चि लोपः’ ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । शत्रवोऽधरे त्वत्तो निकृष्टैश्वर्यबलास्सन्तु । वृत्रहा वृत्रस्य हन्ता इन्द्र इव पृतन्यतोऽभितिष्ठ । यथा शत्रूणां अपः कर्माणि क्षेत्राणि संजयन् वृत्रहेव शत्रूनाक्राम ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ एणम् अदीधरत् । ध्रु॒वन् ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॑ दे॒वा अधि॑-ब्रवन् । अ॒यञ् च॒ ब्रह्म॑ण॒स्-पतिः॑ ॥20॥

सर्वाष् टीकाः ...{Loading}...
English

Indra Bear this king!
Firm with firm offerings.
Gods speak in his favor!
Him too, the brahmaNas-pati!

मूलम्

इन्द्र॑ एणमदीधरत् । ध्रु॒वन्ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॑ दे॒वा अधि॑ब्रवन् । अ॒यञ्च॒ ब्रह्म॑ण॒स्पतिः॑ ॥20॥

सायण-टीका

24इन्द्र एणमिति ॥ इन्द्र एनं राजानं अदिधरत् धारयतु । छान्दसं सांहितिकं णत्वम् । ध्रुवं अविचलितैश्वर्यं कृत्वा ध्रुवेण नित्येन हविषा । किं च - तस्मै अस्भै देवाः अधिब्रवन् अधिब्रुवन्तु उपरिवदन्तु पक्षपातेन वदन्तु । अयं च ब्रह्मणः कर्मणः पतिरिन्द्रश्च अस्मानधिब्रवीतु ॥

इत्युपहोमभाष्ये द्वितीयोऽनुवाकः ॥